Sunday, March 8, 2026

श्रीशङ्कराचार्यविरचितप्रश्नोत्तरमालिका शिक्षा च (5/3/2026 तमे दिनाङ्के प्रवृत्तायां अध्यापकवाक्यार्थसभायां प्रस्तुतः विषयः)

 

श्रीशङ्कराचार्यविरचितप्रश्नोत्तरमालिका शिक्षा च

उपोद्घातः

शिक्षा मानवस्य निर्मात्री अस्ति । कथम् ? सर्वाङ्गिकविकाससम्पादनमुखेन । स एव शिक्षित इत्युच्यते यः न केवलं पाठ्यपुस्तकस्थं विषयं जानाति, अपि तु अवगतानि तत्त्वानि अनुतिष्ठति अत एव आचार्यलक्षणम् इत्थम् उक्तम् –

आचिनोति च शास्त्रार्थान् आचारे स्थापयत्यपि ।

स्वयमाचरते च यस्तु आचार्य इति कथ्यते ॥ इति ।

 बौद्धिकविकासमात्रं शिक्षायाः लक्ष्यं नास्ति ।  निर्दिष्टशास्त्रस्य अध्ययनमात्रं जनं शिक्षितं न करोति । अधीतनानाशास्त्राः बहवः अशिक्षिता इव व्यहरन्तः लोके दृश्यन्ते । मानवव्यवहारे समुचितपरिवर्तनमेव शिक्षायाः लक्ष्यमिति आधुनिकाः व्यवहारवादिनः ब्रुवन्ति ।

अस्मन्मनीषिणः ब्रुवन्ति यत्साक्षरा विपरीताश्चेत् राक्षसा एव केवलम् इति  अत्र उपलक्षणम् । कस्य उपलक्षणम् ?  हृदयविहीन-चारित्र्यहीनवैदुष्यस्य ।  अत एव भर्तृहरिर्वदति –

वृत्तं यत्नेन संरक्षेत् - - - -  वृत्ततस्तु हतो हतः

इत्थं बौद्धिकविकासेन सह चारित्र्यादिविकासः शिक्षया साधनीयः इति तात्पर्यतः आयाति । तदर्थं अस्माकं शिक्षाव्यवस्थायां तादृशाः विषयाः अपि चर्चनीयाः, चिन्तनीयाः येषाम् माध्यमेन व्यक्तित्वस्य अन्यविधविकासः जायेत । अतः तद्दिशि व्यक्तित्वविकासापेक्षितगुणानां विवेचनाय अत्र प्रश्नोत्तररत्नमालिका इति ग्रन्थः उपायुञ्जि ।

प्रश्नोत्तररत्नमालिका

भगवत्पादाः आदिशङ्कराचार्याः नित्यानित्यवस्तुविवेकादिगुणैः ब्रह्म जिज्ञासितुम् अधिकृतानां निमित्तं प्रस्थानत्रयभाष्यं विलिख्य पुनः तदितरान् लोकान् उद्धर्तुं स्तोत्रादिग्रन्थान् प्रणिन्युः येषां मध्ये प्रश्नोत्तररत्नमालिका अन्यतमः ग्रन्थः वर्तते ।  प्रश्नोत्तररत्नमालिकायाम् आचार्यशङ्करभगवत्पादाः मानवस्य पूर्णतः मानवत्वं साधयितुम् अपेक्षितानां गुणानां विचारं प्रश्नोत्तरमाध्यमेन प्रतिपादयामासुः । तदीयवचनानुगुणं  दृष्टादृष्टार्थसाधनपटीयान् प्रश्नोत्तररत्नमालिकां हृदि कुर्यात् । दृष्टादृष्टार्थसाधनपटीयान् इत्युक्ते कः ? यः आत्मनः इहपरयोः श्रेयः सिसाधयिषति सः दृष्टादृष्टार्थसाधनपटीयान् ।

प्रश्नोत्तररत्नमालिका केवलं शिक्षार्थिनं न परिवर्तयति, अपि तु शिक्षकमपि । बहवो हि शिक्षकाः मन्यन्ते यत् – वयं छात्रान् उपदेशेन परिवर्तयिष्यामः इति । वस्तुतः परिवर्तनीयाः सन्ति न केवलं छात्राः, अपि तु शिक्षकाः अपि ।

