वाक्यार्थभारत्यां (२०२२) प्रकाशितः लेखः
अधिगमस्य आयामाः स्तराश्च
Dimensions and Levels of Learning.
शिक्षा मानवं
परिष्करोति, संस्करोति च । लक्ष्यप्राप्तये मानवम् उपकरोति । मानवे मानवत्वम्
आनेतुं शिक्षा आवश्यकी । शिक्षायाः अभावे मानवः पशुरेव, “विद्याविहीनः पशुभिः समानः” । इयं
शिक्षा अधिगमेन आसादनीया । कथमासादनीया
इति चेत् उच्यते “गुरुसुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या
....” इति । अनया विद्यया/शिक्षया “स्वस्ति
पन्थामनुचरेम सूर्याचन्द्रमसाविव । पुनर्ददता घ्नता जानता सङ्गमेमहि”(ऋक्.
५/५१/१५) इति आर्षं लक्ष्यम् साधयेम । एनां शिक्षां किमर्थम् आसादयेम इत्युक्ते
अन्यत्र ऋगियम् ब्रवीति - “प्रति पन्थामपद्महि स्वस्ति गामनेहसम् । येन विश्वाः
परि द्विषो वृणक्ति विन्दते वसु ॥” इति । इत्युक्ते येन मार्गेण गच्छन् मनुष्यः सर्वाणि
द्वेषपूर्णानि कार्याणि, दुष्टाः भावनाः च त्यजन्, समग्रम् ऐश्वर्यं प्राप्नोति,
तं कल्याणकारिणं मार्गं वयं प्राप्नुयाम इति । अतः अधिगमेन आसादयितुं योग्या शिक्षा
इत्यतः अधिगमस्य आयामान् स्तरांश्च लेखेऽस्मिन् विचारयाम ।
अधिगमस्य आयामाः
इदमित्थमितिवत्
निर्दिष्टाः कुत्रापि न प्रत्यपादिषत । एकैकोऽपि लेखकः एकैकरीर्या विषयेऽस्मिन्
व्यलेखीत् । अनया दृष्ट्या अधोदत्ताः केचन आयामाः सुविचिन्तनीयाः ।
एकमेव वस्तु एकस्यां
दिशि अवलोक्यमाने यथा दृश्यते तथा अपरस्यां दिशि न दृश्यते । तदेव वस्तु दूरे यथा
दृश्यते तथैव समीपे न दृश्यते । वस्तु एकमेव अस्ति । किन्तु तस्य स्वरूपं
दिक्-इत्यादिभेदेन भिन्नभिन्नरूपेण दृश्यते । इत्थम् एकस्य एव वस्तुनः
द्रष्टृदिगादिभेन भिन्नभिन्नरूपेण अवस्थितिः एव तस्य वस्तुनः आयामः इति उच्यते । एवं
मूर्तानां वस्तूनां विषये यथा विभिन्नाः आयामाः भवन्ति तथैव अमूर्तानाम् अपि
वस्तूनां विभिन्नाः आयामाः भवन्ति । यथा सौन्दर्यम् इत्येषः एकः अमूर्तः पदार्थः ।
वृद्धायाः सौन्दर्यं वृद्धेन एकया रीत्या गृह्यते, यूना अन्यरीत्या, बालेन तद्भिन्नरीत्या
इति वयं जानीमः । अधिगमः इत्येषः पदार्थः अमूर्तः अस्ति एतस्य अपि एवमेव विभिन्नाः
आयामाः सन्ति । एते आयामाः अगणिताः भवन्ति । एतेषु कांश्चन आयामान् साम्प्रतं
चिन्तयाम -
अधिगमस्य आयामाः
१.
