व्यक्तित्वोत्कर्षकाणि मूल्यानि
“सत्यं वद धर्मं चर ….” इति भारतीयाः मनीषिणः उपदिशन्ति । सारतः वक्तव्यं चेत् धर्माचरणम् इत्युक्ते सदाचारः इत्येव तात्पर्यम् । सत्यकथनम् इत्युक्ते यथार्थस्य विषयस्य कथनमात्रं नास्ति । सत्यमित्येतत् तपः अस्ति । यथोक्तकारिता एव सत्यम् अस्ति । इत्युक्ते आचरणपर्यवसायियथार्थकथनमेव सत्यमित्युच्यते । वचस्यन्यत् कर्मण्यन्यत् इतिवत् न भवेत् इति तात्पर्यम् । ईदृशं सत्यम् एकविधं मूल्यम् अस्ति । मूल्यं नाम किम् ?
मूल्यमिति शब्दः Value इत्यस्य आङ्लशब्दस्य अनूदितरूपम् अस्ति ।
एषः Value इत्यख्यः शब्दः ल्याटिनभाषायाः valere इत्यस्मात् शब्दात् निष्पन्नः यस्यार्थः "be strong(सुदृढो भव), be well(सुखी भव); be of value(गुणी भव), to be worth(श्रेष्टो/प्रमुखो भव) (significant)
आङ्ग्लकोषेषु Value इत्यस्य अधोलिखिताः अर्थाः उक्ताः –
Oxford learners Dictionary - beliefs about what is right and wrong and what is important in life. जीवने किं महत्त्वपूर्णमस्ति, किं वा युक्तम् किमयुक्तम् चेति विषयेषु विश्वासः एव मूल्यमस्ति ।
- The quality of being useful or important. प्रयोजनवतः महत्त्वपूर्णस्य कस्यापि जनस्य वस्तुविशेषस्य वा गुणः एव मूल्यमित्युच्यते ।
• Value is equal to the intrinsic significance of a thing or person." कस्यचित् जनस्य वस्तुनः वा आभ्यन्तरं महत्त्वमेव मूल्यमस्ति ।
The study of values from the philosophical point of view is the study of ethics इत्यपि उच्यते । इत्युक्ते तत्त्वशास्त्रीयदृष्ट्या मूल्यानाम् अध्ययनं नाम नैतिकशिक्षा इति मन्तव्यम् ।
Values इत्युक्ते सद्गुणाः इत्यपि अर्थः गृह्यते । सद्गुणेभ्यः सत्प्रवृत्तयः जायन्ते । अत एव भारतीयाः –
“गुणाः पुजास्थानम्”
इति मन्वते । सद्गुणाः दैवीसम्पदः इत्यपि भगवद्गीतायाम् उच्यते ।
मूल्यशिक्षा छात्रं पूर्णतः विकासयति । तस्य मानसिकं शारीरिकं, सामाजिकं सांवेगिकं च विकासं मूल्यशिक्षा करोति । स्वीयकार्याणाम्, उत्तरदायित्वानां, नैतिकविकल्पानां च विषये चिन्तयितुं छात्रान् बोधयति ।
(Value education develops the whole student including their mental, physical, social and emotional wellbeing. It teaches students to think about their actions, take responsibility and make ethical choices.)
मूल्यशिक्षा व्यक्तिम् उत्तरदायिनीं, अनालसां,समाजानुकूलाम् उदारचरितां करोति । अतः एतादृशाणि मूल्यानि भारतीयसंस्कृतवाङ्मयात् कथं वयं प्राप्तुं शक्नुम इति वस्तुतः अस्मिन् पत्रे प्राधान्येन प्रतिपिपादयिषितो विषयोऽस्ति ।
शकुन्तलायाः वात्सल्यम् निर्व्याजप्रेम
यस्य त्वया व्रणविरोपणमिङ्गुदीनाम् तैलं न्यषिच्यत मुखे कुशसूचिविद्धे ।
श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥
शकुन्तला कण्वाश्रमे वसन्ती मृगशावकान् वात्सल्येन कथं परिपोषयति स्म इति इदं पद्यं अभिव्यनक्ति । जातमात्रम् अपि मृगशावकः मातरम् अनुकुर्वन् कुशान् खादितुं प्रवृत्तः तीक्ष्णकुशैः मुखे व्रणितो भवति । तादृशस्य मृगशावकस्य मुखे विद्यमानान् व्रणान् उपशमयितुं/निर्मूलयितुं शकुन्तला इङ्गुदीतैलस्य लेपनं करोति । किन्तु ईदृशोपचारसमये स च मृगशावकः किमपि अखादित्वा कथं वा वर्धेत ? तदर्थं सा श्यामाकधान्यानां पाकं कृत्वा तेषां मुष्टिभिः तं मृगशावकं भोजयित्वा तं पोषितवती । तच्च पोषणं/पालनं स्वस्य उदरादेव निष्पन्नस्य शिशोः इव कृतवती । अतः शकुन्तलायाः पतिगृहं प्रति निर्गमनकाले सः मृगशावकः तस्याः गमनं प्रेम्णा अवरुणद्धि इति कविः वर्णयति ।