प्रश्नोत्तररत्नमालिका  शिक्षा च

इत्थं शिक्षछात्रयोः उभयोरपि व्यक्तित्वं परिष्कर्तुं प्रश्नोत्तररत्नमालिका विचारणीया । अत्र  आचार्याः शङ्करभगवत्पादाः आदावेव गुरोः लक्षणं प्रतिपादयमासुः ।

को गुरुः अधिगततत्त्वः शिष्यहितायोद्यतः सततम् ॥२॥

इदं पद्यं गुरोः स्वरूपं वर्णयति गुरुः शिष्यहिताय तदीयविकासाय वा अध्याप्यग्रन्थसम्बद्धतया  बहून् विषयान् जानीयात् इति विद्मः । तदर्थं आचार्यभगवत्पादाः अधिगतत्वः इति पदं प्रायुञ्जत । तावता गुरोः गुरुत्वं न सेत्स्यति इति मन्वानां अन्यदेकं विशेषणं न्यवेशयन् शिष्यहिताय उद्यतः सततम् इति । गुरुः शिष्यम् अध्याप्य स्वीयं कर्तव्यजातं सम्म्पन्नमिति विरन्तुम् नार्हति । सः शिष्यहिताय सततं प्रवृत्तः स्यात् इति ते ब्रुवन्ति । “आचार्यात् पादमादत्ते” इति वचनानुगुणम् आचार्यः शिष्याय पादमात्रम् अनुग्रहीष्यति चेदलम् इति न मन्तव्यम् । अतः भगवत्पादाः कथयन्ति -स एव गुरुः यः बोध्यान् सर्वान् विषयान् सुष्ठु जनानः शिष्यस्य हितार्थं सततं परिश्राम्यति इति ।

कः शुचिरिह ? यस्य मानसं शुद्धम्

वयं लोके बहुत्र अशुचिविषये अनुभूतवन्तः स्मः । खेदस्य विषयो नाम यावन्तः अशुचिविषये प्रबलं प्रतिपादयन्ति तेषु अधिकाधिकाः स्वयमशुचयः एव । वस्त्रेण वपुषा वा अशुचयः न स्युः कदाचित् । किन्तु वाचा मनसा वा अशुचयः भवन्ति । यतो हि वाचा मनसा च शुचयः अतिविरलतया भवन्ति लोके । तत्रापि केचन वाचा कापट्येन शुचित्वं प्रदर्शयन्ति । किन्तु  पुरतः शुचयः इव प्रतीयमानाः अन्तरङ्गे विपरीता भवन्ति । अत एव अत्र भगवत्पादाः प्रत्यपीपदन् यत् - कः शुचिरिह ? यस्य मानसं शुद्धम् इति ।शुचिर्वाक्कायमानसैः कायेन वाचा मनसा च शुचिः भवेत् । मनसा शुचिः भवति चेत् अवश्यं वाचा वपुषा वस्त्रेण च शुचिः भवत्येव ।

कः पण्डितो ? विवेकी…. ॥४॥ ।

भगवत्पादाः कथयन्ति – विवेकी एव पण्डितः इति । पण्डा अस्य अस्ति इति पण्डितः । पण्डा इत्युक्ते आत्मविषयकं ज्ञानम् । नित्यानित्ययोः सत्यानृतयोः ज्ञानाज्ञानयोः भेदज्ञानं यस्य अस्ति स एव पण्डितः । वैदुष्येन पण्डितः न भवति । वैदुष्येन विद्वान् भवति । सर्वोऽपि विद्वान् विवेकी भवति इति नास्ति । नित्यानित्ययोः भेदज्ञानं, सत्यानृतयोः वा भेदज्ञानं नाम किम् ? येन भेदज्ञानेन विवेकी इति प्रकीर्त्या पण्डितः इति व्यवह्रियते ।

ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः इति वेदान्तदिण्डिमः । ब्रह्म तु स्यान्नाम सत्यम् । किन्तु अयं पुरतः परिदृश्यमानः सत्यत्वेन अनुभूयमानः प्रपञ्चः मिथ्या इत्युच्यते कथम् ? इति बहूनां सन्देहः । आचार्यभगवत्पादाः कथयन्ति असत्यम् इत्युक्ते सर्वथा अविद्यमानं तत्वं नास्ति । असत्यं मिथ्या इत्युच्यते । मिथ्या नाम सदसद्भिन्नं तत्त्वम् इति प्राथमिकं मिथ्यात्वलक्षणम् वर्तते । सत् इत्युक्ते त्रिकालाबाध्यं तत्त्वम् । भूतभविष्यद्वर्तमानेषु कालेषु यत् तत्त्वं स्वस्वरूपेणैव तिष्ठति तत् सत् इत्युच्यते । ब्रह्म सत्पदार्थः अस्ति । तत् ब्रह्म त्रिषु अपि कालेषु न व्यभिचरति । प्रपञ्चः सत्यत्वेन वर्तमानकाले प्रतीयते चेदपि भूतकाले सदा आसीद् इति वक्तुं न शक्यते । यतो ह अयं प्रपञ्चः सृष्टः अस्ति । सृष्टेः प्राक् अयं प्रपञ्चः अनेन रूपेण नासीत् । भविष्यत्काले अनेनैवरूपेण स्थास्यति इति निश्चयो नास्ति ।यतो हि नित्यं परिवर्तनशीलोऽयं प्रपञ्चः । अपि च कदाचित् अस्य प्रपञ्चस्य प्रलयः भविष्यति । अतः अयं प्रपञ्चः सत्पदार्थो न ।  यत् तत्वं त्रिषु अपि कालेषु अविद्यमानं भवति तत् असत् इत्युच्यते, यथा शशविषाणम्, अथवा खपुष्पम् । किन्तु अयं प्रपञ्चः वर्तनामे सत्यत्वेन अनुभूयते । अतः खपुष्पवत् असत् अपि नास्ति ब्रह्म इव त्रिकालाबाध्यं सत् अपि नास्ति । इत्युक्ते सदस्द्भिन्नम् अस्ति । लोकाः तावत् मिथ्या इत्युक्ते असत् इति मन्यन्ते । वस्तुतः मिथ्या इत्यस्य अभिप्रायः असत् इति नास्ति, प्रत्युत सदसद्भिन्नम् इत्यभिप्रायः ।

इत्थं विद्यमानं सत्यानृतयोः भेदं यः जानाति सः विवेकी इत्युच्यते । तच्च भेदज्ञानं वाचा ज्ञातं चेत् विवेकः इति नोच्यते शास्त्रज्ञैः । अनुभवेन सदसद्विवेकः यः भवति स एव विवेकः इत्युच्यते । यतो हि वाक् ब्रह्मस्वरूपं ज्ञापयितुम् असमर्था अस्ति, “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” इति श्रुतेः ।  तथापि लोके सत्यानृतयोः भेदज्ञानमिव युक्तायुक्त-उचतानुचतादिभेदज्ञानमपि विवेक इति व्यवह्रियते । अनया दृष्ट्या पण्डितः इत्युक्ते उचितानुचितादिभेदज्ञानवान् विवेकी इति मन्तव्यम् ।

को वैरी ? यस्त्वनुद्योगः ॥६॥

अलसः सन् यः अकर्मण्यस्तिष्ठति सः समाजस्य शत्रुः भवति । यतः बाह्यः शत्रुः कस्मिन्नपि कालविशेषे एव हानिं जनयति । किन्तु अनुद्योगी नित्यम् हानिं जनयति ।  अतः “कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः” इत्युपनिषद्वाक्यवत् कार्यं कुर्वन्नेव जीवितुम् इच्छेत् मानवः । लोके अधीतविद्याः सर्वेऽपि स्वयमुद्योगिनः न भवन्ति । कश्चन उद्योगं दद्यात् तदैव प्रवृत्तिः जयते । अत एव सर्वकारः व्यावसायिकीं शिक्षां पर्यकल्पयत् येन अध्ययनानुक्षणं लोकाः उद्योगिनः सञ्जायेरन् ।

किं जाड्यम् ? पाठतोऽप्यनभ्यासः ॥१०॥

पठनात्परं अभ्यासः कर्तव्यः, अधीतस्य ज्ञानस्य व्यवहारे उपयोगः इत्यपि अभ्यास इत्यस्य अभिप्रायः अस्ति । तत्र आलस्यं न स्यात् । अत एव वेदाः उपदिशन्ति – “स्वाध्यायान्मा प्रमदः” इति, आचार्यभगवत्पादाः च “वेदो नित्यमधीयताम्, तदुदितं कर्म स्वनुष्ठीयताम्” इत्युपदिदिशुः । अद्यत्वे स्वाध्यायः तदुदितकर्मानुष्ठानं अस्तां तावत्, नित्यकर्म सन्ध्यावन्दनमपि कष्टाय कल्पते । युवानस्तु “सन्ध्यावन्दनमाचरन्ति विभुधाः .....” इत्युक्त्वा उत्तरार्धे एव निलीनमानसाः भवन्ति ।  “आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः” इति सुभाषितकाराः वदन्ति ।

