Saturday, September 23, 2023

चतुर्थाध्यायः - संस्कृतं दमनसाधनत्वेन परिगणितम्, संस्कृताय सङ्ग्रामः

श्रीगुरुभ्यो नमः

संस्कृताय सङ्ग्रामः

चतुर्थाध्यायः - संस्कृतं दमनसाधनत्वेन परिगणितम्

 

    भारतशास्त्रम्(इण्डालजी) इत्यत्र सङ्कटस्थितिः, नूतनपरिहारश्च

         १९७० तमे इसवीये वर्षे एड्वर्ड सईद इत्याख्यः  "ओरियण्टलिसम्" इत्याख्यं पुस्तकं लिखितवान् आसीत् । तत्र एकः प्रबन्धः  अस्ति यः प्रबन्धः भारते अन्यत्र च उपनिवेशवादं समर्थयतां पाश्चिमात्यानां विदुषां  भूमिकां  प्रकटीकरोति । अनेन पाश्चात्याः शिक्षाविदः  स्वीयकार्यक्षेत्रस्य सङ्कटस्थितिविषये आत्मावलोकनं कर्तुं प्रेरिताः । तेषु सः प्रबन्धः अपराधिभावनां च उदपादयत् ।  पूर्वं भारतस्य विषये ते यथा चिन्तयन्ति स्म तथा कर्तुं ते भीतिम् अनुभवितुम्  आरब्धवन्तः । तेषु बहवः भारतस्य निर्वचनं कर्तुं प्रवृत्तां तदीयां  पूर्वतनां भूमिकां निर्वोढुं  भीतिम् अनुभवन्ति स्म । यतो हि सा योजना जातीयप्रभावेण "ओरियण्टलिसम्" इति नाम्ना कलङ्किता आसीत्

सन्देहस्य परिणामात्मकस्थितिं बौद्धिकनपुंसकतारूपेण शेल्डन पोलॉक् वर्णयति ।  लिखति च – “उत्तरौपनिवेशिके जगति, प्रलयोत्तरजगति च....एतादृशाः साम्प्रदायिकाः आधाराः, भारतशास्त्रस्य च उपयोगाः अदृश्याः जाताः सन्ति” । “अपि च नपुंसकतायाः भावनां प्रति उद्देशविहीनतां च प्रति नयति”। तस्य पोलाकस्य अनुसारं – भारतशास्त्रविदः “बहुकालपर्यन्तं यत् ते कुर्वन्ति तत् किमर्थं कुर्वन्तः सन्ति इति न जानन्ति स्म”। सः एतान् शब्दान् १९९३  तमे इसवीयवर्षे लिखितवान् यस्मिन् समये सयीदस्य कृतिः अन्येषां विशिष्य भारतशास्त्रस्य पाश्चात्यैः क्रियमाण-अध्ययनानां विनाशकारिपरिणामं  साधितवती आसीत् ।

          सईदस्य लेखनकारणतः औपनिवेशिकाध्ययनस्य नवीनक्षेत्रं विकसितम् अभवत् । पाश्चात्यं तदीयं भारतशास्त्रं च विम्रष्टुम् भारतीयाः महत्या संख्यया अस्मिन् क्षेत्रे प्रविष्टाः । दौर्भाग्यात् ते भारतीयानां शास्त्रार्थानां विषये अधिकं न ज्ञातवन्तः आसन् । तत्परिणामतः तैः कृताः पाश्चात्यानां विमर्शाः(इदानीमपि) प्रायः पूर्णतः पाश्चात्यसिद्धान्तान् पद्धतीः च आश्रित्य एव सन्ति । भारतस्य विषये स्वातन्त्र्योत्तरकालिकानि अध्ययनानि निम्नानि(Subalternism) इव परिवर्तितानि यत्र विद्यमानानां दोषाणां कारणं क्रैस्तवमतम्/ईसाईमतम् उपनिवेशवादः च इत्येतत् परित्यज्य हैन्दवधर्मः, अत्रत्या जातिव्यवस्था चेति स्वीकृतम् ।  एते Subalternist विद्वांसः पाश्चात्यानाम् मान्यतानां, जातिव्यवस्थायाः च विषये तदीयानां सिद्धान्तानाम् उपयोगम् अनुवर्तितवन्तः । अतः  एतत् भारतीयानां दृष्ट्या यथार्थः पूर्वपक्षः नासीत् । अस्मिन् क्षेत्रे विद्यमानाः भारतीयाः विद्वांसः इदानीमपि पाश्चात्येभ्यः आदत्तानि/स्वीकृतानि चिन्तनप्रारूपाणि उपयुञ्जानाः सन्ति । तानि चिन्तनप्रारूपाणि – साम्यवादः(मार्किसम्), पोष्ट् माडर्निसम्,  आन्त्रोपोलाजी, जात्यतीतवादः(सेक्युलरिसम्), पाश्चात्यस्त्रीवादः, विमर्शसिद्धान्तः(क्रिटिकल् थियरी),  इत्यादीनि । भारतस्य उद्यमपतीनां पाश्चात्यश्वेतचर्माणः इव, बुद्धिजीविनः च इव परिवर्तनाय, अथवा न्यूनातिन्यूनं कृत्रिमबुद्धिजीविनः इव परिवर्तनाय एषः मार्गः अनुसृतः इति अहं तत् विमृष्टवान् ।

          मम दृष्ट्या पारम्परिकाः भारतीयाः विद्वांसः उपनिवेशोत्तरकालिकस्य(स्वातन्त्र्योत्तरकालिकस्य)  एतादृशस्य अध्ययनस्य नवीनक्षेत्राणाम् अग्रणित्वस्य सुमहान्तम् अवसरं न उपयुक्तवन्तः । संस्कृतस्य श्रेणीनां सिद्धान्तानां च उपयोगं कृत्वा पूर्वपक्षित्वेन अस्मदीयैः अस्मिन् पाश्चात्यभारतशास्त्रस्य(Western Indology) क्षेत्रे  तद्विविमर्शनाय प्रवेष्टव्यमासीत् ।

          पाश्चात्याः भारतशास्त्रज्ञाः सम्मुखीकर्तुं नूतनान् उपनिवेशानन्तरकालिकान् विदुषः प्राप्तवन्तः ।  ते भारतशास्त्रविदः  सहजतया आत्मरक्षात्मकरीत्या व्यवाहरन् । ते तदीयनवीनभूमिकां स्रष्टुं तदीयक्षेत्रस्य पुनर्व्याख्यानाय प्रयत्नं कृतवन्तः । यथा तत्कालीनार्थैः सह प्राच्यवादे संलग्नाः सन्ति इति आरोपात् विमुक्त्यर्थम् ते तदीयं क्षेत्रं पुनःप्रतिष्ठापयितुम् अभिलषितवन्तः । इदं कार्यं सरलं न आसीत् । यतो हि येषां संस्थानानां निमित्तं कार्यं कृतम् तेषु बहूनां संस्थानानाम् औपनिवेशिकः सम्बन्धः आसीत्  । एतदतिरिच्य तदीयक्षेत्रे  उपयुक्ताः सिद्धान्ताः, रीतयः, भाषावैशिष्ठ्यानि चेत्याद्यंशाः औपनिवेशिके काले विकसिताः आसन्, किञ्च दमनेन/उत्पीडनेन सम्बद्धाः आसन् ।

          एषः कश्चन अवसरः इति शेल्डन पोलॉक् चिन्तितवान् ।  १९९३ तमे संवत्सरे तदीये शोधपत्रे भारतशास्त्रस्य क्षेत्रम् एवं परिवर्तयितुम् अपेक्षां कृतवान् येन औपनिवेशिके काले दमनकर्तॄणां दमनाय सहायकम् आसीत् इति न ज्ञायेत । तद्विरुद्धतया भारतशास्त्रम् एवं दर्शयितुम् अभिलषितवान् यत् “भारतशास्त्रं भारतं संरक्षितुं विद्यमानम् संसाधनम् अस्ति” इति । सः एकं तर्कम् उपन्यस्य अत्र सफलतां प्राप्तवान् यत् प्राच्यवादः बहोः कालात् पूर्वमेव, इत्युक्ते ऐरोप्यानां प्राच्यवादस्य आविष्करणात् पूर्वमेव संस्कृते निहितः आसीत् इति । संस्कृतमेव दमनस्य साधनम् आसीत् इति प्रतिपादनाय एषः पोलाकस्य कश्चन चातुर्यपूर्णः उपायः आसीत् ।

          तस्य वादानुगुणम् – संस्कृतग्रन्थानां  काश्चन निर्दिष्टाः संरचनाः विचाराश्च दमनात्मिकाः सन्ति । पाश्चात्याः प्राच्यवादिनः एताः समस्याः न उत्पादितवन्तः इति सः कथयति । ते संस्कृतस्य अध्ययनेन दमनकारिलेखनं कथं भवति इति ज्ञातवन्तः  इति । शेल्डन पोलॉक् तस्य सम्पूर्णपत्रे अधिकारार्थं भारतीयविचारसरणिः कथम् आसीत् इति प्रतिपादयति – पारम्परिकभारतीयविचारः एवम् आसीत् येन असमानतायाः व्यवस्थितसमग्रसंरचनाः प्राच्यवादस्य प्रदर्शिकाः इति ग्रहीतुं शक्यन्ते इति । तस्य दृष्ट्या पूर्वरूपम् इत्यस्य इदमस्ति तात्त्पर्यम् – साम्प्रदायिके भारते प्राच्यवादः प्रारम्भिकरूपेण आसीदेव । एतस्य दर्शनाय स्थानम् इदम् भवितुम् अर्हति यत् “असमानतायाः व्यवस्थिताः समग्राः रचनाः भवन्ति”  इति एकः वाक्यांशः यस्य माध्यमेन जातिव्यवस्थां सः सङ्केतयति । एषः निबन्धः तस्य कर्मणः विषये अत्यन्तं स्पष्टरूपेण मुखरतया च कथयति इति अधोलिखितरूपेण अहं  प्रदर्शयिष्यामि ।

सः एतत् प्रमाणीकर्तुम् इच्छति यत् – नाजीवादः अङ्ग्लेयानां प्राच्यवादश्च केवलं तादृशस्य सामाजिक-राजनैतिक-उत्पीडनस्य आधारेण प्रवृत्तः यश्च आरम्भतः संस्कृतभाषायां ग्रन्थेषु च आसीत्, यश्च भारतीयसमाजे  विद्यमानमेव तत्त्वं ग्रन्थेषु प्रतिफलितं भवति  । सः शेल्डन पोलॉक् एवम् आग्रहेण कथयति यत् – अत्रत्यानां ब्राह्मणानाम् आङ्ग्लेयानां च समानः सैद्धान्तिकः आधारः भारते आङ्ग्लेयानां शासनं सुदृढं कर्तुं स्वीयं योगदानं प्रायच्छत् । भारतस्य गण्याः ब्राह्मणाः औपनिवेशिकाङ्ग्लेयाः इव आसन् ।  अङ्ग्लजनाः नूतनं किमपि (अन्याय्यम्) भारते न कृतवन्तः । ते आङ्ग्लेयाः तदीयपादरक्षासु स्वीयपादानां स्थापनमिव केवलं कार्यं कृतवन्तः । संस्कृतम् एतादृशरीत्या चित्रयन् शेल्डन पोलॉक् संस्कृते एव उत्पीडनस्य स्रोतासां स्थानकल्पनं कृतवान् । 

शेल्डन पोलॉक् भारतशास्त्रस्य नवीनप्रकारं प्रतिपादितवान् यं सः Post Orientalism” इति कथयति ।  एषः प्राच्यवादस्य नवीनः प्रकारः पूर्वतनः प्राच्यावादः इव दमनप्रवृत्तेः सहायकत्वेन कार्यं न करोति, प्रत्युत दमनस्य परिहारोपायदातृत्वेन कार्यं करोति” इति ।   भारतशास्त्रज्ञाः(Indologists) सम्प्रति शोषितानाम् उन्मोचनकर्तारः नायकाः इव  आत्मानं दर्शयितुम् इच्छन्ति । दमनकर्तारः पाश्चात्याः भवन्ति इति इतः परं न उच्यते । वस्तुतः सामाजिकसमूहत्वेन ब्राह्मणाः एव भारतस्य शोषकाः आसन्, संस्कृतं च तेषां शस्त्रम् आसीत् ।  अतः शेल्डन पोलॉक् पाश्चात्यभारतशास्त्रस्य आभ्यन्तरे एव एकः श्रेष्टः नूतनः आविष्कर्ता इव अभवत्  । सः भारतशास्त्रस्य क्षेत्रं नूतनवञ्चनातन्त्रेण पूर्णतः एवं परिवर्तितवान् येन  भारतशास्त्रस्य समीकरणं शोषकैः सह न भवेत्, प्रत्युत शोषितानां कृते मानवाधिकारप्रदातृत्वेन भवेत् ।

सः शेल्डन पोलॉक् तेषां भारतशास्त्रज्ञानां निन्दकः अस्ति ये औपनिवेशिकभारतस्य मादकं चित्रणं कुर्वन्ति । यतो हि संस्कृतस्य दुरुक्तीः शाश्वतीकर्तुं ते तत्पराः सन्ति इति सः शेल्डन पोलॉक् अभिप्रैति । Pre Orientalist Orientalismइति शीर्षकेण औपनिवेशिकवादिभिः क्रैस्तवधर्मप्रचारकैः च  पक्षपातः कृतः इति कथयत्सु जनेषु शेल्डन पोलॉक् दोषं पश्यति । भारतस्य समस्यायाः कारणम् औपनिवेशिकवादः इति निन्दन्तः भारतीयाः पाश्चात्याः च भारतशास्त्रज्ञाः एवं रोगिणः जायमानाः सन्ति यैः उच्यते - पाश्चात्यानाम् उपनिवेशात् पूर्वतनं भारतम् आदर्शपूर्णम् आसीत् इति  । आङ्ग्लेयाः सामान्यतः दमनकारिणः आसन् इति आरोपः अस्ति । किन्तु सः शेल्डन पोलॉक् वदति – एतत् ब्राह्मणानाम् उपनिवेशपूर्वकालिकात् प्राच्यवादात् वरतरम् अस्ति इति ।  सः जातिव्यवस्थाम् उपनिवेशात्(ऐरोप्यानाम् भारते शासनात्) पूर्वकालिकीम् मन्यते या च पद्धतिः सर्वतोभावेन निन्दितुम् अर्हा वर्तते इति ।

तस्य पोलाकस्य भारतविषयकम् अध्ययनम् अनेन प्रश्नेन प्रेरितम् अस्ति – “पूर्वं भारते विद्यमानेषु साम्प्रदायिकेषु प्राबल्यप्रकारेषु कः प्रकारः सम्प्रत्यपि पङ्किलकलङ्कवत् जीवति ?”  इति ।  एकवारं सः यदा एतादृशं साम्प्रदायिकप्राबल्यस्य प्रकारं ज्ञास्यति तदा सः तं मार्जयितुम् अर्हति ।  अनन्तरं सः संस्कृतपरम्परायाः विषं नाशयितुम् अर्हति ।  सः तस्य सहकर्मिणां भारतशास्त्रविदां विषये एवम् आरोपयति यत् ते स्वभूमिकाविषये अनभिज्ञाः जटिलाः च  सन्ति इति । यतो हि ते सहकर्मिणः संस्कृतं बहु प्रेमपूर्णम् अस्ति इति भावयन्ति ।

भारतशास्त्रस्य औपनिवेशिकाः आधाराः(एतदर्थम्) दुर्बलाः जाताः स्युः, किन्तु तेषां स्थाने नव-औपनिवेशिकाः आधाराः प्रतिष्ठापिताः सन्ति । एते सूक्ष्मविश्लेषणार्थं प्रतीक्षन्ते । अस्मदीयाः केचित् भावयन्ति यत् अधिकारस्य पुनःप्रतिष्ठापनविषये अस्माकं भूमिकासम्बद्धम् अज्ञानम् अस्माकं कार्यविषये सन्दिग्धतायाः कारणीभूतं भवेत् इति

राज आश्विट्ज इत्येताभ्यां बहुदूरे स्थित्वा शेल्डन पोलॉक् भारतशास्त्रस्य निर्माणं कथं कर्तव्यम् इति पाठयितुम् इच्छति ।  सः औपनिवेशोत्तरकालिकस्य कटुसाम्प्रदायिकस्य भारतशास्त्रस्य आरम्भणाय प्रस्तावं करोति, यच्च भारतशास्त्रम् संस्कृतस्य भारतीयसम्प्रत्ययश्रेणीनां पन्थाह्वानरूपेण भवेत् । सः पुनः एवं प्रतिपादयति – ऐरोप्यकेन्द्रीकरणस्य निराकरणवेलायाम् अस्माभिः विशेषतः तस्य प्रतिबिम्बमिव जायमानात्  तृतीयविश्ववादात्  जागरूकैः भाव्यम् यच्च अत्यन्तम् असमीचीनम् अस्ति । पाश्चात्यानां दमनकार्यं, तृतीयविश्वस्य च दमनकार्यं च परस्परं एकम् अपरस्य प्रतिबिम्बम् अस्ति । अनया रीत्या निरन्तरम् आरोपयति यत् - संस्कृतं न केवलम् उपनिवेशकालिकं दमनम् इव असमीचीनम्,  अपि तु तादृशस्य दमनस्य प्राथमिकं स्रोतः एव अस्ति इति ।

शेल्डन पोलॉक् तेन प्रतिपादितानि संस्कृतस्य वैशिष्ट्यानि  “गभीरः प्राच्यवादः” इति शेर्षकोपेते शोधपत्रे उल्लिखति । एतत् गभीरं किमर्थम् अस्ति इत्युक्ते  तस्य मौलिकं स्रोतः संस्कृतस्य भाषागतसंरचनासु निहितम् अस्ति, यस्य प्रकाशनं संस्कृतग्रन्थेषु, संस्कृतज्ञानपरम्पराधारितेषु समाजेषु च भवति । सः नूतनरीत्या भारतशास्त्रस्य प्रारूपम् अधोलिखितरूपेण प्रतिपादयति –

१.    सः आदौ अङ्गीकरोति । अनन्तरं कथयति – मानवतावादस्य विद्वत्तायाः सम्पूर्णयोजना तस्य शरणागतेः सन्धेश्च कारणतः शङ्कास्पदम् अस्ति इति ।  

२.    अनन्तरं भारतीयान् तदीयायाः संस्कृतेः केभ्यश्चित् अंशेभ्यः संरक्षितुम्  सः भारतशास्त्रस्य नूतनम् उद्देश्यं परिकल्पयति । ते च अंशाः विविधानां सामाजिक-अस्वस्थतानां मूलानि सन्ति इति सः वदति ।

३.    शेल्डन पोलॉक् उपनिवेशात् पूर्वतनान् संस्कृतग्रन्थनिर्मातॄन् “भारतीयान् प्राच्यविदः” मन्यते । यतो हि ते  तादृशरीत्या चिन्तितवन्तः लिखितवन्तश्च यया दोषाः स्थिरीकृताः भवन्ति । शतशः वर्षेभ्यः ब्राह्मणाः, सामान्यतः हैन्दवाः दलितानां, महिलानाम्, मुसल्मानानां च दमनस्य समर्थनाय संस्कृतस्य प्राबल्यम् उपयुक्तवन्तः । अतः दमनस्य बीजं संस्कृतस्य DNA  मध्ये एव अस्ति ।

४.    सः विशेषतः भारतस्य उपरि तुरुष्काणाम् आक्रमणात् पूर्वतनानां ग्रन्थानाम् उपरि अवधानं केन्द्रीकृत्य तर्कम् उपस्थापयति यत्  तादृशग्रन्थाः  साम्प्रतमपि सामाजिकं तारतम्यम् उत्पाद्य तत् संरक्षन्ति इति ।  एतासां समस्यानाम् मूलं हैन्दवधर्मः इत्येव प्रदर्शयितुम् तेन चितानां ग्रन्थानां रचनासमयः निर्णायकः भवति ।

५.    संस्कृतं केवलं स्थानीयसमस्यानाम् मूलम् एव इति न, प्रत्युत वैश्विकसमस्यानामपि मूलम् अस्ति इति सः आग्रहेण कथयति ।  उदाहरणार्थं - आङ्ग्लेयाः भारतशास्त्रविदः संस्कृतस्य आरम्भतः विद्यमानम् अधिपत्यम् तदीयाय औपनिवेशिकविमर्शाय उपयुक्तवन्तः । जर्मनदेशीयम् भारतशास्त्रम् संस्कृतात् फ़ासिष्टवादार्थं, तद्देशीयहत्याप्रकरणस्य समर्थनाय च तर्कान्  संरचनाश्च स्व्यकरोत् ।

६.    संस्कृते विद्यमानानां सामाजिकगरलानां निर्मूलनाय भारतस्य समाजे राजनीतौ च सक्रियतया प्रविश्य कार्यं कर्तुम् सः शेल्डन पोलॉक् पाश्चात्यबुद्धिजीविनाम् आह्वानं करोति ।

शेल्डन पोलॉक् अग्रे भारतशास्त्रस्य कार्यम् अधोलिखितरूपेण विवृणोति –  

उत्तरप्राच्यवादिभारतशास्त्रस्य एकं कार्यम् इदं भवेत् यत् उत्खननम्, पृथक्करणम्, विश्लेषणम्, सिद्धान्तीकरणं चेति । एवं च दमनस्य विविधप्रकाराणां विषये साम्प्रदायिके भारतीयसमाजे अत्यन्तम् अल्पभाषणेन एतत् कार्यं कर्तव्यम् । सर्वतोभावेन सम्प्रदायानाम्, इतिहासानां संस्कृतीनां च साम्राज्यवादात्(उक्तम् १९८९: २१९) प्रत्यादानस्य योजनायां साहाय्यं कर्तुं सर्वोऽपि उत्सुकः अस्ति । किन्तु वयं विस्मर्तुं शक्नुमः किम् यत् – अधिकाधिकाः सम्प्रदायाः संस्कृतयश्च महिलानां, विशिष्य सर्वापेक्षया स्थानीयसमुदायानाम् स्वाधिकारस्य दमनात्मकं शासनं आसीत् इति ।०९

भारतस्य प्राचीनसंस्कृतीनां सम्प्रदायानां च पुनराख्यानवेलायां जागरितः भवतु इति पोलाकस्य विद्वद्गणः सूच्यते । यतो हि तानि ’उत्पीडनस्य साम्रज्यानि’ आसन् । सः अङ्गीकरोति यत् अत्र हस्तक्षेपः विवादास्पदं भवति इति । किन्तु  तादृशः विवादः अपरिहार्यः अस्ति –

अन्येषां सम्प्रदायेषु विषवस्तुरूपेण हिंसायाः स्वीकरणं पाश्चात्यानां विदुषाम् कश्चन भीकरः उद्यमः अस्ति  । विशेषतः पाश्चात्यानां हिंसायाः बलिरूपेण यदा ते संवृत्ताः अभवन् ।  (संस्कृतयः स्वीयनियमानाम् अनुष्ठाने विफलाः भवन्ति,  आन्तरिकविरोधानां दमनस्य प्रामाण्यम् चेति स्थितिद्वयम् एतादृशं विनाशं न्यूनीकरोति) तथापि  कोऽपि एतस्मात् रक्षितः भविष्यति ? अपि च पुनः यः विमर्शकः,उत्तरदायित्वपूर्णः, आत्मप्रत्ययवान् अस्ति सः भारतशास्त्रस्य अभ्यासं कर्तुं शक्नोति ?१०

उपर्युक्ते उद्धरणे कोष्टकस्थटिप्पण्याः अवगमनं महत्वपूर्णम् अस्ति । तत्र एतत् उक्तं यत् – अद्यत्वे पश्चिमदेशेषु उत्पीडनस्य/दमनस्य सम्भावना न्यूना अस्ति । यतो हि तत्र असहमतिः आन्तरिकविरोधश्च अस्ति । अन्यैः शब्दैः एवं वक्तुं शक्यते – पाश्चात्याः तदीयनियमानुगुणम् क्रीडनापेक्षया प्रतिरोद्धुं प्रवर्तन्ते । किन्तु भारतीयाः(भाग्यवादिनः सन्ति इत्यतः शास्त्रैः बद्धाः सन्ति) तदीयसंस्कृतेः कठोरनियमैः बद्धाः सन्ति । तेषु अन्याय्यं विरुद्ध्य प्रतियोद्धुम्, अथवा विभागेषु अग्रे सर्तुम् कोऽपि उपक्रमः नास्ति । 

