Monday, October 25, 2021

6. Captain गुरुबचनसिंह सलारिया

 

6. Captain  गुरुबचनसिंह सलारिया

Captain  गुरुबचनसिंहः इदानीन्तनस्य  पाकिस्थानस्य  नरोवलमण्डलस्य  शकरघरनगरे १९३५ तमे वर्षे  नवम्बरमासस्य २९ तमे दिनाङ्के जन्म प्राप्नोत् । सः (१९४६ तमे वर्षे)  King Georges Royal Indian Military Collage Banglore इत्यस्य National Defence Academy इत्यस्य च छात्रचरः आसीत् ।

 सः गूर्खारैफल्स् इत्याख्ये सेनाङ्गे  क्याप्टन् इति पदे  १९५७ तमे वर्षे नियुक्तः आसीत् ।

१९६१तमे वर्षे दिसम्बरमासस्य पञ्चमे दिनाङ्के संयुक्तराष्ट्रसंघस्य शान्तिसंरक्षकदले  स्थित्वा  षोडशसैनिकैः सह  गुरुबचनसिंहः काङ्गोगणराज्यस्य  State of Katenga  इत्यत्र एलिजबेत् विले इत्यस्य विमाननिस्थानस्य गमनमार्गे प्रत्येकतावादिनां समूहेन कृतं मार्गावरोधकं उन्मूलयेत् इति आदेशः एतस्य कृते आसीत् ।

प्रत्येकतावादिनः यानद्वये उपशतं सैनिकाः आसन् ।  विमाननिस्थाने गमनाय विद्यमानस्य प्रधानमार्गस्य  मोचनात् पूर्वं  उपमार्गः प्रत्येकतावादिभ्यः मोचनीयः इति विचिन्त्य गुरुबचनसिंहः राकेट्-लाञ्चर्-माध्यमेन तदुपरि आक्रमणं कर्तुं  आरब्धवान् । यदा आरम्भे प्रत्येकतावादिनः एतस्य आक्रमणात्  सन्दिग्धताम् अनुभूय  तदीयदलस्य पुनःसङ्घटनाय प्रवृत्ताः तदा एव “अयं सुसमयः” इति विचिन्त्य गुरुबचनसिंहस्य दलेन गोलिकावर्षणमेव कृतम् । अनेन ४० संख्याकाः प्रत्येकतावादिनः मृताः ।  अवशिष्टाः भीत्या एव पलायनं कृतवन्तः । किन्तु अन्तिमसमये  शत्रूणां गोलिकाद्वयं गुरुबचनस्य ग्रीवायां प्रविष्टमित्यतः अन्ते सः वीरमरणम् अवाप्नोत् । तदानीं तस्य वयः आसीत् २६ वर्षाणि ।

प्रधानमन्त्री नरेन्द्रमोदीवर्यः २०१७ तमे वर्षे अक्टोबरमासे  “मन की बात”  इति कार्यक्रमे  तस्य त्यागं बलिदानं च कार्तज्ञ्येन संस्मृतवात् ।

१९६१तमे वर्षे काङ्गोगणराज्यं प्रति  तदानीन्तनेन नेहरूसर्वकारेण संयुक्तराष्ट्रसङ्घस्य शान्तिसंरक्षकदले १ब्रिगेड् परिमितं सैन्यं  इत्युक्ते चतुस्सहस्रं सैनिकाः प्रेषिताः आसन् । किन्तु तेनैव नेहरूसर्वकारेण  चैनादेशीयेभ्यः अस्माकं देशस्य संरक्षणाय भारतीयसैन्येन असकृत् प्रार्थितं चेदपि  पूर्णरूपेण एकं ब्रिगेड् परिमितम् अपि सैन्यं  युद्धार्थं प्रेषयितुम् अनुमतिः न दत्ता असीत् । सैन्याय अत्यन्तं प्राथमिकं सौविध्यमपि कल्पयितुं सिद्धः नासीत् नेहरूसर्वकारः । संयुक्तराष्ट्रसंघस्य सुरक्षासमितेः सदस्यत्वं  प्राप्यमाणमपि निराकृत्य शत्रवे चीनदेशाय तत् दापयितुं प्रवृत्तः आसीत् नेहरू । निष्प्रयोजके संयुक्तराष्ट्रसङ्घस्य शान्तिसंरक्षकदले १ब्रिगेड् परिमितं सैन्यं प्रेषयित्वा स्वदेशस्य आपदः(चैना-आक्रमणकाले) काले विदेशेषु भ्रमणं कुर्वन्नासीत् गान्धीप्रियः देशस्य प्रथमप्रधानमन्त्री, अस्य देशस्य कल्याणाय कीदृशीं सन्ततिपरम्पराम् उत्पादयेत् ? कति गुरुबचनसिंहाः स्वप्राणान् वृथा परित्यजेयुः ?

