Tuesday, March 18, 2025

ವಾರ್ಷಿಕೊತ್ಸವಕ್ಕೆ ಸಭಾ ಸಂಚಾಲಕನಾಗಿ ನಾನಾಡಬೇಕಾದ ಮಾತುಗಳು.

 

श्रीगुरुभ्यो नमः

नमः शङ्करशारदाभ्याम्

भारतीकरुणापात्रं भारतीपदभूषणम्

भारतीपदमारूढं भारतीतीर्थमाश्रये ॥

विद्याविनयसम्पन्नं वीतरागं विवेकिनम्

वन्दे वेदान्ततत्वज्ञं विधुशेखरभारतीम् ॥

शरदिन्दुविकासिमन्दहासां स्फुरदिन्दीवरलोचनाभिरामाम् ।

अरविन्दसमानसुन्दरास्याम् अरविन्दासनसुब्दरीमुपासे ॥

श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम् ।

नमामि भगवत्पादशंकरं लोकशंकरम् ॥

जगद्गुरुचरणारविन्दयोः साष्टाङ्गं प्रणिपत्य अनुज्ञां च सम्प्रार्थ्य कार्यक्रमस्य सञ्चालनाय प्रवर्ते –

अद्य वयम् परमवैभवेन उत्सवम् एनम् आचरन्तः स्मः इत्यस्य मूलनिदानम् अवश्यं स्मरेम -

वैराग्यमूर्तिस्तपश्चक्रवर्ती

श्रीभारतीतीर्थजगद्गुरुर्नः

संस्थाप्य सङ्कल्पबलेन सिद्धाम्

अन्वग्रहीदस्य पुरोभिवृद्धिम् ॥  

किञ्च -

अलौकिकं लौकिकसौख्यराशिं

अस्मत्कृते यः प्रददाति नित्यम् ।

तं लोकवन्द्यं भगवत्स्वरूपं

श्रीभारतीतीर्थगुरुं प्रपद्ये ॥

केन्द्रीयसंस्कृतविश्वविद्यालयस्य विशिष्टे विश्रुते राजीवगान्धीपरिसरेऽस्मिन् वार्षिकोत्सवम् आचरितुम् जगद्गुरूणां सान्निध्यम् वयमिदानीं समपीपदाम । तान् जगद्गुरून् इदानीम् नुमः

श्रीविद्यां सुरभारतीं प्रतिपदं  संसेव्य शास्त्रार्णवं

तीर्त्वा शिष्यजनामनस्यनिचयं विध्वसंसयन् नित्यशः ।

देशेऽस्मिन् गुरुशङ्करैः विजयितं धर्मध्वजं  योऽग्रहीत्

वन्दे तं विधुशेखरं गुरुवरं श्रीशारदाराधकम् ॥

  भगवत्पादाः कथयन्ति

जातिनीतिकुलगोत्रदूरगं नामरूपगुणदोषवर्जितम् ।

देशकालविषयातिवर्ति यद् ब्रह्मतत्त्वमसि भावयात्मनि ॥ इति ।

भगवदनुग्रहेण अस्माभिः सर्वैः मनुष्यत्वम् प्राप्तमस्ति । महापुरुषसंश्रयः अपि जगद्गुरूणां सान्निध्येन सम्प्राप्तम् । जगद्गुरवः साक्षात् भगवत्स्वरूपाः इत्यतः तदीयानुग्रहेणैव मुमुक्षुत्वमपि अवश्यं प्राप्स्यामः । मनवजीवनस्य परमं लक्ष्यं भवति मोक्षः यच्च परमपुरुषार्थ इत्युच्यते ।

“मुक्तिर्नो शतकोटिजन्मसुकृतैः पुण्यैविना लभ्यते ॥“ इति भगवत्पादाः विवेकचूडामणौ कथयन्ति ।

 तच्च प्राप्तुं आदौ मुमुक्षुत्वं तु अपेक्ष्यते । एतन्मुमुक्षुत्वम् जगद्गुरवः अस्मभ्यम् अत्र अनुग्रहीष्यन्ति ।

तच्च मुमुक्षुत्वं भक्त्या एव प्राप्यते । तूष्णीम् अत्र स्थित्वा लौकिकेषु विषयेषु आत्मानं प्रवर्तयन्ति चेत् न ।

“मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी ॥“ इत्युक्तं भगवत्पादैः ।

