Tuesday, September 30, 2025

रामं वनात् अयोध्यां नेतुम् उपयुक्तः अन्तिमोपायः (अयोध्याकाण्डस्य १०८-१०९ अध्याययोः माहात्म्यम्) Article sent to YS Ramesh Abhinandana Grantha

 

प्रो. हरिप्रसादः के.

केन्द्रीयसंस्कृतविश्वविद्यालयः

भारतीतीर्थशास्त्रसमुत्कर्षकेन्द्रम्

राजीवगान्धीपरिसरः शृङ्गेरी

रामं वनात् अयोध्यां नेतुम् उपयुक्तः अन्तिमोपायः

(अयोध्याकाण्डस्य १०८-१०९ अध्याययोः माहात्म्यम्)

 

भगवान् श्रीरामचन्द्रः पितृवाक्यपरिपालनाय वनवासार्थं गतः किल ।  तत्र भरतः अयोध्यावासिभिः सह रामम् अयोध्यां प्रति नेतुम् आगतः, विविधैः प्रकारैः तस्य अनुनयादिकं कृत्वा विफलः सञ्जातः । तदा जाबालिरित्याख्यः ब्राह्मणोत्तमः रामम् अयोध्यां गमयितुं चित्ताकर्षकाणि यानि वाक्यानि उक्तवान्, तेषां निराकरणपुरस्सरं रामः समाधानं च यदुक्तवान् स एव विषयः अत्र निरूप्यते –

रामः अयोध्यां प्रति गमनाय भरतेन कृतां प्रार्थनां निराकृतवान् । सः पित्रा कैकेय्यै दत्तं वरं निरर्थकं कर्तुं न शक्तवान् । अतः वनवासार्थं कर्तव्यबुद्ध्या प्रस्थितः आसीत् । समग्रा अयोध्या रामस्य यौवराज्यं वैभवेन सन्द्रष्टुम् आत्मानं सज्जीकृतवती आसीत् । स्वयं रामः तु पद्मपत्रमिवाम्भसा स्थितःप्रज्ञः इव, सुखेषु विगतस्पृहः इव च अतिष्टत् । तथैव पित्रा कैकेय्यै प्रदत्तस्य वरस्य विषये ज्ञात्वा दुःखेष्वनुद्विग्नमनाः इव वनं प्रातिष्ठत । एतादृशस्य सुधार्मिकस्य जनस्य साक्षात् अनुजः भरतः भक्त्या प्रेम्णा च अनुनयं कृतवान् चेदपि तदीयः निर्णयः शिथिलयितुं शक्यः नाभवत् । अतः पश्चात् धर्मबन्धात् बहिरानीय प्रापञ्चिकसुखप्राप्तिः राज्ञा धर्ममार्गाविरोधेन कथं प्राप्तुं शक्यते इति अवगमयितुं प्रलोभनस्य मार्गः आश्रितः । कश्चन जाबालिरित्याख्यः ब्राह्मणोत्तमः धर्मज्ञं रामम् अयोध्यादिशि गमयितुं धर्मोपेतं वचनं अवादीत् इति वाल्मीकिः कथयति । यद्यपि चार्वाकबुद्ध्या रामस्य प्रलोभनाय एवम् उक्तं चेदपि वाल्मीकिः एतस्य निन्दां न करोति । जाबालिरित्याख्यः ब्राह्मणोत्तमः धर्मोपेतमिदं वचनम् उवाच इति ससम्माननम् वाल्मीकिराख्याति, यद्यपि रामः जाबालेर्वचनं धर्मबुद्ध्या निराकरोति निन्दति चेति अग्रिमसर्गे वक्ष्यति । इत्युक्ते विचारभेदः भवितुम् अर्हति । सः भिन्नः(भेदयुक्तः) विचारः अधार्मिकः चेत् त्यक्तुं शक्यः । अब्रहामीयमतेषु यथा विचारान्तरस्य सर्वात्मना निषेधः, तत् प्रस्तुतीकुर्वतां च शिरच्छेदः इति अत्र नास्ति ।  अतः रामायणकाले अपि इत्थं अधार्मिकानां/नास्तिकबुद्धीनां विचारस्य उपस्थापनाय अवसरः आसीत् इति ज्ञायते । इत्थं नास्तिकबुद्धेः जाबालेः अधुनातनानां साम्यवादिनामिव वचनं, रामण पश्चात् कृतं तन्निराकरणं क्रमशः अत्र प्रस्तूयते ।

सः जाबालिः आदौ रामस्य धर्मे स्थैर्यं, प्राकृतस्य (मूर्खस्य) जनस्य इव अर्थविहीनम् अस्ति इति वदति । अनया बुद्ध्या किमपि प्रयोजनं नास्ति । निष्प्रयोजकं वनवासं रामः न कुर्वीत इति अभिप्रायः । अतः श्रेष्ठबुद्धेः तपस्विनः रामस्य  ईदृशी बुद्धिः न भवेत् इति जाबालिः इत्थं ब्रूते -

साधु राघव मा भूत् ते बुद्धिरेवं निरर्थिका ।

प्राकृतस्य नरस्येव ह्यार्यबुद्धेस्तपस्विनः ॥ इति ।

मरणोत्तरसम्बन्धेन किम् ?

दशरथः दिवं गतः । तस्य दिवंगमनात्परं तेन सह कः सम्बन्धः । यदा मनुष्यस्य जननं भवति तदा सः एक एव एनं लोकं प्रविशति । मरणसमये अपि एवमेव एकाकी मरणं गच्छति । मध्ये केवलं सम्बन्धाः भवन्ति तदनुगुणं च जीवनं भवति । मरणात् परं तेन सम्बन्धेन किम् ? अतः मृतस्य दशरथस्य वचनं पालयितुं निष्प्रयोजकं वनवासं रामः न कुर्यात् इति जाबालिः अभिप्रैति अग्रिमे पद्ये - 

कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।

एको हि जायते जन्तुरेक एव विनश्यति ॥ इति ।

एवं स्थिते सा मम माता, सः मम पिता चेति मरणात्परमपि यो जनः चिन्तयति सः उन्मत्तः इत्येव मन्तव्यम् । वस्तुतः मरणात्परं कस्यापि बन्धुः कोऽपि न भवति ।

तस्मान्माता पिता चेति राम सज्जेत यो नरः ।

उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥

राजा दशरथः अन्यः, त्वं च अन्यः

इदानीं दशरथस्य कृते भवान् किमपि न । एवमेव भवतः कृते दशरथोऽपि किमपि न । दशरथः अन्यः राजा । भवान् अपि अन्यः कश्चन स्वतन्त्रः राजा । अतः तेन वरः दत्तः चेत् तस्य स एव उत्तरदायी । भवान् तस्य उत्तरदायी न इति अभिप्रायं मम कथनात् स्वीकरोतु इति जाबालिः इत्थम् अब्रवीत् - 

न ते कश्चित् दशरथस्त्वं च तस्य च कश्चन ।

अन्यो राजा त्वमन्यस्तु तस्मात् कुरु यदुच्यते ॥ इति ।

पिता केवलं पुरुषस्य उत्पत्तेः कारणम्

पिता स्वसन्ततेः उत्पतौ बीजमात्रं भवति । आधुनिकविज्ञानानुगुणम् इदमेव साम्प्रतमपि उच्यते कैश्चित् लोकायतिकैः ।  शोणितं शुक्रं रुतुमत्या संयुक्तं सत् पुरुषस्य उत्पत्तेः कारणं भवति । अतः पिता केवलं जन्तोः Biological Cause इति मन्तव्यम् ।