अधिगमविषये धनात्मक-अभिवृत्तेः
विकासः(Developing positive attitudes about learning)
अधिगमः इत्युक्ते अध्ययनम् इत्यर्थः । अध्ययनेन विद्या प्राप्यते ।
विद्याविहीनः पशुभिः समानः । अतः पशुत्वं अपहाय मानवत्वमवाप्तुं विद्या
समुपार्जनीया । अध्ययनं कर्तव्यम् । एतदध्ययनम् अस्माकं सर्वाङ्गिकविकासाय भवति
इति वयं सर्वे जानीमः । यावज्जीवमधीते विप्रः इति उक्त्या इदं ज्ञायते यत्
अध्ययनम् आजीवनं प्रचलति इति । अध्ययनं कञ्चन स्तरं यावदेव भवति इति न मन्तव्यम् ।
अतः अधिगमः आत्मनः विकासाय जायमाना निरन्तरप्रक्रिया इति विचारः छात्रस्य मनसि
भवेत् । इयमेव अधिगमविषयिणी धनात्मकाभिवृत्तिः इत्युच्यते । अधिगमविषयिणी
ऋणात्मकाभिवृत्तिः अपि ज्ञातव्या, यया धनात्माकाभिवृत्तिविषयकः सम्प्रत्ययः सुदृढः
भवति । ऋणात्मकाभिवृत्तिः इत्थं भवति –
“नाध्येतव्यम्” “अध्ययनेन को लाभः ?”
“इतोऽपि अधीत्य किं वा कर्तव्यम् अस्ति ?”
“अधिकमधीयते चेत् उन्मत्तता आयाति”
“एतावद् अध्ययनं पर्याप्तम्” “बह्वेव
साम्प्रतम् अधीतम्”
“आजीविकाप्राप्तये अध्ययनमेव वस्तुतः अध्ययनम् भवति”
“धनिकाः एव केवलम् अध्येतुं प्रभवन्ति”
“मम अध्ययनाय को वा साहाय्यम् आचरेत् ?”
“मम अध्ययनस्य वयः सम्प्रति अतिक्रान्तमस्ति”
“मम अध्ययनं समाप्तम्”
“इतोऽपि अध्ययनं न समाप्तं वा इति सर्वे पृच्छन्ति”
“सौविध्याभावात् अध्ययनं स्थगितवान्”
“पुस्तकानि अन्नं न प्रयच्छन्ति” इत्येवमादिरूपेण । अतः ईदृशीं ऋणात्मकाभिवृत्तिं
दूरीकृत्य धनात्मकाभिवृत्तिः आसादनीया । विद्यमानसौविध्यानुगुणं यावदध्येतुं शक्यते
तावत् अवश्यम् अधीयीय इति भावना स्यात् । शैक्षिकम् ऋणं वा छात्रवृत्तिं वा
स्वीकृत्य अधिकाधिकं अधीयीय इति भावनायाः
विकासः भवेत् । कुत्रचित् उद्योगं कुर्वन्नेव पत्राचारादिमाध्यमेन वा अधीये
इति अभिवृत्तिः स्वस्मिन् उत्पादनीया । प्रमाणपत्रमेव निमित्तीकृत्य विद्यायायाः
अर्जनं भवति चेत् प्रमाणपत्रमात्रं प्राप्येत । प्रमाणपत्राभावेऽपि अध्येतुम्
शक्याः बहवो हि विषयाः भवन्ति येषामध्ययनाय कोऽपि प्रवर्तितुम् अर्हति ।
अधिगमस्य विषये आदौ
धनात्मक-अभिवृत्तिः भवति चेदेव तत्सम्पादयितुं जायमाना प्रवृत्तिः सफला भवति ।
अधिगमस्य विषये धनात्मक-अभिवृत्तिः भवति चेदेव ऋणात्मकचिन्तनात् दूरे स्थित्वा
अधिगमाय मनोबलं साकल्येन विनियोक्तुं
कश्चन शक्नोति ।
२.