अनेन भारतशास्त्रविदां हस्तक्षेपं तर्कसङ्गतं कर्तुं शेल्डन पोलॉक् साहाय्यं प्राप्नोति ।  अन्यैः शब्दैः एवं वक्तुं शक्यते – सुदीर्घकालस्य दमनकारिसाम्राज्यानां निर्मातॄन् संस्कृताधारितान् सिद्धान्तान् जेतुम्  पाश्चात्यानां मानवतावादि-उदारचिन्तनानि  भारते हस्तक्षेपं  कर्तुं समर्थनं ददति ।  संस्कृतम् अपराधि अस्ति इति सः वदति –

संस्कृतम् आधुनिकपूर्वभारते दमनस्य प्रधानविचारविमर्शाणां साधनम् आसीत् । एतदतिरिच्य आधुनिके भारते समाजस्य बहूनां प्रतिक्रियाकारिणाम् मतीयविभागानां माध्यमेन एतत् पुनः पुनः उपयुक्तम् अस्ति११

एतत् संस्कृतस्य दमनात्मकं नियोजनम् अद्यापि अनुवर्तते इति शेल्डन पोलॉक् एवं कथयति –

संस्कृते सूचितं साम्प्रदायिकं प्राबल्यं भारतस्य ’समाप्तः इतिहासः’ नास्ति । निश्चयेन एवं भवितव्यम् यत् भागशः पर्याप्तमात्रया अविमृष्टायाः भूतकालिकसंगृहीतशक्तेः कारणातः, एतत्सम्बद्धं आर्थिकं संस्थागतं च प्रारूपं दुर्बलीकर्तुं निर्मितानां विधीनां  सत्वेऽपि  विभिन्नैः कठोररूपैः(द्विजन्मनां वित्तविनिवेशवादिशोषणस्य   विविधविषसंवर्धनेन ) साम्प्रदायिकं प्राबल्यं जीवति ।१२

सः विषादं प्रकटयति यत् विद्वांसः सर्वेऽपि एतत् उपेक्षितवन्तः इति । अतः अद्यत्वे भारतशास्त्रस्य लक्ष्यम् तावत् इदं भवेत् इति सः कथयति -  बहिरानयनम्, पृथक्करणम्, विश्लेषणम्, सिद्धान्तीकरणम्, साम्प्रदायिकस्य प्राबल्यस्य विभिन्नानां रीतीनां विरुद्धतया सर्वत्र संवादानां आयोजनञ्च इति ।

प्राचीनसम्प्रदायेषु संस्कृतस्य उपयोगविषये विद्यमानानां सामाजिकप्रतिबन्धानां  पुनर्व्याख्यानम् आश्रित्य तस्य पोलाकस्य विमर्शः प्रवर्तते । सः कथयति – समाजस्य केषाञ्चिदेव वर्गाणां कृते  संस्कृतस्य उपयोगार्थम् अवसरः आसीत् ।  तस्य दृष्ट्या – बौद्धानां कारणतः संस्कृतं किञ्चिदिव एकस्वामित्वात् बहिरागतम् । तथापि पश्चात् पुनः राजनैतिकस्य अधिकारस्य प्राप्तये साधनत्वेन संस्कृतम् पर्यवसितम् ।  राजानः संस्कृतं संस्कृतेः स्थिरीकरणाय,  अपि च “सांस्कृतिकशक्तिसर्जनस्य” निर्माणाय उपयुक्तवन्तः14 । केन उद्देशेन कः एतत् सर्वं अधीयीत इति ते निश्चितवन्तः ।  सः शेल्डन पोलॉक् एनम् अंशम् एवं विशदीकरोति –

एतत् संवहनस्य साधनं/रीतिः आसीत् । एनां रीतिम्/साधनम् उपयोक्तुं सर्वेषाम् अधिकारः नासीत् । केचन एव एतस्य इदानीमपि उपयोगं कर्तुम् अर्हन्ति । एतत् तथा नासीत् यत् सामान्यतः  केचन संस्कृतम् उपयुक्तवन्तः, केचन न उपयुक्तवन्तः इति । तद्विपरीततया केभ्यश्चित् उपयोक्तुम् अनुमतिः आसीत्, केभ्यश्चित्   बृहत्समूहगतेभ्यः, ये उपयोक्तुं समर्थाः आसन्, तेभ्यः  अनुमतिः निषिद्धा आसीत् । संस्कृतस्य अनुप्रयोगार्थम् एकं प्राथमिकं प्राकृतिकम् कवचं प्रकल्पितम् । एषः आश्चर्यस्य विषयः नास्ति यत्  यथा धार्मिककार्येषु भागग्रहणाय निर्बन्धाः भवन्ति, यथा वा संस्कृतभाषाभाषिसमुदायस्य मध्ये साहित्यिकविचारमन्थनाय भागं ग्रहीतुम्  निर्बन्धः भवति तथा एषः निर्बन्धः कृतः । तस्य संस्कृतभाषाभाषिसमुदायस्य सदस्याः स्वयम् आत्मानम् आर्यं मन्यन्ते ।१५

परिणामतः, शेल्डन पोलॉक् उपनिवेशोत्तरयुगे  प्राच्यवादं नवपरिधानेषु परिवर्त्य पुनरुज्जीवयितुम् इच्छति स्म ।  सः पाश्चात्यभिन्नं भारतशास्त्रम् निन्दितुम्/विम्रष्टुम् इच्छति, यथा – संस्कृताधारितानि भारतशास्त्राणि येषु अधिकारस्य महान् संवादः प्रवर्तते । अयं च अधिकारः प्रपञ्चम्  निम्नोच्चभेदेन विभाजयति । किञ्च एषः अधिकारः कस्यचित् जातिविशेषस्य/समूहस्य प्राबल्यं वर्धयति । तस्य नूतनं विधानं/शैली (यच्च अमेरिकीयः प्राच्यवादः इति उच्यते)  तान् तदीयान्तरङ्गिकदमनात् मुक्तान् करोति यस्य च कारणं संस्कृतस्य गभीरसंरचनाः सन्ति । पूर्वतनः प्राच्यवादः तु भारतीयानाम् उपरि अधिकारस्य सौविध्यरूपेण  दृश्यते स्म ।

संस्कृतं धर्मनिरपेक्षं कर्तुम् आरब्धं पोलाकस्य आन्दोलनं,  भारतीयसमाजं पुनारचयितुम् उद्दिश्य तत्परतां प्रदर्शयति ।  पोलाकस्य स्वातन्त्र्यदातृभाषाशास्त्रम्(Liberation Philology) सामाजिकराजनैतिक-आन्दोलनत्वेन संस्कृतस्य अध्ययनं परिवर्तयितुम् इच्छति, येन वैदिकधर्मसम्बद्धं, हैन्दवधर्मसम्बद्धं किमपि अंशं(निन्द्यम् इति तेन चिन्तितम्) सः बहिः प्रकाशयितुम्  शक्नुयात् । सः स्वातन्त्र्यदातृभाषाशास्त्रम्(Liberation Philology) कीदृशी योजना इति एवं वर्णयति –

”उत्तर-धनविनिवेशवादे उत्तर-उपनिवेशवादस्य पूरकत्वेन सम्पादनम्, अथवा भूतकालिकदोषविषयकचिन्ताभिः सह भविष्यत्कालिकगुणानां विषये चिन्ता, विशिष्टविद्वांसः इव लघुभाषाशास्त्रीयक्षेत्रात्  समग्रं भुवनं यावत् विशालसमावेशिसमुदायत्वेन निर्माणाय कर्तव्यबुद्ध्या मार्गाणाम् अन्वेषणम्१८ ।’

ग्रीक्-शास्त्रीयत्वेन आधुनिकोत्तरवादित्वेन च संस्कृतस्य अध्ययनम्

इतरत्र लक्ष्यीकृतम् इव, पोलाकस्य हार्वर्डविश्वविद्यालयस्था पूर्वतनशैक्षिकपृष्ठभूमिः ग्रीक्-शास्त्रीयत्वेन आसीत् । अतः पाश्चात्यैः ग्रीक्-भाषायाः अध्ययनं यथा क्रियते तथा संस्कृतम् अध्येतुम् सः अभिलषति इत्यत्र किमपि आश्चर्यं नास्ति । यदा ऐरोप्यदेशाः शास्त्रीयग्रीक्-भाषायाः अध्ययनं कर्तुम् आरब्धवन्तः१९ तदा पाश्चात्यानां “ज्ञानोदयस्य काले” विकासितस्य राजनैतिकस्य भाषाशास्त्रस्य साधनानि सः उपयुङ्क्ते । शेल्डन पोलॉक् ऐरोप्यकेन्द्रितम् उपागमम् अनुसरति यत्र भाषायाः नियमान् राजनैतिकप्राबल्यानुगुणम् अधीयते । अपि च इदानीन्तनं पाश्चात्यम् आधुनिकोत्तरवादिचिन्तनं (Post Modernist) उपयुज्य सः तत् विस्तारयति ।

आधुनिकोत्तरवादिचिन्तने प्रधानः विचारः कः इत्युक्ते – मूललेखकस्य अभिप्रायः एषः अस्ति इति कमपि विषयं कोऽपि परिगणयेत् इति नास्ति नियमः । अत्र आग्रहः अस्ति यत् लेखकः मृतः अस्ति,  अतः प्रत्येकं व्याख्यात्रा तदीयचिन्तनानुगुणं तदीयदृष्ट्यनुसारं च विषयं पुनर्व्याख्यातुम् अनुमन्यते ।  (एवं कस्यापि लेखकस्य) लिखितसामग्रिं बाह्यसामाजिकराजनैतिकपरिस्थित्यनुगुणं परीक्ष्य  सन्दर्भः पुनर्व्याख्यातव्यः भवति । एतादृशः पुनर्व्याख्यानस्य मार्गः भारतीयानां ग्रन्थानां पावित्र्यं नाशयति । यतो हि एतादृशग्रन्थानां रचनायाः उद्देश्यं, सन्दर्भः, अर्थः च अस्माकम् ऋषिभिः यथा अनुभूतः आसीत् तत् सर्वं अप्रासङ्गिकमिति तैः निर्धार्यते । पोलाकस्य विमोचनवादि-भाषाशास्त्र-पद्धतिः  सामाजिकसंक्षोभस्य सन्दर्भान् उत्पादयति । सारतः एवं उच्यते -  ऋषीणाम् अनुभवाधारिताः सन्दर्भाः सामाजिकसंरचनातन्त्रत्वेन परिवर्त्यन्ते ।

आङ्ग्लस्य संरक्षणम्

प्राचीनस्य आङ्ग्लसाहित्यस्य, साम्प्रतिकस्य  आङ्ग्लसमाजस्य च परीक्षणाधारेण कश्चन वादं कर्तुं शक्नोति यत् तत्र गभीरतया सामाजिकं तारतम्यम्/भेदभावः अस्ति इति ।  एवम् अस्ति चेदपि तामेव आङ्ग्लभाषाम् आश्रित्य संस्कृतम् अवगन्तुम्, विम्रष्टुं च नवसंस्कृतविदुषां प्रशिक्षणदानाय कोऽपि सङ्कोचः पोलाकस्य नास्ति । वस्तुतः तस्य प्रधानयोजना एषा अस्ति यत् – भारतीयग्रन्थानाम् आङ्ग्ले अनुवादं कृत्वा, आङ्ग्लभाषाभाषिणां नेतॄणाम्  माध्यमेन व्याख्यानं कारयित्वा तदीयदोषपूर्णानुवादस्य निर्दुष्टत्वप्रतिपादनम् इति । 

शेल्डन पोलॉक् आत्मानं तोलनकर्तृत्वेन (विभिन्नानां सभ्यतानाम्/नागरिकतानाम् मध्ये कस्यापि विषयस्य तोलनं यः करोति) प्रदर्शयितुम् इच्छति । किन्तु यथार्थं तुलनात्मकम् अध्ययनम् अवश्यं न्यूनानिन्यूनं  प्रतिपादयति यत्  ल्याटीन्-तः अरेबिक्-पर्यन्तम्, पर्शियन्-तः मेण्डरिन्-पर्यन्तं सर्वासु प्राचीनभाषासु दमनम् केनापि रूपेण अस्ति एव इति । आङ्लभाषाभाषिणः सर्वविधं दौर्जन्यं कृतवन्तः इति आरोपं सः आङ्ग्लभाषायाः उपरि न करोति, तदर्थं भाषाशास्त्रीयं कमपि वादं न प्रस्तौति ।  अपि च तादृशविषयेषु आरोपं कर्तुं सः ल्याटिन्, मेण्डरिन्,  पर्शियन्, अराबिक् इत्येतासां भाषाणाम् वा विरुद्धतया भाषाशास्त्रीयान् वादान् तादृशेन एव उत्साहेन न उपस्थापयति ।

वस्तुतः बहूनि राजनैतिकानि शासनानि तत्तत्समये भाषां नियन्त्रयितुम् व्याकरणम्, शाब्दिकशुद्धतामानकं च निर्मातुम् ऐच्छन्, यथा अद्यत्वे French Academy करोति । सप्तदशे अष्टादशे च शताब्दे२० पोर्चुगीसजनाः उपनिवेशकाले, धार्मिकपरिप्रश्नकाले च  गोवाराज्ये कोङ्कणिभाषायाः निषेधं कृतवन्तः आसन् । सङ्घटिताभिज्ञानतन्त्रस्य भागत्वेन ऐरोप्यदेशेषु बह्व्यः भाषाः निषिद्धाः आसन् । हैन्दवाः राजानः सांस्कृतिकीं हिंसां कृतवन्तः इत्यत्र किमपि प्रामाण्यं नास्ति, यथा सेल्टिक्-भाषाणां दमनम् आङ्ग्लेयैः कृतम्, यथा वा स्थानीयानां भाषाणां निर्मूलनम् अमेरिकीयैः कृतम्  । सारतः एवं वक्तुं शक्यते यत् -  संस्कृतस्य संस्कृतेः च उपरि तस्य आक्रमणम् पूर्वाग्रहपूरितम् अस्ति, अपि च एतादृशं तदीयम् आक्रमणम् अन्यसभ्यतानां उपरि तादृश्या एव शक्त्या न प्रवृत्तम् ।

समीचीनः आरक्षकः

राबर्टो-डे-नोबिलि-म्याक्स-मुल्लरप्रभृतीनां प्रसिद्धप्रवर्तकानां वंशपरम्परायाम् आगतः, आभाणकीयवाचा “उत्तमः आरक्षकः” एव शेल्डन पोलॉक् अस्ति इति केचन हैन्दवाः वदन्ति । द्वावपि  राबर्टो-डे-नोबिलि, म्याक्स-मुल्लर इत्येतौ संस्कृतं सम्यक् अधीतवन्तौ आस्ताम् । पूर्वतनः तु तमिळभाषाम् अपि सम्यक् जानाति स्म ।  राबर्टो-डे-नोबिलि इटलिदेशस्य मतप्रचारकः सप्तदशे शतके तमिळनाडुराज्ये हैन्दवसाधुसन्यासिनाम् आहार्यं/परिधानं धारयितुं वाञ्छति स्म । सः तस्य शिरोमुण्डनं कारयितुम् उद्युक्तः । केशान् कर्तयित्वा अत्यन्तं लघुकेशः संवृत्तः । धौतवस्त्रं  काष्टनिर्मितां पादरक्षां च धारयितुम् आरब्धवान् । सः तस्य उरसि तन्तुत्रयं धारितवान्, उक्तवान् च तत् पितापुत्र-पवित्रात्माख्यं पवित्रत्रिमूर्तिं सङ्केतयति इति ।

म्याक्स-मुल्लरः पाश्चात्यभारतशास्त्रज्ञः आसीत् । सः एकाकी संस्कृतात् आङ्ग्ले अत्यन्तं व्यापकम् अनुवादकार्यं कृत्वा यशः सम्पादितवान् । तस्य पक्षे शेल्डन पोलॉक् क्ले इत्याख्यस्य ग्रन्थालयस्य नवीनतमः सम्पादकः अस्ति, यस्मिन् ग्रन्थालये ४६ सम्पुटेषु प्राचीनभारतीयग्रन्थानाम् आङ्ग्लानुवादः कृतः  । ते च ग्रन्थाः न्यू-यार्क विश्वविद्यालयस्य मुद्रणालयेन प्रकाशिताः२१ ।  अद्यत्वे सः एतत्सदृशीं परियोजनां स्वीकृत्य मूर्ति-क्लासिकल्-लैब्ररी इत्यस्य सम्पादकत्वेन नेतृत्वम् स्वीकृत्य भारतीयसाहित्यस्य आङ्ग्ले अनुवादं पुनर्व्याख्यानं च कारयन् अस्ति ।  तस्य लक्ष्यं ५०० भारतीयग्रन्थानाम् अनुवादः अस्ति । 

संस्कृतस्य विषानां प्रकाशनम्

आधिपत्यम्, दमनम्, हिंसा च संस्कृते उपनिबद्धा अस्ति इति परीक्षणीयम्  इत्येतत्  प्रधानं कार्यम् इति शेल्डन पोलॉक् भावयति । तत्र उपयुक्तस्य बलस्य वास्तविकस्य  तन्त्रस्य च विषये तस्य कोऽपि विचारः नास्ति इति सः कथयति ।  बलं वैधम् कर्तुम् या संस्कृतिः अस्ति तस्याः भूमिकां प्रदर्शयितुम् सः इच्छति  इति । २०११ तमे वर्षे सः पुनः एतत् उक्त्वा तस्य भूमिकां स्पष्टीकृतवान् – संस्कृते....युगपत् सभ्यतायाः नृशंशतायाः च प्रदर्शनम्, असामान्यायाः असमानतायाः, अन्यविधस्य सामाजिकगरलस्य च प्रदर्शनम् ।

प्रमुखसमाजसुधारकेण डा.बि.आर्.अम्बेड्करवर्येण आरब्धां योजनां सः पूर्णां कर्तुम् इच्छति इव दृश्यते ।  अम्बेड्करः भारतस्य न्यायशास्त्रज्ञः, अर्थशास्त्रज्ञः, राजनेता, समाजसुधारकः । सः बौद्धधर्मं स्वीकृत्य दलितानां, महिलानाम्, कर्मकराणां च विषये क्रियमाणं तारतम्यं विरुध्य आन्दोलनं कृतवान् आसीत् ।  सः भारतस्य प्रधानः  संविधाननिर्माता  अस्ति । अम्बेड्करस्य अन्येषां च समाजसुधारकाणां प्रशिक्षणस्य महान् अभावः एषः अस्ति इति शेल्डन पोलॉक् वदति यत् – पोलाकीयः राजनैतिकभाषाशास्त्रसिद्धान्तः इति । सः भावयति यत् संस्कृतग्रन्थानाम् अध्ययनं विधाय सामाजिक-असमानतायाः अन्याय्यस्य च प्रकाशनाय राजनैतिकभाषाशास्त्रम् अत्यन्तम् आवश्यकम् अस्ति इति । अम्बेड्करः यदि पोलाकस्य अभिप्रायानुगुणं शिक्षां प्राप्स्यत् तर्हि भारतस्य सभ्यनागरिकतां तथा अनायासेन न आङ्ग्यकरिष्यत् इति शेल्डन पोलॉक् सूचयन् अस्ति इति भासते ।

प्राचीनभारते संस्कृतम् उत्पीडनस्य  प्रधानं बौद्धिकं शस्त्रम् आसीत्  इति, सम्प्रत्यपि  संस्कृतं आधुनिककाले मतीयवादिजनैः राष्ट्रीयवादिभिः च तथैव उपयुज्यमानम् अस्ति, यतो हि तस्य निन्दा न कृता, तद्गतं विषं बहिः न आनीतम्  चेति सः प्रतिपिपादयिषति२४ । यदा सः ”दमनम्” प्रकाशयितुम् इच्छति  तस्मिन् समये सः एतादृशान् शब्दान् उपयुङ्क्ते  यथा “सामाजिकाधिकारः” ।

 साम्प्रदायिके भारते सामाजिकाधिकारस्य सैद्धान्तिकस्वरूपस्य प्रधानवाहकत्वेन संस्कृतस्य ज्ञानं स्वयं अस्मभ्यम् आत्मानं प्रदर्शयति ।  अपि च अहं अस्मिन् आत्मप्रदर्शनं द्रष्टुम् इच्छामि । प्राच्यवादिसंरचनारूपेण तस्य स्थितिविषये अहं कांश्चन प्रश्नान् अपृच्छम् २५   ।

वेदेषु दैविकी पदानुक्रमणिका अस्ति इति शेल्डन पोलॉक् वादम् उपस्थापयति । एषा विचारधारा धर्मशास्त्रेषु अनुसृता, एवमेव अन्येषु ग्रन्थेषु । भारतस्य सामाजिक-राजनैतिक- पदानुक्रमणिकायाः सुस्थिरतायै एषा विचारधारा उपयुक्ता ।  सः बर्टन्-ष्टैन्स् इत्याख्यस्य तर्कम् अत्र उद्धरति  -

वैदिकोत्तरकालिकेभ्यः ब्राह्मणग्रन्थेभ्यः आरभ्य नैतिक-एकतया  तदीयस्य सुव्यवस्थितसामाजिकविभेदस्य क्रमेण सह, मध्यकालिक-धर्मशास्त्र-ग्रन्थानां माध्यमेन अधिकसन्दिग्धतया , अनिश्चिततया विभिन्नप्रादेशिकसङ्केतैः सह च  दैविक-पदानुक्रमणिकायाः विचारधारा...भारतस्य प्राचीनज्ञानस्य प्रधानम् अङ्गम् अस्ति२६

शूद्रान् अन्यांश्च विरुध्य बहु एव प्रवृत्तम् इति मन्यमानं तारतम्यस्य वैदिकं तर्कं वर्णयितुं शेल्डन पोलॉक् महान्तं परिश्रमं करोति ।  सः प्रतिपादयति यत् वैदिकयागानाम् अनुष्ठानाय  ब्राह्मणाः कोषान्, ध्वनिशास्त्रम्, ज्योतिषं, व्याकरणम्  चेति सर्वं विकासितवन्तः । एतत् सर्वं केवलं ब्राह्मणान् एव पाठयन्ति इति सः पश्यति । अपि च सः निर्णीतवान् यत् अनेन ते ब्राह्मणाः अन्येषाम् उपरि अधिकारं प्राप्नुवन्ति इति ।  संस्कृतम् उपयोक्तुम् कस्य अधिकारः अस्ति ? कीदृशेभ्यः विशिष्टेभ्यः उद्देशेभ्यः संस्कृतस्य उपयोगः कर्तव्यः ? इति निर्धारयितुं यत् प्रारूपं तैः चिन्तितम् ततः एतादृशः विचारः आगतः अस्ति । एतादृशीनां योग्यतानाम् आधारेण केचन जनाः केचन जनसमूहाः च नैतिकरूपेण अन्येषां अपेक्षया श्रेष्ठाः इति निर्धार्यन्ते इति सः वदति ।