बीजमात्रं पिता जन्तोः शुक्रं शोणितमेव च ।

संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥

सहजतया अरण्ये जन्तवः राक्षसाः तापसाः जीवन्ति, भवान् न

नृपतिः दशरथः गन्तव्यस्थाने गतवान् ।  एवं सर्वेऽपि उत्पन्नाः लोकाः अवश्यमेव एकस्मिन् दिने गमिष्यन्ति । एषा उत्पन्नानां जन्तूनां सहजप्रवृत्तिः अस्ति । किन्तु भवान् एवं सहजप्रवृत्या वनवासाख्यकार्ये न प्रवृत्तः । सहजतया तु अरण्ये जन्तवः राक्षसाः तापसाः वा जीवन्ति । भवान् रामः मृषा/मिथ्याप्रत्ययेन व्यर्थरूपेण वनवासं कुर्वन् अस्ति इति जाबालिः इत्थं वदति -

गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।

प्रवृत्तिरेषा भूतानां त्वं तु मिथ्या विहन्यसे ॥

पितृश्राद्धं निरर्थकम्

पितृश्राद्धं अष्टप्रकारकं जनाः कुर्वन्ति । अत्र पिण्डदानादिनिमित्तं  वृथा अन्नस्य नाशः क्रियते । मृतः मनुष्यः कदापि एवम् अन्नम् अत्तुं शक्नोति किम् ? अतः पितृश्राद्धं कृत्वा अन्नस्य नाशः अनुचितः ।  पितृश्राद्धे वयं ब्राह्मणभोजनादिना पितॄन् सन्तर्पयितुं यतामहे । ब्राह्मणादिभिः श्राधे भुक्तं मृतानां पितॄणां शरीरं गच्छति चेत् सुदूरयात्रार्थं प्रस्थितवतां कृते पाथेयदानापेक्षया श्राद्धपिण्डदानमेव वरं किल ? इति जाबालिः वदति । श्राद्धादीनां निरर्थकतां प्रतिपाद्य अनेनैव क्रमेण मृतस्य पितुः वचनस्य पालनं निरर्थकमिति रामम् अवगमयितुं जाबालिः प्रयतते -

अष्टकापितृदैवत्यमित्ययं प्रसृतो जनः ।

अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥

यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।

दद्यात् प्रवसतां श्राध्दं न तत् पथ्यशनं भवेत् ॥

दानस्य प्रतिग्रहाय एव समग्रग्रन्थराशिः निर्मितः

दानं भूरिशः प्राप्तव्यम् इति धिया एव मेधाविनः केचन जनाः बहून् धर्मशास्त्रादिग्रन्थान् निर्ममिरे । तत्र यागं कुरु, दीक्षां गृहाण, तपः कुरु, दानं प्रकामं प्रयच्छ इत्यादिरूपेण लिखितं भवति । (साम्प्रतिके काले अपि नास्तिकाः एतदेव कथयन्ति यत् अस्माकं आचाराः कैश्चित् उच्चवर्गीयैः नियन्त्र्यन्ते ये अन्येषां दमनाय, स्वसमृद्धये च एव ईदृशरूपेण ग्रन्थान् लिखित्वा अन्यान् तदनुपालयितुम् आगृह्णन्ति इति ।) अतः  पिता तु सम्प्रति नास्ति । प्रत्यक्षतः यदस्ति तद्विषये विचारं कुरु ।

दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः ।

यजस्व देहि दीक्षस्व तपस्तप्यस्व संत्यज ॥

स नास्ति परमित्येतत्  कुरु बुद्धिं महामते ।

प्रत्यक्षं यत् तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥

रामेण जाबालेः वचनानां निराकरणम्

          नास्तिकवत् युक्तीः आश्रित्य रामस्य प्रियं भवति इति मन्वानः तन्मनः परिवर्तयितुं, तन्माध्यमेन रामम् आयोध्यायाः सिंहासने प्रतिष्ठापयितुं  प्रवृत्तस्य जाबालेः वचनं श्रुत्वा रामः इत्थं प्रतिक्रियां ददाति -

भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।

अकार्यं कार्यसंकाशमपथ्यं पथ्यसंनिभम् ॥

भवान् तु मम प्रीत्यर्थं कर्तव्यत्वेन यद्वदति तत्  वस्तुतः कर्तुं योग्यं नास्ति, पथ्यमिव वदति चेदपि अपथ्यमेवास्ति । 

मर्यादहीनो न मान्यते

निर्मार्यादस्तु पुरुषः पापाचारसमन्वितः ।

मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥

यः जनः अस्माकं धर्ममार्गं परित्यज्य पापम् आचरति सः मर्यादविहीनः इत्युच्यते । तस्य चरित्रं अधार्मिकं भवति । अतः सज्जनानां मध्ये गौरवं न प्राप्नोति ।

चरित्रम् अस्मत्परिचायकम्

कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।

चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम् ॥

चारित्र्येण शुद्धः एव वस्तुतः शुद्धः श्रेष्ठः च । मनुष्यः कुलीनवंशे जातः उत अकुलीने वंशे इति तत्स्य चारित्र्यमेव ख्यापयति ।  चारित्र्यमेव जनं वीरमिति प्रमाणयति, स्वयमेव स्वस्य विषये बहु कीर्तयति चेत् सः वीर इति वा पराक्रमी इति वा न गृह्यते । एवमेव कः पवित्रात्मा ? को वा अपवित्रात्मा इति तदीयचरित्रमेव आख्याति ।

दुःशीलः शीलवानिव

अनार्यस्त्वार्यसंस्थानः शौचाद्धीनस्तथा शुचिः ।

लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥

लोके केचन ईदृशाः जनाः भवन्ति येषाम् अनुसरणं भ्रान्त्या इतरे केचन जनाः कुर्वन्ति । यथा  - श्रेष्ठ इव आत्मानं प्रदर्शयितुम् प्रवृत्तः कश्चन जाल्मः/तुच्छः भवति ।  शुचिरिव आत्मानं दिदर्शयिषुः कश्चन वस्तुतः अशुचिरेव भवति । अवलक्षणः सन् अपि उत्तमलक्षणोपेत इव कश्चन आत्मानं दर्शयति । दुश्चरित्रः चेदपि शीलवान् इव कश्चन जगति सर्वत्र आत्मानं प्रसारयति । अतः तद्वत् अहं करिष्यामि चेत् किं भविष्यति इति भगवान् रामः अग्रे कथयति -

अधर्मं धर्मवेशेण यद्यहं लोकसङ्करम् ।

अभिपत्स्ये शुभं हित्वा क्रियां विधिविवर्जिताम् ॥

धर्माचरणस्य नटनं कुर्वन् अधर्मं करोमि चेत्, शुभं कार्यं परित्यज्य विधिहीनं कार्यं करोमि चेत् कलङ्कितो भविष्यामि इति ।

यथा राजा तथा प्रजाः

कामवृत्तोऽन्वयं लोकः कृत्स्नः समुपवर्तते ।

यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥

स्वैरचारिणः सर्वे जनाः राजानं अनुकुर्वन्ति । राजानो यादृशम् आचरन्ति तादृशमेव प्रजा अपि आचरन्ति । यथा राजा तथा प्रजाः इति उक्तिः प्रसिद्धा एव । विशिष्य यदनुसर्तुमयोग्यं तदेव अनुकुर्वन्ति प्रजाः । अतः रामः कयापि युक्त्या अधर्माचरणं कर्तुं नेष्टवान् ।

सत्यस्य सेतुं न भेत्स्यामि

नैव लोभान्न मोहाद्वा न चाज्ञानात् तमोन्वितः ।

सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥

पितृवाक्यपरिपालनस्य प्रतिज्ञाम् आदौ कृत्वा  लोभात् मोहात् अज्ञानात् वा तामेव प्रतिज्ञां भञ्जयितुं नाहम् उद्युञ्जे इति रामः आख्याति ।