 

5 Captain करम सिंहः Lance Nayak

 

क्याप्टन् करमसिंहः Lance Nayak

 

पञ्जाबराज्यस्य बर्नाला इत्याख्यस्य मण्डलस्य सेहनाख्ये ग्रामे १९१५ तमे वर्षे सेप्टम्बरमासस्य १५ दिनाङ्के एकस्मिन् कृषकपरिवारे Lance Nayak करमसिंहः जन्म प्राप्तवान् । शारीरिकरूपेण अत्यन्तं सुदृढः करमसिंहः कबड्डीसदृशीषु क्रीडासु अत्यन्तं कुशलो भूत्वा निकटवर्तिषु ग्रामेषु  अपि प्रसिद्धो जातः आसीत् ।

अन्याय्यं कदापि असहमानः एषः एकदा ग्रामे  अन्येन कृषकेण सह वाग्युद्धं कुर्वन् तं मारयितुमपि उद्युक्तः आसीत् । पश्चात् प्रतिवेशिनः विषये  स्वस्य क्रोधस्य प्रदर्शनापेक्षया देशस्य शत्रूणाम् उपरि कोपस्य प्रदर्शनं श्रेयसे भवेत् इति विचिन्त्य भारतीयसैन्यं प्रविष्टवान् ।

तस्य मातुलः सैन्ये सेवां कृतवान् आसीत् इत्यतः करमसिंहस्य सैन्ये प्रवेशः सुकरः अभवत् । १९४१ तमे वर्षे सः भारतीयसैन्यं प्रविष्टवान् । तत्र वर्षद्वयस्य प्रशिक्षणात्परं सः बर्मायुद्धे जपानीसैनिकान् विरुध्य युद्धं कर्तुम् अवसरं प्राप्तवान् । तत्र जपानीसैनिकैः बद्धः, पश्चात्  अत्यन्तं चातुर्येण तदीयानेव सैनिकान् हत्वा एकस्य जापानीसैनिकस्य पृष्ठमारुह्य  स्वसैनिककेन्द्रपर्यन्तं प्रापयितुं तं निर्बद्धमकरोत् (विवशमकरोत्)। तस्य तादृशाय कौशलाय आङ्ग्लसर्वकारेण विशिष्टः सैनिकपुरस्कारः प्रदत्तः ।

१९४८ तमे वर्षे आगष्टमासस्य त्रयोदशे दिनाङ्के काश्मीरस्य टिट्वाल् इत्यस्मिन् ग्रामे  रिचमरगली इत्यत्र  भारतीयसैन्यस्य सैनिकगणस्य नेतृत्वम् ऊढ्वा  पाकिस्थानीयैः शत्रुभिः सह युद्धं कृतवान् ।  शत्रवः मोर्टर इत्यस्याः भीमभुषुण्डिकायाः  माध्यमेन  ग्रेनेड् इत्यस्य च विस्फोटकस्य माध्यमेन आक्रमणम् अव्याहतरूपेण/निरन्तरं कुर्वन्ति स्म । एकस्मिन् एव दिने अष्टवारं शत्रुभिः  आक्रमणं विहितम् ।

करमसिंहः तस्मिन् युद्धे स्वयं अत्यन्तं  व्रणितः चेदपि, स्वगणस्य बहवो हि सैनिकाः  वीरगतिं प्राप्तवन्तः चेदपि  इतस्ततः स्वीयेषु बङ्कर् इत्याख्येषु  आक्रमणकेन्द्रेषु गमनागमनं कुर्वन् व्रणितानां सैनिकानां प्रथमचिकित्सां दत्वा, अवशिष्टान् सैनिकान् युद्धार्थं प्रेरयति स्म । शत्रूणां संख्या अत्यन्तं वर्धमाना अस्ति इति ज्ञात्वा, स्वगणीयाः सैनिकाः बहवः वीरगतिं प्राप्तवन्तः इति च ज्ञात्वा, इतोऽप्यधिकान् सैनिकान् साहाय्यार्थं (Reinforcement) प्रेषयन्तु इति उच्चाधिकारिणां निकटे करमसिंहः सन्देशं प्रेषितवान् ।  किन्तु ततः  “किमपि साहाय्यं सद्यः कर्तुं न शक्यते । अतः युधक्षेत्रात् प्रत्यागम्यताम्” इति आदेशः प्राप्तः ।

किन्तु करमसिंहः अत्यन्तं व्रणीतश्चेदपि प्रत्यागन्तुं सिद्धः नासीत् । तस्य एकः बाहुः पूर्णरूपेण शीर्णः आसीत् । वेदनां असहमानः सः  तन्निवृत्यर्थं स्वयमेव सूच्यौषधं स्वीकृत्य अन्यतरेण हस्तेन  एकां भुषुण्डिकां स्वीकृत्य पादेनापि रज्वाः साहाय्येन  अपरां भुषुण्डिकां प्रयोक्तुम् आरभत । अन्ततो गत्वा शत्रवः भीत्या पलायिताः अभवन् ।

