Tuesday, May 17, 2022

सततविस्तृतमूल्याङ्कनम् Continuous Comprehensive Evaluation

 

  सततविस्तृतमूल्याङ्कनम् Continuous Comprehensive Evaluation

 

मूल्याकलनं शिक्षणाधिगमप्रक्रियायाः एकम् अविभाज्यं अङ्गम् अस्ति । इत्युक्ते शिक्षणात्परं स्वातन्त्र्येण क्रियमाणं कार्यं मूल्याकलनं नास्ति । शिक्षणेन अधिगमेन च सह एतस्य अत्यन्तं अविनाभावसम्बन्धः अस्ति । मूल्याङ्कनं केवलं छात्रस्य स्तरस्य अवलोकनार्थं क्रियमाणा परीक्षा नास्ति । प्रत्युत शिक्षणस्य अधिगमस्य च प्रभावं वर्धयितुं विद्यमानं महत्वपूर्णं साधनमस्ति । अध्ययनेन छात्रः कियत् साफल्यम् अधिगतवान् इति मूल्याङ्कनेन यथा ज्ञायते तथैव कियत् अध्येतव्यम् अवशिष्टमस्ति ? तदर्थं को वा उपायः आश्रयणीयः अस्ति? इत्यादिरूपेण प्रतिपुष्टिः अपि मूल्याङ्कनेन प्राप्यते । एतादृशम् मूल्याङ्कनं कदा कथं कर्तव्यं  इति चिन्तनस्य एकः उत्तमः परिणामः एव सततविस्तृतमूल्याङ्कनम् इत्युच्यते ।

1986 संवत्सरस्य राष्ट्रीयशिक्षानीतौ एतस्य विषये बलं प्रदत्तमासीत् । सततविस्तृतमूल्याङ्कनम् समग्राध्यापनावधौ शिक्षायाः विद्यालयीयाणां विद्यालयेतराणां च विषयाणां (शैक्षिकान् शिक्षेतरान् च विषयान्)मूल्याङ्कनं  संयोजयति

(Continuous and comprehensive evaluation that incorporates both the schoolastic and non schoolastic aspects of education, spread over the total span of the instructional time.)

भारतस्य अनेकासु माध्यमिकशिक्षासंस्थासु एतस्य क्रियान्वयनं आरब्धमस्ति । केन्द्रीयमाध्यमिकशिक्षापरिषदा एतद्विषये इत्थं स्पष्टीकृतम् –

सततविस्तृतमूल्याङ्कनम्  विद्यालये संचाल्यमानं मूल्याङ्कनं अस्ति यच्च छात्रविकासस्य सर्वान् पक्षान् आदाय प्रवर्तते । एतत् मूल्याङ्कनं मूल्याकलनस्य विकाससम्पादनप्रक्रिया अस्ति यस्य च प्रधानं उद्देश्यद्वयमस्ति मूल्याङ्कने सातत्यम्, अधिगमजनितस्य व्यवहारपरिवर्तनस्य च व्यापकरूपेण मूल्याकलनम् इति ।

 

            तर्हि किं नाम सततविस्तृतमूल्याङ्कनम् ?

 

            नैरन्तर्येण व्यापकरूपेण च क्रियमाणं मूल्याङ्कनं सततविस्तृतमूल्याङ्कनम् इत्युच्यते ।

          मूल्याङ्कनं सत्रे एकवारं क्रियमाणं कार्यं न भवेत् । सम्पूर्णसत्रे निरन्तरं अनेकवारं विभिन्नरीत्या मूल्याङ्कनं कर्तव्यम् । घटकपरीक्षाः अधिकसंख्यया चालनीयाः । ताः नियतरूपेण भवेयुः ।  अध्ययनकाठिन्यानि कानि सन्तीति  मूल्याङ्कनेन ज्ञातव्यम् । तेषां काठिन्यानाम् अपनोदनाय यत्नः कर्तव्यः । पुनः परीक्षणं कर्तव्यम् ।  अनेन आत्ममूल्याङ्कनं कर्तुं छात्रेण शिक्षकेण च प्रतिपुष्टिः लभ्यते । छात्रः प्रतिपुष्ट्या  अधिगमे परिवर्तनम् आनयति ।  शिक्षकः प्रतिपुष्ट्या अध्यापने परिवर्तनमानयति । इत्थं निरन्तरं क्रियमाणेन मूल्याङ्कनेन अधिगमस्य शिक्षणस्य च स्तरः वर्धते ।

