Wednesday, August 21, 2024

कर्म एव मोक्षसाधनमिति मीमांसकपक्षस्य खण्डनम् (२७-१-२०२४ वेदान्तसङ्गोष्ट्यर्थं सज्जीकृतः लेखः , न प्रकाशितश्च)

 

श्रीगुरुभ्यो नमः

कर्म एव मोक्षसाधनमिति मीमांसकपक्षस्य खण्डनम्

प्रार्थना

 

श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम् ।

नमामि भगवत्पादशंकरं लोकशङ्करम् ॥

सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।

अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥

 

स्वाविद्याविभवप्रसूतविफुलद्वैतप्रपञ्चाहित

स्पष्टभ्रान्ति-तिरोहितात्ममतयो यं भागशो मन्वते ।

निर्भागं सकलाभिधान-मनन—व्यापार-दूरस्थितं

वन्दे नन्दितविश्वमव्ययमजं भक्त्या तमेकं विभुम् ॥

 

श्रीशङ्करभगवत्पादविरचितबृहदारण्यकतैत्तिरीयभाष्ययोः सुरेश्वराचार्यकृतद्वादशसाहस्रिकायां वार्तिकसरण्यां सम्बन्धवार्तिकप्रतिपादितं किञ्चन प्रकरणम् अत्र उपस्थापयामि ।

 

मोक्षः साध्यः अप्राप्तरूपत्वात् अभ्युदयवत् ।  पूर्वम् अविद्यमानः मोक्षः साधनैः पश्चात् साध्यते, यथा पूर्वम् अप्राप्तं स्वर्गादिफलं पश्चात् अग्निष्टोमादिना प्राप्यते ।

 “अग्निष्टोमेन जुहुयात् स्वर्गकामः” इत्यादिश्रुत्या अग्निहोत्रादिकर्मणा स्वर्गादिफलं पूर्वम् अप्राप्तं प्राप्यते/ (विधिवाक्यैः साध्यते) तथैव पूर्वम् असाधितः मोक्षः कर्मणा साधयितुं शक्यते(ज्ञानजन्यः मोक्षः इति वेदान्तिभिरपि मोक्षस्य जन्यत्वम् उक्तम्) । अतः मोक्षोऽपि साध्यः इति चेत्              (वार्तिकम् श्लो.सं.२६)

 

उच्यते -

नित्यमुक्तस्य आत्मनः अज्ञानात् एव स्वरूपानवगतिः भवति ।  ज्ञानेन यदा अज्ञाननाशः भवति तदा मोक्षः प्राप्यते इति उपचारार्थं ज्ञानिनः कथयन्ति । वस्तुतः मोक्षः न आप्यः । (देशकालादिना परिच्छिन्नस्य एव आप्यत्वम्)                                                                      (वार्तिकम् श्लो.सं.२६)

यदा रोगेण पीडितः उपचारात्परं पूर्वतनं एव स्वास्थ्यं पुनः प्राप्नोति तदा भैषज्येन नरः सृष्टः भवति इति न उच्यते, प्रत्युत पूर्वतनस्थितिं प्राप्तवान् इत्युच्यते । तद्वत् ज्ञानेन मोक्षः स्वर्गादिवत् न आप्यः भवति इत्युच्यते । पूर्वं विद्यमानः एव ज्ञातः इति ।

अत्र प्रमाणम् इदमस्ति – “ब्रह्म वा इदमग्र आसीत्” इति “ब्रह्मैव सन् ब्रह्माप्येति” इति च श्रुतिः ।

 

अत्र मीमांसकानाम् आक्षेपः इत्थम् अस्ति –

लोके मनुष्यस्य स्वास्थ्यप्राप्तिरिव स्वस्वरूपे एव अवस्थितिः मोक्षः इति चेत् एतादृशः मोक्षः कर्मणा एव सिध्यति ।                                                                         (वार्तिकम् श्लो.सं.३२)

श्रुतिषु स्मृतिषु च कर्म एव विहितम् अस्ति  । कर्मातिरिक्तं किमपि मुक्तेः अभ्युदयस्य  च साधनत्वेन वेदेषु न श्रूयते ।  यतो हि समग्रः वेदः विधिनिषेधात्मकः अस्ति । 

 

तर्हि वेदान्तिना अत्र एवम् उच्यते

 ब्रह्म वा इदमग्र आसीत्” इति “ब्रह्मैव सन् ब्रह्माप्येति” इति च विधिनिषेधभिन्नं ब्रह्मवस्तुप्रतिपादकं वाक्यं पूर्वं उदाहृतं किल ।

इति चेत् न –

 

विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः” (जै.सू. १.२.६)

आम्नायस्य क्रियार्थत्वात् आनर्थक्यम् अतदर्थानाम्” (जै.सू. १.२.७)

इति जैमिनीयसूत्रानुगुणं

विधिशेषतया एकवाक्यत्वं समग्रस्य आम्नायस्य वक्तव्यम् भवति ।  नो चेत् वाक्यभेदकल्पनागौरवाख्यः दोषः भवति । इति मीमांसकेन उच्यते ।

 

तत्र वेदान्ती इदमाक्षिपति –

नित्यः मोक्षः कर्मणः फलमिति उच्यते  चेत् तस्य नित्यस्य मोक्षस्य अनित्यत्वप्रसक्तिः ।  जगति कुत्रापि कर्मणः नित्यं फलं न दृष्टमस्ति ।  अतः पारिशेष्यात् ज्ञानमेव मोक्षस्य कारणम् इत्युच्यते , – “ज्ञात्वा देवम् मुच्यते सर्वपापैः” इति श्रुतेः ।

