छात्रवैविध्यम्
सामावेशात्मकशिक्षा च
(Student Diversity and Inclusive
Education)
उपोद्घातः Introduction
लोके नैकोऽपि जनः अन्यसमः अस्ति । “मुण्डे मुण्डे मतिर्भिन्ना”,
“लोको भिन्नरुचिः” इत्याद्युक्तयः एतत् प्रमाणयन्ति । एवमेव विद्यालयेषु
छात्राः अपि अनन्यसमाः भवन्ति । तेषाम् एतत् अनन्यसमत्वम् एव तदीया विशिष्टता
इत्युच्यते । एषा विशिष्टता दोषाय न इति मन्यमानः शिक्षकः तस्य विशिष्टस्य
छात्रस्य कक्ष्यायां समावेशं कृत्वा तस्य विकासार्थम् उचितं यत्नं कुर्यात् । भारते अनादिकालादारभ्य
तारतम्यविहीना शिक्षाव्यवस्था प्रचलति स्म । गुरुकुले सामान्यस्य निर्धनस्य
पुत्रोऽपि राज्ञः पुत्रेण सह एव समानरीत्या तारतम्येन विना अधीते स्म । एषा
तरतमविहीना शिक्षाव्यवस्था आङ्लेयानां भारते आगमनपर्यन्तमपि प्रचलति स्म । एतत्
थामस् मुन्रो इत्येतादृशानाम् आङ्ग्लाधिकारिणां प्रतिवेदनेषु निरूपितमस्ति ।
“समानी व
आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ॥
“सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु
माविद्विषावहै”
जातिनीतिकुलगोत्रदूरगम् नामरूपगुणदोषवर्जितम् ।
देशकालविषयातिवर्ति यत् ब्रह्मतत्त्वमसि भावयात्मनि ॥ विवेकचूडामणिः
“सङ्गच्छध्वं संवदध्वम् सं वो मनांसि जानताम्”
इत्यादीनि
वाक्यानि भारते समावेशात्मिका शिक्षा अनादिकालतः आसीत् इति निरूपयन्ति । किन्तु
आङ्लेयानां आगमनोत्तरं भारते जातीनां, राज्यानां, मतादीनां मध्ये परस्परं वैषम्यम् उत्पादितम्
शासनव्यवस्थायाः स्वायत्तीकरणाय । साम्प्रतं तत्फलत्वेन एव भारते
समावेशात्मकशिक्षायाः आवश्यकता उत्पना अस्ति ।
छात्रेषु विविधता (Student Diversity)
विविधतयाः
कापि सीमा न भवति । तथापि अत्र समावेशः केषां करणीयः इति निर्णयार्थं विविधतायाः
केचन प्रकाराः चिन्त्यन्ते । ते च प्रकाराः अथवा छात्रविविधताः इत्थं
प्रदर्शयिष्यन्ते -
लिङ्गभेदः
सामाजिकार्थिकवैविध्यम्
सांस्कृतिकवैविध्यम्
संज्ञानात्मकवैविध्यम्
प्रादेशिकवैविध्यम्
भाषागतं वैविध्यम्
शारीरिकक्षमतायां वैविध्यम्
मानसिकक्षतायां वैविध्यम्
मतीयवैविध्यम् चेति । एतेषां
विषये विस्तरेण किञ्चिदत्र विचारयाम -
लिङ्गभेदः (Gender Diversity)
समग्रे प्रपञ्चे अनादिकालतः स्त्रीणां शिक्षा सुलभा नास्ति
। मासिकधर्मादिक्लेषाः व्याजमात्रम् । पुराकाले शिक्षा नाम धार्मिकी एव भवति स्म
इति केचन प्रतिपादयन्ति (भारते शिक्षा जीवनोपयोगिनी एव आसीत्, “द्वे विद्ये
वेदितव्ये परा चापरा च” इति श्रुत्यनुगुणं अपरा विद्या जीवनोपयोगिनी
अभ्युदयदात्री, परा च निश्रेयसकारणी आध्यात्मविद्या ) । साम्प्रतं धार्मिकशिक्षामात्रं
शिक्षा नास्ति प्रत्युत शिक्षा सार्वजनीना वैविध्यपूर्णा च अस्ति वैदिककालिकशिक्षा
इव । अतः पुरुषेण सह स्त्री अपि शिक्षां प्राप्नुयात् । पुराकाले तु स्त्रीणां
