Sunday, November 21, 2021

8. सुबेदार जोगिन्दरसिंहः

 

8. सुबेदार  जोगिन्दरसिंहः

          सुबेदार जोगिन्दरसिंहः  १९२१ तमे वर्षे सेप्टम्बरमासस्य २८ तमे दिनाङ्के  पञ्जाबराज्यस्य मोगा इत्यत्र  एकस्मिन् कृषकपरिवारे जन्म प्राप्तवान् ।

१९३६ तमे वर्षे सः भारतीयसैन्यं आङ्लेयानां शासनकाले  सिख्-रेजिमेण्ट् इत्यस्य  1st Batalian सेनाङ्गे प्रविष्टवान् । अध्ययने एतस्य महती रुचिरासीत्  इत्यतः सैन्ये स्थित्वा एव  अध्ययनं कृत्वा परीक्षां च उत्तीर्य Unit Education Instructor रूपेण नियुक्तः अभवत् । द्वितीयविश्वयुद्धावसरे एषः बर्माप्रदेशे युद्धं कृतवान् आसीत् । पश्चात् १९४८ तमे वर्षे काश्मीरस्य श्रीनगरे पाकिस्थानीयैः  शत्रुभिः सह अपि युद्धं कृतवान् आसीत् ।  अनन्तरं १९६२ तमे वर्षे अक्टोबरमासस्य नवमे दिनाङ्के  NEFA विभागस्य बुम्ला पास् इत्याख्यायां पर्वतश्रेण्यां २० सैनिकैः सह चैनादेशस्य सैन्यं प्रतिरोद्धुं  आदिष्टः ।

          बुम्ला-पास्-तः अग्रे  उत्तरदिशि नम्काचुनद्याः तीरे अत्यन्तम् असुरक्षिते स्थले  नेहरूवर्यस्य सैन्यविरोधिनीतेः(फार्वर्ड-पालिसि) नीतेः कारणतः एकं फार्वर्ड् पोष्ट् निर्माय तत्संरक्षणाय भारतीयसैनिकाः मृत्युमुखे प्रवृत्ताः आसन् ।

          ओक्टोबरमासस्य २० तमे दिनाङ्के प्रातः ४.३० वादने चैनाशत्रवः अस्माकं तत्र स्थितानां सैनिकानाम् उपरि आक्रम्य सर्वानपि मारितवन्तः । पश्चात् भारतस्य सीम्नि  अरुणाचलप्रदेशे विद्यमानं  तवाङ्ग इत्याख्यं जिल्लाकेन्द्रं  स्वायत्तीकर्तुं योजनां अकुर्वन् ।  किन्तु तत्र उपसर्तुम् अवरोधकत्वेन  मध्येमार्गं  सुबेदार जोगिन्दरसिंहस्य सैनिकसमूहः आसीत् । अतः चैनादेशीयं सैन्यं त्रिषु पर्यायेषु  जोगिन्दरसिंहस्य सैनिकगणस्य उपरि आक्रमणम् अकरोत् ।  प्रतिपर्यायम् आक्रमणसमये चैनादेशीये सैन्ये  २०० सैनिकाः भवन्ति स्म । एतस्य गणे आरम्भे ओक्टोबरमासे नवमे दिनाङ्के  गताः २० सैनिकाः एव आसन् । (मध्ये मध्ये Reinforcement  न दीयते स्म ।)

          ओक्टोबरमासस्य २३ तमे दिनाङ्के प्रातः ५.३० वादने प्रथमचक्रे चैनादेशस्य २०० सैनिकाः अत्याधुनिकैः  शस्त्रास्त्रैः सुबेदारजोगिन्दरसिंहस्य गणस्य उपरि आक्रमणं कर्तुम् आरभन्त । सुबेदारजोगिन्दरसिंहस्य मार्गदर्शने  सिख्-सैनिकाः  अत्यन्तं शौर्यं प्रदर्श्य  शत्रून् पराजेतुं  समर्था अभवन् । अनन्तरं पुनः द्वितीयचरणे २०० सैनिकाः आक्रमणं कृतवन्तः । तदानीमपि शत्रवः सफलतया परास्ताः । किन्तु एतस्य सुबेदारजोगिन्दरसिंहस्य गणे अर्धः भागः नष्टः आसीत् । स्वयं जोगिन्दरसिंहः व्रणितः आसीत् । तस्य पार्श्वे शस्त्रास्त्राण्यपि नासन् । इतोऽपि शस्त्रसाहाय्यं कर्तुं सैनिककेन्द्रं प्रति सन्देशः प्रेषितः चेदपि किमपि प्रयोजनं न प्राप्तम् । अन्ते तृतीयचरणे  भुषुण्डिकानां अग्रभागः(Bionet) एव एतेषां शस्त्राणि संवृत्तानि ।