अत्र मीमांसकेन इत्थम् उच्यते –

कर्मभिरेव मुक्तिः भवति । कथमिति चेत् –

निषिद्धकर्मणां परित्यागेन जन्मान्तराणि नरकादीनि च फलानि न भवन्ति ।

काम्यकर्मणां त्यागेन स्वर्गादिभोगः न भवति इत्यतः फलसंस्पर्शः नास्ति  

नित्यकर्मणाम् अनुष्ठानेन किमपि फलं न उक्तम् इत्यतः फलसंस्पर्शः नास्ति ।

प्रारब्धकर्मणां फलं तु अनुभूय एव समाप्यते ।

पूर्वजन्मनः अफलितानि कर्माणि सञ्चितानि इत्युच्यन्ते । तानि मनुष्यजन्म प्राप्त्या समाप्तानि भवन्ति ।  अतः देहे विद्यमानस्य आत्मनः मुक्तिः स्वतः सिद्धा भवति । एषा मुक्तिः कर्मणां कारणतः भवति । एकात्मज्ञानेन विना एव इत्थं कर्मभिः मुक्तिः भवति ।

 

अत्र

निचाय्य तं मृत्युमुखात् प्रमुच्यते”(कठ.) “ब्रह्म वेद ब्रह्मैव भवति” इत्यादिश्रुतिषु आत्मज्ञानस्य फलत्वेन मुक्तिः उक्ता किल इति वेदान्ती वदति चेदुच्यते मीमांसकेन –

 

स तु अर्थवादः एव  इति । यथा –

द्रव्यसंस्कार कर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात्”(जै.सू.४/३९१) इति जैमिनिसूत्रोक्तरीत्या  पर्णमयी इत्यादिषु पर्णमय्याः अर्थवादः उक्तः तथैव पूर्वोक्तानां “ब्रह्म वेद ब्रह्मैव भवति” इत्यादिवाक्यानाम् अर्थवादः वक्तव्यः । तथैव आत्मनः कर्मशेषत्वात् तत्ज्ञानमपि कर्मणः फलमेव इति अभ्युपगन्तव्यम्  

इति चेत्

 

सिद्धान्तः इत्थमुपस्थाप्यते –

मुक्तेः अभ्युदयस्य च स्वरूपं साधनं च विलक्षणमस्ति ।                  (वार्तिकम् श्लो.सं.४६)

 

काम्यादि कर्मत्यागेन स्वस्वरूपावस्थितिः मोक्षः इति भवता उक्तम् ।  तत्र आत्मा कर्मानुष्ठानात् पूर्वं स्वस्वरूपे अवस्थितः भवति उत न ?  स्वस्वरूपे अवस्थितः न भवति इत्यतः किल काम्यादिकर्मत्यागः क्रियते । स्वस्वरूपे अनवस्थितः  बलात् हेतुना(कर्मणा) साध्यते चेत् तत् स्वस्वरूपं न भवति ।

यदि तदर्थम् आत्मा शुद्धस्वरूपे एव अस्ति इति उच्यते चेत्  साधनान्वेषणं (कर्मणः अनुष्ठानम्) किमर्थम् ?  साधनत्वेन कर्म आश्रीयते चेत्  तत् कर्म मोक्षेऽपि अनुवर्तते  इत्यतः कर्मसम्बन्धात् अनिर्मोक्षः प्रसज्यते । अतः निषिद्धकाम्यादिकर्मणां वर्जनात् मोक्षः नैव भवति । ज्ञानेनैव तु कैवल्यम् इति सिद्धम् ।

 

इति शम् ॥

 

 

 

 

व्यक्तित्वोत्कर्षकाणि मूल्यानि (वाक्यार्थभारत्यां २०२४ तमे वर्षे एषः लेखः न दत्तः, अतः न प्रकाशितश्च)

व्यक्तित्वोत्कर्षकाणि मूल्यानि

 सत्यं वद धर्मं चर ….इति भारतीयाः मनीषिणः उपदिशन्ति । सारतः वक्तव्यं चेत् धर्माचरणम् इत्युक्ते सदाचारः इत्येव तात्पर्यम् । सत्यकथनम् इत्युक्ते यथार्थस्य विषयस्य कथनमात्रं नास्ति । सत्यमित्येतत् तपः अस्ति । यथोक्तकारिता एव सत्यम् अस्ति । इत्युक्ते आचरणपर्यवसायियथार्थकथनमेव सत्यमित्युच्यते । वचस्यन्यत् कर्मण्यन्यत् इतिवत् न भवेत् इति तात्पर्यम् । ईदृशं सत्यम् एकविधं मूल्यम् अस्ति । मूल्यं नाम किम् ?

मूल्यमिति शब्दः Value इत्यस्य आङ्लशब्दस्य अनूदितरूपम् अस्ति ।

एषः Value इत्यख्यः शब्दः ल्याटिनभाषायाः valere  इत्यस्मात् शब्दात् निष्पन्नः यस्यार्थः  "be strong(सुदृढो भव), be well(सुखी भव); be of value(गुणी भव), to be worth(श्रेष्टो/प्रमुखो भव) (significant)

 आङ्ग्लकोषेषु Value इत्यस्य अधोलिखिताः अर्थाः उक्ताः –

Oxford learners Dictionary - beliefs about what is right and wrong and what is important in life. जीवने  किं महत्त्वपूर्णमस्ति, किं वा युक्तम् किमयुक्तम् चेति विषयेषु विश्वासः एव मूल्यमस्ति ।

-  The quality of being useful or important. प्रयोजनवतः महत्त्वपूर्णस्य कस्यापि जनस्य वस्तुविशेषस्य वा गुणः एव मूल्यमित्युच्यते ।

  Value is equal to the intrinsic significance of a thing or person."  कस्यचित् जनस्य वस्तुनः वा आभ्यन्तरं महत्त्वमेव मूल्यमस्ति ।

The study of values from the philosophical point of view is the study of ethics इत्यपि उच्यते । इत्युक्ते  तत्त्वशास्त्रीयदृष्ट्या मूल्यानाम् अध्ययनं नाम नैतिकशिक्षा इति मन्तव्यम् ।

Values इत्युक्ते सद्गुणाः इत्यपि अर्थः गृह्यते । सद्गुणेभ्यः सत्प्रवृत्तयः जायन्ते । अत एव भारतीयाः –

 गुणाः पुजास्थानम्

इति मन्वते । सद्गुणाः दैवीसम्पदः इत्यपि भगवद्गीतायाम् उच्यते ।

          मूल्यशिक्षा छात्रं पूर्णतः विकासयति । तस्य मानसिकं शारीरिकं, सामाजिकं सांवेगिकं च विकासं मूल्यशिक्षा करोति । स्वीयकार्याणाम्, उत्तरदायित्वानां, नैतिकविकल्पानां च विषये चिन्तयितुं  छात्रान् बोधयति ।

         (Value education develops the whole student including their mental, physical, social and emotional wellbeing. It teaches students to think about their actions, take responsibility and make ethical choices.)

