Saturday, October 2, 2021

४. हविल्दारः पीरुसिंह शेखावतः

 

४. हविल्दारः पीरुसिंह शेखावतः

अयं परमवीरः १९१८ तमे वर्षे राजस्थानस्य  जुनजुनुजिल्लायाः बेरी इत्यस्मिन् ग्रामे एकस्मिन् कृषकपरिवारे जन्म प्राप्तवान् । एतस्य चतस्रः भगिन्यः त्रयः भ्रातरः च आसन् । एषः सर्वापेक्षया कनीयान् आसीत् ।  अध्ययने एतस्य रुचिः न्यूना आसीत् । एषः पित्रा सह कृषिकार्यं कर्तुं बहु इच्छति स्म ।  अत्यन्तं पुष्टकायः उन्नतः आजानुबाहुः  एषः पञ्चदशे एव वयसि सैन्ये प्रवेष्टुम् इच्छति स्म ।  किन्तु एतस्य अष्टादशे वयसि  सैन्ये चयनम् अभवत् । एतस्य नियुक्तिः Panjab Regiment इत्यस्य 5th Battalion   इत्यस्मिन्  सेनाङ्गे जाता ।

शरीरसौष्टवं सम्यग् आसीत् इत्यतः  एषः क्रीडायाम् अपि अत्यन्तं निपुणः आसीत् । हाकी बास्केट बाल इत्येतादृशीषु क्रीडासु अत्यन्तं नैपुण्यं एतस्य आसीत् इत्यतः Inter-regimental Tournament मध्ये एष एव सदा एतस्य गणस्य नायकः भवति स्म । एतस्य ईदृशं नेतृत्वगुणम् अवलोक्य एतस्य कृते उद्योगे वेगेन प्रोन्नतिः मिलति स्म ।

१९४८ तमे वर्षे जुलैमासस्य   १८ दिनाङ्के काश्मीरस्य तिथवाल इत्यत्र  पाकिस्थानीयैः शत्रुभिः आक्रान्तस्य एकस्य पर्वतस्य  वशीकरणस्य उत्तरदायित्वम् एतस्मै सैन्येन प्रदत्तम् । शत्रुः पर्वताग्रे सर्वसन्नद्धः आसीत् । पीरुसिंहस्य सैनिकगणः पर्वतारोहणं कर्तुम् आरभत । तस्य गणस्य उपरि गोलिकावर्षमेव अभवत् । अपि च अव्याहतरूपेण ग्रेनेड् इत्याख्यानि विस्फोटकानि एतेषामुपरि क्षिप्तानि । एतस्य गणार्धं तु तत्रैव धराशायि अभवत् । अवशिष्टान् सैनिकान् सङ्घटय्य सम्प्रेर्य च पीरुसिंहः शत्रूणाम् उपरि  आक्रमणं कृत्वा  तेषां बङ्कर् इत्यभिधं  आक्रमणकेन्द्रद्वयं ध्वंसीकृतवान्  । तावता तस्य गणे तदतिरिक्तः कोऽपि सैनिकः न अवशिष्टः आसीत् ।  सः एकाकी चेदपि  पुनः शत्रोः उपरि आक्रमणं कर्तुं प्रवृत्तः अभवत् ।  तदा शत्रुभिः क्षिप्तम्  एकं विस्फोटकं(ग्रेनेड्)  तस्य मुखस्य पार्श्वे एव विस्फोटितमभवत् । तस्य मुखे  अत्यधिकः व्रणः जातः । तस्य मुखात् धाराप्रवाहितया रक्तं स्रवति स्म । रक्तप्रवाहकारणात्  सः नेत्राभ्यां शत्रुसमूहमपि स्पष्टतया अभिज्ञातुं कष्टम् अनुभवति स्म । तथापि सः युद्धात् विमुखो न जातः । निरन्तरं युद्धं कृत्वा शत्रोरायतनं ध्वंसीकृत्य एव वीरस्वर्गं प्राप्नोत् ।

पीरुसिंहस्य एतादृशम् अद्भुतं  पराक्रमम् अवलोक्य तस्मै सर्वोच्चं युद्धपुरस्कारं मरणोत्तरं परमवीरचक्रं  १९५० तमे वर्षे भारतसर्वकारः प्रायच्छत् ।

No comments:

Post a Comment