नृशंससेवितमधर्मं त्यक्ष्ये

क्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।

क्षुद्रैनृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥

यदि तादृशः कश्चन धर्मवत् प्रतीयमानः अधर्मः अस्ति यस्य आचरणं बहवः पापकर्माणः क्षुद्राः क्रूराः जनाः  कुर्वन्ति तादृशं क्षात्रं धर्मम् अहं त्यक्षामि । इत्युक्ते पितुराज्ञाम् उल्लङ्घ्य सिंहासने आरोहणाख्यम् बहुभिः क्षुद्रैः क्रूरैः पापकर्मिभिः क्रियमाणम् अधर्मं नाहं करिष्यामि । अस्माकं इतिहासे तादृशाः बहवः म्लेच्छाः राजानः बभूवुः ये पितुरिच्छाम् उल्लङ्घ्य पितरं वा भातॄन् वा हत्वा कारागारे निक्षिप्य सिंहासनम् आरुरुहुः । सन्दर्भेऽस्मिन् रामस्य श्रेष्ठत्वं कीदृशमिति अस्माभिः अवगन्तव्यम् ।

तर्हि कर्तव्यं किम् इति चेत् रामो वदति –

सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादितां च ।

द्विजातिदेवातिथिपूजनञ्च पन्थानमाहुस्त्रिदिवस्य सन्तः ॥ इति ।

इत्थं रामायणे तु वस्तुतः भरतस्य अपेक्षानुगुणं अयोध्यावासिनां सन्तोषाय जाबालिः अधार्मिकं मार्गं धर्ममार्गवत् व्याख्याय रामं सिंहासने अभिषेक्तुं  प्रायतिष्ट यस्य च निराकरणं निन्दनभर्त्सनाभ्यां रामेण कृतञ्च । धर्मवत् प्रतीयमानः अधर्मः अधुनातने अपि लोके बहुभिः उपदिश्यते । विशिष्य भारतीयसमाजस्य कुमार्गे  नयनाय वामवादिनः नास्तिकाः ईदृशमार्गम् अनुसरन्तः दृश्यन्ते । तत्र सामाजिकाः राममार्गं अनुसरेयरिति प्रकरणादस्मात् ज्ञायते ।

Sunday, September 28, 2025

संस्कृतभाषाशिक्षणे सूचनासम्प्रेषणप्रविधेः SDM Ujire Seminar article 31/1/2016

 संस्कृतभाषाशिक्षणे सूचनासम्प्रेषणप्रविधेः प्राधान्यम्

संस्कृतशिक्षाक्षेत्रे आङ्ग्लशासनारम्भपर्यन्तमपि गुरुकुलीयशिक्षाप्रणाली अनूचानं प्रवर्तते स्म ।

गुरुकुलप्रणाल्यां तु स एव शिक्षां विन्दते स्म यस्य विविदिषा वर्तते । यद्यपि गुरुकुले आचार्यः माणवकस्य

जिज्ञासापूर्त्यर्थम् प्रश्नोत्तरादीन् नैकान् विधीन् आश्रयते स्म तथापि माणवकः “श्रद्धवान् लभते ज्ञानम्” इति

नयेन प्रवर्तते स्म इत्यतः आचार्यस्य बोधनदृष्ट्या तावत् कष्टं नासीत् यावदिदानीन्तनाः उपध्यायाः

अनुभवन्ति । इत्युक्ते पुराकाले आचार्यः विषयगतं काठिन्यं केवलं अपाकुरुते चेत् पर्याप्तं भवति स्म,

अन्तेवसिनः रुचेः जागरणं कुर्वन् तस्य मानसिकतायाः अनुसारं विधीन् परिवर्तयन् बोधयेदिति नासीत् ।

शिष्यस्यापि अध्ययननिष्ठामात्रं पर्याप्तं नासीत् । अध्ययननिष्ठया सह आचार्यस्य प्रियमपि कर्तव्यम् भवति

स्म इति महाभारतं प्रमाणयति-


आचार्यस्य प्रियं कुर्यात् प्राणैरपि धनैरपि ।

कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥ महाभा./उद्योग./४४/१२

किन्तु सम्प्रति तथा नास्ति परिस्थितिः । इच्छुकः अनिच्छुकः श्रद्धावान् अश्रद्धावान् इत्यादिभेदैः

विनैव शिक्षायाः प्राप्तेः अधिकारः सर्वेषाम् सम्प्रति लोकतन्त्रात्मके देशेऽस्माकं वर्तते । किञ्च उत्पन्नैः सर्वैरपि

बालैः नियमेन प्राथमिकी शिक्षा प्राप्तव्या इति सर्वकारः शास्ति । अतः कक्ष्यायां अत्यधिकसंख्याकानां

सर्वविधच्छात्राणां अवगमनं यथा स्यात् तथा बोधयितुं उपायाः चिन्तनीयाः, चिन्तिताश्च अनुष्ठेयाः ।

एतन्मनसि निधाय शिक्षाक्षेत्रे अध्यापनविधिषु सहायकसामग्रिषु समुचितपरिवर्तनमानेतुं

बहुविधचिन्तनं अनुसन्धानं आविष्कारश्च क्रियमाणो वर्तते । अपि च छात्रकेन्द्रितशिक्षाव्यवस्था

लोकतन्त्रानुसारिणी इत्यतः उपाध्यायाः अनुशासनसंरक्षणार्थं निन्दनगर्हणभर्त्सनताडनादिकं विहाय उपायेन

छात्रान् लक्ष्यसाधनैकतत्परान् कृत्वा तदुत्साहं वर्धयन्तः अध्यापयेयुः । छात्राः न अवगच्छन्ति चेत् तस्य

कारणम् उपाध्याय एव स्वयं भवति । उपाध्यायः सक्रियो भूत्वा छात्रांश्च सक्रियान् कुर्वन् अध्यापयेत् ।


आचार्यस्यैव तज्जाड्यं यच्छिश्यो नावबुध्यते ।

गावो गोपालकेनैव कुतीर्थमवतारिताः ॥ अन्ययोगव्यवच्छेदः-द्वात्रिंशतिका/१५

इत्थं सर्वविधानां छात्राणां बोधनार्थं, बोधने साफल्यावाप्त्यर्थं च शिक्षकः नवीनचिन्तनं कुर्वन्

आधुनिकोपकरणानि उपयुञ्जानः प्रभाविविधीन् आश्रयेत ।


भाषाशिक्षणे दृश्यश्रव्यसाधनानां उपयोगः महते लाभाय भवति । मनुष्यः पञ्चभिर्ज्ञानेन्द्रियैः ज्ञानं

प्राप्नोति । इन्द्रियाणि ज्ञानप्राप्तेः द्वाराणि भवन्ति । शब्दस्पर्शरूपरसगन्धाः श्रोत्रादीन्द्रियाणां विषयाः भवन्ति

। यद्यपि श्रोत्रेण शब्दं निशम्य सर्वाधिकज्ञानराशिः सम्पाद्यते तथापि शिक्षायाः आरम्भिकस्तरे तावत्

अन्येन्द्रियग्राह्यविषयाः तत्तदिन्द्रियेण एव गृह्यन्ते चेदेव बोधः सुदृढो भवति । यथा आम्रस्य स्वादं वा,

केतकीगन्धं वा, अग्नेरौष्ण्यं वा, शकुन्तलायाः सौन्दर्यं वा शब्देन व्याख्यास्यामः चेत् यादृशो बोधो भवति

तदपेक्षया प्रभावी बोधः, तत्तदिन्द्रियमाध्यमेन कारयामः चेत् भवति । अतः विद्यालये तद्विषये अवधानं

दातव्यम् । किन्तु विद्यालये त्वगिन्द्रियग्राह्यविषयाः रसनेन्द्रियग्राह्यविषयाः घ्राणेन्द्रियग्राह्यविषयाः च