मूल्यशिक्षा व्यक्तिम् उत्तरदायिनीं, अनालसां,समाजानुकूलाम् उदारचरितां करोति । अतः एतादृशाणि मूल्यानि भारतीयसंस्कृतवाङ्मयात् कथं वयं प्राप्तुं शक्नुम इति वस्तुतः अस्मिन् पत्रे प्राधान्येन प्रतिपिपादयिषितो विषयोऽस्ति ।

शकुन्तलायाः वात्सल्यम् निर्व्याजप्रेम

यस्य त्वया व्रणविरोपणमिङ्गुदीनाम्  तैलं न्यषिच्यत  मुखे कुशसूचिविद्धे ।

श्यामाकमुष्टिपरिवर्धितको जहाति  सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥

शकुन्तला कण्वाश्रमे वसन्ती मृगशावकान् वात्सल्येन कथं परिपोषयति स्म इति इदं पद्यं अभिव्यनक्ति । जातमात्रम् अपि मृगशावकः मातरम् अनुकुर्वन् कुशान् खादितुं प्रवृत्तः तीक्ष्णकुशैः मुखे व्रणितो भवति । तादृशस्य मृगशावकस्य मुखे विद्यमानान् व्रणान् उपशमयितुं/निर्मूलयितुं शकुन्तला इङ्गुदीतैलस्य लेपनं करोति । किन्तु ईदृशोपचारसमये स च मृगशावकः किमपि अखादित्वा कथं वा वर्धेत ? तदर्थं सा श्यामाकधान्यानां पाकं कृत्वा तेषां मुष्टिभिः तं मृगशावकं भोजयित्वा तं पोषितवती । तच्च पोषणं/पालनं स्वस्य उदरादेव निष्पन्नस्य शिशोः इव कृतवती । अतः शकुन्तलायाः पतिगृहं प्रति निर्गमनकाले सः मृगशावकः तस्याः गमनं प्रेम्णा अवरुणद्धि इति कविः वर्णयति ।

एतत् पद्यं पठितवती का वा कन्या अर्भकान् उपेक्षेत ? तेषु प्रेमवारिसिञ्चनं न कुर्यात् ? आत्मनि उद्गच्छद् मातृत्वं को वा अवरुणद्धि ।  ईदृशाणि पद्यानि अस्मन्माणवकेषु भूतदयामात्रं न तेषु निर्व्याजं प्रेम अपि उत्पदयति । अनेन छात्रेषु  सर्वत्र प्रेम्णा व्यवहारस्य प्रवृत्तिर्जायते । निर्व्याजं प्रेम एव किल महत्वपूर्णं सार्वभौमिकम् मूल्यमस्ति लोके ।

शकुन्तला पतिगृहं प्रति प्रेषणीया । कण्वः प्रेषणव्यवस्थां तु कृतवान् । आश्रमात् प्रस्थानतः पूर्वं तस्याः शकुन्तलायाः गमनाय सर्वे अनुज्ञां प्रयच्छन्तु इति कण्वः प्रार्थयते ।  किन्तु एषा अनुज्ञार्थं प्रार्थना मनुष्यान् उद्दिश्य न प्रत्युत उद्यानलताः उद्दिश्य ।  शकुन्तलायाः संवेदनाः मनुष्यादूर्ध्वम् आश्रमवासिषु जन्तुषु, क्षुपेषु, लतासु चेत्यादिषु आसन् । तदत्र पद्ये सुव्यक्तमस्ति -

पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या

नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।

आद्ये वः कुसुमप्रसूतिसमये यस्याः भवत्युत्सवः

सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥

         अस्माकं जीवने सदा उत्थानात्परं जलपानात्पूर्वं स्मर्तुं यॊग्यं पद्यमिदं भवति । उद्यानपालकत्वेन कार्यं कुर्वाणान् विहाय प्रायः अधिकाधिकानां जनानां जीवने अयमादर्शः अक्षरशः नावतीर्णः स्यात् यत् स्वयं जलपानात्पूर्वं अन्येषां जन्तूनां वा उद्यानलतानां वा पालितपादपानां वा जलदानम् अकृत्वा स्वयं जलं न पिबेयम् इति । कालिदासः कण्वमुखादिमम् आदर्शं प्रदर्शयति युष्मासु अपीतेषु शकुन्तला प्रथमं जलं पातुं न व्यवस्यति इति । एवमॆव अग्रिमपङ्क्तीनां विषयेऽपि चिन्तनीयम् ।

आत्मानं शकुन्तलां मन्यमाना का वा कन्या शकुन्तलायाः ईदृशीं प्रवृत्तिं स्वात्मगुणं कर्तुं/अनुकर्तुं न इच्छेत् ?  प्रकृत्या सह तादात्म्यं प्राप्तुं को वा अनेन न प्रेर्यते ।