ज्ञानस्य सम्पादनम् एकीकरणञ्च (Acquiring
and integrating knowledge) -
ज्ञानस्य सम्पादनं पूर्वज्ञानसम्बद्धतया भवति ।
इत्युक्ते नवीनं ज्ञानं, सर्वात्मना केनापि विषयेण असम्बद्धं न प्राप्यते ।
प्राप्यमाणमपि ज्ञानम् बहूनां नूतनज्ञानानां सम्बन्धं प्रापयितुं योग्यं भवति ।
इत्थं वर्तमानं ज्ञानं पूर्वज्ञानेन यथा सम्बद्धम् अस्ति तथैव नूतनज्ञानानां
प्राप्त्यर्थं विद्यमानः मार्गसमुच्चयः(avenues) अस्ति । एवं पूर्वज्ञानस्य भाविज्ञानस्य च सङ्घटनाय
वर्तमानज्ञानं सम्पादनीयं भवति । अतः छात्रस्य वर्तमानज्ञानसम्पादनाय
पूर्वज्ञानस्य सम्बन्धाः आविष्कर्तव्याः । एवमेव भाविज्ञानानां सङ्केताः
प्रदर्शनीयाः । अनेन सुदृढं वर्तमानज्ञानं सञ्चितं भवति ।
३.
ज्ञानस्य विकासः विभावनञ्च/विद्योतनम् (Extending
and refining knowledge)[1] -
प्राप्तस्य ज्ञानस्य विकासः कथं भवति ? यदा तस्य वास्तविकप्रपञ्चे उपयोगः क्रियते तदा
विकासः भवति । भाषाशिक्षणसन्दर्भे, ज्ञातानां भाषानियमानाम् आधारेण कक्ष्यायां
प्रयोगाभ्यासः, वास्तविकप्रपञ्चे उपयोगः च क्रियते चेत् भाषाविकासः भवति । एवमेव
अन्येषां विषयाणाम् अपि विकासः चिन्तनीयः । वास्तविकप्रपञ्चे उपयोगः न क्रियते
चेत् पर्युषितफलमिव ज्ञानमपि निष्प्रयोजकं भवति । उच्चाधिगमाय प्राप्तस्य ज्ञानस्य
यदा मन्थनं क्रियते तदा अपि विकासः भवति । अतः श्रुतयः श्रवणात्परं मननं विदधति ।
अत्र श्रवणम् इत्युक्ते विषयस्य अध्ययनम् इति मन्तव्यम् । पुरा वेदाध्ययनं
श्रवणमाध्यमेन एव भवति स्म इत्यतः श्रवणमेव अध्ययनं/अधिगमः आसीत् । साम्प्रतं
अध्ययनं केवलेन श्रवणेन न सम्भवति । पठनलेखनभाषणैः
अपि अधिगमः भवति । पठनेन अधिगमः भवति इति तु सत्यम् । लेखनेन कथम् ? भाषणेन च कथम्
? एतत् कौशलद्वयमपि ग्रहणकौशलं नास्ति । लेखनकौशलं भाषणकौशलं च अभिव्यक्तिकौशलं
इत्युच्येते । अभिव्यक्तिकौशलेन अधिगतस्य विषयस्य अभिव्यञ्जनमात्रं क्रियते किल
? इति चेन्न । अभिव्यक्तिकौशलेन अपि
अधिगमः जायते एव । सुष्ठु कथम्
अभिव्यञ्जनीयम् ? अभिव्यञ्जनवेलायां वैकल्यं कुत्र जायते ? वैकल्यनिवारणं कथं
कर्तव्यम् ? इत्याद्यधिगमः भाषणेन लेखनेन च जायते एव ।
श्रवणात् परं मननम् तत्र विहितम् । तथैव अत्रापि अध्ययनात्परं ज्ञानस्य विकासाय
मननं कर्तव्यम् । मननं मानसिकव्यापारः भवति । एषः मानसिकव्यापारः एव चिन्तनं
वर्तते । अतः ज्ञानस्य विकासाय प्राधान्येन छात्राः प्राप्तं ज्ञानम् उपयोक्तुं
प्रवर्तेरन् । तस्य ज्ञानस्य मन्थनं कर्तुं च प्रवर्तेरन् ।
४.
