४. हविल्दारः
पीरुसिंह शेखावतः
अयं परमवीरः
१९१८ तमे वर्षे राजस्थानस्य
जुनजुनुजिल्लायाः बेरी इत्यस्मिन् ग्रामे एकस्मिन् कृषकपरिवारे जन्म
प्राप्तवान् । एतस्य चतस्रः भगिन्यः त्रयः भ्रातरः च आसन् । एषः सर्वापेक्षया
कनीयान् आसीत् । अध्ययने एतस्य रुचिः
न्यूना आसीत् । एषः पित्रा सह कृषिकार्यं कर्तुं बहु इच्छति स्म । अत्यन्तं पुष्टकायः उन्नतः आजानुबाहुः एषः पञ्चदशे एव वयसि सैन्ये प्रवेष्टुम् इच्छति
स्म । किन्तु एतस्य अष्टादशे वयसि सैन्ये चयनम् अभवत् । एतस्य नियुक्तिः Panjab Regiment इत्यस्य 5th Battalion इत्यस्मिन् सेनाङ्गे जाता ।
शरीरसौष्टवं
सम्यग् आसीत् इत्यतः एषः क्रीडायाम् अपि
अत्यन्तं निपुणः आसीत् । हाकी बास्केट बाल इत्येतादृशीषु क्रीडासु अत्यन्तं
नैपुण्यं एतस्य आसीत् इत्यतः Inter-regimental Tournament मध्ये एष एव सदा एतस्य गणस्य नायकः भवति स्म । एतस्य ईदृशं
नेतृत्वगुणम् अवलोक्य एतस्य कृते उद्योगे वेगेन प्रोन्नतिः मिलति स्म ।
१९४८ तमे वर्षे जुलैमासस्य
१८
दिनाङ्के काश्मीरस्य तिथवाल इत्यत्र
पाकिस्थानीयैः शत्रुभिः आक्रान्तस्य एकस्य पर्वतस्य वशीकरणस्य उत्तरदायित्वम् एतस्मै सैन्येन
प्रदत्तम् । शत्रुः पर्वताग्रे सर्वसन्नद्धः आसीत् । पीरुसिंहस्य सैनिकगणः
पर्वतारोहणं कर्तुम् आरभत । तस्य गणस्य उपरि गोलिकावर्षमेव अभवत् । अपि च
अव्याहतरूपेण ग्रेनेड् इत्याख्यानि विस्फोटकानि एतेषामुपरि क्षिप्तानि । एतस्य
गणार्धं तु तत्रैव धराशायि अभवत् । अवशिष्टान् सैनिकान् सङ्घटय्य सम्प्रेर्य च
पीरुसिंहः शत्रूणाम् उपरि आक्रमणं
कृत्वा तेषां बङ्कर् इत्यभिधं आक्रमणकेन्द्रद्वयं ध्वंसीकृतवान् । तावता तस्य गणे तदतिरिक्तः कोऽपि सैनिकः न
अवशिष्टः आसीत् । सः एकाकी चेदपि पुनः शत्रोः उपरि आक्रमणं कर्तुं प्रवृत्तः
अभवत् । तदा शत्रुभिः क्षिप्तम् एकं विस्फोटकं(ग्रेनेड्) तस्य मुखस्य पार्श्वे एव विस्फोटितमभवत् । तस्य
मुखे अत्यधिकः व्रणः जातः । तस्य मुखात्
धाराप्रवाहितया रक्तं स्रवति स्म । रक्तप्रवाहकारणात् सः नेत्राभ्यां शत्रुसमूहमपि स्पष्टतया
अभिज्ञातुं कष्टम् अनुभवति स्म । तथापि सः युद्धात् विमुखो न जातः । निरन्तरं
युद्धं कृत्वा शत्रोरायतनं ध्वंसीकृत्य एव वीरस्वर्गं प्राप्नोत् ।
पीरुसिंहस्य एतादृशम्
अद्भुतं पराक्रमम् अवलोक्य तस्मै
सर्वोच्चं युद्धपुरस्कारं मरणोत्तरं परमवीरचक्रं
१९५० तमे वर्षे भारतसर्वकारः प्रायच्छत् ।
No comments:
Post a Comment