लोकाय शासनम्

          वाल्मीकिरामायणे अयोध्याकाण्डे शततमः सर्गः अत्यन्तं  महत्वपूर्णः वनवासार्थं निर्गतं रामं पुनः सिंहासने अभिषेक्तुम् इच्चुकः भरतः चित्रकूटं प्रति सामात्यः सप्रजः यदा अगच्छत् तदा श्रीरामचन्द्रः राज्यशासनं कथं कुर्वन्नस्ति ? कथं वा कर्तव्यम् अस्तीति प्रेम्णा भरतम् अत्र बोधितवान् ।

कच्चिन्निद्रावशं नैषीः कच्चित्कालेऽवबुद्ध्यसे ।

कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ रामायणम्    

ये ये सर्वकारीयसेवायां सन्ति राजनेतारो वा भवन्तु, सर्वकारीयकर्मचारिणो वा भवन्तु, ते सर्वे रामस्य उपदेशमिमम् अवश्यं पालयेयुः । इदमेकं मूल्यमस्ति यत् लोकाराधनम्/लोकरञ्जनम् इति । तदेव उक्तम् उत्तररामचरिते भवभूतिना राममुखेन -

“सतां केनापि कार्येण लोकस्याराधनं वरम्” इति ।

लोकहिताय अहोरात्रं  चिन्तनं कर्तव्यम् । अनिवार्यतायां सत्याम् अपररात्रेषु अपि निद्रा त्यक्तव्या भवति । पुनः काले इत्युक्ते उषसि एव प्रबोधः अपि भवेत् । एतत् सर्वं लोकहिताय कर्तव्यम् अस्ति इति मूल्यं रामात् वयं प्राप्नुमः, येन रामराज्यं निर्मितं भवति । वसिष्टोऽपि एतदेव राममुपदिशति -

युक्तः प्रजानाम् अनुरञ्जने स्याः तस्माद्यशो यत्परमं धनं वः ॥

अत एव रामः पश्चात् एवं वदति –

स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥

अतिबुद्धिमतां विषये जागर्या

कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे । अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥

धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ रामायणम्

औदार्यम्

इदमेकं सार्वभौमिकं मूल्यम् अस्ति ।  प्रायः सर्वेऽपि जन्तवः स्वीयान् प्रीणन्ति । परेभ्यः बिभ्यति । किन्तु बहवो हि मनुष्याः स्वीयान् तु प्रीणन्ति । किन्तु परेभ्यः असूयति । ईर्ष्या मानवस्य अरिः अस्ति । परेषाम् उत्कर्षं मानवः प्रायः न सहते । किन्तु भारतं ईर्ष्यां अरिं मत्वा तस्मान्मुक्त्यर्थम् उपायान् उक्त्वा तद्विरुद्धम् औदार्यं विकासनीयमिति उपदिशति ।

अयं निजः परो वेति गणना लघुचेतसाम् ।

उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ हितोपदेशः २,३-७१

मातृवत् परदाराः द्रष्टव्याः

         रामायणात् वयं बहुविधानि मूल्यानि प्राप्नुमः ।  रामस्य प्रत्येकं प्रवृत्तिः अनुकरणीयैव । को वा अनायासेन विधिरूपेण प्राप्तम् राज्याधिकारं त्यक्तुम् इच्छति ? भ्रातृभक्त्या चित्रकूटपर्यन्तं गत्वा साग्रहं आहूतः रामः निराकृतवान् इत्यतः ततः परं वा राज्यलक्ष्मीं उपभोक्तुमर्हति स्म भरतः । किन्तु सः तथा अकृत्वा रामस्य पादुकां सिंहासने निक्षिप्य नन्दिग्रामे सन्यस्तजीवनः सन् राज्यशासनम् निरवर्तयत् । । रामस्य वनवासवेलायां भरतेन प्रदर्शिता इयं प्रवृत्तिः किम् अतुलनीया नासीत् ?   हनूमतः रामभक्तिरेव साम्प्रतमपि तं हनूमन्तं जनानां हृदि पूज्यम् करोति । लक्ष्मणः तु चतुर्दशवर्षाणि अनशनः सन् भ्रातृसेवाम् अकरोत् । सीतामातुः अन्वेषणवेलायां तदीयाभरणानि  दृष्ट्वा लक्ष्मणेन प्रोक्तं इदं कस्य हृदयं न द्रवीकरोति ?

नूपुरं त्वभिजानामि नित्यं पादाभिवन्दनात् ॥

किमयं व्यवहारः, इयं महोन्नतदृष्टिः कस्य वा समाजस्य श्रेयसे न भवति ।

न्यायमार्गप्रवृत्तिः

लोके सर्वेऽपि जनाः अन्येषां पक्षतः सौजन्यं सद्व्यवहारं च वाञ्छन्ति । सर्वे न्याय्येन मार्गेण चलेयुः इति प्रत्येकं जनस्य अपेक्षा भवति । किन्तु स्वस्य व्यवहारे सौजन्यं, न्याय्यं च अवश्यं भवेदिति न भावयन्ति । तत्तु भवत्येव इति भावः । एतादृशभावकारणादेव बहुविधानि अकार्याणि च अकार्यत्वेन न मन्यन्ते । अन्येन कृतं अकार्यं निन्द्यमिति मन्वाना अपि स्वयं यदा कुर्वन्ति तदा तत् निन्द्यमिति न मन्वते । अतः अन्यान् ते उपदिशन्ति यत् सर्वे एवं भवन्तु, तथा भवन्तु चेति –

परोपदेशवेलायां शिष्टाः सर्वे भवन्ति वै । विस्मरन्तीह शिष्टत्वं स्वकार्ये समुपस्थिते ॥

 समाजे केचन श्रेष्ठाः पुरुषाः भवन्ति ये कस्यामपि परिस्थितौ न्याय्यात् मार्गात् च्युताः न भवन्ति इति इदं पद्यम् आख्याति - 

निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु

लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।

अद्यैव वा मरणमस्तु युगान्तरे वा

न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥

अतः इदमेकम् महत्वपूर्णं मूल्यम् अस्ति यच्च विवेकेन परिश्रमेण साधनीयम्  इति।

जन्मसार्थक्यम्

अस्माभिः कथं जीवनीयम् इति अक्षरशः अनुक्त्वा अस्मभ्यं स्वातन्त्र्यं प्रदाय सन्मार्गे गमनाय  उपदिशति इदं नीतिशतकस्य सुभाषितम् येन जन्मनः सार्थक्यं सम्पद्यते -

परिवर्तिनि संसारे मृतः को वा जायते

स जातो येन जातेन याति वंशः समुन्नतिम् ॥

नैकेनापि समं गता वसुमती -

                 भोजप्रबन्धे प्रदर्शितम् इदं प्रकरणं प्रायः सर्वोऽपि संस्कृतलोकः जानाति ।  एतस्य पद्यस्य कारणतः यन्मूल्यं मानवमात्रेण आसाद्यते तत्तु सहस्रकृत्वः उपदिश्यते चेदपि सम्पादितं न भवति । अत एव काव्यस्य कान्तासंहिता इति अभिधानं प्रसिद्धम् ।

मान्धाता च महीपतिः कृतयुगालङ्कारभूतो गतः

सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः ।

अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते

नैकेनापि समं गता वसुमती मुञ्ज त्वया यास्यति ॥५८॥

उपसंहृतिः

इत्थं संस्कृतवाङ्मये नैकानि मूल्यानि मानवस्य अभ्युदयाय तत्र तत्र प्रादर्शिषत । एतानि मूल्यानि मानवस्य व्यक्तित्वम् उज्ज्वलयन्ति इत्यत्र नास्ति सन्देहः ।  अत एव संस्कृतवाङ्मयस्य अध्ययनं ये कुर्वन्ति तेषां व्यक्तित्वं परिपूर्णम् भवितुमर्हति । अत एव उक्तं “द्वे विद्ये वेदितव्ये परा चापरा” इति । द्वाभ्यामपि एताभ्यां परापराभ्यां विद्याभ्यां परिपूर्णं व्यक्तित्त्वमवाप्य अभ्युदयनिश्रेयसयोः पात्रं सम्पत्स्यते पुरुषः ।


छात्रवैविध्यम् सामावेशात्मकशिक्षा च (Student Diversity and Inclusive Education)

 

छात्रवैविध्यम् सामावेशात्मकशिक्षा च

(Student Diversity and Inclusive Education)

उपोद्घातः Introduction

लोके नैकोऽपि जनः अन्यसमः अस्ति । मुण्डे मुण्डे मतिर्भिन्ना”, “लोको भिन्नरुचिः इत्याद्युक्तयः एतत् प्रमाणयन्ति । एवमेव विद्यालयेषु छात्राः अपि अनन्यसमाः भवन्ति । तेषाम् एतत् अनन्यसमत्वम् एव तदीया विशिष्टता इत्युच्यते । एषा विशिष्टता दोषाय न इति मन्यमानः शिक्षकः तस्य विशिष्टस्य छात्रस्य कक्ष्यायां समावेशं कृत्वा तस्य विकासार्थम्  उचितं यत्नं कुर्यात् । भारते अनादिकालादारभ्य तारतम्यविहीना शिक्षाव्यवस्था प्रचलति स्म । गुरुकुले सामान्यस्य निर्धनस्य पुत्रोऽपि राज्ञः पुत्रेण सह एव समानरीत्या तारतम्येन विना अधीते स्म । एषा तरतमविहीना शिक्षाव्यवस्था आङ्लेयानां भारते आगमनपर्यन्तमपि प्रचलति स्म । एतत् थामस् मुन्रो इत्येतादृशानाम् आङ्ग्लाधिकारिणां प्रतिवेदनेषु निरूपितमस्ति ।

समानी व आकूतिः समाना हृदयानि वः ।

समानमस्तु वो मनो यथा वः सुसहासति ॥

सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु माविद्विषावहै

जातिनीतिकुलगोत्रदूरगम् नामरूपगुणदोषवर्जितम् ।

देशकालविषयातिवर्ति यत् ब्रह्मतत्त्वमसि भावयात्मनि विवेकचूडामणिः

“सङ्गच्छध्वं संवदध्वम् सं वो मनांसि जानताम्

इत्यादीनि वाक्यानि भारते समावेशात्मिका शिक्षा अनादिकालतः आसीत् इति निरूपयन्ति । किन्तु आङ्लेयानां आगमनोत्तरं भारते जातीनां, राज्यानां, मतादीनां  मध्ये परस्परं वैषम्यम् उत्पादितम् शासनव्यवस्थायाः स्वायत्तीकरणाय । साम्प्रतं तत्फलत्वेन एव भारते समावेशात्मकशिक्षायाः आवश्यकता उत्पना अस्ति ।

छात्रेषु विविधता (Student Diversity)

विविधतयाः कापि सीमा न भवति । तथापि अत्र समावेशः केषां करणीयः इति निर्णयार्थं विविधतायाः केचन प्रकाराः चिन्त्यन्ते । ते च प्रकाराः अथवा छात्रविविधताः इत्थं प्रदर्शयिष्यन्ते -

लिङ्गभेदः

सामाजिकार्थिकवैविध्यम्

सांस्कृतिकवैविध्यम्

संज्ञानात्मकवैविध्यम्

प्रादेशिकवैविध्यम्

भाषागतं वैविध्यम्

शारीरिकक्षमतायां वैविध्यम्

मानसिकक्षतायां वैविध्यम्

मतीयवैविध्यम्  चेति । एतेषां विषये विस्तरेण किञ्चिदत्र विचारयाम -

लिङ्गभेदः (Gender Diversity)

