क्याप्टन्
करमसिंहः Lance Nayak
पञ्जाबराज्यस्य बर्नाला इत्याख्यस्य मण्डलस्य सेहनाख्ये
ग्रामे १९१५ तमे वर्षे सेप्टम्बरमासस्य १५ दिनाङ्के एकस्मिन् कृषकपरिवारे Lance
Nayak करमसिंहः जन्म प्राप्तवान् । शारीरिकरूपेण
अत्यन्तं सुदृढः करमसिंहः कबड्डीसदृशीषु क्रीडासु अत्यन्तं कुशलो भूत्वा
निकटवर्तिषु ग्रामेषु अपि प्रसिद्धो जातः
आसीत् ।
अन्याय्यं
कदापि असहमानः एषः एकदा ग्रामे अन्येन
कृषकेण सह वाग्युद्धं कुर्वन् तं मारयितुमपि उद्युक्तः आसीत् । पश्चात्
प्रतिवेशिनः विषये स्वस्य क्रोधस्य
प्रदर्शनापेक्षया देशस्य शत्रूणाम् उपरि कोपस्य प्रदर्शनं श्रेयसे भवेत् इति
विचिन्त्य भारतीयसैन्यं प्रविष्टवान् ।
तस्य मातुलः सैन्ये सेवां कृतवान् आसीत् इत्यतः
करमसिंहस्य सैन्ये प्रवेशः सुकरः अभवत् । १९४१ तमे वर्षे सः भारतीयसैन्यं
प्रविष्टवान् । तत्र वर्षद्वयस्य प्रशिक्षणात्परं सः बर्मायुद्धे जपानीसैनिकान्
विरुध्य युद्धं कर्तुम् अवसरं प्राप्तवान् । तत्र जपानीसैनिकैः बद्धः,
पश्चात् अत्यन्तं चातुर्येण तदीयानेव
सैनिकान् हत्वा एकस्य जापानीसैनिकस्य पृष्ठमारुह्य स्वसैनिककेन्द्रपर्यन्तं प्रापयितुं तं
निर्बद्धमकरोत् (विवशमकरोत्)। तस्य तादृशाय कौशलाय आङ्ग्लसर्वकारेण विशिष्टः
सैनिकपुरस्कारः प्रदत्तः ।
१९४८ तमे वर्षे आगष्टमासस्य त्रयोदशे दिनाङ्के
काश्मीरस्य टिट्वाल् इत्यस्मिन् ग्रामे
रिचमरगली इत्यत्र भारतीयसैन्यस्य
सैनिकगणस्य नेतृत्वम् ऊढ्वा पाकिस्थानीयैः
शत्रुभिः सह युद्धं कृतवान् । शत्रवः
मोर्टर इत्यस्याः भीमभुषुण्डिकायाः
माध्यमेन ग्रेनेड् इत्यस्य च
विस्फोटकस्य माध्यमेन आक्रमणम् अव्याहतरूपेण/निरन्तरं कुर्वन्ति स्म । एकस्मिन् एव
दिने अष्टवारं शत्रुभिः आक्रमणं विहितम् ।
करमसिंहः तस्मिन् युद्धे स्वयं अत्यन्तं व्रणितः चेदपि, स्वगणस्य बहवो हि सैनिकाः वीरगतिं प्राप्तवन्तः चेदपि इतस्ततः स्वीयेषु बङ्कर् इत्याख्येषु आक्रमणकेन्द्रेषु गमनागमनं कुर्वन् व्रणितानां
सैनिकानां प्रथमचिकित्सां दत्वा, अवशिष्टान् सैनिकान् युद्धार्थं प्रेरयति स्म ।
शत्रूणां संख्या अत्यन्तं वर्धमाना अस्ति इति ज्ञात्वा, स्वगणीयाः सैनिकाः बहवः
वीरगतिं प्राप्तवन्तः इति च ज्ञात्वा, इतोऽप्यधिकान् सैनिकान् साहाय्यार्थं (Reinforcement) प्रेषयन्तु इति उच्चाधिकारिणां निकटे करमसिंहः सन्देशं
प्रेषितवान् । किन्तु ततः “किमपि साहाय्यं सद्यः कर्तुं न शक्यते । अतः
युधक्षेत्रात् प्रत्यागम्यताम्” इति आदेशः प्राप्तः ।
किन्तु करमसिंहः अत्यन्तं व्रणीतश्चेदपि प्रत्यागन्तुं
सिद्धः नासीत् । तस्य एकः बाहुः पूर्णरूपेण शीर्णः आसीत् । वेदनां असहमानः सः तन्निवृत्यर्थं स्वयमेव सूच्यौषधं स्वीकृत्य
अन्यतरेण हस्तेन एकां भुषुण्डिकां
स्वीकृत्य पादेनापि रज्वाः साहाय्येन
अपरां भुषुण्डिकां प्रयोक्तुम् आरभत । अन्ततो गत्वा शत्रवः भीत्या पलायिताः
अभवन् ।
करमसिंहः स्वस्य अप्रतिमसाहसस्य शौर्यस्य च निमित्तं भारतस्य अत्युच्चं सैनिकपुरस्कारं परमवीरचक्रं प्राप्तवान् । एषः स्वतन्त्रभारते
द्वितीयः सैनिकः जीवितः सन्नेव परमवीरचक्रेण सम्मानितः अस्ति । १९६९ तमे
वर्षे एषः भारतीयसैन्यात् निवृत्तः अभवत्
। बर्नालामण्डलस्य स्वग्रामे १९९३ तमे
वर्षे जनवरीमासस्य २० तमे दिनाङ्के एषः पञ्चत्वं गतः ।
No comments:
Post a Comment