बालकस्य शैक्षिकविकासदृष्ट्या अल्पीयांस इत्यतः तेषाम् आवश्यकता अपि अल्पा एव । किन्तु

चक्षुरिन्द्रियग्राह्यः श्रवणेन्द्रियग्राह्यश्च विषयः अत्यन्तं विफुलो वर्तते इत्यतः तदुपयोगिसाधनानां निर्माणम्

प्रयोगश्च छात्राणाम् अत्यन्तम् उपयोगाय भवति । अत एव शिक्षाक्षेत्रे श्यामफलकादारभ्य विविधानां

प्रक्षेपकयन्त्राणाम् आविष्कारः/आविष्कृतानाम् उपयोगः जायमानो वर्तते । एतादृशानां यन्त्राणां माध्यमेन

बोध्यविषयस्य सुचारुप्रस्तुतिः छात्रस्य सुखावबोधाय समग्रावबोधाय दृढावबोधाय च भवतीति नास्ति

संशीतिलेशः ।

सूचनासम्प्रेषणप्रविधिः ICT

सूचनासम्प्रेषणप्रविधिः शिक्षाक्षेत्रे आधुनिकयुगे अनुस्रियमाणः प्रविधिः । सूचना इत्युक्ते ज्ञेयांशः

इत्यर्थः । अयं ज्ञेयांशः कथं ज्ञापनीयः इति बहोः कालादेव विचारः प्रवृत्त एव । कालिदासः मालविकाग्निमित्रे

इत्थमुक्तवान् -


श्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता ।

यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ॥ इति ।


इत्युक्ते शिक्षकस्य वैदुष्यमात्रं छात्रोपयोगाय न भवति । वैदुष्येन सह विषयसङ्क्रमणकौशलमपि यस्मिन्

शिक्षके भवति स एव शिक्षकप्रवरः भवतीति कालिदासोक्तेः तात्पर्यं भवति । अतः छात्रावगतिं प्रभावयितुं

सङ्क्रमणकौशलस्य बलवर्धनं करोति सूचनासम्प्रेषणप्रविधिः इति वक्तुं शक्नुमः । शिक्षकः स्वयं All-rounder

भवेदिति अपेक्षा तु भवति । किन्तु सर्वेऽपि शिक्षकाः तथा भवितुं नार्हन्ति । शिक्षकः उत्तमः गायकः,

अभिनेता, व्याख्याता, ज्ञानी, सम्प्रेषकः, वक्ता, वाग्मी न भवति चेदपि ICT माध्यमेन आडियो-वीडियो

इत्यादिकम् उपयुज्य छात्रस्य अपेक्षां पूरयितुं शिक्षकः प्रभवति । शिक्षकः गायकः नास्ति चेदपि उत्तमं गीतं

ICT माध्यमेन श्रावयितुमर्हति । शिक्षकः उत्तमः अभिनेता नास्ति चेदपि पूर्वाभिनीतं वीडियो छात्रेभ्यः


दर्शयितुमर्हति । बोध्यमानस्य विषयस्य समुचितप्रस्तुत्यर्थं सङ्गणकमाध्यमेन लिखितांशान् अपि

प्रदर्शयितुमर्हति । तदर्थं Graphical Representation उपयोक्तुमर्हति । विविधानि चित्राणि रेखाचित्राणि

मानचित्राणि, कोष्टकानि च सङ्गणके निर्माय दर्शयितुमर्हति । इत्थं क्रियते चेत् छात्राः अध्यापकोक्तविषयान्

समग्ररूपेण ज्ञातुं प्रभवन्ति । इतोऽपि छात्राणां जिज्ञासा भवति चेत् तत्परिपूर्त्यर्थं सम्बद्धानां

विविधजालपुटानां सङ्केतं शिक्षकात् सम्प्राप्य अन्तर्जालमाध्यमेन ई-अधिगमेन च छात्राः स्वज्ञानं

विस्तारयितुमर्हन्ति । अतः सूचनासम्प्रेषणप्रविधिः शिक्षकस्य आधुनिककाले शिक्षकस्य महते उपकाराय

भवति ।

माध्यमिकस्तरे कर्नाटकस्य परिप्रेक्ष्ये तु सर्वकारीयविद्यालयेष्वेव सूचनासम्प्रेषणप्रविधेः उपयोगार्थं

पञ्चवर्षेभ्यः प्रागेव व्यवस्था कल्पिता असीत् । किन्तु सर्वकारपरिवर्तनकारणात् योजनायाः प्रयोजनं

अद्यावधि केनापि सर्वकारीयविद्यालयीयच्छात्रेण न प्राप्तमस्ति । शिक्षाक्षेत्रस्य विकासेन समाजस्य उत्कर्षः

भवतीति ज्ञात्वापि सर्वकारः तदपकर्षार्थं यतमानो वर्तते वेति भासते । असर्वकारीयविद्यालयेषु

यशःप्राप्तिकामनया वा सूचनासम्प्रेषणप्रविधेः उपयोगार्थं अपेक्षितयन्त्राणां व्यवस्था कल्पिता वर्तते एव ।

महानगरेषु माध्यमिकविद्यालयेषु प्रतिकक्ष्यं प्रक्षेपकयन्त्रसङ्गणकयन्त्रादीनां व्यवस्था कल्पिता दृश्यते ।

लघुपत्तनेषु प्रतिस्पर्धायाः अभावात् Audio Visual Room इति नाम्ना वा Smart Class इति नाम्ना वा

एकः प्रकोष्टः तदर्थं कल्पितो दृष्टिपथे आयाति । बहूनां महाविद्यालयानां प्रायः ईदृशी एव स्थितिरवलोक्यते ।

केषुचिदेव महाविद्यालयेषु प्रतिकक्षं वयं सूचनासम्प्रेषणप्रविधेः उपयोगानुकूलवातावरणं द्रष्टुं शक्नुमः ।

संस्कृतशिक्षाक्षेत्रे सम्प्रति अधिकाधिकाः शिक्षकाः एतस्य उपयोगं कुर्वाणाः सन्ति ।

महाविद्यालयीयस्तरे माध्यमिकविद्यालयीयस्तरे च बहवः एतस्य उपयोगं जानन्ति । किन्तु ICT

आश्रित्यपाठ्यसामग्रीनिर्माणं समयसाध्यं कार्यम् इत्यतः एतस्य प्रविधेः नियतोपयोगः अतिविरलो वर्तते ।


1. Massive Open Online Courses (MOOCs)

सम्प्रति भारतसर्वकारस्य नवीनयोजनासु Massive Open Online Courses (MOOCs)

प्रामुख्यमावहति ।


Abstract


संस्कृतभाषाशिक्षणे सूचनासम्प्रेषणप्रविधेः पात्रम्

संस्कृतशिक्षाक्षेत्रे आङ्ग्लशासनारम्भपर्यन्तमपि गुरुकुलीयशिक्षाप्रणाली अनूचानं प्रवर्तते स्म ।

गुरुकुलप्रणाल्यां तु स एव शिक्षां विन्दते स्म यस्य विविदिषा वर्तते । यद्यपि गुरुकुले आचार्यः माणवकस्य

जिज्ञासापूर्त्यर्थम् प्रश्नोत्तरादीन् नैकान् विधीन् आश्रयते स्म तथापि माणवकः “श्रद्धवान् लभते ज्ञानम्” इति

नयेन प्रवर्तते स्म इत्यतः आचार्यस्य बोधनदृष्ट्या तावत् कष्टं नासीत् यावदिदानीन्तनाः उपध्यायाः

अनुभवन्ति । इत्युक्ते पुराकाले आचार्यः विषयगतं काठिन्यं केवलं अपाकुरुते चेत् पर्याप्तं भवति स्म,

