6. Captain गुरुबचनसिंह सलारिया
Captain गुरुबचनसिंहः इदानीन्तनस्य पाकिस्थानस्य
नरोवलमण्डलस्य शकरघरनगरे १९३५ तमे
वर्षे नवम्बरमासस्य २९ तमे दिनाङ्के जन्म
प्राप्नोत् । सः (१९४६ तमे वर्षे) King Georges Royal Indian
Military Collage Banglore इत्यस्य National Defence Academy इत्यस्य च छात्रचरः आसीत् ।
सः गूर्खारैफल्स् इत्याख्ये सेनाङ्गे क्याप्टन् इति पदे १९५७ तमे वर्षे नियुक्तः आसीत् ।
१९६१तमे वर्षे
दिसम्बरमासस्य पञ्चमे दिनाङ्के संयुक्तराष्ट्रसंघस्य शान्तिसंरक्षकदले स्थित्वा
षोडशसैनिकैः सह गुरुबचनसिंहः
काङ्गोगणराज्यस्य State of Katenga इत्यत्र एलिजबेत् विले इत्यस्य विमाननिस्थानस्य
गमनमार्गे प्रत्येकतावादिनां समूहेन कृतं मार्गावरोधकं उन्मूलयेत् इति आदेशः एतस्य
कृते आसीत् ।
प्रत्येकतावादिनः
यानद्वये उपशतं सैनिकाः आसन् ।
विमाननिस्थाने गमनाय विद्यमानस्य प्रधानमार्गस्य मोचनात् पूर्वं उपमार्गः प्रत्येकतावादिभ्यः मोचनीयः इति
विचिन्त्य गुरुबचनसिंहः राकेट्-लाञ्चर्-माध्यमेन तदुपरि आक्रमणं कर्तुं आरब्धवान् । यदा आरम्भे प्रत्येकतावादिनः एतस्य
आक्रमणात् सन्दिग्धताम् अनुभूय तदीयदलस्य पुनःसङ्घटनाय प्रवृत्ताः तदा एव “अयं
सुसमयः” इति विचिन्त्य गुरुबचनसिंहस्य दलेन गोलिकावर्षणमेव कृतम् । अनेन ४०
संख्याकाः प्रत्येकतावादिनः मृताः ।
अवशिष्टाः भीत्या एव पलायनं कृतवन्तः । किन्तु अन्तिमसमये शत्रूणां गोलिकाद्वयं गुरुबचनस्य ग्रीवायां
प्रविष्टमित्यतः अन्ते सः वीरमरणम् अवाप्नोत् । तदानीं तस्य वयः आसीत् २६ वर्षाणि
।
प्रधानमन्त्री
नरेन्द्रमोदीवर्यः २०१७ तमे वर्षे अक्टोबरमासे
“मन की बात” इति कार्यक्रमे तस्य त्यागं बलिदानं च कार्तज्ञ्येन
संस्मृतवात् ।
१९६१तमे वर्षे
काङ्गोगणराज्यं प्रति तदानीन्तनेन
नेहरूसर्वकारेण संयुक्तराष्ट्रसङ्घस्य शान्तिसंरक्षकदले १ब्रिगेड् परिमितं
सैन्यं इत्युक्ते चतुस्सहस्रं सैनिकाः
प्रेषिताः आसन् । किन्तु तेनैव नेहरूसर्वकारेण
चैनादेशीयेभ्यः अस्माकं देशस्य संरक्षणाय भारतीयसैन्येन असकृत् प्रार्थितं
चेदपि पूर्णरूपेण एकं ब्रिगेड् परिमितम्
अपि सैन्यं युद्धार्थं प्रेषयितुम्
अनुमतिः न दत्ता असीत् । सैन्याय अत्यन्तं प्राथमिकं सौविध्यमपि कल्पयितुं सिद्धः
नासीत् नेहरूसर्वकारः । संयुक्तराष्ट्रसंघस्य सुरक्षासमितेः सदस्यत्वं प्राप्यमाणमपि निराकृत्य शत्रवे चीनदेशाय तत्
दापयितुं प्रवृत्तः आसीत् नेहरू । निष्प्रयोजके संयुक्तराष्ट्रसङ्घस्य
शान्तिसंरक्षकदले १ब्रिगेड् परिमितं सैन्यं प्रेषयित्वा स्वदेशस्य
आपदः(चैना-आक्रमणकाले) काले विदेशेषु भ्रमणं कुर्वन्नासीत् गान्धीप्रियः देशस्य
प्रथमप्रधानमन्त्री, अस्य देशस्य कल्याणाय कीदृशीं सन्ततिपरम्पराम् उत्पादयेत् ?
कति गुरुबचनसिंहाः स्वप्राणान् वृथा परित्यजेयुः ?