अतः वयमद्य जगद्गुरुचरणारविन्देषु भक्तिं समर्पयामाः मया रचितेन अनेन पद्येन

अतः

कुतो न स्मरामस्तदीयानुकम्पाम्

कुतो न स्मरामो ह्युपदेशसारम् ।

कुतो न स्मरामः तत्पुण्यवक्त्रम्

कुतो न स्मरामस्तदीयाङ्ग्घ्रिपद्मम् ॥

शृङ्गेरीश्रीशारदापीठस्य साम्प्रतमपि वैश्विकस्तरे बह्वेव महत्वमस्ति । यतो हि धर्मस्य संरक्षणाय प्रतिष्ठापितेषु चतुर्षु आम्नायपीठेषु सनातनधर्मस्य समुद्धर्तारः भगवत्पादाः आदिशङ्कराचार्याः ऐदम्प्राथम्येन शृङेरीश्रीशारदापीठं प्रतिष्ठापितवन्तः यत्र च यत्र वादे पराजितान् मीमांसकमूर्धन्यान् मण्डनमिश्रान् सुरेश्वराचार्य इति नाम्ना प्रथमपीठाधीश्वरत्वेन नियोजयामासुः ।

तदानीमारभ्य अद्यावधि अस्मिन् दक्षिणाम्नाय शारदापीठे आसीनाः सर्वेऽपि पीठाधिपतयः सनातनधर्मस्य सत्वस्य स्वत्वस्य च परिरक्षणे अत्यन्तं महत्वपूर्णं पात्रम् आवहन् । अस्य पीठस्य विषये -

The integrity and credibility of Sringeri Peetham remain uncompromised.  इति Battle for Sanskrit इत्याख्ये ग्रन्थे राजीवमल्होत्रवर्यः कथयति ।

अत एव शॄङ्गेरीपीठस्य जगद्गुरूणाम् अनुग्रहेणैव प्रधानमन्त्री केदारनाथे आदिशङ्कराचार्याणां दिव्यविग्रहं प्रतिष्ठापितवान् । जगद्गुरूणामेव आशीर्भिः पाकिस्तानेन आक्रान्तस्य काश्मीरस्य तितवालाख्ये प्रदेशे श्रीशारदादेव्याः भव्यं मन्दिरं निर्मितम् । राममन्दिरस्य निर्माणाय अपि जगद्गुरूणाम् आशिषः प्रधानमन्त्रिणा सम्प्राप्ताः ।

यतो हि ”The integrity and credibility of  Sringeri Peetham remain uncompromised” इति समग्रं जगदवगच्छति ।  The act, the profound knowledge and preaches of the great seers of Sringeri Sharadapeetham Jagadguru his holiness shri shri Bharatiteertha mahaswamiji and his holiness sri sri vidhushekhara mahaswamiji are highly unprecedented.

जगद्गुरूणाम् अस्मत्परिसरविषये दिव्यानुग्रहः अस्त्येव । वयं निश्चयेन भाग्यवन्तः यत् जगद्गुरूणामेव कारणात् अयं परिसरः प्रतिष्ठापितः । जगद्गुरुभिरेव परिसराय १० एकर परिमिता मठीया भूमिः प्रदत्ता । जगद्गुरुभिरेव अस्मत्परिसरस्य छात्रेभ्येः शारदाप्रसादः (माध्याह्निकं भोजनम्) अनुगृहीतः । वर्षे द्विवारं अस्माकं परिसरीयकार्यमे भागं गृहीत्वा अस्मान् अनुगृह्णन्ति । श्रीमठपक्षतः जगद्गुरुभिः एतावत् अनुगृह्यते चेदपि परिसरस्य आन्तरिकविषयेषु/प्रशासनविषये कदापि चञ्चुप्रवेशं न कुर्वन्ति । दूरादेव अनुगृह्णन्ति । छात्रान् अध्यापकान् च सत्पथगामिनः कर्तुं आशिषा अनुगृह्णन्ति । सम्प्रति जगद्गुरवः अनन्तश्रीविभूषिताः श्री श्री विधुशेखरभारतीमहास्वामिनः अत्र समागताः सन्ति । तेषां विषये अहमिदं पद्यं विरच्य तदीयचरणकमलेषु समर्पयामि -

भक्तानुद्धरते चिकीर्षति सदा तत्कृच्छ्रनिर्मूलनम्

लोकानां सुखसम्पदः सुचरितैः संवर्धयन् शोभते ।

राष्ट्रे जगरयन् सनातनसुखे सम्प्रेरयन् वर्तितुम्

विश्वेशो विधुशेखरो विजयतात् विश्वस्य कल्याणकृत् ॥

स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ ।

मामुद्धरात्मीयकटाक्षदृष्ट्या  ऋज्वातिकारुण्यसुधाभिवृष्ट्या ॥ यतो हि

मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् । इति वयमुपदिष्टाः ।

अभ्यागतानां प्रो.         मम पद्यम् –