अन्तेवसिनः रुचेः जागरणं कुर्वन् तस्य मानसिकतायाः अनुसारं विधीन् परिवर्तयन् बोधयेदिति नासीत् ।

शिष्यस्यापि अध्ययननिष्ठामात्रं पर्याप्तं नासीत् । अध्ययननिष्ठया सह आचार्यस्य प्रियमपि कर्तव्यम् भवति

स्म इति महाभारतं प्रमाणयति-


आचार्यस्य प्रियं कुर्यात् प्राणैरपि धनैरपि ।

कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥ महाभा./उद्योग./४४/१२

किन्तु सम्प्रति तथा नास्ति परिस्थितिः । इच्छुकः अनिच्छुकः श्रद्धावान् अश्रद्धावान् इत्यादिभेदैः

विनैव शिक्षायाः प्राप्तेः अधिकारः सर्वेषाम् सम्प्रति लोकतन्त्रात्मके देशेऽस्माकं वर्तते । किञ्च उत्पन्नैः सर्वैरपि

बालैः नियमेन प्राथमिकी शिक्षा प्राप्तव्या इति सर्वकारः शास्ति । अतः कक्ष्यायां अत्यधिकसंख्याकानां

सर्वविधच्छात्राणां अवगमनं यथा स्यात् तथा बोधयितुं उपायाः चिन्तनीयाः, चिन्तिताश्च अनुष्ठेयाः ।

ವಿಜಯವಾಣಿಗೆ ಪ್ರತಿಕ್ರಿಯೆ 30/01/2016

 



ಮಾನ್ಯ ಹರಿಪ್ರಕಾಶ ಕೋಣೆಮನೆಯವರಿಗೆ ನಮಸ್ಕಾರಗಳು.

ವಿಜಯವಾಣಿ ಪತ್ರಿಕೆಯಲ್ಲಿ ಬರೆದ ತಮ್ಮ ಇಂದಿನ ಲೆಖನ ಓದಿ ಅಚ್ಚರಿ ಹಾಗೂ ಕಿಚ್ಚು ಎರಡೂ ಹೆಚ್ಚಾಯಿತು. ಎರಡಕ್ಕೂ ಕಾರಣ ಒಂದೇ – ಎ.ಎಸ್.ಎ. ಮತ್ತು ಅದರ ಸಂಬಂಧಿಗಳಾದ ಕೇಜ್ರಿವಾಲ್, ರಾಹುಲ್ ಗಾಂಧಿ, ಸೀತಾರಾಮ ಯೆಚೂರಿ ಮುಂತಾದವರ ಕಪಟತನ ಮತ್ತು ದೇಶದ್ರೋಹ. ತಮ್ಮ ಲೇಖನದಲ್ಲಿ ಕೊಟ್ಟ ವಿವರಣೆ ನಿಜವಾಗಲೂ ಯಥಾರ್ಥವೆಂದಾದಲ್ಲಿ  ತಮಗೆ ಕೋಟಿ ಪ್ರಣಾಮಗಳನ್ನು ಸಲ್ಲಿಸುತ್ತಾ ನಾನು ನನ್ನ ಅನಿಸಿಕೆಗಳನ್ನು ತಮ್ಮೊಂದಿಗೆ ಹಂಚಿಕೊಳ್ಳಲು ಬಯಸುತ್ತೇನೆ.

ಮುಂಬೈ ಸರಣಿ ಬಾಂಬ್ ಸ್ಫೋಟ ಪ್ರಕರಣದ ಕಾರಣೀಕರ್ತರಲ್ಲೊಬ್ಬನಾದ ಯಾಕುಬ್ ಮೆಮೊನ್ ನನ್ನು ಗಲ್ಲಿಗೆರಿಸಿದ್ದನ್ನು ವಿರೊಧಿಸಿದ ಯಾವನೆ ವ್ಯಕ್ತಿಯಾಗಲಿ ಆತ ಭಾರತವಿರೋಧಿ/ರಾಷ್ಟ್ರವಿರೋಧಿ ಹಾಗೂ ಮಾನವತಾವಿರೋಧಿ ಎಂಬುದು ಸ್ಪಷ್ಟ. ಅದನ್ನು ನಿರ್ಣಯಿಸಲು ಯಾವುದೇ ನ್ಯಾಯಿಕ ಪ್ರಕ್ರಿಯೆಯ ಆವಶ್ಯಕತೆಯಿರಬಾರದು. ಯಾಕೆಂದರೆ ಭಾರತವನ್ನು ನಾಶಮಾಡಲು ಹೊರಟಿರುವ ರಾಕ್ಷಸರಾದ ಉಗ್ರಗಾಮಿಗಳು ಮಾಡಿದ ಅಮಾನವೀಯ ಕೃತ್ಯ ಅದು. ಅದರಲ್ಲಿ ಸುಮಾರು ಮುನ್ನೂರಕ್ಕೂ ಹೆಚ್ಚು ಮಂದಿ ಸಾವಿಗೀಡಾಗಿ ಸಾವಿರಾರುಮಂದಿ ಗಾಯಗೊಂಡು ಈಗಲೂ ಜೀವನ್ಮರಣಸ್ಥಿತಿಯಲ್ಲಿ ಕಾಲ ಕಳೆಯುತ್ತಿದ್ದಾರೆ. ಹಾಗಾಗಿ ಇದಕ್ಕೆಲ್ಲ ಕಾರಣನಾದ ಯಾಕುಬ್ ಮೆಮೊನ್ ನನ್ನು ಗಲ್ಲಿಗೆರಿಸಿದ್ದನ್ನು ವಿರೊಧಿಸಿದ ಎ.ಎಸ್.ಎ. ಒಂದು ದೇಶದ್ರೋಹಿ ಸಂಘಟನೆ ಎಂದು ತೀರ್ಮಾನಿಸುವುದು ಉಚಿತ. ಆದ್ದರಿಂದ ಆ ಸಂಘಟನೆಯನ್ನು ನಿಷೇಧಿಸಿ ಅದರ ಸದಸ್ಯರೆಲ್ಲರಿಗೂ ಗಡಿಪಾರಿನ ಶಿಕ್ಷೆ ಅಥವಾ ಯಾಕುಬ್ ನಿಗೆ ವಿಧಿಸಿದ ಶಿಕ್ಷೆಯನ್ನು ನೀಡಬೇಕು. ಏಕೆಂದರೆ ಯಾಕುಬ್ ನ ಗಲ್ಲುಶಿಕ್ಷೆಯನ್ನು ವಿರೋಧಿಸುವುದೆಂದರೆ ಸಾವಿರಾರು ಅಮಾಯಕ ಭಾರತೀಯರ ಅಮಾನವೀಯ ಕಗ್ಗೊಲೆಯನ್ನು ಸಮರ್ಥಿಸಿದಂತೆ. ಅದನ್ನು ಸಮರ್ಥಿಸುವ ವ್ಯಕ್ತಿಗಳು ಮುಂದೆ ಲಕ್ಷಾಂತರ ಕೊಟ್ಯಾಂತರ ಭಾರತೀಯರ ಸಾವಿಗೆ ಪ್ರೇರಣೆ ಹಾಗೂ ಸಹಕಾರವನ್ನು ಕೊಡುವವರೇ. ಆದ್ದರಿಂದಲೇ ಗಡಿಪಾರು ಅಥವಾ ಗಲ್ಲು ದೇಶದ್ರೋಹಿಗಳಿಗೆ ಉಚಿತವಾದ ಶಿಕ್ಷೆ.