करमसिंहः स्वस्य अप्रतिमसाहसस्य  शौर्यस्य च निमित्तं  भारतस्य अत्युच्चं सैनिकपुरस्कारं  परमवीरचक्रं प्राप्तवान् । एषः स्वतन्त्रभारते द्वितीयः सैनिकः जीवितः सन्नेव परमवीरचक्रेण सम्मानितः अस्ति । १९६९ तमे वर्षे  एषः भारतीयसैन्यात् निवृत्तः अभवत् । बर्नालामण्डलस्य स्वग्रामे  १९९३ तमे वर्षे  जनवरीमासस्य  २० तमे दिनाङ्के एषः पञ्चत्वं गतः ।

 

Saturday, October 2, 2021

४. हविल्दारः पीरुसिंह शेखावतः

 

४. हविल्दारः पीरुसिंह शेखावतः

अयं परमवीरः १९१८ तमे वर्षे राजस्थानस्य  जुनजुनुजिल्लायाः बेरी इत्यस्मिन् ग्रामे एकस्मिन् कृषकपरिवारे जन्म प्राप्तवान् । एतस्य चतस्रः भगिन्यः त्रयः भ्रातरः च आसन् । एषः सर्वापेक्षया कनीयान् आसीत् ।  अध्ययने एतस्य रुचिः न्यूना आसीत् । एषः पित्रा सह कृषिकार्यं कर्तुं बहु इच्छति स्म ।  अत्यन्तं पुष्टकायः उन्नतः आजानुबाहुः  एषः पञ्चदशे एव वयसि सैन्ये प्रवेष्टुम् इच्छति स्म ।  किन्तु एतस्य अष्टादशे वयसि  सैन्ये चयनम् अभवत् । एतस्य नियुक्तिः Panjab Regiment इत्यस्य 5th Battalion   इत्यस्मिन्  सेनाङ्गे जाता ।

शरीरसौष्टवं सम्यग् आसीत् इत्यतः  एषः क्रीडायाम् अपि अत्यन्तं निपुणः आसीत् । हाकी बास्केट बाल इत्येतादृशीषु क्रीडासु अत्यन्तं नैपुण्यं एतस्य आसीत् इत्यतः Inter-regimental Tournament मध्ये एष एव सदा एतस्य गणस्य नायकः भवति स्म । एतस्य ईदृशं नेतृत्वगुणम् अवलोक्य एतस्य कृते उद्योगे वेगेन प्रोन्नतिः मिलति स्म ।

१९४८ तमे वर्षे जुलैमासस्य   १८ दिनाङ्के काश्मीरस्य तिथवाल इत्यत्र  पाकिस्थानीयैः शत्रुभिः आक्रान्तस्य एकस्य पर्वतस्य  वशीकरणस्य उत्तरदायित्वम् एतस्मै सैन्येन प्रदत्तम् । शत्रुः पर्वताग्रे सर्वसन्नद्धः आसीत् । पीरुसिंहस्य सैनिकगणः पर्वतारोहणं कर्तुम् आरभत । तस्य गणस्य उपरि गोलिकावर्षमेव अभवत् । अपि च अव्याहतरूपेण ग्रेनेड् इत्याख्यानि विस्फोटकानि एतेषामुपरि क्षिप्तानि । एतस्य गणार्धं तु तत्रैव धराशायि अभवत् । अवशिष्टान् सैनिकान् सङ्घटय्य सम्प्रेर्य च पीरुसिंहः शत्रूणाम् उपरि  आक्रमणं कृत्वा  तेषां बङ्कर् इत्यभिधं  आक्रमणकेन्द्रद्वयं ध्वंसीकृतवान्  । तावता तस्य गणे तदतिरिक्तः कोऽपि सैनिकः न अवशिष्टः आसीत् ।  सः एकाकी चेदपि  पुनः शत्रोः उपरि आक्रमणं कर्तुं प्रवृत्तः अभवत् ।  तदा शत्रुभिः क्षिप्तम्  एकं विस्फोटकं(ग्रेनेड्)  तस्य मुखस्य पार्श्वे एव विस्फोटितमभवत् । तस्य मुखे  अत्यधिकः व्रणः जातः । तस्य मुखात् धाराप्रवाहितया रक्तं स्रवति स्म । रक्तप्रवाहकारणात्  सः नेत्राभ्यां शत्रुसमूहमपि स्पष्टतया अभिज्ञातुं कष्टम् अनुभवति स्म । तथापि सः युद्धात् विमुखो न जातः । निरन्तरं युद्धं कृत्वा शत्रोरायतनं ध्वंसीकृत्य एव वीरस्वर्गं प्राप्नोत् ।

पीरुसिंहस्य एतादृशम् अद्भुतं  पराक्रमम् अवलोक्य तस्मै सर्वोच्चं युद्धपुरस्कारं मरणोत्तरं परमवीरचक्रं  १९५० तमे वर्षे भारतसर्वकारः प्रायच्छत् ।