Monday, October 25, 2021

5 Captain करम सिंहः Lance Nayak

 

क्याप्टन् करमसिंहः Lance Nayak

 

पञ्जाबराज्यस्य बर्नाला इत्याख्यस्य मण्डलस्य सेहनाख्ये ग्रामे १९१५ तमे वर्षे सेप्टम्बरमासस्य १५ दिनाङ्के एकस्मिन् कृषकपरिवारे Lance Nayak करमसिंहः जन्म प्राप्तवान् । शारीरिकरूपेण अत्यन्तं सुदृढः करमसिंहः कबड्डीसदृशीषु क्रीडासु अत्यन्तं कुशलो भूत्वा निकटवर्तिषु ग्रामेषु  अपि प्रसिद्धो जातः आसीत् ।

अन्याय्यं कदापि असहमानः एषः एकदा ग्रामे  अन्येन कृषकेण सह वाग्युद्धं कुर्वन् तं मारयितुमपि उद्युक्तः आसीत् । पश्चात् प्रतिवेशिनः विषये  स्वस्य क्रोधस्य प्रदर्शनापेक्षया देशस्य शत्रूणाम् उपरि कोपस्य प्रदर्शनं श्रेयसे भवेत् इति विचिन्त्य भारतीयसैन्यं प्रविष्टवान् ।

तस्य मातुलः सैन्ये सेवां कृतवान् आसीत् इत्यतः करमसिंहस्य सैन्ये प्रवेशः सुकरः अभवत् । १९४१ तमे वर्षे सः भारतीयसैन्यं प्रविष्टवान् । तत्र वर्षद्वयस्य प्रशिक्षणात्परं सः बर्मायुद्धे जपानीसैनिकान् विरुध्य युद्धं कर्तुम् अवसरं प्राप्तवान् । तत्र जपानीसैनिकैः बद्धः, पश्चात्  अत्यन्तं चातुर्येण तदीयानेव सैनिकान् हत्वा एकस्य जापानीसैनिकस्य पृष्ठमारुह्य  स्वसैनिककेन्द्रपर्यन्तं प्रापयितुं तं निर्बद्धमकरोत् (विवशमकरोत्)। तस्य तादृशाय कौशलाय आङ्ग्लसर्वकारेण विशिष्टः सैनिकपुरस्कारः प्रदत्तः ।

१९४८ तमे वर्षे आगष्टमासस्य त्रयोदशे दिनाङ्के काश्मीरस्य टिट्वाल् इत्यस्मिन् ग्रामे  रिचमरगली इत्यत्र  भारतीयसैन्यस्य सैनिकगणस्य नेतृत्वम् ऊढ्वा  पाकिस्थानीयैः शत्रुभिः सह युद्धं कृतवान् ।  शत्रवः मोर्टर इत्यस्याः भीमभुषुण्डिकायाः  माध्यमेन  ग्रेनेड् इत्यस्य च विस्फोटकस्य माध्यमेन आक्रमणम् अव्याहतरूपेण/निरन्तरं कुर्वन्ति स्म । एकस्मिन् एव दिने अष्टवारं शत्रुभिः  आक्रमणं विहितम् ।

करमसिंहः तस्मिन् युद्धे स्वयं अत्यन्तं  व्रणितः चेदपि, स्वगणस्य बहवो हि सैनिकाः  वीरगतिं प्राप्तवन्तः चेदपि  इतस्ततः स्वीयेषु बङ्कर् इत्याख्येषु  आक्रमणकेन्द्रेषु गमनागमनं कुर्वन् व्रणितानां सैनिकानां प्रथमचिकित्सां दत्वा, अवशिष्टान् सैनिकान् युद्धार्थं प्रेरयति स्म । शत्रूणां संख्या अत्यन्तं वर्धमाना अस्ति इति ज्ञात्वा, स्वगणीयाः सैनिकाः बहवः वीरगतिं प्राप्तवन्तः इति च ज्ञात्वा, इतोऽप्यधिकान् सैनिकान् साहाय्यार्थं (Reinforcement) प्रेषयन्तु इति उच्चाधिकारिणां निकटे करमसिंहः सन्देशं प्रेषितवान् ।  किन्तु ततः  “किमपि साहाय्यं सद्यः कर्तुं न शक्यते । अतः युधक्षेत्रात् प्रत्यागम्यताम्” इति आदेशः प्राप्तः ।

किन्तु करमसिंहः अत्यन्तं व्रणीतश्चेदपि प्रत्यागन्तुं सिद्धः नासीत् । तस्य एकः बाहुः पूर्णरूपेण शीर्णः आसीत् । वेदनां असहमानः सः  तन्निवृत्यर्थं स्वयमेव सूच्यौषधं स्वीकृत्य अन्यतरेण हस्तेन  एकां भुषुण्डिकां स्वीकृत्य पादेनापि रज्वाः साहाय्येन  अपरां भुषुण्डिकां प्रयोक्तुम् आरभत । अन्ततो गत्वा शत्रवः भीत्या पलायिताः अभवन् ।

करमसिंहः स्वस्य अप्रतिमसाहसस्य  शौर्यस्य च निमित्तं  भारतस्य अत्युच्चं सैनिकपुरस्कारं  परमवीरचक्रं प्राप्तवान् । एषः स्वतन्त्रभारते द्वितीयः सैनिकः जीवितः सन्नेव परमवीरचक्रेण सम्मानितः अस्ति । १९६९ तमे वर्षे  एषः भारतीयसैन्यात् निवृत्तः अभवत् । बर्नालामण्डलस्य स्वग्रामे  १९९३ तमे वर्षे  जनवरीमासस्य  २० तमे दिनाङ्के एषः पञ्चत्वं गतः ।

 

No comments:

Post a Comment