          ಹಾಗೆಯೇ ಎ.ಎಸ್.ಎ. ಯಾಕುಬ್ ನ ಗಲ್ಲುಶಿಕ್ಷೆಯನ್ನು ವಿರೋಧಿಸಿದ್ದಲ್ಲದೆ ಸುಶೀಲ್ ಕುಮಾರ್ ನನ್ನು ನಿರ್ದಯವಾಗಿ ಥಳಿಸಿ ಕಾನೂನನ್ನು ಕೈಗೆತ್ತಿಕೊಂಡಿದ್ದು ಇನ್ನೊಂದು ಅಪರಾಧ. ಭಾರತದ ಗೌರವಾನ್ವಿತ ಸಮಾಜಸುಧಾರಕರಾದ ಅಂಬೆಡ್ಕರರ ಹೆಸರನ್ನು ಸಂಘಟನೆಗೆ ಇಟ್ಟುಕೊಂಡು ಅವರ ಹೆಸರಿಗೆ ಮಸಿ ಬಳಿಯುವ  ಇಂತಹ ದುರುಳರಿಗೆ ಗಲ್ಲುಶಿಕ್ಷೆಯೂ ಕಡಿಮೆಯೇ. ಹಾಗಾಗಿ ಸುಶೀಲ್ ಕುಮಾರ್ ಗೆ ಹಲ್ಲೆ ಮಾಡಿದ ಮೂವತ್ತು ಜನರಲ್ಲಿ ಪುನಃ ವಿಚಾರಣೆಯ ಬಳಿಕ ಅತ್ಯಂತ ಕೆಟ್ಟವರೆಂದು ವಿಶ್ವವಿದ್ಯಾಲಯದ ವಿಚಾರಣಾಸಮಿತಿಯೇ ತೀರ್ಮಾನಿಸಿದ ಐವರಲ್ಲಿ ಒಬ್ಬನಾದ ವೇಮುಲ ಆತ್ಮಹತ್ಯೆ ಮಾಡಿಕೊಂಡಿದ್ದು ಒಬ್ಬ ಉಗ್ರಗಾಮಿ ಸೈನಿಕರ ಕೈಗೆ ಸಿಕ್ಕಿಬೀಳಬಾರದೆಂದು ತನ್ನನ್ನು ತಾನೇ ಸ್ಫೋಟಿಸಿಕೊಂಡಂತೆ.  “ತುಮ್ ಕಿತನೇ ಯಾಕುಬ್ ಮಾರ್ ದೇಂಗೇ ? ಹರ್ ಘರ್ ಸೇ ಎಕ್ ಎಕ್ ಯಾಕುಬ್ ನಿಕಲೇಗಾ” ಎಂದು ಘೋಷಣೆ ಕೂಗುವವರು ಭಾರತದ ಮೂವತ್ತು ಕೋಟಿ ಕುಟುಂಬಗಳಿಂದ ಮೂವತ್ತು ಕೋಟಿ ಯಾಕುಬ್ ನಂತಹ ಉಗ್ರಗಾಮಿಗಳ ಹುಟ್ಟಿಗಾಗಿ ಕಾಯುತ್ತಿರುವವರು. ಒಬ್ಬ ಯಾಕುಬ್ ಭಾರತದಲ್ಲಿ ಸಾವಿರಾರು ಜನರ ರಕ್ತ ಕುಡಿದಿದ್ದಾನೆ. ಇನ್ನು ಮೂವತ್ತು ಕೋಟಿ ಯಾಕುಬ್ ಹುಟ್ಟಿಕೊಂಡರೆ ? ಇಂತಹ ಸಂಘಟನೆಯನ್ನು ಸಮರ್ಥಿಸುವ, ವೇಮುಲನನ್ನು ಸಮರ್ಥಿಸುವ, ಅದನ್ನೇ ದಾಳವಾಗಿಸಿ ಶಾಂತಿಯಿಂದ ತಮ್ಮ ಪಾಡಿಗೆ ತಾವಿರುವವರನ್ನು ಪ್ರಚೋದಿಸಿ ದೇಶದ್ರೋಹಿಗಳನ್ನಾಗಿಸುವ ಕೇಜ್ರಿವಾಲ್ ರಾಹುಲ್ ಯೆಚೂರಿ ಮುತ್ತಿತರರು ಮಹಾಕಪಟಿಗಳು ಮತ್ತು ದೇಶದ್ರೋಹಿಗಳು. ಯಾಕುಬ್ ನ ಗಲ್ಲುಶಿಕ್ಷೆಯನ್ನು ವಿರೋಧಿಸಿದವರನ್ನು ಸಮರ್ಥಿಸುವ ಇವರು ಇಡೀ ದೇಶಕ್ಕೆ ಬಾಂಬಿಡುವಂತೆ ಪ್ರೇರೇಪಿಸುವ ದೊಡ್ಡ ಉಗ್ರಗಾಮಿಗಳು. ಮೊದಲು ಇವರನ್ನು ಗಲ್ಲಿಗೇರಿಸಬೇಕು.

ಅಲ್ಲಾ ರೀ, ಅರಬ್ ರಾಷ್ಟ್ರಗಳಲ್ಲಿ ದೇಶದ್ರೋಹಿಗಳನ್ನು ಸಾರ್ವಜನಿಕವಾಗಿ ಕಲ್ಲು ಹೊಡೆದೋ, ಗುಂಡಿಟ್ಟೋ, ಕತ್ತು ಕುಯ್ದೋ ಸಾಯಿಸ್ತಾರೆ. ಚೀನಾದಲ್ಲಿ ವಿಚಾರಣೆಯನ್ನೇ ಮಾಡದೆ ಸೇನೆ ಮುಗಿಸಿಬಿಡುತ್ತದೆ. ರಷ್ಯಾದಲ್ಲಿ ಗಲ್ಲುಶಿಕ್ಷೆಗಿಂತಲೂ ಘೋರವಾದ ಸೈಬೀರಯಾದ ಜೈಲಲ್ಲಿ ಕೊಳೆಯಿಸುತ್ತಾರೆ. ಪಾಕಿಸ್ತಾನದಲ್ಲಿ ಮೋದಿಗೆ ಜೈಕಾರ ಹಾಕಿದ್ದಕ್ಕೇ ಬೈಕಿನ ಹಿಂಬದಿಗೆ ಕಟ್ಟಿ ಊರಿಡೀ ಎಳೆದಾಡಿ ಅಮಾನವೀಯವಾಗಿ ಸಾಯಿಸುತ್ತಾರೆ. ಅಮೇರಿಕಾದಲ್ಲಿ ಅಡ್ರೆಸ್ಸೇ ಸಿಗುವುದಿಲ್ಲ. ಆದರೆ ಭಾರತದಲ್ಲಿ ನಾವು ಅವರಿಗೆ ಉಗ್ರಗಾಮಿಯಾಗಿದ್ದರೂ ಪಾಕಿಸ್ತಾನದವನಾಗಿದ್ದರೂ ಭಾರತವಿರೋಧಿಯಾದ ಬಾಂಗ್ಲಾದೇಶದವನಾಗಿದ್ದರೂ ಮೊದಲು ರೇಶನ್ ಕಾರ್ಡ್ ಕೊಡುತ್ತೇವೆ, ದೇಶದ್ರೋಹಿಗಳನ್ನು ಆರಿಸಿ ಎಂದು ವೋಟರ್ ಐಡಿ ಕೊಡುತ್ತೇವೆ. ಆಧಾರ್ ಕಾರ್ಡ್ ಕೊಡುತ್ತೇವೆ. ಒಂದು ರುಪಾಯಿಗೆ ಕೆ.ಜಿ.ಗಟ್ಟಲೆ ಅಕ್ಕಿ ಗೋಧಿ ರಾಗಿ ಕೊಡುತ್ತೇವೆ. ಸೀಮೆ ಎಣ್ಣೆ ಸಕ್ಕರೆ ಸೀರೆ ಇತ್ಯಾದಿ ಕೊಡುತ್ತೇವೆ. ಸರ್ಕಾರಿ ಕೆಲಸದಲ್ಲಿ ಹೈಕೋರ್ಟ್ ನಿಷೇಧಿಸಿದ್ದರೂ ವೈ ಎಸ್ ರಾಜಶೆಖರ ರೆಡ್ಡಿ ೬% ಮೀಸಲಾತಿ ಕೊಡುತ್ತೇನೆಂದಿದ್ದ. ಅವನನ್ನೇ ಇನ್ನು ಕೆಲವರು ಅನುಸರಿಸಿದ್ದರು. ಜ್ಯೋತಿ ಬಸು ಮತ್ತು ಭಟ್ಟಾಚಾರ್ಯ ಸೇರಿಕೊಂಡು ಏಳೂವರೆ ಸಾವಿರ ಮದರಸಾ ಪಶ್ಚಿಮ ಬಂಗಾಳದಲ್ಲಿ ಕಟ್ಟಿಸಿಕೊಟ್ಟು ಅಲ್ಲಿ ಭಾರತದ ವಿರುದ್ಧ ಕತ್ತಿ ಮಸೆಯಲು ಮುಲ್ಲಾಮೌಲವಿಗಳನ್ನು ನೇಮಿಸಿ ಖಜಾನೆಯಿಂದ ಅವರಿಗೆ ಸಂಬಳವನ್ನೂ ಕೊಟ್ಟರು. ಮಮತಾ ಒಂದು ಹೆಜ್ಜೆ ಮುಂದೆ ಹೋಗಿ ನಾಲ್ಕೇ ವರ್ಷಗಳಲ್ಲಿ ಅವರನ್ನು ಹಿಂದಿಕ್ಕಲು ಹೊರಟಿದ್ದಾಳೆ. ಕಮ್ಯುನಿಷ್ಟಿನ ಕಾರ್ಯಕರ್ತರಂತೂ  ಭಾರತೀಯ ಜಮೀನುದಾರರ ಭೂಮಿಯನ್ನು ಬಲವಂತವಾಗಿ ಕಿತ್ತುಕೊಂಡು ಬಾಂಗ್ಲಾದೇಶದಿಂದ ನಿಯಮಬಾಹಿರವಾಗಿ ಒಳನುಸುಳಿದ ಮುಸಲ್ಮಾನರಿಗೆ ಹಂಚುತ್ತಾರೆ. ಇನ್ನು ಲಾಲು, ಮುಲಾಯಾಮ್, ಸಿದ್ದರಾಮಯ್ಯ, ಚಾಂಡಿ, ಡಿಗ್ಗಿ, ರೆಡ್ಡಿಗಳನ್ನೆಲ್ಲ ನೆನಪು ಮಾಡಿಕೊಳ್ಳದಿರುವುದೇ ಲೇಸು.