कोऽनर्थफलो ? मानः,

अत्र मानः इत्युक्ते दुरभिमान इत्यर्थः । अहङ्कार इत्यर्थः । दम्भदर्पादयः दुरभिमानस्य परिणामाः सन्ति ।  दुरभिमानः अनर्थम्  दुष्परिणामं जनयति । आत्मनः विषये अयथार्थप्रत्ययः अथवा यथार्थादधिकः प्रत्ययः दुरभिमानः इत्युच्यते ।  दुरभिमानी स्वसामर्थ्यादधिकं मानं वाञ्छति । तदलाभे क्रुध्यति । क्रोधात् किं भवतीति भगवद्गीतायां इत्थम् उक्तम् - क्रोधाद्भवति सम्मोहः.... इति । “कामः क्रोधः  लोभः च नरकस्य द्वारम् इत्युक्त्वा  “तस्मादेतत्त्रयं त्यजेत्” इति भगवद्गीता अस्मान् उपदिशति । अपि च

“अहङ्कारं बलं दर्पं कामं क्रोधं  च संश्रिताः ।

मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥

तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।

क्षिपाम्यजस्रमशुभान् आसुरीष्वेव योनिषु ॥ इत्येवं रूपेण गीता मानादीनां अनर्थफलं विवृणोति ।

का सुखदा ? साधुजनमैत्री

का सुखदा ? इति पृच्छामः चेत् एते युवानः सर्वे लोकान्तरं प्रविशन्ति । भगवत्पादाः कथयन्ति – साधुजनमैत्री एव सुखदा इति ।सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति” “सतां हि दर्शनं पुण्यं तीर्थभूताश्च सज्जनाः।
कालेन फलते तीर्थम् सद्यः सज्जनसङ्गतिः॥इति सुभाषितकारैः प्रोक्तं भगवत्पादैः सुष्ठु अनूदितम्

का प्रेयसी विधेया ? करुणा दीनेषु सज्जने मैत्री ॥ १६ ॥

का प्रेयसी विधेया ? वदन्तु …… । शङ्करभगवत्पादाः ब्रुवन्ति – दीनेषु करुणा, सज्जनमैत्री च प्रेयसी विधेया । भगवान् अस्मभ्यं किं वा प्रयच्छति ? धनिकानां समीपे एव पुनः पुनः धनं गच्छति । वयं दरिद्राः दरिद्रा एव वर्तामहे इति केषाञ्चित् रोदनं लोके वयं श्रुणुमः । ते निर्धनाः दीनाः भवन्ति अथवा विपदि विद्यमानाः, अन्येषां साहाय्यं अपेक्षमाणाः दीनाः भवन्ति । एतेषां दीनानां विषये सबलाः करुणां प्रदर्शयेयुः । इत्युक्ते तेषां साहाय्यं कुर्युः । तच्च साहाय्यं इष्ट्वा/प्रेम्णा कर्तव्यम् ।  एषा दीनानां साहाय्यार्थं अपेक्षिता करुणा अस्माकं प्रेयसी इव स्यात् दत्तचित्ता ।

एवमेव सज्जने मैत्री अस्माकं प्रेयसी भवेत् इति भगवत्पादा  कथयन्ति । यतो हि सङ्गदोषः मानवान् दानवान् करोति । सज्जनमैत्री नरं नारायणं करोति । अतः सज्जनमैत्री प्रेयसी विधेया, यथा काव्यानि कान्तासंहिततया मानवेन रामादिवत्प्रवर्तितव्यमिति उपदिशन्ति तथा सज्जनसङ्गः मानवं सत्पथे नयति ।