पूर्ववैदिककाले संस्कृतभाषाभाषिणां परिवेशस्य वैश्विकदृष्टिकोणे समस्या अस्ति इति सः लिखति । ते यागाद्यनुष्ठानाय विशिष्टाः योग्यताः आवश्यक्यः इति नियमं कृतवन्तः । यागाद्यनुष्ठानं कर्तुं विद्यमानः एषः अधिकारः सामाजिकाधिकारत्वेन परिणतः ।  वैदिकयागविषये क्रियमाणं प्रवचनं सामाजिकाधिकारविषयकप्रवचनरूपेण परिणमते ।  तस्य कथनानुगुणं शूद्राः  एतादृशयागात् दूरे स्थापिताः, तद्विषयकप्रवचनश्रवणात् अपि दूरे स्थापिताः इति सः वदति ।  एतादृशप्रक्रियया ब्राह्मणाः सांस्कृतिकीम् असमानताम् उत्पादितवन्तः । एतत् सर्वं इसवीयपूर्वे प्रथमसहस्राब्धे जातम् इति सः कथयति । एषा असमानता उपनिवेशीकरणस्य कश्चन प्रकारः आसीत् यत्र एकः भारतीयः अन्यभारतीयम् उपनिवेशित्वेन(आङ्ग्लकालिकदास्यमिव) कृतवान्  इति तस्य कथनमस्ति२७ । अत्यन्तं विरलतया शेल्डन पोलॉक् तस्य पूर्वनिर्धारिततर्कस्य विरुद्धतया वस्तुस्तितिः भिन्ना एव आसीत् इति अङ्गीकरोति यत् यागाद्यनुष्ठानस्य निर्बन्धाः अन्यत्र यागाद्यनुष्ठानम् अकुर्वताम् जनानाम् उपरि प्रभावं न अजनयत्  इति २८ । 

तस्य निबन्धः एषः अस्ति यत् - बौद्धैः सामाजिकविमोचनस्य आनयनात्परम्, शूद्राणाम् अन्येषां च विरुद्धतया विद्यमानं  निषेधं नियमबद्धं कर्तुम्  ब्राह्मणाः पूर्वमीमांसाशास्त्रस्य ग्रन्थान् विकासितवन्तः । यतो हि एतादृशनिर्बन्धाः सम्प्रति प्रतिस्पर्ध्यन्ते ।  अतः शूद्राणाम् उपरि प्रतिबन्धम् आरचयितुम् औपचारिकनियमानाम् आवश्यकता आसीत्  । परम्परायां विद्यमानस्य आधिकारिकरूपेण नियमीकृतस्य सामाजिकशोषणस्य अस्तित्वम् प्रमाणयितुम् सः पूर्वमीमांसाग्रन्थान् परीक्षते२९ ।  अनन्तरम् नूतनया विद्याशाखया उत्तरमीमांसया पूर्वमीमांसायाः पन्थाह्वानं प्रदत्तम् । आदिशङ्कराचार्याः तस्याः उत्तरमीमांसायाः प्रतिपादकाः आसन् ।  शेल्डन पोलॉक् शङ्कराचार्यान् जातिनिन्दकत्वेन दर्शयति । तत्र कारणम् इदं वदति यत् –  शङ्कराचार्याणां कृतीनां कारणतः शूद्रान् विरुध्य प्रतिबन्धः इतोऽपि शोचनीयां स्थितिम्  अवाप्नोत् इति३०  ।  

जीवनस्य सर्वेषु अपि क्षेत्रेषु पक्षपातस्य प्रारूपरूपेण यज्ञेषु भागग्रहणस्य , यज्ञानाम् अनुष्ठानस्य च अधिकाराणाम् श्रेणीनां प्रदर्शनं सः शेल्डन पोलॉक् करोति ।

प्रतिक्रिया : वर्णविषये चर्चा

वर्णस्य व्याख्याने नम्यता

भारतस्य सम्पूर्णे इतिहासे सामाजिकसंरचनारूपेण सक्रियतया विद्यमानस्य वर्णस्य साम्प्रदायिकं व्याख्यानम् अत्यन्तं जटिलम् अस्ति ।  वस्तुतः वर्णविषये पारम्परिकः एव संवादः यः प्रवृत्तः तमहम् अधस्तात् प्रदर्शयिष्यामि यत् तत्र साम्प्रदायिकाणाम् अधिकारिणाम्(मठाधिपतीनाम्) मध्ये एव गभीररूपेण असम्मतिः, उद्विग्नता च अस्ति इति  ।  एषः सकारात्मकः/धनात्मकः गुणः इति अहं चिन्तयामि । यतो हि एतत् अस्मभ्यं नवाचारस्य आनयनाय स्वातन्त्र्यं नम्यतां च प्रयच्छति, अपि च कांश्चन पुस्तकीयजनान् इव जडीभूतान् न करोति ।

मम दृष्ट्या वर्णः अनूदितुम् अशक्यम् पदम् अस्ति । अतः एतस्य अनुवादार्थं प्रयासः, कस्मिंश्चित् एकस्मिन् कठिने प्रारूपे एतस्य अर्थम् दुर्योजयितुम् क्रियमाणः प्रयासः विरूपं सन्दिग्धतां च जनयति ।  एतत् भारतस्य इतिहासे निरन्तरं संवादेन पुनर्विचारेण परिशीलितं पदम् इति  अहं मन्ये ।  निश्चयेन एतादृशं नैरन्तर्येण मन्थनं, विविधविचारेषु क्षेत्रेषु च परिवर्तनं विकासश्च भारतस्य सामाजिकसंवादस्य पद्धतिः आसीत् । सादृश्यबोधाय पश्यन्तु - Indra’s Net”  इत्याख्ये मम पुस्तके इतोपि अनूदितुम् अशक्यम् “आस्तिकम् नास्तिकं” चेति  पदद्वयं वर्णितम् यदस्ति तदपि निरन्तरं भारते संवादितम्/चर्चितम् अस्ति ।

तादृशानि गतिशीलानि भारतीयानि पदानि  पाश्चात्यानां भारतशास्त्रविदां तदनुयायिनां भारतीयसमाजशास्त्रज्ञानां च बह्वेव असौविध्यं जनयन्ति । यतो हि कुत्रचित् निश्चिते प्रारूपे अनायासेन तादृशान् शब्दान् योजयितुं न शक्नुवन्ति इत्येतत्, तदाधारितचर्चागोष्ठीनां नियन्त्रणं च कर्तुं न शक्नुवन्ति च इत्यतेत् तेषां महती समस्या अस्ति । सादृश्याधारेण - पाश्चात्यानाम् अधिकारविषयिणी धारणा  जटिला सूक्ष्मा च अस्ति । पाश्चात्यप्रपञ्चे अधिकाराणाम् आर्थिक-नागरिक-नैतिक-आयामानां मध्ये भेदः अस्ति । तत्र महिलानाम्, कृष्णवर्णीयानाम्, प्राणिनाम् इतरेषाञ्च अधिकाराणां विषये जटिलः इतिहासः अस्ति । अतः कोऽपि पाश्चात्यः श्रेष्ठः विद्वान् तस्य शब्दस्य (वर्णशब्दस्य) सामान्यां जीवाश्मीभूतां परिभाषां न अङ्गीकरोति । एषा श्रेणी एतादृशी अस्ति यत्र महती प्रतिस्पर्धा जाता, अग्रे च प्रतिस्पर्धा भविष्यति । वस्तुतः एतादृश्याः प्रतिस्पर्धायाः प्रक्रिया एकं तन्त्रम् अस्ति यन्माध्यमेन पाश्चात्यं जगत् प्रगतिं प्राप्नोति । वर्णविषये अपि भारतीयसन्दर्भे एतत् सत्यमेव अस्ति । 

अस्मिन् स्थूलविश्लेषणे मम उद्देश्यं इदमस्ति यत् प्रचलितायाः धारणायाः विश्लेषणं कृत्वा वर्णः तथा सरलः विषयः नास्ति, यस्य तुलना जात्या सह, जातीयसमूहेन सह वा, विशेषाधिकारेण सह वा कर्तुं न शक्यते इति प्रतिपादनम् । एतादृशीं जटिलतां गतिशीलतां च प्रोत्साहयितुम् परम्परायां न्यूनातिन्यूनं षट्सु स्तरेषु विभेदाः सन्ति इति कश्चन जानीयात् । ते स्तराः इत्थं सन्ति –

१.    इतिहासस्य विविधेषु कालेषु वर्णस्य विषये विभिन्नाः दृष्टिकोणाः आसन् ।

२.    कस्यचित् विशिष्टस्य ग्रन्थस्य वर्णविषयकः दृष्टिकोणः अन्यग्रन्थस्य दृष्टिकोणापेक्षया भिन्नः भवितुम् अर्हति । उदाहरणार्थम् – अर्थशास्त्रे, धर्मशास्त्रे, महाभारते च आश्रितानि स्थानानि भिन्नानि सन्ति ।

३.    एकस्मिन् एव ग्रन्थे अनेके अभिप्रायाः व्यक्तीकृताः, यतो हि तत्र सन्दर्भाः भिन्नाः भवन्ति । वर्णस्य अर्थः, तस्य अनुप्रयोगः च अत्यन्तं सन्दर्भानुसारी अस्ति, न तु एकरूपः अस्ति इति एतत् सूचयति ।

४.    व्याख्यातारं जनम् अवलम्ब्य एकस्य एव ग्रन्थस्य वर्णविषये विभिन्नं व्याख्यानं भवितुम् अर्हति । विभिन्नाः विशेषज्ञाः कालान्तरे स्थिरम् ऐकमत्यं न प्राप्तवन्तः ।

५.     सिद्धान्तस्य वास्तविकस्य अनुष्ठानस्य च मध्ये अन्तरम् अस्ति । अस्य इदं तात्त्पर्यं यत्  वर्णस्य निर्दिष्टस्थितेः कारणतः ग्रन्थेषु  अधिकतया प्रचलितः स्यात् । अथवा निर्दिष्टे समये प्रधानविचाराणां मध्ये सर्वसम्मतत्वेन, एतत् व्यवहारे कथं प्रवृत्तम् आसीत् इति न अन्वेति ।

६.    भारतस्य समग्रे इतिहासे बहूनि सामाजिकानि पन्थाह्वानानि/प्रत्याह्वानानि समागतानि । बहवः सामाजिकपरिष्काराः च प्रवृत्ताः यान् वयं अधस्तात् द्रक्ष्यामः । अपि च बहुप्रकारकाणि वैपरीत्यानि आसन् । व्यवहारे विद्यमानानां व्याख्यानानाम् आनुसारेण -  निर्दिष्टे वर्णे वर्गीकर्तव्याः जनाः  व्यवहारे अन्यरूपेण वर्गीकृताः । तादृशम् उदाहरम्  स्तरव्यवस्थारूपेण विद्यमानां वर्णव्यवस्थाम् आक्षेप्तुम् अस्माकम् आग्रहं करोति । अपि च साम्प्रदायिकाः जनाः एतत् न अङ्गीकुर्वन्ति चेदपि  शूद्राः  सर्ववर्गीयैः हैन्दवैः आराध्यमानानि मन्दिराणि निर्मान्ति । अपि च शूद्राः राजानः आसन्, शूद्राः  सेनाधिपतयश्च आसन् ।

वर्णानां विषये एतादृशाणि सर्वाणि द्वन्द्वानि, प्रत्याह्वानानि, विरोधाभासाः, तर्काश्च इतिहासे  वारं वारं प्रवृत्ताः । इदमिदानीम् यावत्  एतादृशी क्रियाशीलता पूणर्तः भारते एव सञ्चाल्यते स्म । एतस्य सञ्चालनं कयापि बाह्यशक्त्या न क्रियते स्म, अथवा बाह्येभ्यः स्वीकृतविचारधारायाः उपयोगेन वा न सञ्चाल्यते स्म ।  अतः अङ्गीकर्तुं न शक्यते यत् (यथा इदानीं क्रियमाणम् अस्ति) भारतेन स्वीयसामाजिकसमस्याः परिहर्तुम्  पाश्चात्यानां साहाय्यं स्वीकर्तव्यं भवति इति । यतो हि एतत् समयेन बद्धम् अस्ति, ते तु स्वीयविषयाणाम् कथने समस्यानिर्मूलने च असमर्थाः च सन्ति ।  एतदतिरिच्य सर्वाण्यपि आन्दोलनानि, पुनर्व्याख्यानानि, परिवर्तनानि च वास्तविकधरातले सम्पन्नानि । केनापि राज्ञा युद्धादिमाध्यमेन पूर्वतनविचारधारायाः संहारं कृत्वा  स्वीयसामाजिकधार्मिकविचारधाराणां बलात् कृतम् आरोपणमिव, प्रसारणमिव वा  न  ।

वस्तुस्थितिः एषा अस्ति यत् समाजस्य प्रत्येकं वर्गेण परिवर्तनम् आरब्धम्, तदर्थं परिश्रमः कृतः ।  किञ्च एतत् परिवर्तनम् उपरिष्टात् अधः प्रवाह्यमाना प्रक्रिया आसीत् ।  एतत् सर्वम् अवलोक्य पाश्चात्य समाजविज्ञानिभिः तदीयसिद्धान्तानुगुणं भारतं नमयितुं काठिन्यम् अनुभूतम् ।  तथापि ते तदीयस्य वृत्तिजीवनस्य प्रगत्यै वैश्विकसिद्धान्तान् घोषयितुम् बद्धाः/विवशाः भवन्ति । यतो हि तेषां दमनकारिसभ्यता  वर्णः अविचलः/अपरिवर्त्यः/अनम्यः, विहितः, एकरूपः अस्ति इति चित्रयितुम् इच्छति ।  अनेन अनुचितसिद्धान्तानाम् उपयोगं कृत्वा भारतीयसमाजस्य आदर्शरूपतां प्रतिपादयतां प्राच्यवादिनां एकः सुदीर्घः इतिहासः निर्मितः ।

ऐतिहासिकपरिवर्तनानि

          “ईगलिटेरियनिसम्” इत्याख्ये स्वीये पुस्तके अरविन्दशर्मा चतुर्षु प्रमुखेषु कालखण्डेषु वर्णानाम् आधारेण विभेदकदण्डानां विधानस्य प्रकाराणां कालानुक्रमणिकां विकासितवान् ३१।  अहं मदीयानां अन्तर्वीक्षणानां प्रकाशनाय तस्य कालगणनाविधानं स्वीकृतवान्  । मया स्वीकृताः चत्वारः कालिकस्तराः इत्थं सन्ति –

१.    वैदिककालः -  आरम्भिककाले संहिताः प्रातिनिध्यम् आवहन् । तदा विविधानां वर्णीयानां जनानां मध्ये  कोऽपि न्यायिकः भेदभावः नासीत् । उत्तरवैदिककाले ब्राह्मणग्रन्थेभ्यः आरभ्य सूत्रकालपर्यन्तं भेदभावः आसीत्, किन्तु तत्र भेदभावस्य विधिः अनुष्ठितः इत्यस्य किञ्चिदपि प्रामण्यं न उपलभ्यते ।

२.    स्मृतिकालः – भेदभावः(विशेषतः न्यायिकार्थे) आरब्धः । कदाचित् एषः विधित्वेन अनुष्ठितः इति परोक्षतः ऊहितुं योग्यानि प्रामाण्यानि सन्ति । (वैचित्र्यम् किमित्युक्ते – शेल्डन पोलॉक् एनं कालं वेदान् विरुध्य बौद्धानां प्रवेशकालं मन्यते । बौद्धाः जातिव्यवस्थायाः उपरि आक्रमणं कृतवन्तः इति प्रतिपादयति । शर्मावर्येण प्रदर्शितानि प्रामाण्यानि तद्विरुद्धांशान् सूचयन्ति, यथा “बुद्धात् अनन्तरकाले यदा वर्णभेदभावः आरब्धः” इति । )

३.    मध्यकालः -१२०० इसवीयवर्षात् अनन्तरम् :  भेदभावः मृतप्रायः इति भासते । समग्रे भारतदेशे वर्णविषये नैकानि प्रतिव्याख्यानानि, बौद्धिकसामाजिकक्रान्तयः च सम्पन्नाः ।  अन्यशब्दैः एवं वक्तुं शक्यते यत् – गतेभ्यः सहस्रात् वर्षेभ्यः एतादृशानि न्यायिकप्रावधानानि विहितानि/अनुष्ठितानि इति कुत्रापि न द्श्यते ।  तारतम्यविषयकचर्चाः तु निषिद्धाः आसन् ।

४.    आधुनिककालः, आङग्लेयानाम् उपनिवेशेन आरब्धः - ऐदम्प्राथम्येन  वर्णः परिवर्तिते अर्थे पुनर्व्याख्यातः । आधिकारिक-पदानुक्रमित-जातिव्यवस्थायाः रूपेण, हैन्दवसमाजस्य साररूपेण च दोषपूर्णतया वर्णः चित्रितः ।  एतदेव भारते आङ्ग्लेयैः जनगणनायाः माध्यमेन औपचारिकरूपेण उपयुज्य पश्चात् विधित्वेनापि उपनिबद्धम् अभवत् ।

पूर्ववैदिककालविषये चर्चां कुर्वन् वि.एम्.आप्टेवर्यः कथयति यत् – ऋग्वेदे वर्णानाम् उल्लेखः एवम्प्रकारेण कृतः यं वयं श्रेणीबद्धत्वेन भेदभावयुक्तत्वेन च ग्रहीतुं न शक्नुमः इति ।  सः निष्कर्षतः उक्तवान् यत् – ब्राह्मणाः एकस्याः जात्याः वा वर्णस्य वा निर्माणं न कृतवन्तः ।  ऋग्वेदकाले  मन्त्राणां/स्तोत्राणां रचनायाः, देवतानां स्तुतेः च अधिकारः पुरोहितपरिवारीयाणां पुरुषाणामेव आसीत् इति तु नास्ति इति सः कथयति । कविरूपेण वा वैद्यरूपेण वा आजीविकासम्पादनम् सर्वेषां कृते उन्मुक्तम् आसीत् । ऋग्वेदकाले अन्तर्वर्णीयविवाहस्य वा अन्तर्वर्णीयभोजनस्य वा निषेधविषये सुदूरतः अपि साक्ष्यं न लभ्यते इत्यत्र आप्टेवर्यः बलं ददाति । अद्यत्वे एतादृशः निर्बन्धः अत्यन्तं गभीरप्रकारकस्य दमनम् इति परिगण्यते ।

केषाञ्चित् उद्योगानाम् आनुवंशिकप्रकृतिः वैदिकनिर्बन्धानां कारणतः इति न मन्तव्यम् । प्रपञ्चस्य नानाभागेषु यथा पितरः स्वाभाविकतया व्यवहारे स्वपुत्रान् स्वीयोद्यागान् अनुवर्तयितुम् बोधयन्ति  तथैव अत्रापि इति मन्तव्यम् । प्राचीनकाले दूरगमनम् अत्यल्पमेव आसीत् ।  सार्वजनीनविद्यालयव्यवस्था पुरा नासीत् ।  अतः पितृभिरेव स्वकौशलैः स्वपुत्राः बोधनीयाः आसन् । शिष्यवृत्तिमाध्यमेन कौशलानां सङ्क्रमणं एका स्वाभाविकी प्रक्रिया पुराकाले आसीत् । इदानीमपि भारते  आङ्ग्लभाषाभाषिणः महाजनाः जन्मनः, परिस्थितेः, पालनपोषणपद्धतेः, सामाजिकपरिवेशस्य च आधारेण विशेषाधिकारान् प्राप्नुवन्ति, यत्र तत्तज्जनः वृत्तेः जालनिर्माणे सक्षमः भवति ।

उत्तरवैदिककाले शनैः शनैः भेदभावः प्रादुर्भूतः ।  एषः भेदभावः कस्यापि मनसि ऊहात्मकतया/काल्पनिकतया निष्पन्ना संस्तुतिः अस्ति  अथवा  वास्तविकरूपेण विद्यमाना सामाजिकी वस्तुस्थितिः वा  इति स्पष्टं नास्ति । प्रसिद्धः मार्क्सवादी, हैन्दवधर्मस्य, जातिव्यवस्थायाः च निन्दकः रामशरणशर्मा अपि एतत् अङ्गीकरोति यत्  अस्मिन् कालखण्डे भेदभावयुक्ताः विधयः/नियमाः  गभीररूपेण स्वीकृताः उत न इत्यत्र स्पष्टता नास्ति इति  ।

अग्रिमे स्मृतिकाले केचन स्मृतिग्रन्थाः वास्तविकानां विधीनाम् उपरि प्रभावम् अजनयन् इति प्रतीयते । केचन इतिहासज्ञाः ऊहन्ते यत् भारतस्य केषुचित् भागेषु वैदेशिकानां राजशासनानां काले एवं जातम् इति । तत्परिणामतः तत्प्रतिक्रियारूपेण वर्णाधारेण विधीनां परिवर्तनस्य व्यवहारः आरब्धः इति । तस्मिन् समये वैदेशिकानां क्षत्रियाणां राज्ञाम् अधिकारान् नियन्त्रयितुं ब्राह्मणाः तादृशान् विधीन् रचितवन्तः स्युः ।  समाजिक्याः राजनैतिक्याः च प्रक्रियायाः वास्तविकप्रकृतिः  न ज्ञायते, अपि च एतद्विषये ऊहापोहाः एव अधिकाः सन्ति ।

प्रसिद्धः संस्कृतविद्वान्  जे.सी.पण्डा इत्याख्यःवदति यत् –उत्तरवैदिककाले केवलं धर्मशास्त्राणि वर्णानां मूलविचारान् जात्या सह योजयित्वा वर्णविकारान् उत्पादयितुम् आरभन्त इति ।  अस्मिन् समये एव ब्राह्मणानां यागाद्यनुष्ठाने वरीयस्त्वं न्यूनाधिकभावेन पौरोहित्यस्य आनुवंशिक-औपचारिकाधिकारत्वेन परिवर्तितम् अभवत् ।

पि.वि.काणेवर्यस्य धर्मशास्त्रविषयकं व्याख्यानम् अत्र एवं बलं ददाति यत् – १२०० इसवीयवर्षेभ्यः आरभ्य जातिरूपेण वर्णस्य व्याख्यानम् औपचारिकार्थे दूरे निक्षिप्तम् अभवत् इति प्रतीयते ।  एतस्य दृष्टिकोणस्य समर्थनरूपेण सः भारतस्य दक्षिणदेशस्य १२०० इसवीयवर्षस्य ग्रन्थमेकं,  उत्तरदेशस्य १४०० इसवीयवर्षस्य ग्रन्थमेकं, पश्चिमदेशस्य १५०० इसवीयवर्षस्य ग्रन्थमेकं च प्रादर्शयत् । काणे एवं लिखति – “जात्याधारितस्य तरतमभावस्य प्रावधानानि लघुपापानाम् अथवा गम्भीरपापानाम् आरोपः मृतपत्रवत् संवृत्तम् आसीत् । अपि च १२ शतकपर्यन्तं  भारतस्य राजभिः एतस्य अनुष्ठानं न क्रियमाणमासीत्”३५ इति ।   राजभिः धर्मशास्त्राणाम् उपरि निर्मिताः नियमाः तदा प्राधान्यं प्राप्तुम् आरभन्त । एते नियमाः विविधप्रकारकाः आसन् । एते नियमाः राजानुगुणं देशकालानुगुणं च परिवर्तन्ते स्म ।

पदानुक्रमितायाः सामाजिकवर्णव्यवस्थायाः विरुद्धोदाहरणत्वेन शर्मवर्यः बहूनां जनानाम् उदाहरणानि ददाति । सः भारतस्य सर्वेषां भागानां जनानाम् उदाहरणानि ददाति । तत्र केचन पूर्वोक्तकठिनसामाजिकनियमानाम् उल्लङ्घनं कुर्वन्ति स्म, तथापि समाजेन सम्मानिताः भवन्ति स्म ।  एषा प्रवृत्तिः १५ शताब्दे   तुरीयावस्थायाम् आसीत्, यदा कबीरसूरदासौ भक्ति-आन्दोलने प्रसिद्धौ अभवताम्, यौ जात्याधारितां पदानुक्रमिकव्यवस्थां निराकृतवन्तौ । किन्तु ततः अपि पूर्वं १३ तमे शताब्दे ज्ञानेश्वरनामदेवौ पश्चात् सप्तदशे शताब्दे  तुकारामरामदासौ च उत्पन्नौ । शर्मवर्यः द्वादशे शताब्दे   कर्नाटके लिङ्गायत-आन्दोलनस्य अपि उल्लेखं कृतवान्, यत्र रूढिवादिवर्णसीमानां साहसपूर्वकं प्रत्याह्वानं प्रदत्तम् आसीत् ३६