सार्थकरूपेण ज्ञानस्य उपयोगः(Using
Knowledge meaningfully)[2]
प्रमुखलक्ष्यत्वेन छात्राणां पुरतः साधयितुं ज्ञानम् एव आवश्यकं इति यदा अनुभूयते
तदा छात्राः सम्यक् अध्येतुं प्रवर्तन्ते । सिसाधयिषितेषु विषयेषु ज्ञानस्य उपयोगः
नास्तीति मन्यते चेत् अध्येतुं न
प्रवर्तते । उदाहरणार्थम् उच्यते - यदा स्नातकस्तरः सम्पद्यते तदा बहवो हि छात्राः
अध्ययनं परित्यजन्ति । अग्रे अध्येतुम् अवसरः अस्ति चेदपि केचन अध्ययनं न अनुवर्तयन्ति । तेषां लक्ष्यं(उद्योगः, विवाहः,
स्नातकप्रमाणपत्रम् ...) तावता साधितं भवति इति तत्र कारणं भवति । प्राप्तस्य
ज्ञानस्य सार्थकरूपेण उपयोगः कर्तव्यः । अस्माकं लक्ष्यं साधितं चेत् पश्चात्
नाध्येतव्यम् इति न स्यात् । अधोलिखिताः
षट्-प्रकारिकाः चिन्तनप्रक्रियाः छात्रज्ञानस्य सार्थकोपयोगाय उपयोक्तुं शक्यन्ते
-
निर्णायस्वीकरणम् Decision-making
निर्णयस्वीकरणं इत्येत् उन्नतं बौद्धिकं विवेकपूर्णं
कार्यम् अस्ति । सन्दिग्धपरिस्थितिषु समुचितनिर्णयस्वीकरणं सामान्येन कर्तुं न
शक्यते । यः तादृशसामर्थ्यवान् भवति स एव श्रेष्ठत्वं भजते । कस्मिन् अपि क्षेत्रे
विपदि वा भवतु, विकल्पेषु वा भवतु, उत्कर्षाय वा भवतु, आत्मरक्षायै वा भवतु, पराक्रमणाय वा भवतु, साफल्यं तु उचितेन
निर्णयेन एव भवति । यथा – स्वर्णमन्दिरे आतङ्कवादिनः सन्ति इत्यतः सैन्यमुपयुज्य
तदुपरि आक्रमणम् यद्विहितं तत् इन्दिरागान्धीवर्यायाः उचितः निर्णयः आसीत्, तथैव
सिखमतावलम्बिनां श्रद्धकेन्द्रस्य उपरि विहितस्य अस्य आक्रमणस्य परिणामतः सर्वे
सिखजनाः रुष्टाः सन्तीति ज्ञात्वापि सिख-अङ्गरक्षकाणाम् अपरित्यागः अनुचितः
निर्णयः आसीत् यस्य च परिणामः दुस्सहः अवर्तत ।
समस्यासमाधानम् Problem-solving
समस्याः अस्माकं जीवने कार्यक्षेत्रे वा सर्वदा
भवन्त्येव । तासां निवारणाय उत्तमा बुद्धिशक्तिः आवश्यकी । इयं बुद्धिशक्तिरेव
ज्ञानं इति व्यवह्रियते । समस्यासमाधानाख्यं ज्ञानं अस्माभिः सम्पादनीयम् । तत्तु
अधिगमेन एव भवति ।
आविष्करणम् Invention
ज्ञानस्य सार्थकोपयोगाय आविष्कारकबुद्धिरपेक्ष्यते । अभावे
सति आविष्कारकबुद्धिः जागरिता भवति । आविष्कारकबुद्धिर्भवति चेत् ज्ञानस्य
सार्थकोपयोगः भवति । यथा - स्थातुम् एकं
पृतिव्यतिरिक्तं स्थानं दत्वा तदुचिते दण्डचक्रे दीयेते चेत् दण्डचक्राभ्यां अहं
भूमिमेव कम्पयितुम्/उन्नेतुं प्रभवामि इति न्यूटन् उक्तवान् आसीत् । न्य़ूटन्
इत्यस्य आविष्कारकबुद्धिः आसीत् इत्यतः गुरुत्वयुक्तस्य अपि वस्तुनः उन्नयनं कथं
कर्तुं शक्यते इत्यत्र सः तस्य ज्ञानं सार्थकरूपेण उपयोक्तुं शक्नोति स्म ।
प्रायोगिकं विचारणम् Experimental
inquiry