         समग्रे प्रपञ्चे अनादिकालतः स्त्रीणां शिक्षा सुलभा नास्ति । मासिकधर्मादिक्लेषाः व्याजमात्रम् । पुराकाले शिक्षा नाम धार्मिकी एव भवति स्म इति केचन प्रतिपादयन्ति (भारते शिक्षा जीवनोपयोगिनी एव आसीत्, “द्वे विद्ये वेदितव्ये परा चापरा च” इति श्रुत्यनुगुणं अपरा विद्या जीवनोपयोगिनी अभ्युदयदात्री, परा च निश्रेयसकारणी आध्यात्मविद्या ) । साम्प्रतं धार्मिकशिक्षामात्रं शिक्षा नास्ति प्रत्युत शिक्षा सार्वजनीना वैविध्यपूर्णा च अस्ति वैदिककालिकशिक्षा इव । अतः पुरुषेण सह स्त्री अपि शिक्षां प्राप्नुयात् । पुराकाले तु स्त्रीणां शिक्षा समीचीना भवति स्म । “यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः” इति मनोभूमिः तदानीन्तनाम् आसीत् ।  शिक्षाप्रदानेन स्त्री सम्माननीया   येन देवताः प्रसीदन्ति इति भाव्यते स्म । पुनश्च स्त्रीणां यत्र अनादरः भवति स्म तत्र कृतानि कार्याणि सर्वाण्यपि निष्फलानि भवन्ति इति तत्रैव मन्यते स्म । यथा -

यत्रैतास्तु न पूज्यन्ते सर्वा एवाफलाः क्रियाः ॥ इति ।

मध्यकाले प्रायः स्त्रीणां शिक्षायाः विषये अनादरः आसीत् । अतः साम्प्रतं स्त्रीणां शिक्षाविषये उपेक्षा कर्तुं न शक्या । अतः स्त्रीणां शिक्षायां समावेशः अवश्यं कर्तव्यः ।

स्त्रीणां शिक्षया सह तृतीयलिङ्गिनां कश्चन समवायः भारते उपेक्षितुमशक्यः वर्तते एव । अमेरिकादिषु देशेषु अन्यलिङ्गिनामपि विभिन्नाः समवायाः सन्ति येषां शिक्षाद्यधिकारप्राप्तौ सङ्घटितः आग्रहः अस्ति । अतः तेषामपि तत्तद्देशे शिक्षायां समावेशार्थं विचारः योजना प्रवृत्तिश्च भवति ।

सामाजिकार्थिकवैविध्यम्
(Socioeconomic Diversity)

प्रपञ्चे सर्वत्र समाजः उच्चनीचादिभेदयुक्तः भवति ।  एवमेव आर्थिकदृष्ट्या धनिकदरिद्रादिभेदः अपि भवति । साम्यवादिषु देशेष्वपि अयं भेदः भवत्येव । एतस्य सुमहान् परिणामः शिक्षाक्षेत्रे  भवति । भारते अपि कस्मिंश्चित् काले वर्णव्यवस्था आसीत् । सा च व्यवस्था जन्माधारेण नासीत् । प्रत्युत कर्माधारेण आसीत् । किन्तु साम्प्रतं या जातिव्यवस्था अस्ति सा जन्माधारेण अस्ति । वैचित्र्यं नाम ये अनया व्यवस्थया शोषिताः इत्युच्यन्ते ते स्वजातिं परित्यक्तुं नेच्छन्ति । यान्शोषकाः इमेइति  मन्यन्ते तेषां निन्दाम् अवश्यं न त्यजन्ति । सर्वकाराः अपि जातिव्यवस्थायाः निन्दां कुर्वन्तः जात्त्युल्लेखम् अवश्यं कारयित्वा  जात्यनुगुणं शासनव्यवस्थां कल्पयन्ति । राजनैतिकदलानि जातिव्यवस्थायाः पोषणं कुर्वन्ति(शत्रन्तं रूपम्) निर्वाचने विजयं प्राप्तुं योजनाः निर्मान्ति । जातिव्यवस्थायाः सम्पोषणं कृत्वा अधिकारम् अवाप्य जातिव्यवस्थां निर्मूलयितुं कुतो वा राजनैतिकदलानि प्रयतेरन् ?  यदि जातिव्यवस्था निन्दनीया तर्हि कुतो वा निर्मूलयितुं विधिः तदनुष्ठानं च न स्यात् ? भवतु नाम राज्याङ्गव्यवस्थायां ईदृशी विडम्बना । अथापि शिक्षिताः तु जनानां मध्ये जागर्याम् उत्पाद्य  जातिकारणतः वैषम्यं वा, तारतम्यं वा यथा न स्यात् तथा कुर्युः । भारते अस्मन्वाङ्मये समदृष्टिः श्रेयसी इत्यभिप्रायेण भूरिशः प्रमाणानि समुपलभ्यन्ते । -   

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ इत्यादीनि ।

किञ्चन सुभाषितम् इत्थमस्ति यत्र इदम् अभिप्रेतम् अस्ति यत् तारतम्यं निर्जीवैरपि पदार्थैः न क्रियते सूक्ष्मसंवेदिभिः शिक्षितैः मनुष्यैः कथं वा क्रियते ? इति -

अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।

अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥

एवमेव स्वस्थः समाजः भगवदायतनं कथं भवति इति सुभाषितमिदं ब्रूते -

सद्वृत्तयः प्रकाशन्ते क्षीयन्ते दुष्टवृत्तयः ।

सुसंहिते  समाजे हि रमन्ते खलु देवताः ॥

एकस्मिन् समाजे उच्चनीचभावः भवति चेदपि क्षुद्राणां समाजोपकारिता कथं भवति इति दृष्टान्तबलेन सुभाषितमिदं प्रतिपादयति - 

संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि ।

तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ इति ।

सांस्कृतिकवैविध्यम् (Cultural Diversity)