एतत् पद्यं पठितवती का वा कन्या अर्भकान् उपेक्षेत ? तेषु प्रेमवारिसिञ्चनं न कुर्यात् ? आत्मनि उद्गच्छद् मातृत्वं को वा अवरुणद्धि । ईदृशाणि पद्यानि अस्मन्माणवकेषु भूतदयामात्रं न तेषु निर्व्याजं प्रेम अपि उत्पदयति । अनेन छात्रेषु सर्वत्र प्रेम्णा व्यवहारस्य प्रवृत्तिर्जायते । निर्व्याजं प्रेम एव किल महत्वपूर्णं सार्वभौमिकम् मूल्यमस्ति लोके ।
शकुन्तला पतिगृहं प्रति प्रेषणीया । कण्वः प्रेषणव्यवस्थां तु कृतवान् । आश्रमात् प्रस्थानतः पूर्वं तस्याः शकुन्तलायाः गमनाय सर्वे अनुज्ञां प्रयच्छन्तु इति कण्वः प्रार्थयते । किन्तु एषा अनुज्ञार्थं प्रार्थना मनुष्यान् उद्दिश्य न प्रत्युत उद्यानलताः उद्दिश्य । शकुन्तलायाः संवेदनाः मनुष्यादूर्ध्वम् आश्रमवासिषु जन्तुषु, क्षुपेषु, लतासु चेत्यादिषु आसन् । तदत्र पद्ये सुव्यक्तमस्ति -
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
आद्ये वः कुसुमप्रसूतिसमये यस्याः भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥
अस्माकं जीवने सदा उत्थानात्परं जलपानात्पूर्वं स्मर्तुं यॊग्यं पद्यमिदं भवति । उद्यानपालकत्वेन कार्यं कुर्वाणान् विहाय प्रायः अधिकाधिकानां जनानां जीवने अयमादर्शः अक्षरशः नावतीर्णः स्यात् यत् स्वयं जलपानात्पूर्वं अन्येषां जन्तूनां वा उद्यानलतानां वा पालितपादपानां वा जलदानम् अकृत्वा स्वयं जलं न पिबेयम् इति । कालिदासः कण्वमुखादिमम् आदर्शं प्रदर्शयति युष्मासु अपीतेषु शकुन्तला प्रथमं जलं पातुं न व्यवस्यति इति । एवमॆव अग्रिमपङ्क्तीनां विषयेऽपि चिन्तनीयम् ।
आत्मानं शकुन्तलां मन्यमाना का वा कन्या शकुन्तलायाः ईदृशीं प्रवृत्तिं स्वात्मगुणं कर्तुं/अनुकर्तुं न इच्छेत् ? प्रकृत्या सह तादात्म्यं प्राप्तुं को वा अनेन न प्रेर्यते ।
लोकाय शासनम्
वाल्मीकिरामायणे अयोध्याकाण्डे शततमः सर्गः अत्यन्तं महत्वपूर्णः । वनवासार्थं निर्गतं रामं पुनः सिंहासने अभिषेक्तुम् इच्चुकः भरतः चित्रकूटं प्रति सामात्यः सप्रजः यदा अगच्छत् तदा श्रीरामचन्द्रः राज्यशासनं कथं कुर्वन्नस्ति ? कथं वा कर्तव्यम् अस्तीति प्रेम्णा भरतम् अत्र बोधितवान् ।
कच्चिन्निद्रावशं नैषीः कच्चित्कालेऽवबुद्ध्यसे ।
कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ रामायणम्
ये ये सर्वकारीयसेवायां सन्ति राजनेतारो वा भवन्तु, सर्वकारीयकर्मचारिणो वा भवन्तु, ते सर्वे रामस्य उपदेशमिमम् अवश्यं पालयेयुः । इदमेकं मूल्यमस्ति यत् लोकाराधनम्/लोकरञ्जनम् इति । तदेव उक्तम् उत्तररामचरिते भवभूतिना राममुखेन -
“सतां केनापि कार्येण लोकस्याराधनं वरम्” इति ।
लोकहिताय अहोरात्रं चिन्तनं कर्तव्यम् । अनिवार्यतायां सत्याम् अपररात्रेषु अपि निद्रा त्यक्तव्या भवति । पुनः काले इत्युक्ते उषसि एव प्रबोधः अपि भवेत् । एतत् सर्वं लोकहिताय कर्तव्यम् अस्ति इति मूल्यं रामात् वयं प्राप्नुमः, येन रामराज्यं निर्मितं भवति । वसिष्टोऽपि एतदेव राममुपदिशति -