शिक्षा समीचीना भवति स्म । “यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः” इति
मनोभूमिः तदानीन्तनाम् आसीत् ।
शिक्षाप्रदानेन स्त्री सम्माननीया येन देवताः प्रसीदन्ति इति भाव्यते स्म । पुनश्च
स्त्रीणां यत्र अनादरः भवति स्म तत्र कृतानि कार्याणि सर्वाण्यपि निष्फलानि भवन्ति
इति तत्रैव मन्यते स्म । यथा -
यत्रैतास्तु न पूज्यन्ते सर्वा एवाफलाः क्रियाः ॥
इति ।
मध्यकाले प्रायः स्त्रीणां शिक्षायाः विषये अनादरः आसीत् ।
अतः साम्प्रतं स्त्रीणां शिक्षाविषये उपेक्षा कर्तुं न शक्या । अतः स्त्रीणां
शिक्षायां समावेशः अवश्यं कर्तव्यः ।
स्त्रीणां शिक्षया सह तृतीयलिङ्गिनां कश्चन समवायः भारते
उपेक्षितुमशक्यः वर्तते एव । अमेरिकादिषु देशेषु अन्यलिङ्गिनामपि विभिन्नाः
समवायाः सन्ति येषां शिक्षाद्यधिकारप्राप्तौ सङ्घटितः आग्रहः अस्ति । अतः तेषामपि
तत्तद्देशे शिक्षायां समावेशार्थं विचारः योजना प्रवृत्तिश्च भवति ।
सामाजिकार्थिकवैविध्यम्
(Socioeconomic
Diversity)
प्रपञ्चे सर्वत्र समाजः
उच्चनीचादिभेदयुक्तः भवति । एवमेव
आर्थिकदृष्ट्या धनिकदरिद्रादिभेदः अपि भवति । साम्यवादिषु देशेष्वपि अयं भेदः
भवत्येव । एतस्य सुमहान् परिणामः शिक्षाक्षेत्रे
भवति । भारते अपि कस्मिंश्चित् काले वर्णव्यवस्था आसीत् । सा च व्यवस्था जन्माधारेण
नासीत् । प्रत्युत कर्माधारेण आसीत् । किन्तु साम्प्रतं या जातिव्यवस्था अस्ति सा जन्माधारेण
अस्ति । वैचित्र्यं नाम ये अनया व्यवस्थया शोषिताः इत्युच्यन्ते ते स्वजातिं परित्यक्तुं
नेच्छन्ति । यान् “शोषकाः इमे” इति मन्यन्ते तेषां निन्दाम् अवश्यं न त्यजन्ति
। सर्वकाराः अपि जातिव्यवस्थायाः निन्दां कुर्वन्तः जात्त्युल्लेखम् अवश्यं कारयित्वा
जात्यनुगुणं शासनव्यवस्थां कल्पयन्ति । राजनैतिकदलानि जातिव्यवस्थायाः पोषणं कुर्वन्ति(शत्रन्तं
रूपम्) निर्वाचने विजयं प्राप्तुं योजनाः निर्मान्ति । जातिव्यवस्थायाः सम्पोषणं कृत्वा
अधिकारम् अवाप्य जातिव्यवस्थां निर्मूलयितुं कुतो वा राजनैतिकदलानि प्रयतेरन् ? यदि जातिव्यवस्था निन्दनीया तर्हि कुतो वा
निर्मूलयितुं विधिः तदनुष्ठानं च न स्यात् ? भवतु नाम राज्याङ्गव्यवस्थायां
ईदृशी विडम्बना । अथापि शिक्षिताः तु जनानां मध्ये जागर्याम् उत्पाद्य
जातिकारणतः वैषम्यं वा, तारतम्यं वा यथा न स्यात् तथा कुर्युः । भारते
अस्मन्वाङ्मये समदृष्टिः श्रेयसी इत्यभिप्रायेण भूरिशः प्रमाणानि समुपलभ्यन्ते । -
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ इत्यादीनि ।
किञ्चन सुभाषितम् इत्थमस्ति यत्र इदम् अभिप्रेतम् अस्ति यत् तारतम्यं
निर्जीवैरपि पदार्थैः न क्रियते सूक्ष्मसंवेदिभिः शिक्षितैः मनुष्यैः कथं वा
क्रियते ? इति -
अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।
अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥
एवमेव स्वस्थः समाजः भगवदायतनं कथं भवति इति सुभाषितमिदं ब्रूते -