संस्कृतिः अस्माकम् आचारविचाराणाम् औत्तम्यस्य परिचायिका अस्ति । औत्तम्यम् आदर्शपूर्णमस्ति चेत् अनुकरणीयं भवति ।  मातृदेवो भव ...”  इति अस्माकं संस्कृतिरस्ति । माता स्वापत्यानां हिताय स्वहितं अविगणय्य परिश्राम्यति । मातुः त्यागबुद्धेः कारणादेव सा अस्माभिः पूज्या । अत एव संन्यासिनः सन्तोऽपि मात्रा नमस्कार्याः  न भवन्तु प्रत्युत माता एव संन्यासिभिरपि नमस्कार्या भवति ।  एतदनुसारम् अस्मत्पूर्वजाः अस्माकं पुरस्तात् उत्तमान् अन्यांश्च आदर्शव्यवहारान् इत्थं प्रादर्शयन् -

नाहं जानामि केयूरे नाहं जानामि कुण्डले ।

नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥

लक्ष्मणः सीतान्वेषणावसरे वानरैः आनीतानि आभरणानि पश्यन् रामेण प्रश्ने पृष्टे सति इत्थं पूर्वोक्तरीत्या वदति । एषा दृष्टिः आदर्शपूर्णा अस्ति । संस्कृत्यन्तरे  गृहे विद्यमानैः बहुभिः पितृपुत्रादिभिः एका महिला उपभुज्यते । क्वचित् स्त्री कॆवलं भोगाय एव भवति । क्वचिच्च स्त्रीणां द्वितीयश्रेण्याः नागीकता/पौरत्वम् भवति । किन्तु भारते स्त्री मातृवत् पूज्यभावनया द्रष्टव्या इति बोध्यते, “मातृवत्परदारेषु” इत्यादिवचनैः ज्ञायते 

अस्मत्संस्कृतौ

“लोकाः समस्ताः सुखिनो भवन्तु ।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् ।

आ नो भद्राः क्रतवो यन्तु विश्वतः ।

अपुत्राः पुत्रिणः सन्तु   ....    ....”

इत्येतादृशाः उदात्तव्यवहाराः भवन्ति ।  तथापि एते व्यवहाराः शिक्षया साधनीयाः इत्येतत् न विस्मर्तव्यम् ।

संज्ञानात्मकवैविध्यम् (Cognitive Diversity)

छात्रेषु बौद्धिकक्षमताः न समानाः । समानवयसां छात्राणाम् मानसिकक्षमताः समानाः न भवन्ति । मन्दमतयः, प्रतिभाशालिनः, मानसिकशारीरिकादिक्लेषैः पीडिताः असमबुद्धयः च भवन्ति । केषुचित् पाठ्यक्रमेषु प्रवेशपरीक्षादिमाध्यमेन निश्चितस्तरस्य छात्राणां सङ्ग्रहाय यत्नो विधीयते । किन्तु तत्रापि छात्राणां सुमहान् भेदः भवत्येव । सञ्चालितायां परीक्षायां द्वाभ्यां छात्राभ्यां समानाः अङ्काः प्राप्यन्ते चेदपि द्वयोरपि समानं संज्ञानात्मकं सामर्थ्यं इति वक्तुं न शक्यते । तयोः विषयग्रहणसामर्थ्यादिकं  समानं न भवति । किन्तु गुरुः तयोः मध्ये तारतम्यं नाचरेत् । पुराकाले तथैव गुरवः भवन्ति स्म । उत्तररामचरिते भवभूतिः इत्थं गुरोः निष्पक्षपाताध्यापनविषये कथयति -

वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे

न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा ।

भवति हि पुनर्भूयान् भेदः फलं प्रति तद्यथा

प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः इति ।

 

प्रादेशिकवैविध्यम् (Geographic Diversity)

आसेतु हिमाचलम् भौगोलिकस्वरूपदृष्ट्या भारतम्  वैविध्यपूर्णम् अस्ति । यथा

अतिशीतवातावरणयुक्तात् हिमालयात् अत्यौष्ण्ययुक्तम् कलिङ्गं यावत्

अत्यन्तं समतलप्रदेशात् तुङ्गशिखरं यावत्

वृक्षविहीनमरुभूमितः घनारण्ययुक्तसह्यपर्वतं यावत्

देवमातृकाभ्यः नदीमातृकाः यावत् । इत्थं भौगोलिकं वैविध्यं यदस्ति तदनुगुणं शिक्षाव्यवस्था अपि भिद्यते ।

छात्रप्रकारः अपि तदनुगुणं (भौगोलिकस्थित्यनुगुणं) शारीरिकमानसिकक्षमतया, संस्कृत्या, आचारविचारैः   भिद्यते ।

भाषागतं वैविध्यम्

भाषा - भावविनिमयाय, वैचारिकसंवादाय, तात्विकप्रबोधाय, साहित्यिकसर्जनाय, कलात्मक-आस्वादनाय उपयुज्यते ।

भाषायाः विविधतायाम् सत्याम्-

साहित्यिकसमृद्धिः,सांस्कृतिकम् आदानप्रदानम्, सहिष्णुताविकासः, स्वस्थप्रतिस्पर्धा च भवति ।

छात्राः विविधभाषाभाषिणः तरतमभेदविहीनरीत्या अध्ययनाय अवसरं लभेरन् । भाषागतं वैविध्यम् समृद्धये न तु सङ्घर्षाय इति मानसिकतानिर्माणं समावेशस्य लक्ष्यं स्यात् ।

शारीरिकक्षमतायां वैविध्यम् (Diversity in Physical Capacity)

प्रज्ञाचक्षवः, दिव्यश्रोत्राः(मूकाः)

पॊलियोसदृशरोगैः पीडिताः (चलनासमर्थाः)

क्षतावयवाः (दिव्याङ्गाः)

दग्धशरीरिणः (दिव्याङ्गाः)

कार्श्य-स्थौल्य-वामनत्वादि-शरीरलक्षणाः च बालाः समाजे विद्यमानाः विद्यालयेषु अध्ययनाय अवसरं (समावेशात्मकरीत्या) लभेरन् ।