          अवशिष्टाः सिख्-सैनिकाः  “वाहे गुरूजी का खाल्सा, वाहे गुरूजी का फतेह” इति युद्धघोषं कुर्वन्तः Bionet द्वारा शत्रून् निग्रहीतुं प्रवृत्ताः । शस्त्रविहीनाः अस्माकं दश सैनिकाः द्विशतं संख्याकैः सशस्त्रैः शत्रुभिः सह  युद्धं कृत्वा Bionet माध्यमेनापि बहून् शत्रून् हन्तुं समर्थाः अभवन् । किन्तु एतत् सर्वं शौर्यं क्षणार्धं यावदेव शक्यमासीत् । यतो हि बलाबले  किञ्चिदपि साम्यं न आसीत् ।  अन्ते अत्यन्तं व्रणितः जोगिन्दरसिंहः शत्रुभिः चैनासैनिकैः बद्धः अभवत् ।  किन्तु व्रणाधिक्यात्  सत्वरं वीरस्वर्गमपि प्राप्नोत् ।  जोगिन्दरसिंहस्य एतत् अप्रतिमं शौर्यं  विज्ञाय भारतसर्वकारः तस्मै मरणोत्तरम् अत्युच्चं सैनिकपुरस्कारं परमवीरचक्रं प्रायच्छत् ।

7.मेजर धनसिंह थापा

 

7.मेजर धनसिंह थापा

         

मेजर धनसिंह थापा मूलतः नेपालदेशीयः ।  सः १९२८ तमे वर्षे  एप्रिलमासस्य दशमे दिनाङ्के  हिमाचलप्रदेशस्य शिम्ला इत्याख्ये नगरे जन्म प्राप्तवान् । सः १९४९ तमे वर्षे  भारतीयसैन्यस्य गूर्खा बेटालियन् इत्याख्ये सेनाङ्गे  आगष्टमासे सैन्याधिकारित्वेन नियुक्तः अभवत् ।

चीनदेशः त्रिविष्टपस्य(तिब्बत) उपरि १९४९ तमे वर्षे  एव आक्रमणं कर्तुम् आरभत । चीनदेशे साम्यवादिशासनं (Communist) चलति स्म इत्यतः, नेहरूवर्यस्य तत्सिद्धान्ते आदरः आसीत् इत्यतश्च  त्रिविष्टपस्य विषये  भारतस्य यः परम्परया सम्प्राप्तः  अधिकारः आसीत् तमधिकारं  सर्वमपि नेहरूवर्यः अन्धवत् निर्बन्धं विना चीनदेशाय समार्पयत् । तदपि युद्धे पराजयप्राप्तेः ८ वर्षेभ्यः प्रागेव ।[1] अतः भारतीयानां सर्वासां प्रजानां  तद्विषये महान् क्रोधः आसीत् । साम्यवादस्य विस्तरणवादिनीत्यनुसारं चीनदेशः केवलेन त्रिविष्टपेन असन्तुष्टः सन् भारतस्य लद्दाकप्रान्ते  अक्सायचिन् इत्याख्यं सुविशालं भूप्रदेशं  १९४८ तमे वर्षे एव पाकिस्थानस्य साहाय्येन  उपायेन स्वायत्तीकृतवान् आसीत् ।

पश्चात् कालान्तरे भारतस्य उपरि आक्रमणं कर्तुं त्रिविष्टपे सर्वविधां सिद्धतां चीनदेशः कुर्वन्नेव आसीत् ।

किन्तु भारते सैन्यं सबलयितुं सैन्येन नैरन्तर्येण कृतां प्रार्थनां नेहरूमहोदयः तिरस्कृत्य सैन्याधिकारिणाम् अवमाननं  च यथासम्भवं कृत्वा सैन्यस्य सम्पूर्णाम् उपेक्षां कृतवान् आसीत् ।

चीनदेशः तु १०० % सज्जीभूय  युद्धार्थं यदा अस्माकं द्वारे एव उपस्थितः  तदानीमपि सैन्यस्य आग्रहं तिरस्कृत्य कस्यचित् सिविल्-अधिकारिणः वचनं श्रुत्वा  Forward Policy इत्याख्यां घोरां नीतिम् आश्रित्य  शत्रुनिग्रहमपि अकृत्वा  देशवासिनां मुखपिधानाय सर्वथा अयुक्तं आत्महत्यासदृशं मार्गं (यच्च देशाय अत्यन्तं घातकं) नेहरूवर्यः अनुसृतवान् ।

मेजर धनसिंह थापा एतस्याः Forward Policy इत्यस्याः  नीतेः अनुसारं  लद्दाकप्रान्तस्य पेनगाङ्ग इत्याख्यस्य सरसः उत्तरदिशि सिरिजैप् इत्यस्मिन् प्रदेशे Forward Post निर्माय  तत्र तत्संरक्षणाय स्थातुं नियुक्तः अभवत् । सिरिजैप् इत्याख्यः प्रदेशः  ४८ KM2  विस्तारयुक्तः आसीत् । धनसिंहस्य सैनिकगणे विद्यमानानां २८ सैनिकानाम् उत्तरदायित्वम् इदमासीत् यत् सिरिजैप् इत्यस्य संरक्षणम् इति ।