सामान्यं
विचारणं तु कौतुकशमनाय केवलं भवति । प्रायोगिकं विचारणं
कार्यकारणसम्बन्धविश्लेषणपुरस्सरं वैधता, विश्वसनीयता, पुनःपरीक्षणयोग्यता
इत्यादिगुणैः युक्तं वैज्ञानिकगुणोपेतं विचारणं भवति । एतादृशविचारणाय छात्रज्ञानस्य सार्थकोपयोगः
भवति ।
अन्वेषणम्/आन्वीक्षणम् Investigation
इयं तथ्यानां काचित्
सुबद्धा अन्वेषणप्रक्रिया, कस्याः अपि घटनायाः कस्यापि प्रकरणस्य वा कार्यकारणसम्बन्धम्
आविष्कृत्य प्रदर्शयति । एषा अन्वेषणाख्या चिन्तनप्रक्रिया छात्रज्ञानस्य सार्थकोपयोगाय भवति ।
प्रणालीविश्लेषणम् Systems analysis
पारस्परिकसम्बन्धयुक्तानां
अवयवानां समूहः प्रणाली इत्युच्यते । तत्र प्रणाल्यां पारस्परिकान्तःक्रियायाः
कश्चन निश्चितः क्रमः आश्रितो भवति । इत्युक्ते प्रत्येकमपि अवयवः अवयवान्तरेण सह
आदृतप्रणाल्या एव व्यवहरति । स्वयं च प्रत्येकमप्यवयवः स्वोद्दिष्टं कर्म कुर्वन्नेव
सम्पूर्णप्रणाल्याः लक्ष्यसिद्ध्यर्थं निश्चितक्रमेण प्रवर्तते । अत्र
प्रणाल्यां विद्यमानानां अवयवानां मध्ये सम्बन्धः विच्छिद्यते चेत् ,
पारस्परिकान्तःक्रियायाः क्रमः परिवर्तते चेत् , कोऽप्यवयवः निष्क्रियो वा भवति
चेत् प्रणाल्याः परिणामः विपरीतो भवितुमर्हति, दूषितो भवितुम् अर्हति,
शून्यपरिणामो वा भवितुमर्हति । अतः प्रणाल्याः सफलतायै तद्गतानां अवयवानां मध्ये
क्रमबद्धा पारस्परिकान्तःक्रिया भवेत् । सर्वोऽप्यवयवः निश्चितक्रमे अवयवान्तरेण
सह सम्बन्धं स्थापयेत् । कोऽप्यवयवः निष्क्रियो न भवेत् ।
प्रणालीविश्लेषणम् इत्युक्ते प्रणाल्याः अवयवानां,
अवयवसङ्घटनानां, अवयवानां कार्यप्रवृत्तेश्च पार्थक्येन वा साकल्येन वा विश्लेषणम्
इत्यर्थः ।
Identification of elements, their organization and their functioning or
performance individually or as a whole and constraints.
मनसि निष्पादकप्रवृत्तेः विकासः (Developing
productive habits of mind.)[3]
सार्थकरूपेण ज्ञानस्य उपयोगाय मनसि निष्पादकप्रवृत्तिः
भवेत् । निष्पादकप्रवृत्तेः विकासाय कक्ष्यागतव्यवहाराः कीदृशाः भवेयुः ?
अधोलिखितरूपेण एते
कक्ष्यागतव्यवहाराः भवेयुः ।
१. तार्किकचिन्तनम् (Think critically) – कर्तुं छात्राः प्रवर्तनीयाः
२. स्पष्टसमग्रावलोकनम्(
Be and see
accurately. Be open-minded) कर्तव्यम्, उन्मुक्तमानसिकता च स्यात् ।
३. सर्जनात्मकचिन्तनम् (Think creatively)
भवेत् ।. परिस्थितेः अवलोकनाय नवीनरीतयः अन्वेषणीयाः (Find new ways of looking at a situation)
४. स्वस्य चिन्तनप्रक्रियायाः स्वेनैव
नियन्त्रणम्/चालनम्(regulate)
कर्तव्यम् ।
अधिगमस्य स्तराः
अधिगमस्य पञ्च स्तराः
प्रसिद्धाः ।
१.