मानसिकक्षमतायां वैविध्यम्  (Diversity in Mental ability)

छात्राणां समेषां मानसिकक्षमताः समानाः  न भवन्ति । मनोविज्ञाने मानसिकक्षमतया बौद्धिकयोग्यताः गृह्यन्ते ।बौद्धिकक्षमताः बुद्धिलब्धेः माध्यमेन तोलयितुं शक्याः ।  बुद्धिलब्धेः (IQ) आधारेण वैविध्यम् एवम् भवति

सामान्या अक्षमता -                 IQ  50 - 70

मध्यमा अक्षमता -                  IQ  35 - 49

गभीरा अक्षमता -                   IQ  20 - 34

अतिगभीरा अक्षमता -              IQ  20 तः अधः

इत्थं बुद्धिलब्धिम् उपयुज्य छात्रेषु विद्यमानानां बौद्धिकवैविध्यानाम् आधारेण समावेशः केषाम् ? कथम् ? किं निमित्तं करणीयः ? इत्यादिकं चिन्त्यते ।

मतीयवैविध्यम् (Diversity in Religion)

अस्मद्देशे तत्तन्मतावलम्बिनां मतीयाचरणस्य कोऽपि निर्बन्धः नास्ति । अतः अत्र विभिन्नानि मतानि स्वातन्त्र्येण विकसन्ति ।  परस्परं विरुद्धाचरणेषु सत्सु समन्वयसाधनाय समावेशात्मकशिक्षायाम् उपायाः आविष्करणीयाः 

बौद्धाः(सौगताः)

जैनाः(दिगम्बरश्वेताम्बराः)

महम्मदीयाः सुन्नीत्यभिधाः

अहम्मदीयाः शियेत्यभिधाः

केथोलिकमतीयाः

प्रोटेष्टेण्टमतीयाः

सनातनधर्मीयाः इत्येवं रूपेण प्रपञ्चे मताधारेण विश्वासस्य वैविध्यम् अस्ति ।


समावेशात्मिका शिक्षा Inclusive Education

समावेशः केषाम् ?

विविधता कीदृशी ?

समावेशः किमर्थम् ? विशिष्टशिक्षा किमर्थं न स्यात् ?

समावेशः कथम् ?

समावेशात्परं किम् ?  

इत्येतैः प्रश्नैः समावेशात्मकशिक्षायाः स्वरूपावगमात् तेषाः प्रश्नानां समाधानप्रदानेन तत्साधयितुं यत्नः क्रियते । 

 

 समावेशः केषाम् ?

तारतम्येन पीड्यमानानां नानाप्रकारकाणां छात्राणां समावेशः । Inclusion is the practice of including and accommodating people who often face discrimination and exclusion due to race, gender, ability, or identity.

समावेशः किमर्थम् ? विशिष्टशिक्षा किमर्थं न स्यात् ?

विशिष्टछात्रस्य सहजविकासाय, अन्यच्छात्राणाम् अवलोकनपुरस्सरं विशिष्टस्य बालस्य अधिगमाय, अन्यच्छात्राणाम् आत्मविश्वासवर्धनाय, विविधतायाः विषये आदरभावोत्पादनाय च ।

समावेशः कथम् ?

विशिष्टच्छात्रस्य स्वीकारेण, अवगमनेन, वैयक्तिकभिन्नतायाः परिग्रहेण, वैविध्यस्य अङ्गीकारेण च समावेशः करणीयः ।

समावेशात्परं किम् ?

भौतिकसौविध्यस्य प्रकल्पनम्

प्रशिक्षिताध्यापकानां नियोजनम्/नियुक्तानां प्रशिक्षणम्

समुचितशिक्षणविधीनां उपयोगः

समुचितशिक्षणोपकरणानाम् उपयोगः

समुचितमूल्याङ्कनप्रणाली(The Rights of Persons with Disabilities Act 2016 इत्यनुसारम्)

अधिगन्तृकेन्द्रित-प्रशिक्षणपद्धतयः
LEARNER-CENTERED PEDAGOGICAL PRACTICES

प्रशिक्षणम्- अध्यापककेन्द्रितम् ,  छात्रकेन्द्रितम्  च भवति । समावेशात्मकशिक्षायां छात्रकेन्द्रितपद्धतयः भवेयुः ।

          संवादाः, सामूहिककार्यम्, प्रबोधनवर्गाः, प्रायोगिकाभ्यासाः, परियोजनाकार्यम्, सहाध्ययनम्, बह्विन्द्रियशिक्षा, क्षेत्रानुभवश्च.

उपसंहारः (पाथेयम् )

छात्रवैविध्यम् - वैविध्यम् प्रकृतिधर्मः अस्ति । वैविध्ये सौख्यम् आनन्दः च। छात्रवैविध्यं तद्विकासे बाधकं न स्यात् ।

समावेशात्मिकी शिक्षा -समावेशः मानवस्य उत्तरदायित्वम् अस्ति येन लोकहितं भवति । प्रत्येकं छात्रस्य सहजविकासेन सह विविधतायाम् एकताइति समावेशस्य लक्ष्यं स्यात् ।

अत एव उच्यते “जिजीविषन्ति समं सहाध्यायिनः” इति । इत्युक्ते ये वैविध्यपूर्णच्छात्रसमवाये स्थित्वा अधीयते ते अध्ययनात्परम् अपि सहिष्णवः सन्तः सर्वैः सह सौहार्दपूर्णजीवनं यापयितुं शक्नुवन्ति इति ।

इति शम्

सन्दर्भाः

https://cod.pressbooks.pub/introtoeducation/chapter/9-1-student-diversity/

https://resilienteducator.com/classroom-resources/inclusive-education/

https://www.unicef.org/education/inclusive-education

https://www.education.gov.in/shikshakparv/docs/Inclusive_Education.pdf

“The Essence of Inclusive Education”, BR Ramachandraiah

“Education of Children with Special Needs” NCERT