एते सर्वेऽपि प्रतियोद्धारः/समाजसुधारकाः  सामान्यजनाः इव एव आन्दोलनं कृतवन्तः आसन् । एते  साम्प्रदायिकप्रतिबन्धान् विरुध्य  सङ्घर्षं कृत्वा ये समानताधिकारात् एतान् वञ्चितवन्तः आसन् तेषाम् उपरि  नियन्त्रणं साधितवन्तः आसन् । सम्प्रदायवादिनां तत्र प्रतिरोधः आसीत्  इत्येतत् आश्चर्यं नास्ति । यतो हि  तादृशं परिवर्तनं निरन्तरं प्रचलति । हैन्दवानाम् इतिहासे प्राचीनः नवीनः चेति द्वावपि पारस्परिकविग्रहे, पारस्परिकसन्धौ, पारस्परिकविवादे च सदा मिलित्वा एव तिष्ठतः । एतत् सन्धिविग्रहविवादादिकं सर्वदा सृजनात्मकं, विकासात्मकं च भवति । अपि च अत्र अन्यतरः अन्यतरं सम्मुखीकर्तुं शिक्षते । नवीनः प्राचीनश्चेति द्वावपि समानान्तरेण गच्छतः । एकसिन् निश्चिते समये एकः अन्यस्य उपरि विजयं प्राप्नोति ।  तात्पर्यनिर्णयः तदुनुष्ठानं च देशकालभेदेन निश्चितं समानाकारकं वा न भवति ।

दौर्भाग्यवशात् अद्यत्वे सामान्यतः अस्मान् वर्णविषये वा जातिविषये वा Caste विषये वा  यद्वदन्ति  तत् विगतेभ्यः द्विशतात् वर्षेभ्यः भारतशास्त्रविद्भिः कृतायाः क्षतेः परिणामः अस्ति । लार्ड रिश्ले इत्याख्येन कृतायाः आङ्ग्लजनगणनायाः वर्णनं मदीये “Breaking India” इत्याख्ये पुस्तके कृतम् अस्ति ।  तत्र जातिक्रमस्य पदानुक्रमणिकानिर्माणे आधारः स्थिररूपेण जन्म एव इति उक्तम्  ।  किन्तु केचन पाश्चात्याः  विद्वांसः एतानि व्याख्यानानि  उत्तमापेक्षाणाम् प्रतिपादकानीति समर्थयन्ति स्म । केचन J.S. Mill, Max Weber सदृशाः तत्रैव  स्पष्टरूपेण हैन्दवविरोधिनः आसन् । 

पाश्चात्यविचाराः भारतं प्रति आङ्ग्लभाषामाध्यमेन प्रेषिताः ।  भारतीयानां मध्ये शिक्षितधनिकाः आत्मानं बुद्धिजीविनः इति मन्यमानाः तदीयचिन्तनेषु एतान् विचारान् आत्मसात्कृतवन्तः । एतादृशं कास्ट-सिस्टम वर्तमानकाले राजनीतेः आधारः अभवत्एतद्विषयं इतोऽपि कलुषीकर्तुम् आङ्ग्लेयानां विभेधनवादि जातीयवर्गीकरणं तदानीन्तनः भारतसर्वकारः यथावत् विधित्वेन स्व्यकरोत् ।  भारतस्य संविधाने विविधाधिकारदानाय सौविध्यप्रकल्पनाय च आधारत्वेन एषा जातिव्यवस्था उपयुक्ता । अन्ततो गत्वा लोकतन्त्रेण ईदृशाः प्रविभक्ताः समूहाः वोट-बैंक-रूपेण परिवर्तिताः । एताः दोषपङ्क्तयः कठोराः, अनायासेन समीकर्तुम् अशक्याश्च संवृत्ताः ।

शर्मवर्यस्य सारतः अयं दृष्टिकोणः अस्ति यत् – समयानुगुणं यः सङ्घर्षः उत्पन्नः सः वर्णानां मध्ये वा लिङ्गानाम् मध्ये वा न, प्रत्युत धर्माधर्मयोः मध्ये वर्तते । अधर्मस्य विचाराणां नैरन्तर्येण विरोधः कृतः ।  एतत् कथं करणीयमिति रीतिः परिस्थित्यनुगुणं, सन्दर्भानुगुणं वा परिवर्तते स्म ।  यदा अधर्मः केषुचित् प्रकारकेषु जनेषु सन्निविष्ट इति परिलक्ष्यते । यथा उदाहरणार्थं निश्चितम् आहारक्रमम् अनुसरताम्, जीवनशैलीम् अनुसरताम्, निश्चितव्यवसायवतां जनानाम् मध्ये अस्तीति परिलक्ष्यते,  ते जनाः दुर्भागधेयाः(Underprivileged) भवन्ति । ये जनाः अधर्मस्य चिह्नं धारयन्ति ते कस्मिन् अपि समये वा स्थाने वा भवन्तु, भेदभावस्य लक्ष्यीभूताः भवन्ति । एवं नास्ति यत् हैन्दवधर्मे वर्णकारणात् वा जन्मादिकारणात् वा केचन स्वाभाविकरूपेण हीनाः, तच्च हीनत्वम् स्थिरम्, दीर्घकालिकम्, निश्चितानामेव, कलात्मकम् च अस्ति इति ।

साम्प्रदायिकग्रन्थेषु विभिन्नाः विचाराः

विभिन्नाः साम्प्रदायिकाः ग्रन्थाः वर्णं विभिन्नरूपेण व्याख्यातवन्तः । एषः एकः विचारार्थं विद्यमानः प्रमुखः बिन्दुः अस्ति । समानतावादस्य दृष्टिकोणेन विद्यमानानां ग्रन्थानां बहूनाम् उदाहरणानां प्रस्तुत्या अहम् आरम्भं करोमि । माहाभारते युधिष्ठिरः एवं वदति –

शूद्रस्य चिह्नानि ब्राह्मणे दृश्यन्ते । किन्तु शूद्रः अनिवार्यतया शूद्रः भवेत् इति वा ब्राह्मणः अनिवार्यतया ब्राह्मणः भवेत् इति वा नास्ति । यस्मिन् ब्राह्मणस्य चिह्नानि दृश्यन्ते सः ब्राह्मणः इति उच्यते । अपि च यस्मिन् तानि चिह्नानि न दृश्यन्ते तं वयं शूद्रं वदामः३७

अनेन एतत् स्पष्टं भवति यत् महाभारतानुगुणम् एतानि व्यवहारसम्बद्धानि चिह्नानि सन्ति अथवा मनुष्यस्य वर्णम् अभिज्ञातुम्/निर्धारयितुम् मनुष्ये विद्यमानानि लक्षणानि सन्ति, नान्यत् किमपि ।  ISKCON इत्यस्याः संस्थायाः प्रमुखः स्वामी प्रभुपादः  एनं सिद्धान्तम् अन्वसरत् । अपि च प्रत्येकं जनः केवलं साधनाया आधारेण वर्णं प्राप्नोतु इत्येतदर्थम् अवसरमकल्पयत् ।  तत्र वर्णस्य वा कार्यस्य वा  जन्माधारितकार्यवितरणव्यवस्था नासीत् ३८

भविष्यपुराणम्(१.४१,) एवं वदति –

एकस्य पितुः चत्वारः पुत्राः आसन् ।  सर्वे पुत्राः सहजतया समानजातीयाः भवेयुः । भगवान् सर्वेषां पिता अस्ति । तर्हि जातिभेदः कुत्र तिष्ठति ?  वृक्षस्य फलानि वर्णेन आकारेण च सदृशानि भवन्ति ।  स्पर्शः समानः भवति रुचिश्च समाना भवति । मनुष्याः भगवतः वृक्षे उत्पन्नानि फलानि भवन्ति । तर्हि कथं वयं एकस्य एव फलस्य वृक्षस्य च मध्ये भेदम् उत्पादयितुं शक्नुमः३९

समानः कश्चन विचारः “तिरुक्कुरुळ” (पद्यसंख्या - ९७२) इत्यत्र वर्णितः –“सर्वे पुरुषाः समानरूपेण उत्पन्नाः, तेषां मध्ये भेदः तदीयव्यवसायकारणात् जातः” ४०

“योगवासिष्ठे”(५.१८.६१) एवम् उक्तम्  -

एषः मम सहोदरः , एषः न  इति कल्पना केवलं कुमतीनामेव भवति । एक एव आत्मा सर्वेषु व्यापृतः चेत् एषः मम सहोदरः, एषः न इति कथं वा वक्तुं शक्नुमः ?  हे राम, भगवत्सृष्टेः सर्वेऽपि जीविनः भवतः सहोदराः सन्ति । भवतः असम्बन्धिनः केऽपि न सन्ति४१

एवमेव भगवद्गीता (९.२९ ) उद्गोषयति –

“अहं सर्वेषां कृते समानः । मम न कोऽपि प्रियो वा अप्रियो वा अस्ति । किन्तु यः भक्त्या मां सेवते, सः मयि भवति, अहञ्च तस्मिन् भवामि” । एतत् इदं सूचयति यत् – न्यूनातिन्यूनं भगवतः दृष्ट्या वयं सर्वे समानाः । सदृशः एव अभिप्रायः उपनिषदाम् महावाक्येषु “तत्त्वमसि”, “अहं ब्रह्मास्मि” इत्यादिषु प्रकटितः ।

पि.वि.काणेवर्यः  महाभारतस्य युधिष्ठिरम् उल्लिख्य कथयति – जातीनां साङ्कर्यकारणात् जन्माधारेण वर्णानां निर्धारणं क्लेषाय भवति इति - 

सर्वेषां वर्णानां सन्दिग्धताकारणात् मनुष्यस्य जातिः का इति अभिज्ञानं बहुकठिनम् अस्ति इति मे प्रतीयते । सर्वप्रकारकाः पुरुषाः सदा सर्वप्रकारिकाभ्यः महिलाभ्यः सन्ततिं प्राप्नुवन्ति । वाक्, सम्भोगः, जननम्, मरणञ्च सर्वेषां जनानां कृते समानं भवति । अपि च एतद्विषये शास्त्रीयाधिकारः जगति वर्तते ४२

 अनेन ज्ञायते यत् – महाभारतकाले अपि विभिन्नानां वर्णानां मध्ये साङ्कर्यं जातमासीत् । तस्मादेव कारणात् युधिष्ठिरेण एवं वक्तव्यमापतितं यत् जातीनाम् अभिज्ञानं कठिनम् इति ।

एवं चेदपि मनुस्मृतिः भेदभावं समर्थयति इति प्रमाणीकर्तुं अत्यधिकतया उद्धृता अस्ति ।  अत्र शर्मवर्यस्य अभिप्रायः एषः अस्ति – मनुः विविधवर्णीयानाम् अधिकाराणां सौभाग्यानां च अपेक्षया कर्तव्यानां विषये बहुबलं दत्तवान् अस्ति इति । कतिचन कार्याणि अथवा परिश्रमं मनुः विभिन्नप्रकारकत्वेन विभाजयति ।  अतः विविधप्रकारिकाणां वृत्तीनां विषये चिन्तनस्य मार्गत्वेन वर्णान् द्रष्टुं शक्नुमः ।

काणेवर्यस्य मनुस्मृतेः व्याख्यानं एतत् दर्शयति यत् - ब्राह्मणाः सरलजीवनं यापयेयुः इत्यासीत् । तैः सम्पदः एकत्रीकरणम् ऋणात्मकदृष्ट्या अवलोक्यते स्म । ते दानं स्वीकर्तुम् अधिकृताः आसन् चेदपि  तद्दानं केवलं धनिकानां दानिनां सकाशादेव स्वीकुर्युः इत्यासीत् । तैः दानस्वीकरणाय अपेक्षिता योग्यता शिक्षणीया आसीत् । ते शासकत्वेन न मन्यन्ते स्म ।  ते मद्यं पातुं नाधिकृताः आसन् ४३

ब्राह्मणाः जनानां सकाशात् स्वीयलाभाय करग्रहणं कर्तुं न शक्नुवन्ति स्म ।  शर्मावर्यः एतस्य तुलनां रोमन-कैथोलिक-चर्च इत्यस्य आचरणैः सह कृत्वा तस्य विरोधं करोति । तत्र पाद्रिजनाः शासनस्य आधीन्ये नासन् । ते कदापि राज्याय करं न प्रयच्छन्ति स्म । “होली सी”(एतत् रोमन् छान्सरी अस्ति) जनानां सकाशात् करं समग्रहीत् । शर्मवर्यः यवनपुरोहितैः चर्चपरतया धनसंग्रहार्थम् अनुसृतानां बहूनां मार्गाणाम् उल्लेखं करोति । यथा करग्रहणम्, लुण्ठनम्, अपहरणम् इत्यादि ।  ईदृशव्यवहाराः कदापि ब्राह्मणैः न कृताः आसन् । एवमेव सः वदति – ब्राह्मणाः कदापि राजानं पदच्युतं कर्तुं वा, विशालान् भुवः भागान् केभ्यश्चित् दापयितुं वा न प्रवृत्ताः आसन् । एतद्विरुद्धतया षष्ठः पोप-अलेग्जाण्डरः १४९३ तमे इसवीयवर्षे  एकं धार्मिकादेशं (इस्लाममते तत्सदृशत्वेन धार्मिकाज्ञा फत्वा इत्यस्ति) कृतवान् । तदनुसारं, अमेरिकादिदेशानां नूतनाः भूभागाः यवनसम्राड्भिः आविष्कृताः, ऐरोप्यराजानां राज्ञीनां च नैजसम्पत्तित्वेन स्वीकृताः इत्युक्तम् । एतादृशं कार्यं चर्च्-जनैः कृतम् , पूर्णरूपेण ब्राह्मणैः कृतेभ्यः कार्येभ्यः व्यतिरिक्तम् अस्ति४४

वस्तुतः शूद्रस्य विशिष्टानि प्रयोजनानि निर्दिष्टानि सन्ति । निर्दिष्टरूपेण वक्तव्यं चेत् ब्राह्मणक्षत्रिययोः निमितम् उक्तानि कानिचन कार्याणि विहाय शूद्रः कमपि उद्योगं कर्तुम् अर्हति । ब्राह्मणैः अवश्यकर्तव्यत्वेन करणीयानि अगणितानि दैनन्दिनानि  आचरणानि शूद्रेण कर्तव्यानि इति निर्बन्धः नास्ति । सः विवाहं विहाय अन्यान् संस्कारान् अवश्यं प्राप्नुयात् इति बन्धनं नास्ति ।  सः कमपि आहारं भुक्त्वा आनन्दितः भवितुम् अनुमतः अस्ति । सः मद्यादिकं किमपि पातुम् अनुमतः अस्ति ।  शास्त्रेषु प्रतिपादितानां नियमानाम् अननुपालनदोषस्य निवारणार्थं प्रायश्चित्तादिकं कुर्यात् इति नास्ति । सः विवाहादिषु गोत्रस्य कमपि निर्बन्धं पालयेत् इति नास्ति नियमः४५

एतदतिरिच्य मनुस्मृतिः वदति(२.२३८) यत् शूद्रादपि परमं धर्मं कोऽपि शिक्षयितुम् अर्हति । अनया रीत्या शूद्रोऽपि गुरुः भवितुम् अर्हति इति ४६

मनुस्मृतौ प्रदत्तानि शूद्रैः सह ऋणात्मकव्यवहारस्य विवरणानि वर्णयितुं शर्मवर्यः बहूनि पुटानि उपयुक्तवान् । तथापि सः तदेव पुनरावर्तयति यत् बहुभिः इतिहासकारैः प्रोक्तम् – मनोः अनुशंसानुगुणं कठोरनियमाः अनुष्ठिताः इत्यत्र किमपि प्रमाणं नास्ति इति । शर्मवर्यः एतदपि उल्लिखितवान् यत्  मनुस्मृतिः चौर्यं कृतं चेत् दण्डं वर्णानुगुणम् अधिकं विधत्ते । यथा ब्राह्मणः अत्यधिकं दण्डं प्राप्नोति चेत् शूद्रः अत्यन्तं न्यूनं दण्डं प्राप्नोति इति । आहत्य सारतः एवं सङ्ग्रहीतुं शक्यते – मनुस्मृतौ भेदभावः पूर्णतः प्रसङ्गानुगुणम् वर्णितः, स्थितिभेदेन परिवर्तितः च इति ।

समानतायाः धारणा एवं समानता इत्यनयोः मध्ये विद्यमानस्य अन्तरस्य विषये शर्मवर्यः प्रस्तावम् उपस्थापयति । सः परामर्शं ददाति यत् यदा मनुस्मृतिः विभिन्नानां वर्णानां समानानि सामाजिकवैशिष्ट्यानि न प्रतिपादयति, तदा तान् समानतायाः धारणानुगुणं पश्येत् । अस्मिन् विषये तस्य एवम् अभिप्रायः – ये उन्नतस्तरे सन्ति ते अवश्यम् अधिकम् उत्तरदायित्वं स्वीकुर्युः । यत्र सर्वस्यापि समानः स्तरः  समानम् उत्तरदायित्वं च भवति तदपेक्षया कस्यापि न्याय्यं कर्तुं एषः भिन्नः उत्तमः उपागमः अस्ति ।

अन्ततः मनुस्मृतेः(४.१७६) विषये अयम् उल्लेखः उचितः भवेत् यत् मनुस्मृतिः तस्याः एव क्रियान्वयनाय स्वातन्त्र्यं/नमनीयता दातव्या इत्यस्मिन् पक्षे अस्ति । सामाजिकाः नाङ्गीकुर्वन्ति चेत् कोऽपि जनः धर्मं(सान्दर्भिकं धर्माचरणम्) अवश्यं त्यजेत् । धर्मस्य कानिचन प्रावधानानि (स्वयं मनुः यानि प्रावधानानि अरचयत् तान्यपि अविहाय) सामाजिकैः अयोग्यानीति परिभाव्यन्ते चेत् (यथा अद्यत्वे व्यापकरूपेण निन्दितः जातिगतभेदभावः) तानि त्यक्तव्यानि । एतत् इदम् सूचयति यत् वर्णव्यवस्थायाः अनुपालने शैथिल्यस्य अवसरः अस्ति इति ।

शर्मावर्यः वर्णस्य विषये प्रमुखाणां ग्रन्थानां मध्ये वैभिन्यानि विरोधाभासाश्च वर्तन्ते इति प्रदर्शयति । उदाहरणार्थम् –जन्माधारितवर्णव्यवस्थातः पूर्णरूपेण महाभारतम् आत्मानं पृथक्करोति इति । जन्माधारितः वर्णविचारः मनुस्मृतौ एव अस्तीति महाभारतम् मनुस्मृतिम् आरोपयति ।  अस्मिन् विषये तत् मनुस्मृतिं निराकरोति । शर्मावर्येण प्रदर्शितानां प्रमाणानाम् आधारेण महाभारतं मनुविषये आरोपितानि पद्यानि उद्धरति, यानि केषुचित् विषयेषु मनुस्मृतौ अपि न सन्ति ४७

अर्थशास्त्रम् धर्मशास्त्रं च तोलयित्वा अस्माकं विभिन्नेषु ग्रन्थेषु कथं  वर्णानाम् उपचारविषये भेदः अस्ति इति स्पष्टरूपेण विवरीतुं शक्यते । प्रदत्तपरिस्थितौ उपयुक्तः विशिष्टः ग्रन्थः परिणामस्य उपरि प्रभावं जनयति इत्यतेत् स्पष्टम् । मनुस्मृतेः धर्मशास्त्रसम्प्रदायः शास्त्रार्थेषु प्राबल्यं वहति चेदपि  अर्थशास्त्रस्य सम्प्रदायः सदा तेन सहैव व्यवाहारे अस्ति ।  अर्थशास्त्रसम्प्रदायः वास्तविकरूपेण प्रचाल्यमानानां नीतीनां प्रतिबिम्बरूपः अस्ति । एतत् वर्णविषये मौनि, सूक्ष्मभेदवत् चास्ति ।  अर्थशास्त्रम् (९.२) शूद्राणां सैन्यम् उल्लिखति, शूद्राः राजानः भवन्ति इत्येतदपि उल्लिखति ।

शूद्रैः स्म्पूर्णरूपेण वेदाः अप्राप्याः इत्येनम् मौलिकप्रमेयविषयं शर्मावर्यः न अङ्गीकरोति । तस्य बह्वीषु कृतिषु सः बहून् ग्रन्थभागान्, ऐतिहासिकप्रामाण्यानि च एतदर्थं प्रायच्छत् यत्  - कदाचित् शूद्राः वेदान् उपयुक्तवन्तः इति,  ये च निर्बन्धा आसन् तेऽपि पूर्णरूपेण न आसन् इति च ४८

संस्कृतसम्भाषणस्य व्यापकोपयोगस्य विषये कृष्णशास्त्रिवर्यस्य कार्यम्

संस्कृतम् तदीयं व्याकरणम् च उन्नतवर्गीयाणाम् एव इति पोलाकीयम् आरोपं  बहवः साम्प्रदायिकाः विद्वांसः न अङ्गीकुर्वन्ति । यथा संस्कृतभारत्याख्यस्य अत्यन्तं  सफलस्य सङ्घटनस्य शीर्षस्थानीयः चमू कृष्णशास्त्रिवर्यः  “प्राचीनकाले सामान्यजनाः अपि संस्कृतेन सम्भाषणं कुर्वन्ति स्म” इत्यस्य  लिखितप्रामाण्यानां सङ्ग्रहं प्रदर्शयति ।  अतः पोलाकस्य आरोपानुगुणं ब्राह्मणानाम् एकस्वाम्यम् अत्र नासीत् । अस्य ग्रन्थभागस्य अवशिष्टांशाः शास्त्रिवर्यस्य पुस्तकस्य सङ्क्षिप्तांशः एव  अस्ति४९

प्रसिद्धः वैय्याकरणः पाणिनिः व्याकरणस्य नियमान् न सृष्टवान्, प्रत्युत सः भाषायाः वास्तविकोपयोगस्य अध्ययनं कृतवान्, भाषां संहिताबद्धां कृतवान् । शब्दानां साम्प्रतिकोपयोगविषये संवादावसरे विभिन्नशीर्षकेषु सः तथा विभागं कृतवान् । तत्र एकस्मिन् विभागे ते शब्दाः संग्रहीताः ये वैदिककर्मानुष्ठानेषु उपयुज्यन्ते, अन्यस्मिन् विभागे अन्ये शब्दाः सङ्ग्रहीताः ये सामान्यतया सम्भाषणाय उपयुज्यमानायां भाषायां भवन्ति । सः क्रमशः एतत् प्रकारद्वम् एवम् अभिधत्ते – छन्दः(वैदिकभाषा), भाषा(भाषितभाषा) चेति । द्वितीयः प्रकारः वैश्विकोद्देशाय(लौकिकोद्देशाय अथवा व्यावहारिकोद्देशाय) उपयुक्तः । भाषा इत्यस्य शब्दस्य मूलस्य(प्रातिपदिकस्य) अर्थः स्पष्टतया, मुखरतया भाषणम् इति अथवा उच्चैः भाषणम् इति वा । एतस्य इदं तात्पर्यं यत् भाषायाः प्रयोगः मौखिकरूपेण क्रियते स्म इति  ।

“व्याकरणम्” इति शब्दस्य अर्थः एव उपयुज्यमानानां शब्दानां वाक्यानां च विश्लेषणात्मकप्रस्तुतिः इति । अतः निर्दिष्टे समये भाषा वस्तुतः केन मार्गेण प्रयोगपथे अस्ति इति विवरणम् एव संस्कृतव्याकरणम् अस्ति । एतत् महत्वपूर्णम् अस्ति यत् व्याकरणम् लौकिकोपयोगिनाम् अथवा व्यवहारोपयोगिनां शब्दानां विमर्शं करोति चेदपि, संस्कृतं केवलं वैदिकानुष्ठानानां निमित्तम् एव उपयुक्तम् आसीत् इति,  सामान्यसम्भाषणाय न उपयुक्तमासीत् चेति पोलाकस्य कथनम् असत्यम् अस्ति इति निरूपयति । अपि च अस्माभिः अचिरात् द्रष्टव्यम् यदस्ति तदनुगुणं - सामान्यव्यवहारे विद्यमानानि कानिचन संस्कृतपदानि, कृषकाणां, कर्मकराणां, सामान्यजनानां च क्रियाकलापान् सूचयन्ति चेत् केवलं महान्तः ब्राह्मणाः एव संस्कृतम् उपयोक्तुम् शक्नुवन्ति स्म इति पोलाकस्य कथनं निराकरोति ।