सद्वृत्तयः प्रकाशन्ते क्षीयन्ते दुष्टवृत्तयः ।
सुसंहिते समाजे हि
रमन्ते खलु देवताः ॥
एकस्मिन् समाजे उच्चनीचभावः भवति चेदपि क्षुद्राणां समाजोपकारिता कथं भवति इति
दृष्टान्तबलेन सुभाषितमिदं प्रतिपादयति -
संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि ।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥
इति ।
सांस्कृतिकवैविध्यम् (Cultural Diversity)
संस्कृतिः अस्माकम् आचारविचाराणाम् औत्तम्यस्य परिचायिका
अस्ति । औत्तम्यम् आदर्शपूर्णमस्ति चेत् अनुकरणीयं भवति । “मातृदेवो भव ...” इति अस्माकं संस्कृतिरस्ति । माता स्वापत्यानां
हिताय स्वहितं अविगणय्य परिश्राम्यति । मातुः त्यागबुद्धेः कारणादेव सा अस्माभिः
पूज्या । अत एव संन्यासिनः सन्तोऽपि मात्रा नमस्कार्याः न भवन्तु प्रत्युत माता एव संन्यासिभिरपि
नमस्कार्या भवति । एतदनुसारम्
अस्मत्पूर्वजाः अस्माकं पुरस्तात् उत्तमान् अन्यांश्च आदर्शव्यवहारान् इत्थं
प्रादर्शयन् -
नाहं जानामि केयूरे नाहं जानामि कुण्डले ।
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥
लक्ष्मणः सीतान्वेषणावसरे वानरैः आनीतानि आभरणानि पश्यन्
रामेण प्रश्ने पृष्टे सति इत्थं पूर्वोक्तरीत्या वदति । एषा दृष्टिः आदर्शपूर्णा
अस्ति । संस्कृत्यन्तरे गृहे विद्यमानैः
बहुभिः पितृपुत्रादिभिः एका महिला उपभुज्यते । क्वचित् स्त्री कॆवलं भोगाय एव भवति
। क्वचिच्च स्त्रीणां द्वितीयश्रेण्याः नागीकता/पौरत्वम् भवति । किन्तु भारते
स्त्री मातृवत् पूज्यभावनया द्रष्टव्या इति बोध्यते, “मातृवत्परदारेषु”
इत्यादिवचनैः ज्ञायते ।
अस्मत्संस्कृतौ
“लोकाः समस्ताः सुखिनो भवन्तु ।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा
कश्चिद्दुःखभाग्भवेत् ।
आ नो भद्राः क्रतवो यन्तु विश्वतः ।
अपुत्राः पुत्रिणः सन्तु .... ....”
इत्येतादृशाः उदात्तव्यवहाराः भवन्ति ।
तथापि एते व्यवहाराः शिक्षया साधनीयाः इत्येतत् न विस्मर्तव्यम् ।
संज्ञानात्मकवैविध्यम् (Cognitive Diversity)
छात्रेषु बौद्धिकक्षमताः न समानाः । समानवयसां छात्राणाम् मानसिकक्षमताः
समानाः न भवन्ति । मन्दमतयः, प्रतिभाशालिनः, मानसिकशारीरिकादिक्लेषैः पीडिताः असमबुद्धयः च भवन्ति ।
केषुचित् पाठ्यक्रमेषु प्रवेशपरीक्षादिमाध्यमेन
निश्चितस्तरस्य छात्राणां सङ्ग्रहाय यत्नो विधीयते । किन्तु तत्रापि छात्राणां
सुमहान् भेदः भवत्येव । सञ्चालितायां परीक्षायां द्वाभ्यां छात्राभ्यां समानाः
अङ्काः प्राप्यन्ते चेदपि द्वयोरपि समानं संज्ञानात्मकं सामर्थ्यं इति वक्तुं न
शक्यते । तयोः विषयग्रहणसामर्थ्यादिकं समानं
न भवति । किन्तु गुरुः तयोः मध्ये तारतम्यं नाचरेत् । पुराकाले तथैव गुरवः भवन्ति
स्म । उत्तररामचरिते भवभूतिः इत्थं गुरोः निष्पक्षपाताध्यापनविषये कथयति -
वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे
न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा ।
भवति हि पुनर्भूयान् भेदः फलं प्रति तद्यथा
प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः ॥इति ।
प्रादेशिकवैविध्यम् (Geographic Diversity)
आसेतु हिमाचलम् भौगोलिकस्वरूपदृष्ट्या भारतम्
वैविध्यपूर्णम् अस्ति । यथा –
अतिशीतवातावरणयुक्तात् हिमालयात् अत्यौष्ण्ययुक्तम् कलिङ्गं यावत्
अत्यन्तं समतलप्रदेशात् तुङ्गशिखरं यावत्
वृक्षविहीनमरुभूमितः घनारण्ययुक्तसह्यपर्वतं यावत्
देवमातृकाभ्यः नदीमातृकाः यावत् । इत्थं भौगोलिकं वैविध्यं यदस्ति तदनुगुणं
शिक्षाव्यवस्था अपि भिद्यते ।
छात्रप्रकारः अपि तदनुगुणं (भौगोलिकस्थित्यनुगुणं) शारीरिकमानसिकक्षमतया,
संस्कृत्या, आचारविचारैः च भिद्यते ।
भाषागतं वैविध्यम्
भाषा - भावविनिमयाय, वैचारिकसंवादाय, तात्विकप्रबोधाय, साहित्यिकसर्जनाय, कलात्मक-आस्वादनाय
उपयुज्यते ।
भाषायाः विविधतायाम् सत्याम्-
साहित्यिकसमृद्धिः,सांस्कृतिकम् आदानप्रदानम्, सहिष्णुताविकासः, स्वस्थप्रतिस्पर्धा च भवति ।
छात्राः विविधभाषाभाषिणः तरतमभेदविहीनरीत्या अध्ययनाय अवसरं लभेरन् । भाषागतं
वैविध्यम् समृद्धये न तु सङ्घर्षाय इति मानसिकतानिर्माणं समावेशस्य लक्ष्यं स्यात्
।
शारीरिकक्षमतायां वैविध्यम् (Diversity in Physical Capacity)
प्रज्ञाचक्षवः, दिव्यश्रोत्राः(मूकाः)
पॊलियोसदृशरोगैः पीडिताः (चलनासमर्थाः)
क्षतावयवाः (दिव्याङ्गाः)
दग्धशरीरिणः (दिव्याङ्गाः)
कार्श्य-स्थौल्य-वामनत्वादि-शरीरलक्षणाः च बालाः समाजे विद्यमानाः विद्यालयेषु
अध्ययनाय अवसरं (समावेशात्मकरीत्या) लभेरन् ।
मानसिकक्षमतायां वैविध्यम् (Diversity in Mental ability)
छात्राणां समेषां मानसिकक्षमताः समानाः न भवन्ति । मनोविज्ञाने मानसिकक्षमतया
बौद्धिकयोग्यताः गृह्यन्ते ।बौद्धिकक्षमताः बुद्धिलब्धेः माध्यमेन तोलयितुं शक्याः
। बुद्धिलब्धेः (IQ) आधारेण वैविध्यम् एवम् भवति –
सामान्या अक्षमता - IQ 50 - 70
मध्यमा अक्षमता - IQ 35 - 49
गभीरा अक्षमता - IQ 20 - 34
अतिगभीरा अक्षमता - IQ 20 तः अधः
इत्थं बुद्धिलब्धिम् उपयुज्य छात्रेषु विद्यमानानां बौद्धिकवैविध्यानाम्
आधारेण समावेशः केषाम् ? कथम् ? किं निमित्तं करणीयः ? इत्यादिकं चिन्त्यते ।
मतीयवैविध्यम् (Diversity
in Religion)
अस्मद्देशे तत्तन्मतावलम्बिनां मतीयाचरणस्य कोऽपि निर्बन्धः
नास्ति । अतः अत्र विभिन्नानि मतानि स्वातन्त्र्येण विकसन्ति । परस्परं विरुद्धाचरणेषु सत्सु समन्वयसाधनाय
समावेशात्मकशिक्षायाम् उपायाः आविष्करणीयाः
।
बौद्धाः(सौगताः)
जैनाः(दिगम्बरश्वेताम्बराः)
महम्मदीयाः सुन्नीत्यभिधाः
अहम्मदीयाः शियेत्यभिधाः
केथोलिकमतीयाः
प्रोटेष्टेण्टमतीयाः
सनातनधर्मीयाः इत्येवं रूपेण प्रपञ्चे मताधारेण विश्वासस्य वैविध्यम् अस्ति ।
समावेशात्मिका शिक्षा Inclusive Education
समावेशः केषाम् ?