क्व स्थातव्यं ? न्याय्ये पथि दृष्टादृष्टलाभाढ्ये ॥२०॥

न्यायमार्गे स्थातव्यम् इति तु सर्वैरपि ज्ञायते । किन्तु दृष्टादृष्टलाभाढ्ये इति अत्र विशेषः । इहलोके वयं  वनितावित्तादि दृष्टं फलं प्राप्तुं  न्यायमार्गे वर्तेमहि एव । परलोके अपि अदृष्टफलं प्राप्तुं न्यायमार्गः अनुसर्तव्यः । यतो हि इहलोके परेषाम् अहितकारकं चेदपि स्वानुकूलं चेत् तन्मार्गं अनुसरामः । किन्तु अदृष्टफलप्राप्तिः तु स्वकार्यसाधनवेलायां परेषा अहितं यत् जातं भवति तत्फलेन सहैव भवति । अतः अस्माकं दॄष्ट्या न्यायमार्गे वयं स्मः चेदपि परेषां यत्र हानिर्न भवति तादृशमार्गे स्थातव्यम् ।

“न्यय्यात् पथः प्रविचलन्ति पदं न धीराः ॥“

कोऽलङ्कारः ? शीलम्, किं वाचां मण्डनम् ? सत्यम् ॥२२॥

शीलम् इत्युक्ते चरित्रम् । चरित्रम् एव वृत्तम् । एतच्चरित्रं मनुष्यम् अलङ्कारयुक्तं करोति ।  तद्विहीनः अनलङ्कृतः इव इत्येव न मन्तव्यम् । सः चरित्रहीनः अस्ति ।  -

पापोऽयं कृष्णरामेत्यभिलपति निजं गूहितुं दुश्चरित्रम् 4नारायणीयं दशक 92 - कर्ममिश्रभक्तिः

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो, ज्ञानस्योपशम: श्रुतस्य विनयो वित्तस्य पात्रे व्यय: । अक्रोधस्तपस: क्षमा प्रभवितुर्धर्मस्य निर्व्याजता, सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्  

कः पूज्यो विद्वद्भिः ? स्वभावतः सर्वदा विनीतो यः ॥२६॥

अत्र शङ्कराचार्याः इत्थं नावदन् यत् विद्वान् सर्वत्र पूज्यते इति, प्रत्युत विद्वद्भिः कः पूज्यते इति स्वभावतः यः विनीतः स एव विद्वद्भिः पूज्यते इति । किञ्च यः विनीत इव कालानुगुणं अभिनीते/परिवर्तते सः न अभिप्रेतार्थः । बहवो हि तादृशाः एव लोके दृश्यन्ते । येषाः स्वभाव एव विनीतत्वम् अस्ति स एव विद्वद्भिः पूज्यते इत्यर्थः ।

कः कुलकमलदिनेशः ? सति गुणविभवेऽपि यो नम्रः ।

कः समग्रस्य वंशस्य प्रकाशने कारणीभूतः भवति  कमलस्य सूर्य इव ? बहवो हि स्वजीवने बहु किमपि साधयन्ति येन तदीयः वंशः कीर्तिमान् भवति इति वयं कदाचित् चिन्तयेम । किन्तु तथा नास्ति । गुणनिधिः चेदपि यः नम्रः विनयी भवति स एव वस्तुतः वंशस्य यशः वर्धयति । एतद्विरुद्धगुणाः भगवद्गीतायाम् उक्ताः दम्भो दर्पोऽभिमानश्च...इति पद्ये । एते दम्भादयः नम्रतायाः विरुद्धगुणाः । एते आसुरीगुणाः इति गीतायाम् उक्तम् । दम्भादीनां आश्रयस्थानम् वैदुष्यादिकम् अस्ति । दम्भादयः दुर्गुणाः न सन्ति इति मन्यामहे , केवलं सद्गुणाः एव सन्ति चेति । तथापि नम्रता नास्ति चेत् तदीयः वंशः न प्रकाशते । अतः सत्यपि सद्गुणविभवे य नम्रः भवति सः वंशस्य कीर्तिं वर्धयति इति शङ्करभगवत्पादाः न्यरूपयन् । 

कं न स्पृशति विपत्तिः ? प्रवृद्धवचनानुवर्तिनं दान्तम् ॥२८॥

विपत्तिं को वा इच्छति ? किन्तु बहवः वृद्धवचनं तिरस्कुर्वन्ति । वृद्धाः वस्तुतः शरीरेण दुर्बलाः स्युः नाम । किन्तु तेषाम् अनुभवाः नूनं यूनाम् अननुभविनां कार्ये जनिष्यमाणां विपत्तिं निवारयन्ति । ये अत्यन्तम् अनुभविनः ते प्रवृद्धाः । तेषां वचनम् अनुसरामः चेत् निश्चयेन विपत्तयः न स्पृशन्ति इति भगवत्पादाः कथयन्ति ।