महाभाष्यस्य प्रथमाह्निके महर्षिः पतञ्जलिः वदति - तस्य काले भारतस्य सर्वेषु अपि कोणेषु संस्कृतं सक्रियतया प्रयोगपथे आसीत् इति । तदानीं केचन निर्दिष्टाः शब्दाः केषुचित्  प्रदेशेषु अत्यन्तं प्रचुरप्रयोगेण मूल्यवत्तराः आसन् । विभिन्नेषु प्रदेशेषु समानं विषयम् अभिव्यञ्जयितुं विभिन्नान् शब्दान् कथं जनाः उपयुञ्जानाः आसन् इति  पतञ्जलिः स्फुटानि उदाहरणानि प्रयच्छति । स्थानीयप्रयोगवैविध्येन सह संस्कृतं व्यापकरूपेण विशालभूभागे उपयुज्यमानम् आसीत् इति एतत् सङ्केतयति । स्थानीयप्रयोगवैविध्यम् अनौपचारिकरूपेण संस्कृतस्य उपयोगकारणात् एव भवति इति अनेन  कोऽपि ऊहितुमर्हति । सः प्रयोगान् वर्णयितुम् एकं वाक्यांशम् सदा उपयुङ्क्ते “भाषितो भवति”  इति  न तु “लिखितो भवति” ।

सम्प्रेषणस्य तन्त्रत्वेन शब्दानां साधुप्रयोगविषकं वैय्याकरणसूतयोः सम्भाषणं पतञ्जलिः प्रदर्शयति । एतत् इदं सूचयति यत् संस्कृतं सामान्यजनैः अपि सामान्यक्रियाकलापसमये अपि उपयुज्यते स्म इति । पतञ्जलेः महाभाष्यस्य प्रायः प्रत्येकस्मिन् पृष्टे संस्कृतस्य सामान्य-व्यावहारिकप्रयोगस्य उदाहरणानि लभ्यन्ते ।

संस्कृतस्य तदीयासु वाचोयुक्तिषु विद्यमाना समृद्धिः स्पष्टतया इदं सूचयति यत् तस्य शब्दसम्पत्तिः सामान्यजनानां दैनन्दिनोपयोगकारणात् एव उद्भूता इति । उदाहरणार्थं यथा – यत्र ब्राह्मणाः विद्वांसः सक्रियाः न भवन्ति तादृशेषु कृष्यादिशारीरिकश्रमस्य क्षेत्रेषु संस्कृतस्य विशिष्टः शब्दराशिः अस्ति । विशेषतः कृषिकार्यसम्बद्धा एव विशिष्टशब्दजालस्य महती मात्रा  एतत् सूचयति यत् सामान्यैः जनैः  कृष्यादिषु पारस्परिकसम्भाषणाय संस्कृतम् उपयुज्यते स्म इति । उपद्रवकरिभिः, द्यूतक्रीडकैः वञ्चकैः च ये शब्दाः उपयुज्यन्ते स्म तान् पाणिनिरपि संसूचयति । कृष्णशास्त्रिवर्यः बहून् तादृशान् शब्दान् उदाहरति यान् महाजनाः स्वीयव्यवहारे उचितान् न मन्यन्ते स्म इति ।

किञ्चित् जटिलप्रकारस्य प्रामाण्यस्य प्रस्तुतिः अनया रीत्या कृता यत्र केचन स्पष्टतया निर्दिष्टाः शब्दाः पूर्वतनात् निर्बन्धितप्रयोगात् मुक्ताः सन्तः अत्यन्तं सामान्यरीत्या दैनन्दिनजीवने उपयुज्यमानाः सन्ति । वस्तुतः वैय्याकरणैः प्रत्ययसंयोजनं कृत्वा तज्जन्यशब्दजालस्य व्यवस्थापनात्   पूर्वमेव सामान्यलोकव्यवहारे महत्त्वं प्राप्य सामान्योद्देशाय बहवः शब्दाः प्रयुक्ताः । ते शब्दाः स्पष्टतया औपचारिकनियमनिर्माणात् पूर्वमेव अनौपचारिकरूपेण भाषणाय उपयुक्ताः आसन् ५०

प्रापञ्चिकव्यवहारस्य  क्रियाकलापानां विषये नियमानां विधीनां च निर्माणे  वैय्याकरणानां बहुधा चिन्ताः तावत् एतद्दर्शयन्ति यत् न केवलं कृष्यादिषु उपयुज्यमानाः शब्दाः चिन्तनीयाः अपि तु उपहासः, प्रतीपगमनम् इत्यादिषु  अत्यन्तं व्यावहारिकेषु सन्दर्भेषु अपि उपयुज्यमानानां शब्दानां विषये(साधुत्वविषये)  चिन्तनीयम् इति ।  पतञ्जलेः समग्रे महाभाष्ये साहित्यात् वा साहित्यिकप्रयोगात् वा शब्दान् आदाय नियमाः न आविष्कृताः, प्रत्युत  दैनन्दिनव्यवहारम् अवलोक्य एव व्याकरणनियमाः निर्मिताः ।

बौद्धानां प्रभावस्य पुनर्मूल्याङ्कनम्

 वेदेषु प्रतिपादितान् प्रतिबन्धान्  बौद्धमतम् न्यवारयत् इति पोलाकस्य प्रतिपादनम् अशोक-अक्लूजकरः न अङ्गीकरोति ।  ज्ञानसञ्चयाय(ग्रन्थरचनायै) ब्राह्मणैः सह बौद्धाः जैनाश्च स्पर्धन्ते स्म इति सः वदति । सामाजिकाः निर्बन्धाः सर्वेषां सामाजिकसमूहानां समावेशिस्वरूपदानस्य, ग्रन्थानां  प्रणयनस्य च स्पर्धात्मकं तन्त्रं स्यात् इति सः भावयति । एतत्सादृश्येन पश्यामः चेत् – अद्यत्वे विभिन्नेषु सङ्घेषु समूहेषु च आचाराः नियमाश्च सामूहिकाभिज्ञायाः सामर्थ्यवृद्धेः तन्त्रत्वेन सन्ति इति कोऽपि चिन्तयितुं शक्नोति । एतत् धार्मिकरूपेण न चालितम्, अपि तु  सामूहिकम् ऐक्यं संवर्धयितुम् स्पर्धात्मकतन्त्रत्वेन वित्तीयविपण्यां देयभागस्य प्राप्त्युद्देशेन च प्रचालितम् अस्ति । अतः एतत् प्रयोजनवादितन्त्रम् अस्ति न तु मूलतः आध्यात्मिकम् ।

शेल्डन पोलॉक् पौनःपुन्येन प्रतिपादयति यत् बौद्धपूर्वकाले केवलं यागादिषु संस्कृतस्य उपयोगः कर्तुं शक्यः आसीत्, न तु दैनन्दिनव्यावहारे  इति । बौद्धानाम् उदयात्परमेव पुरुषाणां प्रपञ्चे लौकिकोपयोगाय संस्कृतस्य प्रवेशः अभवत् इति सः शेल्डन पोलॉक् वदति५२

बहवः संस्कृतस्य समर्थकाः बौद्धमतजन्यं  संस्कृतस्य मूलभूतम् एनं गत्यवरोधविषयकं विचारं न अङ्गीकुर्वन्ति । संस्कृतं सर्वदा प्रापञ्चिकव्यवहारार्थं वेदाध्ययनाय चेति द्वयोः निमित्तमपि उपयुक्तम् आसीत् इति ते परिभावयन्ति । पणिनेः अष्टाध्याय्याः रचना एतयोः द्वयोरपि पक्षयोः निमित्तं जाता । अपि च भागशः प्राचीनवैय्याकरणमतानाम् (बौद्धपूर्वकालिकानाम्) आधारेणापि अष्टाध्यायी रचिता अस्ति ।

संस्कृतव्याकरणस्य निन्दायाः औचित्यम् अस्ति किम् ?

पोलाकस्य वास्तविकी कार्ययोजना एषा अस्ति यत् – अस्मिन् बौद्धिके व्यायामे व्याकरणस्य सामाजिकदमनस्य च मध्ये सान्दर्भिकः सम्बन्धः अस्ति इति निरूपणम् । सः एवं लिखति – “संस्कृतकाव्यानां व्याकरणस्य, साहित्यशास्त्रस्य च क्रमः कथमपि सामाजिकप्रपञ्चस्य राजनैतिकप्रपञ्चस्य च क्रमं आवर्तयति५३ इति । अन्यस्मिन् स्थले - समानं तन्त्रम्/तर्कम् उपयुज्य वदति – ’वर्णस्थितिः’ इत्यनेन पदेन समानरूपेण “भाषाध्वनीनां संरक्षणम्” “समाजिकस्तरस्य संरक्षणम्” चेति द्वयमपि तेन वर्णितम्, एवं च अस्तित्ववादानुगुणं द्वयमपि परस्परं सम्बद्धम् अस्ति५४ इति । तथापि वर्णशब्दस्य विभिन्ने प्रकारद्वये(व्याकरणे समाजे चेति) उपयोगः अस्तित्ववादानुगुणम् अथवा सामान्यरूपेण वा सम्बद्धं नास्ति एव । पोलाकस्य एतादृशः इतिहाससम्बद्धः कालिकः आग्रहः अस्ति चेत् तदर्थं संस्कृतव्याकरणस्य विशिष्टसंरचनानाम् अभिज्ञानम् आवश्यकम् यत् सामाजिकदमनस्य कारणम् अस्ति । सप्तमाध्याये एतत् विस्तरेण चर्च्यते ।

सामाजिकपदानुक्रमणिकायाः जीवनस्तराणां च स्थिरता नियन्त्रणं च  राज्ञः कर्तव्यम् आसीत् । किञ्च व्याकरणस्य माध्यमेन जायमानां भाषायाः स्थिरताम् आश्रित्य एतद्भवति इति सः वदति ५५। व्याकरणस्य संवर्धने राज्ञः आरभ्य अवरोहणक्रमेण विद्यमानं राजनैतिकप्रभावं सः विवृणोति –

केवलं व्याकरणेन प्राप्तप्रतिष्ठया प्राप्तस्थैर्यया भाषया शासकः/राजा स्वप्रसिद्धेः शाश्वतिकीम् अभिव्यक्तिं प्राप्तुम् अर्हति न तु नियमविहीनया, सार्वभौमिकव्याकरणनियमैः अप्रतिबन्धितया प्रान्तीयया भाषया या च निरन्तरं विनाशावस्थां प्राप्नुवती भवति । एषः संस्कृतकविः अस्ति यः प्राचीनाभाणकस्य अनुसारं राज्ञः महिमामण्डितं शरीरं निर्माति, यच्च शरीरम् अस्यां भुवि राज्ञः भौतिकशरीरस्य दहनात्परमपि जीवति । परिशुद्धः दर्पणः यथा तस्य राज्ञः मरणात्परमपि निरन्तरं कीर्तिवैभवं प्रतिबिम्बयति तथा ग्रन्थनिर्माणस्य सुयोग्यभाषा कार्यं करोति५६

पोलाकस्य उपरितनस्य कथनस्य निन्दां कुर्वन्  के.एस्. कण्णन्-वर्यः कथयति – “परिशुद्धः दर्पणः यथा तस्य राज्ञः मरणात्परमपि निरन्तरं कीर्तिवैभवं प्रतिबिम्बयति तथा ग्रन्थनिर्माणस्य सुयोग्यभाषा कार्यं करोति” इत्येतत् पोलाकस्य वाक्यं यदा तेन उद्धृतं तदा योजितमस्ति । शेल्डन पोलॉक् विभिन्नानि कथनानि संयोजयति ५७ । तस्य एकः अत्यन्तं सन्तुलितः दृष्टिकोणः एषः भवितुम् अर्हति यत् – समानभारतीयभाषायाः रूपेण राज्ञः यशःप्रसारणाय संस्कृतम् उपयुक्तम् साधनम् इति अमन्यत इति । एतत्तु, प्रसिद्धिं प्राप्तुं कोऽपि उन्नतश्रेण्याः आङ्लभाषया ग्रन्थः प्रकाशनीयः इति यथा इदानीन्तनकाले उच्यते तथा इति मन्तव्यम् ।

उपयोक्त्रनुकूलतया वैदिकज्ञानस्य प्रत्येकस्मै जनाय प्राप्त्यवसरः

सर्वेषां जनानां ज्ञानप्राप्तये विद्यमानाः  वैदिकपरम्परायाः बहवः आयामाः सन्तुलितचर्चया अभ्युपगन्तव्याः । उदाहरणार्थम् - इतिहासः, विविधानि कलाकौशलादीनि च अभ्युदयाय मार्गान् प्रदर्शयन्ति, अपि च एतानि सर्वेषां वर्णीयानां सर्वतोभावेन उपयोगाय उपलभ्यमानानि आसन् । वैदिकज्ञानस्य प्रसारणाय विशेषतः इतिहासग्रन्थाः ग्रथिताः ।  समग्रजनसमूहस्य कृते इतिहासप्रतिपादितानां जटिलविषयाणां  सामोदप्रदर्शनाय नाट्यशास्त्रस्य प्रणयनम् अभवत् ।

संस्कृते लिखितं नाट्यशास्त्रं पञ्चमवेदः इति वैदिकपरम्परायामेव मन्यते, तदपि नाट्यशास्त्रग्रन्थे एव उक्तम् । सर्वेषां वर्णीयानाम् उपयोगाय नाट्यशास्त्रमस्तीति सर्वे हैन्दवाः मन्यन्ते । एतत् नाट्यप्रस्तुतेः निमित्तं संरचनाप्रकारं प्रयच्छति येन वैदिकज्ञानं लीलया प्राप्तुम् योग्यं भवति । विविधप्रकारकाणि मनोविज्ञानानि परिस्थितीः च अनुसर्तुम् हैन्दवसम्प्रदायानां सामर्थ्यम् अस्तीति नाट्यशास्त्रस्य एव उपोद्घातः एव प्रदर्शयति । तस्य पृष्ठभूम्याः विवरणम् अत्र प्रदत्तम् अस्ति  -

·       कस्मिंश्चित् निश्चिते कालखण्डे यदा मानवेषु प्रमुखगुणत्वेन रजोगुणः आसीत् तदा स्वार्थपूर्णाभिः इच्छाभिः संवेगैः च ते प्रेरिताः भवन्ति स्म । तदा तान् वैदिकोपदेशेन ऋजुमार्गे आनेतुं यत्नः क्रियते चेदपि साफल्यं न प्राप्यते स्म । तेषां संज्ञानात्मकक्षमतासु सात्विकगुणानाम् अभावः आसीत्, येषां गुणानाम् आवश्यकता वैदिकज्ञानाय आसीत् ।

·       यद्वर्णीयाः सात्विकगुणेन विहीनाः सन्ति तेषाम् वेदार्थज्ञानप्राप्तेः निमित्तं देवताः परोक्षपद्धतिम् इष्टवन्तः । एषा पद्धतिः  वेदेषु विषयप्रतिपादनाय उपयुक्तरीतितः भिन्ना एव भवेत् । एतत् नियमानां/आदेशानां दानेन साधयितुं न शक्यम् आसीत्,  एतद्विपरीततया आनन्दावाप्तिपुरस्सरम् अनुभवगम्यत्वेन दातुं शक्यते स्म ।

·       इतिहासं रचयितुं देवताः ब्रह्माणं प्रार्थितवन्तः, येन इतिहासेन इन्द्रियसुखप्राप्त्या सह धर्ममार्गे सहजतया जनानां प्रवृत्तिः उत्पादयितुम् शक्या । एवं प्रकारेण रजोगुणाप्रधानानां सामाजिकानां पार्श्वे वैदिकज्ञानस्य प्रापणाय इतिहासस्य तस्य मञ्चनस्य च स्वरूपं निश्चितम् अभवत् । इतिहासम् आधारीकृत्य रचितानां नाटकानाम् उद्देश्यम् आनन्दावाप्तये मनसः प्रवर्तनम् अस्ति ।

·       एतादृशानां नाटकानां मञ्चनाय कठोरता/कठोरपरिश्रमः न आवश्यकी । क्रमशः शनैः शनैः  सुखदध्वनीनां दृश्यानां च उपयोगं कुर्वन्तः सामाजिकाः आन्तरिकं परिवर्तनं प्राप्नुवन्ति । ते नाटककाराः/इतिहासकाराः वेदोपदेशानां तिक्तौषधेषु  नृत्यसङ्गीताख्यं मधुरक्षीरं योजयित्वा पाययन्ति ।

·       एतादृशपरिस्थितयः एव देवतानां प्रार्थनानुगुणं ब्रह्मा पञ्चमवेदस्य सृष्टिम् यथा कुर्यात् तथा कृतवत्यः । ये वैदिकमार्गानवलम्बने हठवादिनः भवन्ति तादृशानां कृते  एषः मार्गः सृष्टः आसीत् ।

 

अतः एतस्य साम्प्रदायिकस्य दृष्टिकोणस्य अनुसारम्, सामान्यजनानां वेदज्ञानस्य निराकरणम् अकृत्वा तेषां संज्ञानात्मकसामर्थ्यानुसारम् अपेक्षितरीत्या साहाय्यं विधातुम् उपयोक्त्रनुकूलविधयः विकासिताः । येषां विश्लेषणात्मकग्रन्थेषु इच्छा न भवति,  अनुशासनात्मकम् अध्ययनं ये न इच्छन्ति, अभिनयादिषु आनन्दप्रदायकेषु येषां च मनः रमते,  तेषां निमित्तं नाट्यशास्त्रस्य स्वरूपं निर्धारितम् । अतः तादृशाः जनाः नाट्यादिमाध्यमेन इतिहासेभ्यः अधीयते । अत्याधुनिकतन्त्रज्ञानयुक्ते अस्मिन् युगेऽपि तादृश्यः पद्धतयः ज्ञानरञ्जनम् (Infotainment = Information + Entertainment) अथवा शिक्षारञ्जनम्(Edutainment = Education + Entertainment ) इति च कथ्यते ।  जटिलव्यवस्थायां प्रवेष्टुम् अशक्तः सामान्यः जनः उपयोक्त्रनुकूलविधीनां माध्यमेन लाभं प्राप्नोति ।

नाट्यशास्त्रम् आश्रित्य सामान्यजनानां निमित्तम् इतिहासस्य मञ्चनं नाटकैः क्रियते । एते इतिहासग्रन्थाः संस्कृतेन लिखिताः सन्ति । नाट्यशास्त्र-इतिहासाभ्यां सह अतिरिक्ततया तत्र बहूनि शास्त्राणि, आयुर्वेदः, वास्तुशास्त्रम् इत्यादीनि सर्ववर्णीयानां कृते संस्कृतवाङ्मये सन्ति । एवमेव पुराणानां विषये अपि इदं सत्यमेव अस्ति ।  केषाञ्चित् जनानां कृते संस्कृतं निषिद्धम् इति पोलाकस्य प्रतिपादनं चर्चार्हम्(पुनश्चिन्तयितुम् योग्यम्) अस्ति ।

 

वर्णस्य आकारप्रदायकं कर्म स्वतन्त्रतया चेतुं शक्यम्

अद्यत्वे भारतशास्त्रवित्सु एकं गम्भीरं रक्तपताकारूपेण प्रतिपादनम् इदमस्ति यत् कस्यापि वर्णस्य निश्चयः तदधीनः  नास्ति प्रत्युत भाग्यायत्तम् इति । तथापि पारम्परिकदृष्ट्यनुगुणं शूद्रः सः अस्ति यस्य चिता जीवनरीतिः वैदिकज्ञानान्वेषणानुकूला नास्ति । एषा अननुकूलता एव व्यक्तिगतगुणस्य प्रतिफलनम्, अन्ततः कस्यचित् कर्म भवति ।  भगवद्गीतायाः श्लोकद्वयं (४.१२, १३) एनं बिन्दुं वर्णयति । वैयक्तिककर्मणः चारित्र्यस्य च प्रतिमानानाम् अनुसारेण कस्यापि जनस्य गुणकर्मयोगः एव तस्य वर्णं निर्धारयति । कोऽपि जनः तस्य वैयक्तिकपरिश्रमेण तस्य गुणानां पुनःसघटनं कर्तुमर्हति ।

 

अनुभवजन्यं प्रामाण्यं सिद्धान्तात् भिद्यते ।

अनुभवजन्यदत्तांशान् प्रदर्श्य कोऽपि उल्लेखितुम् अर्हति यत् - शूद्रान् विरुध्य पूर्वाग्रहः संस्कृतेः आभ्यन्तरे एव  रचितः अस्ति इति । प्रसिद्धः गान्धीवादी धर्मपालः नवदशे शताब्दे आङ्लेयानाम् उपनिवेशकालिकान् दत्तांशान् उपयुज्य प्रदर्शितवान् यत्  अन्येषां सर्वप्रकारकाणां वर्णीयानामपेक्षया शूद्रच्छात्राणां सङ्ख्या महती आसीत् इति । उदाहरणार्थम्  १८२२-२५ तमे इसवीयकालघट्टे मद्रासप्रान्ते आङग्लजिल्लाधिकारिणां प्रतिवेदनानुगुणं छात्रसङ्ख्यायां शूद्राः ५०% भवन्ति स्म चेत् ब्राह्मणाः केवलं    २०% भवन्ति स्म । तदानीन्तनकाले अधिकसङ्ख्यया विद्यमानविद्यालयैः सह बङ्गालबिहारराज्ययोः प्रत्येकं मण्डले प्रायः १०० संङ्ख्याकाः महाविद्यालयाः आसन् ।   दौर्भाग्यवशात्  आङ्ग्लशासनकारणतः एषा सङ्ख्या  समग्रे भारते नवदशे शताब्दे  एव वेगेन हीयमाना अभवत् । आङ्ग्लेयाः एतदपि लक्ष्यीकृतवन्तः यत् व्याकरणं, कोषम्, गणितं, चिकित्साविज्ञानम्, तर्कशास्त्रम्, विधिशास्त्रम्, दर्शनानि च पाठयितुं  संस्कृतपुस्तकानां व्यापकरूपेण उपयोगः क्रियमाणः आसीत् इति ।

भारते आङ्लेयानां शासनस्य आरम्भकाले एतत् आङ्ग्लाधिकारिणः दृष्टवन्तः यत् इंग्लेण्डदेशस्य अपेक्षया अत्यन्तं व्यापकरूपेण उन्नतस्तरीया शिक्षा सामान्यजनानां कृते भारते दीयमाना अस्ति इति । सप्तदशशतकस्य अन्ते  आङ्ग्लदेशे  प्रत्येकं बालः बैबल्-ग्रन्थं पठितुं शक्नुयात् इत्युद्देशं सुनिश्चेतुं  दानेन चाल्यमानाः विद्यालयाः आसन् । तथापि १८०२ तमे इसवीयवर्षकाले प्रतिवेदनानि वदन्ति यत् – भारतात् समानीता “नूतनपद्धतिः” आरब्धा आसीत् इति । औपनिवेशिकानि प्रतिवेदनानि एतदपि कथयन्ति यत् आङ्ग्लग्रामीणविद्यालयानाम् अपेक्षया भारतस्य ग्रामेषु जनसंख्यानुगुणम् अधिकाः विद्यालयाः आसन् इति । भारतीयग्रामेषु  तदीयबालानां कृते स्थानीयावश्यकतानां पूर्त्यनुकूला शिक्षा दीयते स्म । धर्मपालवर्यस्य कथनानुसारेण  आङ्लेयाः एनां संस्कृताधारितां प्रणालीं आङ्ग्लाधारितशिक्षारूपेण परिवर्तितवन्तः यस्याः लक्ष्यं आङ्ग्लशासननिर्वहणाय निम्नस्तरस्य लिपिकानां निर्माणम् आसीत्५९