विविधता कीदृशी ?
समावेशः किमर्थम् ? विशिष्टशिक्षा किमर्थं न स्यात् ?
समावेशः कथम् ?
समावेशात्परं किम् ?
इत्येतैः
प्रश्नैः समावेशात्मकशिक्षायाः स्वरूपावगमात् तेषाः प्रश्नानां समाधानप्रदानेन
तत्साधयितुं यत्नः क्रियते ।
समावेशः केषाम् ?
तारतम्येन
पीड्यमानानां नानाप्रकारकाणां छात्राणां समावेशः । Inclusion is the practice of including and accommodating people who often
face discrimination and exclusion due to race, gender, ability, or
identity.
समावेशः किमर्थम् ? विशिष्टशिक्षा किमर्थं न स्यात् ?
विशिष्टछात्रस्य
सहजविकासाय, अन्यच्छात्राणाम् अवलोकनपुरस्सरं विशिष्टस्य बालस्य अधिगमाय,
अन्यच्छात्राणाम् आत्मविश्वासवर्धनाय,
विविधतायाः विषये आदरभावोत्पादनाय च ।
समावेशः कथम् ?
विशिष्टच्छात्रस्य स्वीकारेण, अवगमनेन, वैयक्तिकभिन्नतायाः परिग्रहेण,
वैविध्यस्य अङ्गीकारेण च समावेशः करणीयः ।
समावेशात्परं किम् ?
भौतिकसौविध्यस्य प्रकल्पनम्
प्रशिक्षिताध्यापकानां नियोजनम्/नियुक्तानां प्रशिक्षणम्
समुचितशिक्षणविधीनां उपयोगः
समुचितशिक्षणोपकरणानाम् उपयोगः
समुचितमूल्याङ्कनप्रणाली(The Rights of Persons with Disabilities Act 2016 इत्यनुसारम्)
अधिगन्तृकेन्द्रित-प्रशिक्षणपद्धतयः
LEARNER-CENTERED
PEDAGOGICAL PRACTICES
प्रशिक्षणम्- अध्यापककेन्द्रितम् , छात्रकेन्द्रितम् च भवति । समावेशात्मकशिक्षायां
छात्रकेन्द्रितपद्धतयः भवेयुः ।
संवादाः, सामूहिककार्यम्, प्रबोधनवर्गाः, प्रायोगिकाभ्यासाः, परियोजनाकार्यम्, सहाध्ययनम्, बह्विन्द्रियशिक्षा, क्षेत्रानुभवश्च.
उपसंहारः (पाथेयम् )
छात्रवैविध्यम् - वैविध्यम् प्रकृतिधर्मः अस्ति । वैविध्ये सौख्यम् आनन्दः च। छात्रवैविध्यं
तद्विकासे बाधकं न स्यात् ।
समावेशात्मिकी शिक्षा -समावेशः मानवस्य उत्तरदायित्वम् अस्ति येन लोकहितं भवति । प्रत्येकं
छात्रस्य सहजविकासेन सह “विविधतायाम् एकता” इति समावेशस्य लक्ष्यं स्यात् ।
अत एव उच्यते “जिजीविषन्ति समं सहाध्यायिनः” इति । इत्युक्ते ये वैविध्यपूर्णच्छात्रसमवाये
स्थित्वा अधीयते ते अध्ययनात्परम् अपि सहिष्णवः सन्तः सर्वैः सह सौहार्दपूर्णजीवनं
यापयितुं शक्नुवन्ति इति ।
इति शम्
सन्दर्भाः
https://cod.pressbooks.pub/introtoeducation/chapter/9-1-student-diversity/
https://resilienteducator.com/classroom-resources/inclusive-education/
https://www.unicef.org/education/inclusive-education
https://www.education.gov.in/shikshakparv/docs/Inclusive_Education.pdf
“The Essence of Inclusive
Education”, BR Ramachandraiah
“Education of Children with
Special Needs” NCERT