8. सुबेदार जोगिन्दरसिंहः
सुबेदार
जोगिन्दरसिंहः १९२१ तमे वर्षे सेप्टम्बरमासस्य
२८ तमे दिनाङ्के पञ्जाबराज्यस्य मोगा
इत्यत्र एकस्मिन् कृषकपरिवारे जन्म
प्राप्तवान् ।
१९३६ तमे वर्षे सः
भारतीयसैन्यं आङ्लेयानां शासनकाले
सिख्-रेजिमेण्ट् इत्यस्य 1st
Batalian सेनाङ्गे प्रविष्टवान् । अध्ययने एतस्य महती रुचिरासीत् इत्यतः सैन्ये स्थित्वा एव अध्ययनं कृत्वा परीक्षां च उत्तीर्य Unit
Education Instructor रूपेण नियुक्तः अभवत् । द्वितीयविश्वयुद्धावसरे एषः बर्माप्रदेशे युद्धं
कृतवान् आसीत् । पश्चात् १९४८ तमे वर्षे काश्मीरस्य श्रीनगरे पाकिस्थानीयैः शत्रुभिः सह अपि युद्धं कृतवान् आसीत् । अनन्तरं १९६२ तमे वर्षे अक्टोबरमासस्य नवमे
दिनाङ्के NEFA विभागस्य
बुम्ला पास् इत्याख्यायां पर्वतश्रेण्यां २० सैनिकैः सह चैनादेशस्य सैन्यं
प्रतिरोद्धुं आदिष्टः ।
बुम्ला-पास्-तः
अग्रे उत्तरदिशि नम्काचुनद्याः तीरे
अत्यन्तम् असुरक्षिते स्थले नेहरूवर्यस्य
सैन्यविरोधिनीतेः(फार्वर्ड-पालिसि) नीतेः कारणतः एकं फार्वर्ड् पोष्ट् निर्माय
तत्संरक्षणाय भारतीयसैनिकाः मृत्युमुखे प्रवृत्ताः आसन् ।
ओक्टोबरमासस्य
२० तमे दिनाङ्के प्रातः ४.३० वादने चैनाशत्रवः अस्माकं तत्र स्थितानां सैनिकानाम्
उपरि आक्रम्य सर्वानपि मारितवन्तः । पश्चात् भारतस्य सीम्नि अरुणाचलप्रदेशे विद्यमानं तवाङ्ग इत्याख्यं जिल्लाकेन्द्रं स्वायत्तीकर्तुं योजनां अकुर्वन् । किन्तु तत्र उपसर्तुम् अवरोधकत्वेन मध्येमार्गं
सुबेदार जोगिन्दरसिंहस्य सैनिकसमूहः आसीत् । अतः चैनादेशीयं सैन्यं त्रिषु
पर्यायेषु जोगिन्दरसिंहस्य सैनिकगणस्य
उपरि आक्रमणम् अकरोत् । प्रतिपर्यायम्
आक्रमणसमये चैनादेशीये सैन्ये २०० सैनिकाः
भवन्ति स्म । एतस्य गणे आरम्भे ओक्टोबरमासे नवमे दिनाङ्के गताः २० सैनिकाः एव आसन् । (मध्ये मध्ये Reinforcement
न दीयते स्म ।)
ओक्टोबरमासस्य
२३ तमे दिनाङ्के प्रातः ५.३० वादने प्रथमचक्रे चैनादेशस्य २०० सैनिकाः
अत्याधुनिकैः शस्त्रास्त्रैः
सुबेदारजोगिन्दरसिंहस्य गणस्य उपरि आक्रमणं कर्तुम् आरभन्त । सुबेदारजोगिन्दरसिंहस्य
मार्गदर्शने सिख्-सैनिकाः अत्यन्तं शौर्यं प्रदर्श्य शत्रून् पराजेतुं समर्था अभवन् । अनन्तरं पुनः द्वितीयचरणे २००
सैनिकाः आक्रमणं कृतवन्तः । तदानीमपि शत्रवः सफलतया परास्ताः । किन्तु एतस्य
सुबेदारजोगिन्दरसिंहस्य गणे अर्धः भागः नष्टः आसीत् । स्वयं जोगिन्दरसिंहः व्रणितः
आसीत् । तस्य पार्श्वे शस्त्रास्त्राण्यपि नासन् । इतोऽपि शस्त्रसाहाय्यं कर्तुं
सैनिककेन्द्रं प्रति सन्देशः प्रेषितः चेदपि किमपि प्रयोजनं न प्राप्तम् । अन्ते
तृतीयचरणे भुषुण्डिकानां अग्रभागः(Bionet) एव एतेषां शस्त्राणि संवृत्तानि ।
अवशिष्टाः
सिख्-सैनिकाः “वाहे गुरूजी का खाल्सा,
वाहे गुरूजी का फतेह” इति युद्धघोषं कुर्वन्तः Bionet द्वारा
शत्रून् निग्रहीतुं प्रवृत्ताः । शस्त्रविहीनाः अस्माकं दश सैनिकाः द्विशतं
संख्याकैः सशस्त्रैः शत्रुभिः सह युद्धं
कृत्वा Bionet माध्यमेनापि बहून् शत्रून् हन्तुं समर्थाः अभवन् ।
किन्तु एतत् सर्वं शौर्यं क्षणार्धं यावदेव शक्यमासीत् । यतो हि बलाबले किञ्चिदपि साम्यं न आसीत् । अन्ते अत्यन्तं व्रणितः जोगिन्दरसिंहः शत्रुभिः
चैनासैनिकैः बद्धः अभवत् । किन्तु
व्रणाधिक्यात् सत्वरं वीरस्वर्गमपि
प्राप्नोत् । जोगिन्दरसिंहस्य एतत्
अप्रतिमं शौर्यं विज्ञाय भारतसर्वकारः
तस्मै मरणोत्तरम् अत्युच्चं सैनिकपुरस्कारं परमवीरचक्रं प्रायच्छत् ।