प्राचीनपरम्परानुगुणं कृषितः, नौकावाणिज्यतः च प्राप्तस्य राजस्वस्य तृतीयांशः सामाजिकसांस्कृतिकनिर्माणकार्यार्थम् उपयुज्यते स्म । आङ्ग्लेयाः एतद्विपरीतं/एतद्विनाशं कृतवन्तः । ते स्वस्य निमित्तं कुशलतया तद्धनं व्ययीकर्तुं  स्थानीयां  राजस्वसंग्रहप्रकियां केन्द्रीयां कृतवन्तः ।  स्थानीयानां सांस्कृतिकानां सामाजिकानां च निर्माणकार्याणां निमित्तं तत्र किञ्चिदपि धनं न अवशिष्यते स्म  । भारतीयशिक्षाव्यवस्थायाः नाशनेन सामाजिकानां प्रायोगिकज्ञानस्य नाशः वेगेन जायमानः अभवत् । विविधानां समुदायानां मध्ये विद्यमानं सामाजिकं सन्तुलनं विनष्टम् अभवत् । भारतस्य आर्थिकव्यवस्थायाः महती हानिः जाता ।  एतादृशेभ्यः एव कारणेभ्यः बहवः समुदायाः सम्प्रति एवं रूपेण परिवर्तिताः अभवन् यान् वयं सम्प्रति निम्नवर्गीयाः इति वदामः ।  शेल्डन पोलॉक् एतादृशाणि सर्वाणि तथ्यानि अवगणयति ।

एतदतिरिच्य, पोलाकेन प्रदत्तानि बहूनि उदाहरणानि बहुप्राचीनयुगसम्बद्धानि वर्तन्ते । तदुदाहरणसम्बद्धः तदानीन्तनपरिवेशः इदानीन्तनयुगे पूर्णतः समन्वितः न भवति । यः समयानुगुणं पृष्ठतः जिगमिषति सः एतदपि अभ्युपगच्छेत् यत् पुराकाले शूद्राणाम् अपि राजवंशाः आसन् ये च बहून् शताब्दान् यावत् प्राचलन् इति ।

ये समुदायाः ग्रन्थेषु शूद्राः इति  उक्ताः, ते आत्मानं शूद्रत्वेन न पश्यन्ति स्म । भारतशास्त्रवित् ए.एल्.भाषम् वदति – अस्मिन् विषये उत्तमं प्रामाण्यम् अस्ति यत्  - शूद्राः वाणिज्यिकोत्पादनकार्ये  निरताः आसन् । मौर्याणां काले तु बहवः शूद्राः उत्तमाः कृषकाः आसन् ६० । सः इतोऽपि एवं वर्णितवान् –

यथा यथा ब्राह्मणानाम् आनुष्ठानिक-कठोरता परिवृद्धा, ये समुदायाः रूढिवादि-आचारान् पालयितुं निराकृतवन्तः अथवा प्राचीनरीत्या एव आचारान् अनुवर्तितवन्तः येषां च आचाराः सम्मानजनकाः न आसन्, तादृशाः जनाः शूद्रश्रेण्याम् आगताः ।  अद्यत्वे काश्चन एतादृश्यः जातयः सन्ति यज्जातीयाः आत्मानं क्षत्रियं वदन्ति, ब्राह्मणाः तान् शूद्रान् मन्यन्ते  । यतो हि ते तादृशान् आचारान् पालयन्तः सन्ति ये बहोः कालात् प्रश्नार्हाः सन्ति । यथा मांसभक्षणम् अथवा विधवानां पुनर्विविवाहः । अवैधरूपेण लब्धजन्मनां जनानां आधिकारिकरूपेण शूद्रश्रेण्यां गणना भवति स्म, यद्यपि ते उच्चवर्गीयेभ्यः उत्पन्नाः ६१

यत्र नियमानाम्  अनुपालनात्मकम् अथवा अननुपालनात्मकम्  व्यवहारम् आश्रित्य विभिन्नवर्णेषु जनानां पुनःश्रेणीकरणम् काचित् नैरन्तरी प्रक्रिया आसीत् इति, अपि च एषा प्रक्रिया जनानां जन्मना अथवा वास्तविककर्मणा  अत्यन्तम् असम्बद्धा आसीत् चेति विषयम् अत्र भाषम्-वर्यः कथयन् अस्ति ।  शूद्राणां बहूनां सकारात्मकगुणानाम्, विशेषाधिकाराणां च उल्लेखः विभिन्नेषु स्मृतिग्रन्थेषु कृतः अस्ति ।

अत्र एकं मूर्तम् उदाहरणम् इदम् अस्ति यत् – स्वामिनः विवेकानन्दस्य गुरुः श्रीरामकृष्णपरमहंसः यस्मिन् दक्षिणेश्वरमन्दिरे अर्चकत्वेन सेवां कृतवान् तस्य मन्दिरस्य स्ववित्तेन पोषणं कुर्वती स्वामिनी काचित् धनिका शूद्रवर्णीया विधवा असीत् । यदि वयं प्रामाणिकसिद्धान्तानाम् अनुसारेण विचारयामः येषां विषये  भारतशास्त्रविदः आक्षिपन्ति, अत्र नैकविधानि अतिक्रमणानि(परम्पराविरुद्धानि कार्याणि) सन्ति  ।  सा तु काचित् महिला आसीत् । अपि च विधवा । जन्मना शूद्रा ।  अत्र बहूनां समाजशास्त्रीयाणाम् अनुसारेण तस्याः प्रत्येकम् अपि स्थितिः तस्याः अनर्हतायाः कारणीभूता अस्ति । किन्तु तस्याः प्रसङ्गे  वस्तुतः एवं नासीत् । अद्यत्वे तादृशं मन्दिरं हैन्दवानां मध्ये एकं महत्वपूर्णं पूजास्थलं भवितुम् अर्हति किम् ?  हैन्दवधर्मस्य विषये रूढिवादिता एवं परामर्शं प्रददाति यत् एवं न कर्तव्यम्  इति । तस्याः एतादृशमन्दिरस्य स्थापनाविषये श्रद्धा शूद्रान् तुच्छान् बाह्यान् च मन्यन्ते इति यत् चित्रं बहूनां मनसि अस्ति तद्विरुद्धतया अस्ति  । सा च शूद्रा महिला धनिका आसीत् इत्येतत् तेषां मानकसिद्धान्तेन सह कथमपि न समन्वेति ।

अद्यतनयुगानुगुणं वर्णानां विषये मदीयं पुनर्व्याख्यानम्

वर्णस्य अर्थविषये आरम्भिककालतः अपि विवादः प्रवर्तमानः एव अस्ति । अतः एषः  गतिशीला सङ्कल्पना/अवधारणा अस्ति यस्याः विषये समये समये पुनर्विचारः क्रियामणः अस्ति ।   वर्णस्य जात्याः च मध्ये विद्यमानस्य सम्बन्धस्य विषये अपि गभीरचर्चा जाता अस्ति । स्पष्टरूपेण वयम् अस्माकं समयानुगुणम् एतस्य व्याख्यानम् अनया रीत्या कर्तुं स्वतन्त्राः स्मः येन धर्मस्य समाजस्य च लाभः भवेत् ।

“सम्पदः रूपेण वर्णः” इत्याख्ये मम लेखे मया काचित् रचनात्मिका व्याख्या प्रस्तुतीकृता – वर्णः सामाजिकसम्पदः रूपेण  द्रष्टुं शक्यः । आधुनिकसमाजः वित्तीयसम्पदः विषये(वैश्यः), राजनैतिकसम्पदः विषये(क्षत्रियः), बौद्धिकसम्पदः विषये (ब्राह्मणः), कौशलात्मकसम्पदः विषये (शूद्रः) च विचारयति । वर्णं व्याख्यातुं सामान्यतः उपयुज्यमानः प्राथमिकः आधारः पुरुषसूक्तम् अस्ति ।  एतत् वर्णस्य वैयक्तिकं सामूहिकं च गुणं दर्शयति इति मे भासते । मन्त्रस्य रहस्यात्मिकां साङ्केतिकीं च प्रकृतिम् अवलोक्य अहं चिन्तयामि यत्  प्रत्येकं वर्णस्य वर्णनम् व्यापकरूपेण मानवतया सह राष्ट्रेण च सह अन्वेति, न केवलं वैयक्तिकरूपेण । चतुर्षु प्रत्येकमपि वर्णः कार्यस्य, समाजापेक्षितस्य प्रयत्नस्य प्रकारस्य प्रातिनिध्यम् वहति ।  अपि च प्रत्येकं वर्णः भगवतः स्वशरीरस्य अवयवेभ्यः उत्पन्नः इव प्रदर्शितम् ।

अवधानेन पश्यन्तु – पुरुषसूक्ते एवं चतुर्धा विभाजनस्य किमपि कारणं न प्रदर्शितम् ।  तत् केवलं वस्तूनां प्रकृतिं एवं कथयति । तथापि मनुस्मृतिः(१.८७)  एनं मानदण्डं ददाति यत् प्रपञ्चस्य/ब्रह्माण्डस्य संरक्षणम् अस्याः प्रणाल्याः उद्देश्यम् इति ।  एवं चिन्तनम् उचितम् अस्ति यत् ब्रह्माण्डस्य सुरक्षया समेषां जनानां हितं अन्तर्गतं भवेत् ।  अतः वर्णस्य एकं वैधं व्याख्यानं एवं भवेत् यत्  - समेषां सामान्यहितार्थम् अनेन आनुकूल्यं भवेत्, न तु केवलं केषाञ्चिदेव निर्दिष्टानाम् इति । यदि वर्णस्य विषये कोऽपि दृष्टिकोणः समाजस्य कस्यचित् वर्गस्य दमनं करोति तर्हि तत् वैधं व्याख्यानं नास्ति, यतो हि तेन समग्रकल्याणस्य मानदण्डानाम् उल्लङ्घनं भविष्यति ।

एतद्दृष्ट्यनुगुणं मम अभिप्रायेण वर्णानां संवर्धनम् कर्तुं राजा आदिश्यते इत्युक्ते स्वस्थसमाजस्य निर्माणाय सामाजिकसम्पदः विविधप्रकाराणाम् औत्तम्यसम्पादनम् कुर्यात् इति एव । यदा सः राजा एकस्याः सम्पदः संरक्षणं संवर्धनञ्च कर्तुम् इच्छति इत्युक्ते अन्यस्य दमनं कृत्वा एतत्साधयति इति नार्थः । अनया रीत्या तत्र वर्णसम्पदः कल्पनया  मुक्तवाणिज्यिकव्यवस्था आसीत् यत्र प्रत्येकं जनः स्वीयसामर्थ्यस्य मात्रानुगुणं भागं ग्रहीतुम् अर्हति स्म । वर्णः जन्माधारेण प्रसारितः न भवति प्रत्युत स्वातन्त्र्येण सामर्थ्यानुगुणम् प्रतिस्पर्धानुगुणं च । 

मया ऊहितुं शक्यम् अन्यत् नावीन्यम् एतद् अस्ति यत् चतुष्प्रकारिकाः सम्पदः वैयक्तिकस्तरे अपि स्वतन्त्राः सन्ति इति । अद्यत्वे मया परिचिताः बहवः जनाः बहूनां वर्णानां मिश्रितस्वरूपाः सन्ति । भोज्यपदार्थानां  निर्माणवेलायाम्, अथवा दत्तांशानां टङ्कणवेलायाम् अहं शूद्रकार्यस्य कर्ता भवामि ।  यदा अहं वित्तीय-दानादानविषये व्यवहरामि, अथवा वित्तकोषस्य Passbook विषये यदा अहं व्यवहरामि तदा अहं वैश्यः भवामि ।  यदा अहं किमपि शोधकार्यं करोमि, अथवा व्याख्यानं करोमि तदा अहं ब्राह्मणः भवामि ।  यदा अहं विरोधिनां तीव्रं विरोधं सम्मुखीकरोमि, यच्च राजनैतिकं रूपं प्राप्नोति तदा अहं क्षत्रियः भवामि ।

इदानीन्तनकालिकाः औपचारिकसंस्थाः इव प्राचीनकाले संस्थाः न उत्पन्नाः आसन् । अतः  सम्पदः/वर्णस्य प्रत्येकं प्रकारः वैयक्तिकः आसीत्, न तु सांस्थिकः  । अतः एतादृश्यः क्षमताः केवलं कस्यापि जनस्य वैशिष्ट्यम् आधारीकृत्य गृह्यन्ते । तथापि अस्माभिः तेषां सामाजिकसिद्धान्तानाम् अवलोकनं कर्तव्यम् अस्ति यत्र एते वर्णाः विभिन्नस्तरेषु सङ्ग्रहीतानां सम्पदां रूपेण भवितुम् अर्हन्ति । एकस्मात् जनात् आरभ्य लघुसमूहपर्यन्तं, एकस्मात् राष्ट्रात् आरभ्य महता प्रमाणेन मनवतापर्यन्तम् सङ्रहीतसम्पदः रूपेण वर्णः भवितुम् अर्हति ।

अस्माकं परम्परा कथं विकसिता भवति इति अवलोक्य प्रत्येकं युगार्थं नूतनव्याख्यानानि पुरतः समायान्ति । मम कृते धार्मिकसामाजिकसिद्धान्तानां विकाससन्दर्भे एतादृशानाम् ऊहापोहानां प्रयोगाणां च मध्ये कोऽपि दोषः अस्ति इति न भासते ।

भेदभावः दौर्भाग्यवशात् जगति सर्वत्र प्रचलति । एतस्य प्रबलः विरोधः भवेत् । किन्तु कामपि भाषाम् नागरीकतां वा दोषित्वेन परिगणयन्ति इत्यस्य तात्पर्यम् अस्ति ? सामाजिकसम्पदः सम्प्राप्तिविषये, ज्ञानस्य अर्जनविषये च कोऽपि निर्बन्धः अस्ति चेत् तद्विषये पुनर्विचारः अवश्यं करणीयः इत्यत्र मम सर्वथा सहमतिः अस्ति । यत्र कुत्रापि अवरोधः अस्ति चेत् अस्माभिः  अवश्यं परिष्कारः/परिवर्तनं कर्तव्यम् । मम परिज्ञानानुसारम् अद्यत्वे संस्कृतग्रन्थानाम्  उपयोगस्य अधिकारः समाजस्य सर्वस्तरीयाणाम् अस्त्येव । वस्तुतः संस्कृतभारती सामाजिकभेदभावेन विना एव सम्भाषणसंस्कृतस्य प्रचारं करोति । अपरस्मिन् पक्षे  अभिजातवादस्य(Elitism) विमर्शः पोलाकस्य गणस्यापि कार्योल्लेखेन कर्तव्यः, येन अभिजातवादिनां नूतनसन्ततेः निर्माणम् जटिलपाश्चात्यसिद्धान्तैः सह आङ्ग्लभाषायाः सम्पूरणेन/आरोपणेन करोति । एतद्विषये अहं अग्रिमे अध्याये कथयिष्यामि ।

समीपकालपर्यन्तं संस्कृतस्य कृते व्यापकं समर्थनम्

अहम् एतत् उल्लेखितुम् इच्छामि यत् दलितानाम् अग्रणी नायकः डा.बि.आर्.अम्बेड्करः संस्कृतस्य संवर्धनाय उत्साहपूर्णं कार्यं कृतवान् आसीत् ।  १९४९ तमे इसवीयवर्षे सेप्टम्बरमासस्य दशमे दिनाङ्के ’प्रेस् ट्रष्ट आफ् इण्डिया ’ इत्यस्य एकस्याम्  आवृत्तौ लिखितं यत्  - सः तादृशजनानां मध्ये अन्यतमः ये हिन्द्याः अपेक्षया संस्कृतं भारतस्य राजभाषात्वेन स्वीकरणाय प्रवृत्ताः आसन् । बह्व्यः वार्तापत्रिकाः एनां वार्तां तस्मिन् एव वर्षे सेप्टम्बरमासस्य ११ दिनाङ्के प्रसारितवत्यः६३ । प्रस्तावितं परिवर्तनम् एवं लिखितम् आसीत्  -

१.    भारतस्य राजभाषा संस्कृतं भवेत् ।

२.    अस्य अनुच्छेदस्य प्रथमे खण्डे यः कोऽपि विषयः भवतु, अस्य संविधानस्य अङ्गीकारात् १५ वत्सरान् यावत् अस्मिन् देशे आङ्ग्लभाषा आधिकारिकोपयोगाय स्थास्यति, यदर्थम् अस्याः उपयोगः एवम् आरम्भे कृतः वर्तते ।  अस्मिन् अवधौ विना निर्बन्धं राष्ट्रपतिः स्वीयेन आदेशेन कस्यापि आधिकारिककार्यस्य निमित्तम् आङ्ग्लभाषया सह संस्कृतम् अधिकृतभाषां कर्तुम् अर्हति ।

दौर्भाग्यवशात् अयं सांविधानिकः परिष्कारः एकेन मतेन पारितः न अभवत् । तथापि एतत् कार्यं दलितैः सह बहूनां नेतॄणाम् अपि संस्कृतस्य विषये समर्थनस्य स्तरं/मात्रां दर्शयति६४  ।

 पाश्चात्यदेशैः सह तुलना

वर्णः मानकः नासीत् इति अवगन्तुं कोऽपि भारते धार्मिक-असहमतेः प्रकृतिं प्रशंसेत् । यथा ऐरोप्यदेशेषु सदा प्रवर्तते स्म तथा असहिष्णवः हैन्दवाः कस्यापि शिरश्च्छेदं कृतवन्तः इति वा, कमपि अग्निना ज्वालितवन्तः इति वा घटना कुत्रापि नास्ति । कालक्रमानुगुणं यवनाः यथा पूर्वेषां धर्मग्रन्थानां धार्मिकपवित्रस्थलानां वा क्रौर्येण सह नाशं कृत्वा स्वीयं प्रतिष्ठापितवन्तः तथा भारते कदापि न जातम् ।  यवनमतं जनानां पूर्वतनायाः जागतिककल्पनायाः सम्पूर्णरूपेण नाशम् इच्छति स्म । उदाहरणार्थं यथा चर्च मूर्तिपूजकानां हननम् अकार्षीत् ।

पि.वि.काणेवर्यः मनुस्मृतिप्रतिपादितब्राह्मणैः सह चर्चमध्ये स्थितानां यवनधर्मीयाणां Father इत्यभिधानानां तुलनाविषये प्रतिपादयति । सः दृढतया कथयति यत् बहुभिः प्रकारैः यवनानां धार्मिकस्थलेषु विद्यमानाः Father इत्यभिधानाः  अन्येषां यवनानाम् अपेक्षया बह्वेव उच्चस्तरीयं स्थानं प्राप्नुवन्ति, ब्राह्मणाः हैन्दवमते यादृशं स्थानं प्राप्नुवन्ति तदपेक्षया बह्वेव उच्चस्तरीयं स्थानं यवनमते प्राप्नुवन्ति । सः वदति -  विंशतितमशताब्दस्य आरम्भपर्यन्तं  भारतसदृशेषु स्थानेषु ऐरोप्यमूलनिवासिनः अत्यन्तम् अधिकस्य भेदभावस्य प्रदर्शनं कृत्वा आनन्दम् अनुभूतवन्तः आसन् । भारतस्य आपराधिकसंहिता आङ्लेयानां शासनकाले ऐरोप्याणां परतया अत्यन्तं भेदभावपूर्णा आसीत् । अत एव  प्राचीनभारतस्य न्यायिकभेदभावस्य विषये मूल्याङ्कनवेलायां कोऽपि एतत् मनसि स्थापयेत् यत् अत्यन्तं समीपकालपर्यन्तं जगतः अन्येषु भागेषु कथं प्रचलति स्म इति ।

ऐरोप्याणां दौर्जन्यस्य कारणं संस्कृतम् इति परिग्रहः

औपनिवेशिकस्य भारतशास्त्रस्य संरक्षणम्

पूर्वोक्तप्रकारेण शेल्डन पोलॉक् एतत् प्रतिपादयितुम् इच्छति यत्  ऐरोप्याणां माध्यमेन सामाजिक-राजनैतिक-दुर्व्यवहारः सामान्यरूपेण उपनिवेशेन सह सम्बद्धः अस्ति । वस्तुतः एषः सामाजिक-राजनैतिक-दुर्व्यवहारः बह्वेव पूर्वम् उत्पन्नः आसीत् ।  तस्य इदमस्ति कथनं यत्  - एतस्य निदानरूपेण प्रारम्भिकस्रोतः पाश्चात्यभारतशास्त्रस्य उपरि न आरोपणीयम्  प्रत्युत संस्कृतग्रन्थानाम् उपरि आरोपः करणीयः६५ । तस्य प्रबन्धः एषः अस्ति यत् – संस्कृतस्य संरचनायां प्राच्यवादः गभीररूपेण अन्तर्निहितः अस्ति । एषः प्राच्यवादः पश्चात् ग्रन्थानां माध्यमेन सामाजिकसंरचनानां माध्यमेन च प्रकटितः भवति ।

तथापि मम अभिप्रायेण यदि एषः प्रबन्धः वैधः अभविष्यत् तर्हि निम्नलिखिताः विषयाः उदपत्स्यन्त -  तथाकथितप्राच्यवादेन  कस्मिन् अपि देशे नरसंहारः किमर्थं न कृतः ? यत्र हैन्दवाः वाणिज्यार्थं गताः आसन् । केवलं ज्ञानस्य निर्यातनिमित्तम् तत्रैव स्थिरीभवितुम् ? 

हैन्दवाः भारताद् बहिः साहसोद्यमाय प्रवृत्ताः एषियाभूखण्डस्य आग्नेयदिशि वाणिज्यं कृत्वा तत्रत्यां संस्कृतिं प्रभावितवन्तः  । क्रिस्तोः पूर्वं प्रथमसहस्राब्दे (कलिङ्गाः), क्रिस्तोः अनन्तरं प्रथमसहस्राब्दे (सङ्गमवंशीयानां चोळवंशीयानां च युगे) च एतत् वस्तुतः सत्यमेव आसीत् । किन्तु कुत्रापि तत्रत्यां भाषां संस्कृतिं च नाशयित्वा  ते तत्तद्देशं स्वीयम् उपनिवेशं न कृतवन्तः । समानरीत्या  चैनादेशे, मङ्गोलियादेशे, मध्य-एशियादेशेषु च  भारतस्य प्रभावः दृष्टः ।  एतेषु देशेषु कुत्रापि तदीयेतिहासे  भारतीयानां दमनात्मकः उत्पातजनकः च ज्ञानराशिः आसीत् इति वा, अन्यत् यत् किमपि तत्सदृशं प्रामाण्यं वा वर्तते ।

काम्बोडियायां प्रथमशताब्धस्य आरम्भे हैन्दवसाम्राज्यम् आसीत् । एतत् साम्राज्यं चतुर्दशशताब्दिं यावत् आसीत् ।  तेषु १४००(चतुर्दशशते) वर्षेषु तत्रत्यानां ख्मेरजनानां आर्थिकसांस्कृतिकनाशं कृत्वा उपनिवेशेन भारतीयकरणं हैन्दवाः कृतवन्तः इति प्रमाणयितुम् किमपि ज्ञातपूर्वं प्रामाण्यं नास्ति । समीपवर्तिषु बालि-फिलिफैन्सदेशेषु अपि अस्मिन्नेव कालघट्टे समानरीत्या एव हैन्दवसंस्कृतेः प्रभावः दृष्टः ।

एतेषु देशेषु हैन्दवानां सांस्कृतिक-आर्थिक-प्रभावस्य माध्यमेन संस्कृतस्य अध्ययनं कृतम्, तस्य उपयोगः च कृतः । किन्तु एतेषु देशेषु संस्कृतस्य दमनकारिसंरचनाभिः अनुवादः न जातः, यस्मिन् संस्कृते पोलाकस्य कथनानुगुणं दमनकारिता अस्ति । सः किमर्थम् एवम् इति न पृच्छति ? यदि वेदाः तथा विषयुक्ताः , तर्हि आङ्ग्लेयाः इव हैन्दवाः कदापि बाह्यानाम् उपनिवेशीकरणे किमर्थं न प्रवृत्ताः ? अथवा जर्मनीयाः इव आभ्यन्तराणां प्राजानां संहारार्थंम् न प्रवृत्ताः किमर्थम् ?