शीतकालस्य आरम्भः जातः आसीत् ।

तुहिनाच्छादिते पर्वते एतैः गर्तं निर्माय Forward Post निर्मातव्यमासीत् ।  १९६२ तमे वर्षे  ओक्टोबरमासस्य १९तमे दिनाङ्के  सैन्येन आदिष्टः धनसिंहस्य गणः  तत्र कार्यमारभत ।

२० तमे दिनाङ्के  प्रातः चतुर्वादने  षट्शतेन  सङ्ख्यया  शत्रवः एतेषाम् उपरि  अत्याधुनिकैः शस्त्रैः  आक्रमणं कर्तुम् आरभन्त ।  धनसिंहस्य गणः  काले प्रतिक्रियां प्रदाय  शत्रोः महतीं हानिं प्रथमचक्रे कृत्वा सफलः  सञ्जातः ।  तावता एतस्य गणे  सप्त एव सैनिकाः अवशिष्टाः आसन् ।  पुनः द्वितीयचक्रे यदा शत्रुदलं आक्रमणं कर्तुम् आरभत  तदा स्वसमीपं शत्रोः आगमनपर्यन्तं प्रतीक्ष्य पश्चात् सत्वरं प्रतिक्रियां दत्वा  पुनः शत्रून् पराजितवन्तः अस्माकं वीरयोद्धारः ।  तृतीयचक्रे शत्रोः शतघ्न्यः(Tankers) अपि अग्निवर्षं कर्तुम् आरभन्त   धनसिंहस्य गणॆ तदा केवलं त्रयः एव सैनिकाः अवशिष्टाः आसन् ।  शस्त्राणि अपि सर्वाणि समाप्तानि आसन् ।  तथापि सुरक्षागर्तात्  बहिरागत्य  Bionet इत्याख्येन भुषुण्डिकाग्रेण अस्मत्सैनिकाः शत्रून् प्रहर्तुम् आरब्धवन्तः । तावता सर्वासु दिक्षु आवृताः शत्रवः  धनसिंहस्य गणं बध्वा  युद्धबन्धित्वेन चीनदेशं नीतवन्तः ।

एतन्मध्ये कश्चन सैनिकः  पराजये सुनिश्चिते  आत्मरक्षां कृत्वा अस्माकं सैनिककेन्द्रं प्रति कष्टेन प्रत्यागत्य अस्माकं सैनिकगणस्य पराजयस्य  समूर्णां वार्तां श्रावितवान् ।  पश्चात् सैन्याधिकारिभिः  धनसिंहस्य शौर्यं साहसं च परिगणय्य  प्रेषितप्रस्तावानुसारं  १९६३ तमे वर्षे  भारतसर्वकारः  धनसिंहस्य कृते  मरणोत्तरं परमवीरचक्रं  उदघोषयत् ।  अयं शत्रुभिः बद्धः अस्ति, न मृतः इति  सर्वकारेण न ज्ञातमासीत् । सैन्याधिकारिभिः तस्य पत्न्यै  भर्तुः वीरमरणस्य/बलिदानस्य वार्ता अपि पत्रद्वारा प्रेषिता आसीत् ।  तत्परिवारीयाः  तस्य और्ध्वदैहिकं अन्त्यसंस्कारं सर्वमपि  तदीयपरम्परानुगुणं  कृतवन्तः आसन् । तत्पत्नी गर्भवती आसीत् । सा गर्भवती सती एव  विधवावस्त्रमपि धारयितुम् आरब्धवती आसीत् ।  अनन्तरम् एकस्मै शिशवे  जन्म दत्तवती ।

एतन्मध्ये रैफल्मन् तुलसीराम इत्याख्यः  धनसिंहस्य गणॆ स्थित्वा  चीनीयैः बद्धः सैनिकः चातुर्येण कथमपि आत्मानं मोचयित्वा दिनचतुष्टयं यावत् हिमालयपर्वते चलन् शत्रूणां दृष्टिपथे अपि अनागत्य  सैनिककेन्द्रं प्रति प्रत्यागमने सफलो जातः । सः धनसिंहस्य अन्येषां च त्रयाणां बन्धनस्य वार्तां श्रावयित्वा धनसिंहः जीवितो वर्तते  इति उक्तवान् ।



[1]  अत एव साम्प्रतम् अस्मदीयैः  कैलासमानसयात्रा  करणीया चेत्  चीनदेशाय १५०००० रूप्यकाणि दातव्यानि भवन्ति ।