स्मृतिस्तरः
अस्मिन् स्तरे अध्येता अध्ययनेन केवलं अध्येयविषयान् स्मरति । इत्युक्ते
अध्येयविषयस्य अर्थम् अवगच्छति इति नास्ति । अध्येयविषये चिन्तनं मननं वा
कर्तुमर्हति इति नास्ति । तद्बलेन अध्येयविषयं व्याख्याति इत्यपि नास्ति ।
इत्युक्ते अत्र छात्रः विषयं
अर्थज्ञानेन विनैव मस्तिष्के आरोपयति । अधिगमस्य अयं प्राथमिकस्तरः भवति । शिशुः
प्रथमक्षणे श्रुतस्य पदस्य अर्थं न अवगच्छति । किन्तु सः पदं जानाति । इत्युक्ते
पदं स्मर्तुम् अर्हति । पदार्थं तु “शक्तिग्रहं व्याकरणोपमान....” इत्याद्यनुगुणं
निमित्तान्तरेण एव अवगच्छति न तु केवलं शब्दश्रवणेन । अतः अस्य स्तरस्य अधिगमस्य लक्ष्यमपि विषयस्य
स्मरणमात्रमेव भवति ।
छात्राः अस्मिन् स्तरे पदानां, वाक्यानां, सूत्राणां,
संख्यानां, कारिकाणां, पद्यानां, मन्त्राणां वा अधिगमेन तत्तद्विषयस्य स्मृतिमात्रं प्रयोजनं
लभन्ते । अत्र विषयस्मरणार्थं बुद्धिः विकसिता भवेदिति नास्ति । चिन्तनादिशिक्तिः
विकसिता भवेदिति नास्ति । अतः पदादीनां तात्पर्यार्थादिकं
जानीयुरित्यपि नास्ति । प्राथमिकस्तरे एवमेव शिक्षा प्रवर्तते ।
एतस्य अयं अभिप्रायः नास्ति यत् लघुबालानां स्तरः
स्मृतिस्तरः इति वा निम्नवयोवतां स्मृतिस्तरः इति वा भवति इति । अयं स्मृतिस्तरः
स्नातकोत्तरच्छात्राणाम् न भवति इत्यपि न मन्तव्यम् । स्नातकोत्तरस्तते विद्यमानाः अपि छात्राः बहून् विषयान् स्मृतिस्तरस्य अधिगमेन अधीयते । अतिलघुबालाः अपि चिन्तनस्तरस्य अधिगमं
प्राप्नुवन्ति । समस्यासमाधानं इति उन्नतस्तरस्य अधिगमः भवति चेदपि कोह्लरस्य
सुल्तानाख्यः वानरः एतत् साधितवान् । बालाः अपि कदाचित् अत्यन्तं
बुद्धिशक्तियुक्तं कार्यं साधयन्ति ।
२.
अवबोधस्तरः
एषः उत्तरवर्तिस्तरः अस्ति । स्मृतिस्तरे गृहीतस्य
शब्दस्य वाक्यस्य वा अर्थः ज्ञातः भवति इति निश्चयः नास्ति । तस्य स्तरस्य
उद्देश्यमपि अर्थज्ञानं नास्ति । विषयस्य ग्रहणमात्रं भवति । किन्तु अवबोधस्तरे
शब्दस्य वाक्यस्य वा अर्थज्ञानपुरस्सरमेव छात्रः अधीते । इत्युक्ते स्मृतिस्तरे शब्दज्ञानं प्राप्यते ।
अवबोधस्तरे शब्दस्य अर्थस्य च ज्ञानं प्राप्यते । अवबोधः इत्युक्ते अर्थज्ञानम्
इत्यर्थः । एषः अववबोधस्तरः सामान्यतः प्राथमिकस्तरात् उपरितनः भवति । एषः
स्तरभेदः अधिगमदृष्ट्या एव अस्ति, न तु वयसः दृष्ट्या, न वा विषयदृष्ट्या । इत्युक्ते अत्यन्तं लघुः शिशुः अपि बहूनां
शब्दानां श्रवणेन अर्थं अवगच्छति एव । किन्तु शब्दैः प्रतिक्रियां दातुं न शक्नोति
। तावता सः श्रुतानां शब्दानां अर्थं न ज्ञातवान् इति नार्थः । एवमेव
विद्यावारिधिरिति उपाधिं
प्राप्यापि वयमेव बहूनां अश्रुतपूर्वाणां शब्दानां श्रवणेन अर्थम् अवगच्छामः इति
नास्त्येव ।
शिक्षाव्यवस्थायां तावत् आदौ शब्दज्ञानाय
विषयाणां प्रस्तुतिः भवति, पश्चात् अर्थज्ञानाय, पश्चात् अनुप्रयोगात्मके स्तरे
अधीतस्य विषयस्य प्रयोगाय, तदनन्तरं चिन्तनविकासाय, पश्चात् प्रतिफलनस्तरे
नूतनविषयादिसर्जनाय इति मन्तव्यम् ।
३.