एतदतिरिच्य ऐरोप्यप्राच्यवादस्य उत्पत्तेः मूल्याङ्कनवेलायाम् ऐरोप्यसंस्कृतेः आभ्यन्तरात् एव आगतस्य प्रभावस्य अनुसरणं शेल्डन पोलॉक् न करोति ।   यतो हि आङ्ग्लेयाः पूर्वमेव अमेरिकादेशे तत्रत्यानां मूलनिवासिनां हत्यां कृत्वा, कृष्णचर्मणां जनानां दासरूपेण परिवर्तनं विधाय, ऐरिशजनानाम् उपरि उपनिवेशं कृत्वा तेषां हिसां च कुर्वाणाः आसन्  । आङ्लेयानां बैद्धिकं लोकप्रियं साहित्यम्  अन्येषां प्रजातिवादिप्रक्षेपकैः एवं प्रभावितम् अभवत् यत् भारते एषः प्रजातिवादः तदीयां प्राच्यवादिपरियोजनां स्पष्टरूपेण प्रभावयति स्म । वस्तुतः अनेके पाश्चात्याः विद्वांसः लिखितवन्तः यत् ऐरोप्यप्रबुद्धतावादि-आन्दोलनस्य  बहूनां नेतॄणां मध्ये घोरः प्रजातिवादः(Racism)  लिङ्गभेदभावः अन्ये पूर्वाग्रहाः च आसन् इति ।

 मम निवेदनम् इदम् अस्ति यत्  उपनिवेशवादस्य वाणिज्यिकः अथवा धर्मसम्बद्धः आयामः भारते एव ऐदम्प्राथम्येन आरब्धः इति नास्ति ।  यदा पाश्चात्यभारतविदः भारते प्रविष्टाः ततः पूर्वमेव एते अमेरिकायाम् आफ़्रिकायाम् ऐर्लेण्ड-मध्ये च  सम्यग्रूपेण (उपनिवेशवादस्य वाणिज्यिकः अथवा धर्मसम्बद्धः आयामः) विकासितः, अनुष्ठितः, परीक्षितश्च६६ । 

नाझीवादस्य कारणत्वेन संस्कृतस्य निन्दा

शेल्डन पोलॉक् संस्कृतं विरुध्य आरोपप्रत्यारोपाणां नवीनशिखरं यावत् नयति । तस्य अयं तर्कः अस्ति यत्  २०तमस्य शताब्दस्य आरम्भे जर्मनदेशीयैः प्राच्यवादिभिः प्रजातीयशुद्धतायाः प्रजातीयहिंसायाः च विचारान् तदीयसंस्कृताध्ययनस्य माध्यमेन स्वीकृतवन्तः ।  तस्य आरोपः अयम् अस्ति यत्  अस्य प्रभावस्य कारणतः सा विचारधारा उत्पन्ना येन यहूदिजनान् विरुध्य नाजीजनैः नरसंहारं कर्तुं प्रेरणा प्राप्ता इति ।

 अतः पोलाकस्य अनुसारेण प्राच्यवादस्य प्रभावस्य प्रवाहः एवम् आसीत् –

संस्कृतस्य आन्तरङ्गिकः प्राच्यवादः è औपनिवेशिकप्राच्यवादःè जर्मन-नाजीवादः

 

सः एकं वचनम् उद्धृत्य कथयति  -’वेदज्ञाः आर्याः यत्किमपि कार्यं कुर्वन्ति तत् धर्मः इति स्वीक्रियते, यत् ते जहति तत् अधर्मः इति परिगृह्यते६७ ।’  अनन्तरं आर्याः के इति सः कथयति – आर्य/अनार्यरूपेण द्विधा विद्यमानस्य शब्दयुगलस्य  विमर्शात्मकपरिभाषायाम् अन्यतरः आर्यः अस्ति यन्माध्यमेन संस्कृतस्य सांस्कृतिकव्यवस्थायाश्च सङ्घटनं भवति ।  एतत् भारतस्य पारम्परिक-असमानतायाः प्रपञ्चं व्याप्नोति६८ ।  किन्तु सः एनं विषयम् उपेक्षते यत् भारतीयपरम्परायाम् आर्यशब्दः श्रेष्ठगुणान् सूचयति, किञ्च तस्य शब्दस्य जन्माधारितया सामाजिकव्यवस्थया सह कोऽपि सम्बन्धः नास्ति ।६९

पश्चात् शेल्डन पोलॉक् अनार्याणाम् (आर्यभिन्नानाम् अथवा शूद्राणाम् यान् संस्कृतविषये अज्ञानिनः इति कथयन्ति )उपरि आर्याणाम्(अर्थात् संस्कृतभाषाभाषिणाम्) अन्याय्यस्य  एकां सुदीर्घाम् आवलिं प्रयच्छति । सः एतान् प्रजातिवादिनः(Racist) इति परिगृह्णाति । एवं च “असमानतायाः जन्माधारितमानचित्रम्” (Biogenetic Map of inequality) इत्यस्य निर्माणाय  आह्वानं करोति । सः निष्कर्षतः एवं वदति यत् -   प्रारम्भिके भारते  प्रजातिवादस्य(Racism) पूर्वस्वरूपस्य विषये कथनम् उचितम् इति भासेत  ७० इति । श्वेताश्वेतचर्मणोः एव प्रक्षेपः आर्य-अनार्यद्वैविध्यम् इति विचारेण सह  प्रजातेः(Race) सदस्यत्वेन आर्यः भवति इति कांश्चन जनान् शेल्डन पोलॉक् भ्रामयति ।

स्वीयस्य अर्येतिहासस्य निर्माणाय, तदीयस्य प्रजातिवादि-उद्देश्यस्य च निमित्तं नाजीप्राच्यवादिनः वैदिकसाहित्यस्य, संस्कृतस्य च प्रामाण्यं प्रायच्छन् इत्येतादृशानि बहूनि उदाहरणानि सः शेल्डन पोलॉक् ददाति । संस्कृतस्य जातिवादः इत्येतादृशेन विश्लेषणेन सह पोलाकेन संस्कृतग्रन्थेषु प्राप्यमाणस्य भेदभावस्य नाजीशासनस्य सिद्धान्तेषु प्राप्यमाणस्य भेदभावेन  सह  विस्तृता तुलना कृता । उभयत्र समानप्रकाराणां पूर्वाग्रहाणाम् अन्वेषणं कृत्वा  सः अभिलषति यत् संस्कृतात् नाजीवादपर्यन्तं समानः कारणगतः सम्बन्धः अस्तीति जनाः अवलोकयन्तु इति ।

शूद्राणां कृते संस्कृतस्य अध्ययनाय भारते आरोपितः प्रतिबन्धः यः अस्ति तस्य, जर्मनदेशे १९३० तमे इसवीयवर्षसमये यहूद्यानां कृते जर्मनभाषायाः अध्ययनाय हिट्लरेण कृतेन प्रतिबन्धेन सह शेल्डन पोलॉक् सम्बन्धं कल्पयति । एषा हठात् कृता तुलना अस्ति इति दृश्यते । एतत् दोषपूर्णसम्बन्धकल्पनस्य एकं प्रकरणम् अस्ति । वस्तुस्थितिः एषा अस्ति यत् जर्मनदेशस्य प्राच्यवादे/भारतशास्त्रे  अनेकाः दोषपूर्णव्याख्याः सम्मिलिताः सन्ति  । अपि च एषः विषयः  स्वयं पूर्णतः चर्चार्हः अस्ति । दौर्भाग्यवशात् शेल्डन पोलॉक् अतिवैभवीकरणं करोति यत् द्वादशे शतके भट्टलक्ष्मीधर इत्याख्येन ब्राह्मणेन लिखितस्य ग्रन्थस्य  उपरि अधिकम् बलं ददाति । अपि च तस्य ग्रन्थस्य १९३० तमवर्षीयैः नाजीवादस्य सम्पोषकैः राष्ट्रीयसामाजशास्त्रीयग्रन्थैः सह तुलनां करोति ।

पोलाकस्य अनुसारम् उपनिवेशकालात् पूर्वतनस्य भारतस्य वैचारिकसंरचनायाः  निमित्तं पूर्वमीमांसाशास्त्रोक्तरीत्या उच्चब्राह्मणवादः योगदानं करोति । अपि च नाजीवादः इदमेव आत्मसात्कृत्य स्वगृहे अन्वतिष्ठत् ।  शेल्डन पोलॉक् आग्रहं करोति यत् संस्कृतस्य प्रभावः एव एषः आसीत् येन अन्ततो गत्वा भीषणमानवसंहारः न्यायपूर्णः इति प्रतिपादने योगदनं प्रायच्छत् । पेन्सिल्वेनियाविश्वविद्यालयस्य दिवङ्गतः भारतशास्त्रवित्  विल्हेल्म हल्बफ़ास इत्याख्यः एतादृशं हास्यास्पदं कथनं विचित्रम् ऊहात्मकञ्चास्ति इति उक्त्वा एवं लिखितवान् –

एतत् समानतया संरचनायाः गभीरनाजीवादरूपेण गभीरमीमांसारूपेण च परिचेतुं अनुमतं नास्ति किम् ? कुमारिलभट्टः विलियम जोन्स इत्येतौ उग्रनाजीवादिनौ इति अडाल्फ़् हिट्लरम् उग्रमीमांसकम् चेति आह्वातुं को वा अवरोधं करोति ?७१ 

प्रतिक्रिया ; पूर्वाग्रहाणाम् उत्पत्तेः रूपेण ऐरोप्याणां ज्ञानोदयः ।

आर्याणाम् आक्रमणम् इत्यादि सन्दर्भे, भारतस्य परिप्रेक्ष्ये आर्याणां विचाराणाम् उपयोगं निरन्तरं कुर्वाणानाम् अमेरिकादेशस्य प्राच्यवादिनां मनोगतं वयं द्रष्टुं शक्नुमः । अहम् अन्यत्र क्वचित् लिखितवान् यत् ऐरोप्याणां प्रजातिगतः विचारः तेभ्यः भारतं प्रति आगन्तुं मार्गं प्रादर्शयत्  यत्र ते गौराङ्गाः आर्याः इति, श्यामवर्णाः द्राविडाः इति च शब्दद्वयं नूतनतया आविष्कृतवन्तः। एतादृशाः भेदाः सर्वादौ उपनिवेशकाले संवर्धिताः, किन्तु भारतस्य अध्ययने अत्यन्तं शक्तिशालित्वेन अद्यत्वे सन्ति ।

हिट्लरस्य फ़ासिष्टसिद्धान्तेन सह संस्कृतस्य वेदानां च सम्बन्धं कल्पयितुं कृतः पोलाकस्य प्रयासः  जर्मनदेशीयस्य भारतशास्त्रेतिहासस्य प्रमुखं भागम् उपेक्षते ।  नाजीविचारस्य उपरि प्रभावम् उत्पादितवतोः हेगेल-म्याक्स-मुल्लरयोः आर्याक्रमणसिद्धान्तम् अपि अविहाय अन्येषां विभिन्नस्रोतसाम् उपेक्षां/वारणं सः करोति ।  भारतशास्त्रस्य स्थूलम् इतिहासं सः परीक्षितवान् किम् ?  सः आदिमैः भारतशास्त्रविद्भिः  तदीयानाम् ऐरोप्यकेन्द्रितपरियोजनानां निमित्तं संस्कृतसाहित्यं विरूपयितुं प्रवृत्ताः आसन् इति अवगमिष्यति । अपि च एष एव विकारः न केवलं संस्कृतसाहित्यस्य, अपि तु जर्मनदेशीयानां वयम् आर्याः इति कल्पनायाः अपि ।

एतद्विषयकम् एकम् अध्ययनं जर्मन्-ब्रिटिश-फ़्रेञ्चदेशेषु स्वस्य श्रेष्ठतायाः प्रतिपादनाय क्रियमाणायां प्रतिस्पर्धायाम् उत्पद्यमानान् पूर्वाग्रहान् दर्शयिष्यति(यथा मया मदीये ब्रेकिंग इण्डिया इत्याख्ये पुस्तके स्थूलरूपेण आविष्कृतम्) । नवदशे शताब्दे प्रमुखः जर्मनदेशीयः दार्शनिकः हेगेल इत्याख्यः स्पष्टरूपेण अमेरिकादेशस्य मूलनिवासिनां(यान् सः नागरीकान् कर्तुम् न शक्नुमः इति अभिप्रैति)  पृथक्करणं, निर्मूलनञ्च कर्तव्यम् इति, श्वेतेतराणां सक्रियतया दासत्वेन उपयोगः कर्तव्यः इत्यस्य च समर्थनं कृतवान् । हेगेलः एतादृशं दृष्टिकोणं कदा प्राकटयत्  इत्युक्ते यदा आङ्ग्लविद्वद्भिः भारतस्य विषये प्राच्यवादिदृष्टिकोणस्य प्रकटनं कृतम् आसीत् ततः प्रागेव । एतेषु कस्यापि उपरि पोलाकेन अवधानं न दत्तम् । ’बीइंग डिफ़ेरेण्ट’ इत्यत्र एतादृशानाम् ऐतिहासिकविषयाणाम् उपरि अहम् इतोप्यधिकं विवरणं दास्यामि ।७२

प्रतिक्रिया ; ऐरोप्यैः विद्वद्भिः क्रियमाणः विमर्शः

“नेशनल सोशलिष्ट” (हिट्लरस्य राजनैतिकं दलम्) द्वारा भारतशास्त्रस्य वित्तपोषणं कृतम् इति पोलाकस्य कथनम् ऐरोप्यविदुषा रेनहोल्ड ग्रुनेंडाहल इत्याख्येन निराकृतम् । सः दर्शयति यत् १९३० तमे दशके अपि जर्मनसर्वकारेण भारतशास्त्रस्य वित्तपोषणं न कृतम्७३ । प्राच्यवादस्य विषये शोधकार्यं कर्तुं पोलाकेन कृतस्य मार्गस्य तीक्ष्णां निन्दां रेनहोल्ड ग्रुनेंडाहलवर्यः  कृतवान् ।

सः वदति यत् प्राच्यवादस्य, जर्मनदेशीयभारतशास्त्रस्य च विषये पोलाकस्य प्रतिपादनं सप्रमाणम् नास्ति । प्रत्युत यहूदिविरोधिवादस्य कश्चन परिष्कृतः आरोपः सप्रमाणः अस्ति । सः अग्रे वदति –

पोलाकस्य उत्तरप्राच्यवादि-मसीहावादेन अस्माकं विश्वासः भवति यत् केवलं विंशतितमस्य शताब्दस्य अन्ते (अपि च अधुना २१तमे शताब्दे) अमेरिकादेशः बौद्धिकरूपेण  “ऐरोप्यकेन्द्रीकरणम्” “ऐरोप्यकेन्द्रितं ज्ञानमीमांसाधिपत्यम्” च  नाङ्गीकर्तुं ततः बहिरागन्तुं च सन्नद्धः अस्ति, यच्च ऐरोप्यानां विश्लेषणस्य सम्प्रत्ययात्मकं प्रारूपम् अस्मान् राष्ट्रियप्रतिपत्तेः(महिलावादि-अभिज्ञानस्य, मतीयवादि-अभिज्ञानस्य, प्रजातीयाभिज्ञानस्य वा) चेतनायाः वा प्रकाराणां, सांस्कृतिकाधुनिकीरणवादस्य पूर्वरूपतः, उपनिवेशवादस्य पूर्वरूपतः च  दक्षिण-एशिया-जीवनस्य केन्द्रीयलक्षणानाम् आन्वीक्षणात् अवरुणद्धि । (शेल्डन पोलॉक् १९९३ : ११५)  प्राचीनात् गभीरप्राच्यवादात् नूतनं “राज आश्विट्ज इत्येताभ्यां दूरस्थितं भारतशास्त्रम्” इत्येतत् गभीरनीलसमुद्रे “न्यू राज”पर्यन्तम् अग्रे नयति ७५

एवं प्रकारेण ग्रुनेंडाहलवर्यः  कस्यापि प्रामाण्यस्य अवलम्बनेन विना एव व्याख्यानं कुर्वतः पोलाकस्य प्रवृत्तेः उपरि अवधानं प्रदत्तवान् ।  एतदतिरिच्य सः २०तमस्य शताब्दस्य अन्ते (अपि च अधुना २१तमे शताब्दे) अमेरिकीयविद्वत्तायाः संवर्धनाय पोलाकस्य मसीहावादस्य उपरि अवधानम् आकर्षति । किञ्च पोलाकेन कृतस्य संस्कृतस्य वस्तुनिष्टविश्लेषणस्य विषये सन्देहं प्रकटयति । सः सर्वापेक्षया अधिकं प्रासङ्गिकं प्रश्नममुम् उत्थापयति यत् – मृतस्य ब्रिटिशशासनस्य स्थानं प्राप्तुं शेल्डन पोलॉक् अमेरिकादेशस्य नवीनस्य शासनस्य बौद्धिकम् आधारं प्रयच्छन् अस्ति किम् ?  इत्युक्ते अमेरिकादेशस्य साम्राज्यवादः मृतस्य ब्रिटिशसाम्राज्यवादस्य स्थानं स्वीकरोति किम् ? इति ।

ग्रुनेंडाहलवर्यः एनं विषयम् इत्थम् अनुवर्तयति – यहूद्यानां विषये भेदभावं प्रदर्शयितुम् अपेक्षितमनोभूमिकायाः आधारत्वेन हिट्लरः ऐरोप्यानि एव बहूनि स्रोतांसि प्राप्तवान् आसीत् । सः भारतशास्त्रस्य(Indology) पॉल लेगार्ड (1827-91) इत्यनेन प्रसिद्धेन जर्मनविदुषा सह सम्बन्धं कल्पयितुम् पोलाकेन कृतस्य प्रयासस्य उपरि प्रश्नं कृतवान् । स च जर्मनविद्वान् ग्रीक-अरेबिक-हीब्रू-ग्रन्थानां विश्लेषणं तुलनात्मक-भाषाविज्ञानाधारेण केन्द्रीकृत्य कृतवान् आसीत् । ग्रुनेंडाहलवर्यः वदति – लेगार्डवर्यः इण्डालजीतः प्रभावितः आसीत् इति वा, तेन सह सम्बन्धः आसीत् इति वा विषये किमपि प्रामाण्यं नास्ति इति७६ ।  लेगार्डेवर्यस्य “The Current Task of German Politics  इति ग्रन्थः हिट्लरं गभीररूपेण प्रभावितवान् इति ऊह्यते ।  तस्मिन् ग्रन्थे सः १.जर्मनजनानाम् एकीकरणस्य निमित्तम् आह्वानं कृतवान् २. पोलाण्डदेशीयानाम् आष्ट्रियादेशीयानां च यहूद्यानां प्यालेष्टैनदेशे पुनर्व्यवस्थापनस्य आह्वानं च कृतवान् । तस्य जीवितावधौ सः ग्रीकभाषायाः हीब्रूभाषायाः च शास्त्रीयवैदुष्यार्थं सम्मानितः भवति स्म, संस्कृतेन सह तस्य अन्यः सुदूरस्थः सम्बन्धः अपि नासीत् । कौतुकस्य विषयः अयमस्ति यत् १९०६ तमे इसवीयवर्षे प्रकाशिते यहूदिविश्वकोषे लेगार्डेवर्यस्य विषये एकः विस्तृतः लेखः अस्ति यत्र तस्य संस्कृतेन सह, वा भारतशास्त्रेण सह वा, भारतेन च सह वा सम्बन्धस्य कोऽपि उल्लेखः नास्ति७७

प्रतिक्रिया ; संस्कृतम् पाश्चात्यप्रपञ्चं कथं लाभान्वितम् अकरोत् इत्यस्य उपेक्षा

पोलाकस्य एकपार्श्विकः दृष्टिकोणः पाश्चात्यानां विभिन्नशास्त्राणाम् विनियोजनस्य उपरि संस्कृतस्य धनात्मकं प्रभावं उपेक्षते । १८ तमस्य शतकस्य अन्ते संस्कृतं बह्वीभिः ऐरोप्यभाषाभिः सह अत्यन्तं निकटसम्बन्धं धत्ते इति ईष्ट-इण्डिया-कम्पनी इत्यस्य सर-विलियम-जोन्सवर्यः उद्घोषितवान्  । तदारभ्य बौद्धिकक्रियाकलापानाम् उन्मादः आरब्धः ।  शतकार्धं संवत्सरान् यावत् प्रत्येकस्मिन् प्रसिद्धे ऐरोप्यविश्वविद्यालये संस्कृतस्य  भारतशास्त्रस्य च विभागः आरब्धः । बुद्धिजीविनां कृते संस्कृताध्ययनं प्राधान्यम् आवहति स्म, अथवा न्यूनातिन्यूनं संस्कृतग्रन्थस्थानां वस्तूनां ज्ञानं वा सम्पादनीयम् आसीत्  । एतादृशस्य प्रतिद्वन्द्वस्य कारणतः पाश्चात्यचिन्तनेषु शाश्वतं रूपान्तरणम् अभवत् ।

एतत् दौर्भाग्यपूर्णम् यत् यदा ऐरोप्यं बौद्धिकम् आन्दोलनं ज्ञानोदयकालः इति बोध्यते तदा भारतीयज्ञानस्य प्रभावाः उपेक्षिताः, अथवा पादटिप्पणिं यावत् न्यूनीकृताः । ऐरोप्यानां ज्ञानोदयकालः, पूर्णतः ऐरोप्यानामेव कारणातः जातः आन्तरङ्गिकः विकासः इति प्रदर्शितः, अन्येषां योगदानेन विनैव सम्पादितश्चेति   । तथापि तस्मिन् आन्दोलनसमये संस्कृतस्य विचाराणां संयोजनाय महान् उत्साहः आसीत् । संस्कृते विद्यमानानां विचाराणां पाश्चात्यभाषासु प्रारूपेषु च प्रपाकीकरणाय, अपि च नवाचारात्मकमार्गेषु बौद्धिकरूपेण तेषाम् उपयोगाय तस्मिन् काले उत्साहः प्रदर्शितः आसीत् ।  बहुषु आधुनिकेषु क्षेत्रेषु तस्य ज्ञानस्य महान् लाभः अस्ति इति अनुभूतम् । यथा तत्त्वशास्त्रम्, सस्यशास्त्रम्, मनोविज्ञानम्, भाषाशास्त्रम्,  मानवशास्त्रम्, नीतिशास्त्रम्,  गणितम्, यवनमतशास्त्रम्, तुलनात्मकमतशास्त्रम् इत्यादिषु ।

संस्कृते निहितस्य ज्ञानस्य पचनप्रक्रिया उपनिवेशकालानन्तरमपि न स्थगितम् । वस्तुतः सा प्रक्रिया नवीनशिखरं सम्प्राप्तुम् प्रवर्तमाना एव आसीत् ।  अधुना एतत् अत्यन्तम् अत्याधुनिकरीत्या सूक्ष्मरूपेण च क्रियमाणम् अस्ति येन पचनं जायमानमस्ति इति ऊहितुमेव न शक्येत । भारतात् पश्चिमं प्रति (नागरीकतयोर्मध्ये/सभ्यतयोर्मध्ये) जायमानम् एनं ज्ञानसङ्क्रमणप्रवाहम् अवगन्तुं व्याख्यातुं च अहं विंशतिम् वर्षाणि शोधकार्यार्थं व्ययीकृतवान् यस्य परिणामतः प्राप्तम्  U-Turn Theoryइति “पचनप्रक्रिया” चेति कथयामि ।