ಆದರೆ ಇಂಥವರಿಂದಾಗಿಯೇ ದೇಶದಲ್ಲಿರುವ ಕೋಟ್ಯಂತರ ಸಜ್ಜನ ಮುಸಲ್ಮಾನ ಬಂಧುಗಳನ್ನು ಸಂಶಯದಿಂದ ನೋಡುವಂತಹ ಪರಿಸ್ಥಿತಿ ನಿರ್ಮಾಣವಾಗಿದೆ. ಇದೇ ರಾಹುಲ್ ಕೇಜ್ರಿ ಡಿಗ್ಗಿ ಯೆಚೂರಿಗಳು ದೇಶದಲ್ಲಿ ಐಸಿಸ್,  ಜೈಶ್, ಸಿಮಿ ಮುಂತಾದ ವಿಷವೃಕ್ಷಗಳು ಬೆಳೆಯಲು ಕಾರಣ. ಹಾಗಾಗಿ ಈ ವಿಷವೃಕ್ಷದ ಬೀಜಗಳನ್ನು ಸುಟ್ಟುಹಾಕಬೇಕು. ಭಾರತ ಯಾವತ್ತೂ ನಮಗೆ ಹೇಡಿಗಳಾಗಿರಿ ಎಂದು ಹೇಳಿಕೊಟ್ಟಿಲ್ಲ. ಕೃಷ್ಣ ಗೀತೆಯಲ್ಲಿ “ಜಹಿ ಶತ್ರುಂ” ಎಂದಿದ್ದಾನೆ. ನಮ್ಮ ಎಲ್ಲ ದೇವತೆಗಳ ಕೈಯಲ್ಲಿ ಆಯುಧಗಳಿರುವುದರ ಸಂಕೇತವೇ ಸಜ್ಜನರನ್ನು ರಕ್ಷಿಸಬೇಕು, ದುರ್ಜನರನ್ನು ಶಿಕ್ಷಿಸಬೇಕು ಎಂಬುದಾಗಿ. ಕೃಷ್ಣ ಅದನ್ನೇ ಹೀಗೆ ಹೇಳಿದ್ದಾನೆ “ಪರಿತ್ರಾಣಾಯ ಸಾಧೂನಾಂ ವಿನಾಶಾಯ ಚ ದುಷ್ಕೃತಾಮ್” ಅಂತ. ಹಾಗಾಗಿ ದೇಶದ ಬೆಳವಣಿಗೆಯನ್ನು ಸಹಿಸದೆ ತಮ್ಮ ತಮ್ಮ ಸ್ವಾರ್ಥಕ್ಕಾಗಿ ದೇಶಕ್ಕೇ ಬಾಂಬಿಡುವಂತೆ ಪ್ರೇರೇಪಿಸುವ ರಾಹುಲಾದಿ ವಂಚಕದೇಶದ್ರೋಹಿಗಳಿಂದ ಮೊದಲು ದೇಶವನ್ನು ರಕ್ಷಿಸಲು ಎಲ್ಲರೂ ಒಗ್ಗಟ್ಟಾಗಿ ಎಂದು ಎಲ್ಲ ಭಾರತೀಯರನ್ನು ಈ ಮೂಲಕ ವಿನಂತಿಸಿಕೊಳ್ಳುತ್ತಿದ್ದೇನೆ.

ಧನ್ಯವಾದಗಳು.

ಡಾ. ಹರಿಪ್ರಸಾದ ಕೆ.

ಅಸಿಸ್ಟೆಂಟ್ ಪ್ರೊಫೆಸರ್

ರಾಷ್ಟ್ರೀಯ ಸಂಸ್ಕೃತ ಸಂಸ್ಥಾನ (ಮಾನಿತವಿಶ್ವವಿದ್ಯಾಲಯ)

ರಾಜೀವಗಾಂಧಿ ಪರಿಸರ ಶೃಂಗೇರಿ.

 

 

 

 

Wednesday, September 24, 2025

ಡಾ. ಎಸ್.ಎಲ್. ಭೈರಪ್ಪ - ಒಂದು ಚಿರಸ್ಮೃತಿ

 

ಡಾ. ಎಸ್.ಎಲ್. ಭೈರಪ್ಪ -  ಒಂದು ಚಿರಸ್ಮೃತಿ



 

ಡಾ. ಎಸ್.ಎಲ್. ಭೈರಪ್ಪ ನವರು ದೈವಾಧೀನರಾದರೆಂದು ತಿಳಿದು ತುಂಬ ಹೃದಯ ಭಾರವಾದಂತಾಯಿತು. ನನ್ನ ಮನೆಯವಳಾದ ಅಖಿಲಾ ಹೇಳಿದಳು ನೀವೇಕೆ ಅವರ ಬಗ್ಗೆ ನಾಲ್ಕು ಮಾತು ಬರೆದು ಹೃದಯದ ಭಾರ ಕಡಿಮೆ ಮಾಡಿಕೊಳ್ಳಬಾರದು ಅಂತ. ನನಗೆ ಆಕೆಯ ಸಲಹೆ ಸರಿಯೆನಿಸಿ ಬರೆಯುತ್ತಿದ್ದೇನೆ.