कस्मै स्पृहयति कमला ? त्वनलसचित्ताय नीतिवृत्ताय॥२९॥

कमला इत्युक्ते लक्ष्मीः इत्यर्थः । सा कमिच्छति ? यः आलस्यविहीनः अस्ति, इत्युक्ते यः सक्रियः यश्च नीतिमार्गे चलति तमिच्छति इत्यर्थः । अत एव सुभाषितकारः वदति –

लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्

अद्यैव वा मरणमस्तु युगान्तरे वा

न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ इति ।

कः परिहार्यो देशः ? पिशुनयुतो लुब्धभूपश्च ॥ ३०॥

परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभोः प्रियम् ।
पैशुन्येन गतौ राहोश्चन्द्रार्कौ भक्षणीयताम् ॥ ३० ॥ काव्यमालाम् उक्तम् ।

महाभारते –

आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् ॥ इत्युक्तम् ।

को हि न वाच्यः सुधिया ? परदोषश्चानृतं तद्वत् ॥३५॥

मनुष्यस्य प्रायः अयं सामान्यः गुणः यत् आत्मप्रशंशा, परदोषस्य व्यक्तीकरणं चेति । वस्तुतः एतद्विपरीतं कर्तव्यम् । अतः तस्य अनुवर्तिकार्यत्वेन केचन आत्मनि दोषेषु सत्स्वपि परोपदेशम् कुर्वाणाः दृश्यन्ते लोके । सुभाषितकारः वदति -

परोपदेशवेलायां शिष्टाः सर्वे भवन्ति वै ।

विस्मरन्तीह शिष्टत्वं स्वकार्ये समुपस्थिते ॥

किं नु बलम् ? यद्धैर्यं, को मृत्युः ? यदवधानरहितत्त्वम् ॥४०॥

लोङ्गेवालायुद्धे अस्माकं पक्षे मेजर कुलदीपसिंह चान्दपुरी इत्यस्य निकटे केवलं ११८ संख्याकाः सैनिकाः आसन् । किन्तु पाकिस्तानस्य द्विसहस्रं सैनिकानां संहतिं पराजेतुम् प्राभवत् किमर्थम् ?

१९७१ तमे वर्षे भारतपाकिस्थानयोः युद्धे जगतः सर्वेऽपि देशाः पाकिस्थानस्य पक्षे आसन् रशियादेशं विहाय । अमेरिकादेशस्य रणभयङ्करी युद्धनौका गङ्गासागरम् उपसृता आसीत् । पाकिस्तानस्य निकटे अमेरिकादेशेन प्रदत्तानि अत्याधुनिकानि अशीतिसङ्ख्याकानि एफ़्.१६  युद्धविमानानि आसन् । तथापि भारतस्य सैन्येन ९३००० पाकिस्तानीयाः सैनिकाः शरणीकृताः ।

शिवाजिमहाराजस्य, गुरुगोविन्दसिंहस्य, राणाप्रतापसिंहस्य, राणासांगस्य, हरिसिंहनलवा इत्यस्य रणजीतसिंहस्य, ललितादित्यस्य, राजराजचोळस्य, बालाजीबाजीरावस्य, वासुदेवबलवन्तफडके वीरसावर्करस्य, चन्द्रशेखराजादस्य, भगतसिंहस्य, रामप्रसादबिस्मिलस्य, परमवीरस्य रामरघोबाराणे इत्यस्य, सोमनाथशर्मणः, सैतानसिंहस्य, बात्रविक्रमस्य, योगेन्द्रसिंहयादवस्य, देशस्य सुरक्षायै प्रवृत्तानां अगणितवीरपुरुषाणां च असीमपराक्रमः तदीयधैर्यस्य  परिणामतः एव प्रादर्शि इति पार्थक्येन वक्तव्यं नास्ति ।

उपसंहारः

 

सन्दर्भग्रन्थाः

1.     ब्रह्मसूत्रशाङकरभाष्यम्

2.     भगवद्गीता

3.     नीतिशतकम्

4.     सुभाषितरत्नभाण्डागारः

5.     ईशावास्योपनिषद्

6.     छान्दोग्योपनिषत्