संस्कृताध्ययनस्य राजकीयकरणाय कार्यं कर्तुम् पोलाकेन आह्वानम् प्रदत्तम्

संस्कृतस्य प्राचीनग्रन्थानाम् अध्ययनेन अद्यत्वे भारतीयसमाजे जायमानस्य उत्पीडनस्य अवगमाय सङ्केताः लभ्यन्ते इति पोलाकस्य तर्कः अस्ति । संस्कृते निर्मिता प्राबल्यवृत्तिः न नष्टा, प्रत्युत रूपान्तरिता सती जीविता अस्ति इति सः कथयति ।  सा संस्कृतस्य भाषागतसंरचनासु अन्तर्निहितरूपेण अस्ति येन द्वावपि उत्पीडकोत्पीड्यौ ग्रन्थप्रामाण्यं प्रदाय यथास्थितिं तर्कसङ्गतम् अस्ति इति प्रमाणीकुरुतः । शेल्डन पोलॉक् भारतीयान् तदीयशास्त्रेभ्यः दूरं गमयितुम् इच्छति ।

अन्यैः शब्दैः – संस्कृतस्य अनूदितुम् अशक्यान् अंशान्(नागरीकतायाः मुकुटमणीन्) यान् अहम् उक्तवान् तान् नवीन-ज्ञानोत्पादनसाधनरूपेण उपयुज्यमानान् द्रष्टुं शेल्डन पोलॉक् न इच्छति ।  तस्य अभिप्रायेण  तादृशप्रकाराः उत्पीडनं/दमनं वर्धयन्ति । सम्भाषणसंस्कृतस्य प्रोत्साहनं केवलं हिंसायाः तदन्तर्निहितस्य रहस्यस्य च पुरातनसंरचनानां प्रसारणं करिष्यति इति सः वदति ।  एतद्व्यतिरेकेण सः तत् शास्त्रीयभाषां कर्तुम् इच्छति येन सुदूरस्थाः आङ्लविद्वांसः अपि तत् अध्येतुं शक्नुयुः ।    सः स्पष्टराजनैतिकेन उद्देश्येन सह तादृशीं परियोजनां निर्वोढुम् इच्छति येन भारतस्य उच्चवर्गीयेभ्यः  शोषितानां मोचनं कृत्वा तेभ्यः अधिकारं दापयितुम् शक्यते ।

श्रेणीकरणस्य पक्षपातस्य च निर्मूलनाख्यायाः पोलाकस्य परियोजनायाः भागत्वेन संस्कृते विद्यमानानां दमनात्मकांशानाम् विशेषतः प्रदर्शनम् अनिवार्यम् इति सः चिन्तयति । “नैतिकरूपेण सूक्ष्मं पाण्डित्यम्” इति तदीयं कथनं जनाः सर्वे अनुसरेयुः इति सः इच्छति ।  अनेन संस्कृतजन्यसंस्कृतेः निन्दनीय-राजनैतिकफलानाम् आधिकारिकविषमताविषये अध्येतुं शक्यते इति सः चिन्तयति ।

अत्यन्तं स्पष्टतया तेन कृतं संस्कृतस्य राक्षसीकरणम् पूर्वम् उद्धृतम् आसीत्, किन्तु अधिकविवरणेन सह  तस्य एव पुनःकथनं लाभाय भवेत् –

“भारते दमनम् ऐरोप्याणाम् उपनिवेशीकरणवेलायां न प्रविष्टमासीत् । तद्विरुद्धतया अधिकारस्य समग्रविषमताभिः सह  भौतिक-अभौतिकस्रोतसाम् उपयोगात् पूर्णजनसंख्यायाः महान्तं भागं वञ्चितं कर्तुं गतेषु त्रिषु सहस्रमानेषु विशिष्टसमये विशिष्टस्थाने च  भारतस्य विशेषता आसीत् ।  किञ्च तदर्थं तादृशी पृष्ठभूमिः निर्मिता यद्विरुध्य वैचारिक-शक्तेः, बौद्धिकाध्यात्मिकावरोधस्य, बहुप्रकारिकाणां शारीरिक-मनोवैज्ञानिकहिंसानां च अनेकानि रूपाणि प्रकटितानि अभवन् ।”

एषा हिंसा भारतस्य शास्त्रीयाध्ययनानाम् अद्भुतम् अनुपस्थितिकेन्द्रम् अस्ति । अस्य विषयस्य उपरि बधिरतापूर्णं मौनं आश्रियते । उत्तरप्राच्यवादिभारतशास्त्रस्य एकं साधनीयं कार्यम् इदमस्ति यत् – साम्प्रदायिकभारतस्य दमनस्य विभिन्नप्रकाराणाम् आविष्करणम्, पृथक्करणम्, विश्लेषणम्, सिद्धान्तीकरणम्, किञ्च अवरावरं तद्विषये संवादकरणम् इति ।  किन्तु एतत् विस्मर्तुं शक्नुमः किम्  यत् प्रश्ने विद्यमानाः अधिकाधिकाः आचाराः, सम्प्रदायाः, संस्कृतयः च तदीयाधिकारत्वेन महिलाः विरुध्य, सर्वापेक्षया बहून् स्थानीयसमुदायान् च विरुध्य  दमनं शासति इति ?७८

सः पुनः एवं कथनम् अनुवर्तयति – पाश्चात्यानां संस्कृतज्ञानां एषः विचारः अस्ति यत् भारतीयान् सुनागरिकान् कर्तुं श्वेतवर्णीयानाम् उपरि भारः अस्ति । संस्कृतस्य कारणतः येषां बलिः अभवत् तेषां साहाय्यार्थं सः आन्दोलनस्य आवश्यकता अद्यत्वे अस्ति इति प्रतिपादयति । “समकालिकभारते विद्यमानानां साम्प्रदायिक-सामाजिक-सांस्कृतिक-हिंसा-प्रकाराणाम् अवगमेन सह दमनस्य एषः विमर्शः द्विगुणितः भवेत् – येन बलिभूतानां सङ्घटनम् आवश्यकं भवेत्”  इति ।

सः कथयति – स्वदेशीयशक्तिभ्यः(आर्.एस्.एस्,, भा.ज.पा. , वि.हेच्.पि.)८० संस्कृतस्य संरक्षणम् लक्ष्यम् अस्ति । सः अग्रे प्रवर्तनाय तदीयं लक्ष्यम् उद्घोषयति – तासां शक्तीनां निष्क्रियकरणाय एकः मार्गः कः इत्युक्ते  - अर्थकथनस्य पद्धतेः संरचनायाः संक्रियायाश्च विश्लेषणम् अपि च तस्य समकालिकवितरणम् । सः योजयति यत् आग्रहम् कुर्वती तादृशी मम परियोजना साधयितुम् अवशिष्टा अस्ति८२

संस्कृतग्रन्थानां समग्रः राशिः सर्वेषां शास्त्राणां ग्रन्थान् अपि अविहाय दमनात्मकविषयैः परिपूर्णः अस्ति इति सः प्रतिपादयति । तच्च सः एवं विवृणोति-

उदाहरणार्थं - यदा समकालिकभारतीया महिला अस्मान् एवं वदति यत् सा भारते वैधव्यस्य कृते  आर्थिक-सामाजिक-भावनात्मकहिंसां समर्पयति, किमर्थम् इति सा स्वीयशब्दैः एवं कथयति – “शास्त्रानुगुणं मया एवं करणीयं भवति”; यदा वयं समीपकालिके दलितघोषणापत्रे पठितवन्तः यत् “ अस्याः सांस्कृतिकक्रान्तेः आदिमम् अतिप्रमुखं लक्ष्यं तु प्रत्येकं पुरुषस्य महिलायाश्च शास्त्राणां दास्यात् मोचनम् एव” इति । अनेन संस्कृतस्य अधिकारसम्बद्धप्रवचनानां चेतनस्थितौ वास्तविकतासम्पादनस्य एव सारं  केवलं वयं न गृहीतवन्तः, अपि तु तेषाम् अनुस्यूतशक्तेरपि८३

एषः पोलाकस्य शास्त्रविरोधिनः अभिप्रायस्य न्यायोचिततां साधयितुं कृतः स्पष्टप्रयासः यच्च बहुभ्यः दशकेभ्यः तस्य बह्वीनां कृतीनां/कार्याणाम् माध्यमेन प्रवर्तते ।  सः उपनिवेशकालात् पूर्वतनस्य संस्कृतस्य  इतिहासस्य अध्ययनस्य प्रमुखतायाः उपरि बलं ददाति  । “पूर्व-औपनिवेशिकदमनस्य संरचनायाः सर्वेक्षणं पूर्व-औपनिवेशिकदमनस्य स्थलाकृतिं(Topography) विना  कथं कर्तुं शक्यते ?”84 केवलं पूर्व-औपनिवेशिकसंस्कृतस्य स्थलाकृतेः निर्माणेन एव दमनस्य हैन्दवकारणं वयम् अवगन्तुं शक्नुमो वा इति सः भावयति । बहुषु वर्तमानकालिकेषु वैदुष्येषु तस्य मतानुगुणं “एषा स्थलाकृतिः, संस्कृतस्य सांस्कृतिकनिर्माणकार्येषु  तालिकीकृता वस्तुतः नास्ति”८५   अतः संस्कृताध्ययने एतादृशस्य अभावस्य पूर्तिं सःकर्तुं इच्छति –

साम्प्रदायिके भारते समानरूपेण अन्वेष्टुम् अशक्यम् एकम् ऐतिहासिकं सामाजिकशक्तेः मानचित्रम्, यच्च एकमेव उपनिवेशवादस्य प्रभावस्य विषये अस्माकं प्राक्कल्पनाः प्रकटयितुम् अर्हति –तत् अस्मान् चकितान् करोति । प्राचीनभारतस्य उन्नतसंस्कृतौ किम् असाधारणसौभाग्येन, दीर्घायुष्येन, प्रभावात्मकरूपेण आधिकारिकशक्त्या प्रकाशते, अथवा न्यूनातिन्यूनं तस्य सहजापेक्षाभिः प्रकाशते८६। 

अन्यैः शब्दैः एवमुच्यते – तस्य सहयोगिनां कृते एतत् महत्त्वपूर्णम् अस्ति यत्  औपनिवेशिककालतः  बहुपूर्वमेव विद्यमानानां संस्कृत-सांस्कृतिक-दुर्व्यवहाराणां स्फोरकपत्रनिर्माणस्य परियोजना आरम्भणीया इति । एतत् तादृशं उपनेत्रं भविष्यति यन्माध्यमेन समकालिकभारतस्य समाजः द्रष्टव्यः ।  भारतशास्त्रविदः सामाजिकाभियान्त्रिकीकरणं  क्रूरमार्गेण कुर्युः इति शेल्डन पोलॉक् अभिलषति ।  ते नूतनान् दृष्टिकोणान् उद्घाटयेयुः ये च दृष्टिकोणाः एतावत्पर्यन्तं दूरीकृतानां, दृष्टिपथमनागतानां, श्रुतिपथमनागतानां च कृते प्राथम्यं दद्युः८७ । एतत् शास्त्रीयसंस्कृतितः प्रभावितानां जनजातीनां क्रूरमार्गिमौनस्य, आच्छादनस्य च प्रतीकारं करिष्यति८८ । अस्य परिणामः एषः भवति यत् – तासां विवेकशीलसंरचनानां नाशः करिष्यते यासां माध्यमेन एतादृशः निर्बन्धः हस्तक्षेपः च प्रभावितः आसीत् ।

नूतनप्रकारस्य सामाजिकसिद्धान्तं विकासयन् अस्मि इति शेल्डन पोलॉक् वदति । यतो हि १८ शताब्दस्य, १९ शताब्दस्य  च सिद्धान्ताः तादृशीः सामाजिकव्यवस्थाः न वर्णयन्ति यासां जन्म संस्कृतस्य कारणतः अभवत् याश्च दमनम् अनुवर्तयन्ति । तस्य दृष्ट्या ऐरोप्यानुभवाधारित-पाश्चात्यसिद्धान्तानां नैर्भर्येण भारतीयवामवादिनः भारतं सम्यक्तया वर्णयितुम् अशक्ताः जाताः । तदीयस्य राजनैतिकभाषाशास्त्रस्य माध्यमेन  भारतीयग्रन्थान् शोधयित्वा भारतीयबौद्धिकेतिहासस्य पुनःसंरचना करणीया इति पोलाकस्य योजना अस्ति ।  एतत् भारतीयानां कृते पूर्वं पाठितविषयापेक्षया भारतस्य विषये सम्यग्रीत्या विवरणं प्रदास्यति । विडम्बनम् इदमस्ति यत् शेल्डन पोलॉक् पाश्चात्यानां विचारान् आश्रित्य,  भारतीयसम्प्रदायानां पवित्रतां क्रूरमार्गेण नाशयित्वा च तदीयस्य आमूलचूलविक्रियकरणस्य विषये अन्धः अस्ति ।

कथं सः तदीयं नवीनं सामाजिकसिद्धान्तं विकासयिष्यति ? सः समाधत्ते – “यः सिद्धान्तः भविष्यस्य अभ्यासस्य आधारः भविष्यति, भविष्यदर्थं अस्माभिः तस्य पृथक्-सिद्धान्तस्य निकटे गन्तव्यं चेत् अस्माभिः एकस्य नवीनेतिहासस्य, तदवगमनार्थम् उत्तमप्रकाराणाम् च आवश्यकता अस्ति”९० । अन्यैः शब्दैः एवं वक्तुं शक्यते यत् – संस्कृतस्य इतिहासार्थं शेल्डन पोलॉक् नूतनं भूतकालम् आविष्कर्तुम् प्राधान्यं ददाति । इत्युक्ते इतिहासस्य स्पष्टसंशोधनस्य एका परियोजना । एषः नवीनः सिद्धान्तः (आविष्कृतम् इतिहासम् आधारीकृतवान् सिद्धान्तः) भारतस्य भविष्यस्य रूपरेखां रचयितुं तस्य साहाय्यं करिष्यति ।

प्रतिक्रिया : अमेरिकादेशीय-प्राच्यवादि-सामाजिकाभियन्त्रणस्य परियोजनानां समस्याः

अहं पोलाकाय तदीयानाम् उत्तमोद्देश्यानां सन्दर्भे विद्यमानस्य सन्देहस्य लाभं दातुम् इच्छामि । अहम् अङ्गीकरोमि यत्  अन्येषु सर्वविधसमाजेषु इव भारतीयसमाजे अपि अन्याय्यं दमनं च अस्ति इति येषां परिहारः अन्वेषणीयः अस्ति इति च । वस्तुतः एतासु कासाञ्चन कुरीतीनां निवारणाय अहं वस्तुतः सहयोगं दत्तवान् अस्मि । एतदतिरिच्य  अहं सम्यग्रूपेण जानामि यत् – समग्रे प्रपञ्चे धार्मिकाः धर्मनिरपेक्षाः चेति द्विविधाः विचाराः सन्ति, ये तदा तदा अन्याय्यस्यापि प्रोत्साहनं कुर्वन्ति । अहम् अभ्युपगच्छामि यत् एतादृशाः विचाराः  अभिज्ञातव्याः निर्मूलनीयाश्च इति ।

तथापि  वयं स्नानजलेन सह शिशुमपि बहिः प्रक्षेप्तुं न शक्नुमः । मम उद्दिष्टः विषयः तु हैन्दवधर्मात् आन्तरङ्गिकानां तदीयस्रोतसां कर्तनस्य पोलाकीयः दृढनिर्णयसम्बद्धः एव  ।  एतानि स्रोतांसि  एव सदा सनातनधर्मं संरक्षन्ति । समाजिकादिषु ऊर्ध्वमार्गेषु अग्रे गमनाय तस्य आधारान् सामर्थ्यं च प्रयच्छन्ति । पोलाकस्य पौनःपुन्येन पारदर्शकव्यवहारस्य अभावम् अपि अहं विरुन्धामि । तदीयपरिस्थितेः तत्परिणामस्य च प्रतिबिम्बने तदीयम् असामर्थ्यं च विरुन्धामि ।  मम दृष्ट्या  तस्य उद्देश्यं किमपि वा भवतु, किन्तु तस्य कार्यस्य परिणामः दलितानां, महिलानां, दमितम्लेच्छानाम् इतरेषां च सबलीकरणम् नास्ति, प्रत्युत आत्यन्तिकतया परमपावनसम्प्रदयानां निर्मूलनेन  भारतीयानां दुर्बलीकरणम् एव । सज्जनानां दूरीकरणस्य समर्थनाय पोलाकस्य कृतीनां बहवः जनाः उपयोगं कुर्वन्ति । अपि च अस्यामेव भारतीयपरम्परायां प्राप्तसमाधानानाम् आधारेण ये कार्यं कर्तुम् इच्छन्ति तेषां तदधिकारस्य निराकरणं कर्तुम् च पोलाकस्य कृतीनां बहवः जनाः उपयोगं कुर्वन्ति ।

अमेरिकादेशीयस्य प्राच्यवादस्य एषः प्रकारः पाश्चात्यैः कृतात् (विशेषतः अमेरिकीयैः कृतात्) दमनात् अन्यत्र जनानाम् अवधानं केन्द्रीकरोति यत् शेल्डन पोलॉक् तुच्छमिति कथयति, तच्च अस्ति संस्कृतस्य प्राच्यवादः इति । सः शेल्डन पोलॉक् तस्य अनुयायिनां पाश्चात्यशिक्षाविदां भारतीयविदुषां च उपदेशं करोति यत् पाश्चात्य-प्राच्यवादस्य निन्दां स्थगयित्वा तदीयम् अवधानं वेदेभ्यः उत्पद्यमानानां सामाजिकविषाणाम् उपरि केन्द्रीकुर्वन्तु इति । एषा वैदिकविषवादिता  कोटिशः भारतीयानां काचित् सजीववास्तविकता इति शेल्डन पोलॉक् मन्यते ।

एषा योजना रणनीतिप्रारूपाधारिता अस्ति । अस्य उपयोगं पाश्चात्याः विद्वांसः नवदशशताब्दस्य आरम्भतः भारतं स्वाधीनीकर्तुम् कृतवन्तः । एषा द्विभुजात्मिका प्रक्रिया अस्ति । प्रथमं - पाश्चात्यानां कस्यापि दोषस्य  अङ्गीकारं कृत्वा तस्य परिष्कारः कृतः इति प्रतिपादनम् । द्वितीयम् - भारते समानदोषः अस्ति इति प्रतिपादनम्, अनन्तरं तत्परिहाराय पाश्चात्यानाम् भारते प्रवेशः ।  यथा यथा दोषः निवार्यते तथा तथा नूतनदोषाणाम् उद्भावनेन सह तत्र एषा प्रक्रिया स्वयं पुनरावर्तते । समानरूपेण भारते पुनः पाश्चात्यानां प्रवेशेन एतत् अनुवर्तते ।

ऐतिहासिकरूपेण एते घट्टाः एवं पुरतो आयान्ति  -

·         प्रथमघट्टे – ऐरोप्यानां यवनेतरमतीयानाम् यवनमते परिवर्तनं कृत्वा पाश्चात्यानाम् अन्यमतीयानां (अस्तित्वरूपिणीम्) समस्यां परिहृतवन्तः । एतद्रीत्या एव भारतं तत्रत्याभ्यः मिथ्यादेवताभ्यः संरक्षितुम् भारते हतक्षेपः कृतः ।

·         तदा यवनमतमेव स्वतः सङ्कीर्णम् अवैज्ञानिकं चेति प्रमाणितम् । पाश्चात्याः विज्ञानद्वारा आत्मानं परिष्कृतवन्तः । भारते तेनैव प्रकारेण भारतीयधर्मेभ्यः संरक्षणाय पाश्चात्यानां हस्तक्षेपः आवश्यकः इति चिन्तितम् ।

·         साम्प्रतं विज्ञानमपि बहवः Postmodernist इत्याख्याः अभिनववामवादिनः दमनकारिसंवादकर्तृत्वेन पश्यन्ति । अपि च अस्य अध्ययनं ज्ञान-अधिकारयोः मध्ये विद्यमानस्य सम्बन्धस्य आयामत्वेन क्रियमाणम् अस्ति । पाश्चात्याः ज्ञान-अधिकारयोः मध्ये विद्यमानस्य सम्बन्धस्य प्रकाशनेन स्वीयदोषस्य परिहारं प्राप्तवन्तः । इदानीं भारते अस्याः उपलब्धेः पुनरावर्तनाय समयः आगतः अस्ति इति वदन्ति । तदर्थं तथाकथितसंस्कृतप्राच्यवादस्य आविष्कारं कृत्वा, प्रकाश्य, प्रत्याह्वानं दातव्यम् । पोलाकस्य संस्कृतस्य पुनरुद्धारस्य परियोजना अस्मिन् एव विषये अस्ति ।

पोलाकस्य प्रस्तावः संस्कृताध्ययनस्य अधिकारं तदीयस्य राजनैतिक-भाषाशास्त्रस्य उपयोक्तॄणां पाश्चात्यीकृतानां विदुषां कृते हस्तान्तरीकरोति, न तु संस्कृतस्य वास्तविकानां साहित्यिकसिद्धान्तानाम् अथवा भारतीय-राजनैतिक-सामाजिक-स्रोतसाम् उपयोक्तॄणां विदुषां कृते । ये जनाः भारतीयसम्प्रदायात् बहिर्भूताः सन्ति ते एतद्विषये निर्णयं स्वीकुर्वन्ति, अपि च एतावत्पर्यन्तमपि कुर्वन्ति यत्  वञ्चितानां प्रनिधित्वं स्वीकर्तुं प्रनिधयः अपि भवन्ति ।

      भारते भारतीयैः सञ्चाल्यमानम् अस्ति चेदपि सः प्राचीनभारतस्य आधुनिकभारतस्य च अध्ययनाय पाश्चात्यशैल्याः शिक्षां मूर्धास्थाने स्थापयितुम् इच्छति ।  कथनार्थं तु पश्चिमं विश्वगुरुः भविष्यति । पाश्चात्याः पद्धतयः मानदण्डाश्च समस्यानां चयनं कृत्वा, तद्वर्णयन्ति ।  अनन्तरं ताः समस्याः व्याख्यातुं परियोजनाः कार्यक्रमान् च सञ्चालयितुम् संस्तुतीः प्रयच्छन्ति ।  एतत् पारम्परिकम् अधिकारिणम् शक्तिहीनं करिष्यति । एवं च परम्परायाः एव अन्तः एतादृशीः समस्याः परिहर्तुम् विद्यामानानि स्रोतांसि(ग्रन्थान्) दूरीकरिष्यति । मोचनस्य अपेक्षया नूतनबन्धनस्य निर्माणाय अग्रे नयति, यच्च बन्धनं भारतस्य पुनरुपनिवेशीकरणम् एव  ।

अन्यैः शब्दैः एवम् उच्यते – भारतस्य उपरि पाश्चात्यदृष्टिः इतोऽपि न दूषिता अस्ति, केवलं अधुनातनीकृता अस्ति ।  प्राच्यवादः-२.०(अमेरिकीयप्राच्यवादः इत्युच्यते) पूर्वतनस्य प्राच्यवादः-१.० (ऐरोप्यप्राच्यवादः इत्युच्यते) इत्यस्य अपेक्षया अपि भीकरः भविष्यति ।

संस्कृतस्य संस्कृतेश्च आकारं दापयितुम् कथं शेल्डन पोलॉक् पवित्रम् इति पदं निष्कास्य समाजिकदमनम् इति पदं पश्यति इति अहं विस्तरेण वर्णितवान् । अग्रिमे अध्याये – तस्य पोलाकस्य उपनेत्रं कथं भारतस्य सांस्कृतिकम् इतिहासं ब्राह्मणैः भारतीयैः राजभिः च कृत-राजनैतिक-दमनत्वेन पश्यति इति वर्णयिष्यामि ।  तदीये राजनैतिकभाषाशास्त्रे एषः राजनैतिकयोग्यतावान्  तं पोलाकं संस्कृतस्य पूर्वतनभाषाशास्त्रज्ञेभ्यः पृथक्करोति । साररूपेण, सः संस्कृतेः एकं गुणं निष्कासितवान्, दोषद्वयं योजितवान् च – सः पवित्रम् इति गुणं निष्कासितवान्, अपि च सामाजिकदमनम्, राजनैतिकप्राबल्यम् चेति दोषद्वयं योजितवान्