          विस्तृतम् इत्युक्ते छात्रविकासस्य सर्वेषां पक्षाणाम्/आयामानाम् मूल्याङ्कनम् इत्यर्थः । इत्युक्ते शैक्षिकविकासस्य शिक्षासहगामिक्रियासु विकासस्य च मूल्याङ्कनं इत्यर्थः । शिक्षासहगामिक्रियाः छात्रस्य सर्वाङ्गिकविकासानुकूलाः भवेयुः । तदानीमेव छात्रविकासस्य सर्वेऽपि पक्षाः विकसिताः भवन्ति ।

           

            सततमूल्याङ्कनं किमर्थं कर्तव्यम् ?

 

            शिक्षणाधिगमप्रक्रियायाः साफल्यं परीक्षितुं मूल्याङ्कनं सामान्यतः कुर्मः । छात्रस्य व्यवहारे कीदृशं परिवर्तनम् अपेक्षितम् इति या योजना कृता अथवा यः सङ्कल्पः कृतः भवति  तस्य अवगमनाय मूल्याङ्कनं क्रियते । एतत् व्यावहारिकं परिवर्तनं ज्ञानेच्छाक्रियारूपं भवति । एते ज्ञानेच्छाक्रियारूपिपक्षाः  Cognitive Domain affective Domain, Conative Domain  इत्युच्यन्ते । ईदृशं ज्ञानेच्छाक्रियारूपि व्यावहारिकं परिवर्तनं शिक्षणाधिगमप्रक्रियायां निरन्तरं भवति । एवमेव  छात्रव्यक्तित्वस्य सर्वेषाम् अपि आयामानाम् परिवर्तनं जायते ।  छात्रे जायमानम् एतादृशं परिवर्तनं शिक्षकः सामान्यतः अवलोकनेनापि अवगन्तुं प्रभवति । छात्रेण सह संवादं कृत्वा तस्य व्यावहारिकं परिवर्तनं ज्ञातुं शक्नोति । ईदृशम् अवलोकनम् विद्यालयीयविषयेषु विद्यालयेतरविषयेषु च कर्तुं शक्यते । विद्यालये नियमितरूपेण पाठ्यचर्यायाम् अन्तर्भावितेषु विषयेषु जायमानं परिवर्तनम्, पाठ्यचर्यायां अविद्यमानेषु विद्यालयाद् बहिः भ्रमणेन विविधसामाजिकक्रियाकलापादिषु भागं ओढ्वा सञ्जातं परिवर्तनं च अवलोकयितुं शक्यते इत्यर्थः । विद्यालयीयेषु शैक्षिकविषयेषु शिक्षासहगामिक्रियासु च  छात्रप्रगतिः अवलोकयितुं शक्यते ।  एतादॄशम् अवलोकनमपि मूल्याङ्कने अन्तर्भवति ।  ईदृशं मूल्याङ्कनं  निरन्तरं नियैतरूपेण क्रियते चेत्   छात्रस्य अधिगमकाठिन्यं ज्ञायते इत्यतः तत् परिहर्तुम् अवसरो भवति । तत् अधिगमकाठिन्यं छात्रस्य कारणात् वा अध्यापकस्य कारणात् वा परिस्थितेः कारणात् वा भवितुम् अर्हति । अतः मूल्याङ्कनात् एतद्विषये प्रतिपुष्टिः प्राप्यते इत्यतः परिहारान्वेषणं, परिहारस्य अनुष्टानम्, पुनः परीक्षणम्, पुनर्बलनं चेति सर्वं सेत्स्यति ।

No comments:

Post a Comment