Wednesday, November 27, 2024

गणेशप्रसादस्य विवाहस्य आमन्त्रणं देहल्यां गोपनीयकार्यवेलायां प्राप्य लिखितं पद्यम्

गणेशप्रसाद प्रतिभासमेत
संजीव सौख्येन शरदां शतं त्वम् ।
आशीर्भिरेवं कथनादृते ते
किं दातुमर्हाम प्रतिभाधिकश्रीः ॥

Sunday, November 24, 2024

कार्तिक मिश्रस्य विवाहसमये आशिर्वादरूपेण मया लिखितं पद्यम्

पार्वत्यात्मज  कार्तिकाह्व सुमते आशीर्भिरेवं ब्रुवे
नारीपूजनसंस्कृतौ वयमिह स्वर्गं हि स्रष्टुं क्षमाः 
तस्माद्वैदिकधर्ममार्गमुचितं सर्वाश्रमाराधकं
गार्हस्थ्यं भवतात् भवत्सुखकरं दारासमाराधकम्  ॥