अनुप्रयोगात्मकस्तरः
अस्मिन् स्तरे छात्रः विषयं अवगत्य प्रयोक्तुं आरभते ।
स्मृतिस्तरे छात्रः शब्दस्य अनुकरणं करोति । अत्र अर्थस्य प्रयोगदृष्ट्या अनुकरणम्
करोति । इत्युक्ते ज्ञातानां शब्दानां वाक्यानां विषयाणां वा स्वीयेषु व्यवहारेषु उपयोगं
कर्तुं छात्रः शक्नोति ।
४.
चिन्तनस्तरः
अस्मिन् स्तरे छात्रः अधीतस्य विषयस्य युक्तायुक्ततां,
उचितानुचिततां, उपयोगितां, महत्वं, अर्थव्याप्तिं, विम्रष्टुं सामर्थ्यं अवाप्नोति
। अधीयमानस्य विषये चिन्तनं यदा करोति तदा पूर्वोक्तानि युक्तायुक्तचिन्तनादिकार्याणि
सिध्यन्ति । एषः स्तरः सामान्यतः माध्यमिकस्तरात् ऊर्ध्ववर्ती भवति ।
५.
प्रतिफलनस्तरः
एषः अधिगमस्य
अत्युन्नतः स्तरः भवति । अस्मिन् स्तरे छात्रः नूतनं किञ्चित् सृजति, आविष्करोति,
रचयति, निर्माति, प्रदर्शयति, प्रस्तुतीकरोति.... । स्तरेऽस्मिन् सम्पादितस्य सामर्थ्यस्य निकषोफलं
लक्ष्यते । प्रायः एषः स्तरः स्नातकस्तरात्परं, क्वचित् च उच्चमाध्यमिकस्तरे एव
दृष्टिपथमायाति । क्वचित् कालान्तरे ।
सन्दर्भाः
1. Assessent
of Learning, S.K.Mangal, Shubhra Mangal, PHI Learning Private Ltd
2. Bloom's
Taxonomy Levels of Learning: The Complete Post (kodosurvey.com)
3.
Dimensions
Of Deep Learning: Levels Of Engagement And Learning - ASCD
4. (PDF)
Dimensions of Learning | raing use - Academia.edu
5. Dimensions
Of Learning (slideshare.net)
[1] For
learning to be effective and meaningful, students should be provided with
opportunities to use knowledge in practical
situations. Processing knowledge for greater
understanding can be done through activities designed to help them apply that knowledge.
[2] Students
learn best when they need knowledge to accomplish a goal they consider
important. Six kinds of thinking processes can be used to encourage students to
use knowledge meaningfully: 1. Decision-making 2. Problem-solving 3. Invention
4. Experimental inquiry 5. Investigation 6. Systems analysis
[3] Teachers
can help students develop the mental habits that will enable them to learn on
their own. Instruction to foster habits of mind includes both short-term and
long-term practices. Here are some suggested classroom behaviours and practices:
1. Think critically. Be and see accurately. Be open-minded. 2. Think
creatively. Push the limits of one's knowledge. Find new ways of looking at a
situation. 3. Self-regulate. Be aware of one’s own thinking. Evaluate the
effectiveness of one’s own actions
No comments:
Post a Comment