ಊರಿನ ನಮ್ಮ ಮನೆಯಲ್ಲಿ ನನ್ನಣ್ಣ ಸುಬ್ರಹ್ಮಣ್ಯ ಹೆಬ್ಬಾರ್ ವಸ್ತುತಃ ಭೈರಪ್ಪನವರ ಕಾದಂಬರಿಗಳಲ್ಲಿ ಒಂದಾದ “ನಾಯಿ ನೆರಳ”ನ್ನು ನಾನು ಹೈಸ್ಕೂಲ್ ನಲ್ಲಿ ಓದುತ್ತಿರುವಾಗ ಮನೆಗೆ ತಂದಿದ್ದ. ನಾನು ಭೈರಪ್ಪನವರ ಬರಹವನ್ನು ಇಷ್ಟಪಟ್ಟಿದ್ದೇ ಆ ಒಂದು ಕಾದಂಬರಿಯ ಮೂಲಕ. ನಮ್ಮ ಹೆಮ್ಮೆಯ ಸನಾತನ ಹಿಂದೂ ಧರ್ಮದ, ನಮ್ಮ ಭಾರತೀಯ ಸಂಸ್ಕೃತಿಯ ಸೌಗಂಧದ ಅಸ್ವಾದ ಅಕ್ಷರಗಳಲ್ಲಿ ಶ್ರಮವಿಲ್ಲದೆ ಆಗಬೇಕಾದರೆ ಭೈರಪ್ಪನವರ ಕಾದಂಬರಿಗಳನ್ನು ಓದಬೇಕು. ನಾಯಿ ನೆರಳನ್ನು ಓದಿ ನಮ್ಮ ಸಂನ್ಯಾಸಿಗಳ ಸಿದ್ಧಪುರುಷರ, ಯೋಗಿಗಳ, ಬೈರಾಗಿಗಳ ಮೇಲಿನ ಸದ್ಭಾವನೆ ನೂರ್ಮಡಿಯಾಯಿತು. ನಮ್ಮ ಹಳ್ಳಿಗಳ ಜನರ ಜೀವನದಲ್ಲಿ  ಹಾಸುಹೊಕ್ಕಾದ ಸರಳತೆ, ಮುಗ್ಧತೆ, ಸಹಿಷ್ಣುತೆಗಳ ಜೊತೆಗೆ ಮಾನವಸಹಜ ಅರಿಷಡ್ವರ್ಗಗಳು ಹೇಗೆ ನಮ್ಮ ಸುಖದುಃಖಗಳನ್ನು ಕುಣಿಸುತ್ತವೆ ಎಂಬುದನ್ನು ಅವರ ಕಾದಂಬರಿಗಳಲ್ಲಿ ಚೆನ್ನಾಗಿ ಕಾಣಬಹುದಾಗಿದೆ. ಅವರು ಬರೆಯುವ ಕಾದಂಬರಿಗಳು ನಮ್ಮ ಜೀವನಕ್ಕೆ ಅದೆಷ್ಟು ಹತ್ತಿರವಿರುತ್ತವೆ. ಜೊತೆಗೆ ಅವರು ಯಾವುದೇ ಒಂದು ಕಾದಂಬರಿಯನ್ನು ಬರೆಯಬೇಕಿದ್ದರೆ ಅದಕ್ಕಾಗಿ ಅವರು ಮಾಡುವ ಸುದೀರ್ಘ ಪೂರ್ವಸಿದ್ದತೆ ಅವರ ಕೃತಿಗಳ ಘನತೆಯನ್ನು ತುಂಬ ಎತ್ತರಕ್ಕೇರಿಸುತ್ತದೆ. ಹಾಗಾಗಿಯೇ ಅವರ ಮೇಲಿನ ಗೌರವ ಕೂಡ ಅದೇ ರೀತಿ ಹೆಚ್ಚುತ್ತದೆ.

“ಪರ್ವ” ಬರೆಯುವುದಕ್ಕಿಂತ ಮೊದಲು ಅವರು ಆರು ತಿಂಗಳುಗಳ ಕಾಲ ಮಹಾಭಾರತ ನಡೆದ ಉತ್ತರಭಾರತದ ಜಾಗಗಳನ್ನೆಲ್ಲ  ಸಂದರ್ಶಿಸಿ, ಅಧ್ಯಯನ ಮಾಡಿ ಬರೆದರಂತೆ. ೬೦೦ ಪುಟಗಳ ಪರ್ವವನ್ನು  ಒಂದೇ ಉಸಿರಿನಲ್ಲಿ ಓದಿ ಮುಗಿಸಿದ್ದೆ. ಆದರೆ ಕೊನೆಗೆ ತುಂಬ ಬೇಸರ ಆಯ್ತು ಯಾಕೆ ಗೊತ್ತ ? ೬೦೦ ಪುಟಗಳಿಗೇ ಪರ್ವವನ್ನ ಭೈರಪ್ಪನವರು ನಿಲ್ಲಿಸಿದರಲ್ಲ/ಮುಗಿಸಿದರಲ್ಲ ಅಂತ.

          “ತಬ್ಬಲಿ ನೀನಾದೆ ಮಗನೆ”ಯ ಸವಿಯನ್ನು ಸವಿಯಲು, ವಂಶವೃಕ್ಷದ ಸೌರಭವನ್ನು ಆಘ್ರಾಣಿಸಲು, ಸಂಗೀತದ ಆಳ ಅಗಲವನ್ನು ಪರಿಚಯಿಸುವ ಮಂದ್ರದ ಮಾಧುರ್ಯವನ್ನು ಅನುಭವಿಸಲು, ದೇಶಸೇವೆಯ ಸಂಕಲ್ಪವನ್ನು ಗಟ್ಟಿಗೊಳಿಸುವ ಧರ್ಮಶ್ರೀಯನ್ನು ಪಡೆಯಲು, ಕಾಂಗಿಗಳು ಮತ್ತು ವಾಮಚಿಂತಕರು ಸೇರಿ ಮುಚ್ಚಿಟ್ಟ ಮುಘಲರ ಇತಿಹಾಸದ ಕರಿಪುಟಗಳನ್ನು ಆವರಣದ ಮೂಲಕ ಅರಿಯಲು, ಸಾರ್ಥದ ಮೂಲಕ ಸನಾತನಧರ್ಮದ ಪುನರುತ್ಥಾನದ ಕಾರ್ಯವನ್ನು ಮಾಡಿದ ಭಗವತ್ಪಾದ ಶಂಕರರ ಹೆಜ್ಜೆಗುರುತನ್ನು ಅರಿತು, ಖೂಳ ತುರುಕರ ಬರ್ಬರತೆಯ ಬರುವಿಕೆಯನ್ನು ನೋಡಿ ಎಚ್ಚರಗೊಳ್ಳಲು, , , , , , ಭೈರಪ್ಪನವರನ್ನು ನಮಗೆ ಕರುಣಿಸಿದ ಭಗವಂತನಿಗೆ ನನ್ನ ಕೋಟಿ ನಮನಗಳು. ಅವರ ಈ ಪರಿಪೂರ್ಣ ಸಾರಸ್ವತ ಯಾತ್ರೆ ಅವರಿಗೆ ಪರಮ ಪುರುಷಾರ್ಥವನ್ನು ಕರುಣಿಸುವಂತಾಗಲಿ ಎಂದು ಶೃಂಗೇರಿಯ ಉಭಯ ಜಗದ್ಗುರುಗಳನ್ನು ಮತ್ತು ಜಗನ್ಮಾತೆ ಶಾರದಾಂಬೆಯನ್ನು ನಮ್ರನಾಗಿ ಬೇಡಿಕೊಳ್ಳುತ್ತೇನೆ.

ಹರಿಪ್ರಸಾದ ಕೆ.