युक्तः प्रजानाम् अनुरञ्जने स्याः तस्माद्यशो यत्परमं धनं वः ॥
अत एव रामः पश्चात् एवं वदति –
स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥
अतिबुद्धिमतां विषये जागर्या
कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे । अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ रामायणम्
औदार्यम्
इदमेकं सार्वभौमिकं मूल्यम् अस्ति । प्रायः सर्वेऽपि जन्तवः स्वीयान् प्रीणन्ति । परेभ्यः बिभ्यति । किन्तु बहवो हि मनुष्याः स्वीयान् तु प्रीणन्ति । किन्तु परेभ्यः असूयति । ईर्ष्या मानवस्य अरिः अस्ति । परेषाम् उत्कर्षं मानवः प्रायः न सहते । किन्तु भारतं ईर्ष्यां अरिं मत्वा तस्मान्मुक्त्यर्थम् उपायान् उक्त्वा तद्विरुद्धम् औदार्यं विकासनीयमिति उपदिशति ।
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ हितोपदेशः २,३-७१
मातृवत् परदाराः द्रष्टव्याः
रामायणात् वयं बहुविधानि मूल्यानि प्राप्नुमः । रामस्य प्रत्येकं प्रवृत्तिः अनुकरणीयैव । को वा अनायासेन विधिरूपेण प्राप्तम् राज्याधिकारं त्यक्तुम् इच्छति ? भ्रातृभक्त्या चित्रकूटपर्यन्तं गत्वा साग्रहं आहूतः रामः निराकृतवान् इत्यतः ततः परं वा राज्यलक्ष्मीं उपभोक्तुमर्हति स्म भरतः । किन्तु सः तथा अकृत्वा रामस्य पादुकां सिंहासने निक्षिप्य नन्दिग्रामे सन्यस्तजीवनः सन् राज्यशासनम् निरवर्तयत् । । रामस्य वनवासवेलायां भरतेन प्रदर्शिता इयं प्रवृत्तिः किम् अतुलनीया नासीत् ? हनूमतः रामभक्तिरेव साम्प्रतमपि तं हनूमन्तं जनानां हृदि पूज्यम् करोति । लक्ष्मणः तु चतुर्दशवर्षाणि अनशनः सन् भ्रातृसेवाम् अकरोत् । सीतामातुः अन्वेषणवेलायां तदीयाभरणानि दृष्ट्वा लक्ष्मणेन प्रोक्तं इदं कस्य हृदयं न द्रवीकरोति ?
नूपुरं त्वभिजानामि नित्यं पादाभिवन्दनात् ॥
किमयं व्यवहारः, इयं महोन्नतदृष्टिः कस्य वा समाजस्य श्रेयसे न भवति ।
न्यायमार्गप्रवृत्तिः
लोके सर्वेऽपि जनाः अन्येषां पक्षतः सौजन्यं सद्व्यवहारं च वाञ्छन्ति । सर्वे न्याय्येन मार्गेण चलेयुः इति प्रत्येकं जनस्य अपेक्षा भवति । किन्तु स्वस्य व्यवहारे सौजन्यं, न्याय्यं च अवश्यं भवेदिति न भावयन्ति । तत्तु भवत्येव इति भावः । एतादृशभावकारणादेव बहुविधानि अकार्याणि च अकार्यत्वेन न मन्यन्ते । अन्येन कृतं अकार्यं निन्द्यमिति मन्वाना अपि स्वयं यदा कुर्वन्ति तदा तत् निन्द्यमिति न मन्वते । अतः अन्यान् ते उपदिशन्ति यत् सर्वे एवं भवन्तु, तथा भवन्तु चेति –
परोपदेशवेलायां शिष्टाः सर्वे भवन्ति वै । विस्मरन्तीह शिष्टत्वं स्वकार्ये समुपस्थिते ॥
समाजे केचन श्रेष्ठाः पुरुषाः भवन्ति ये कस्यामपि परिस्थितौ न्याय्यात् मार्गात् च्युताः न भवन्ति इति इदं पद्यम् आख्याति -
निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥
अतः इदमेकम् महत्वपूर्णं मूल्यम् अस्ति यच्च विवेकेन परिश्रमेण साधनीयम् इति।
जन्मसार्थक्यम्
अस्माभिः कथं जीवनीयम् इति अक्षरशः अनुक्त्वा अस्मभ्यं स्वातन्त्र्यं प्रदाय सन्मार्गे गमनाय उपदिशति इदं नीतिशतकस्य सुभाषितम् येन जन्मनः सार्थक्यं सम्पद्यते -
परिवर्तिनि संसारे मृतः को वा न जायते ।
स जातो येन जातेन याति वंशः समुन्नतिम् ॥
नैकेनापि समं गता वसुमती -
भोजप्रबन्धे प्रदर्शितम् इदं प्रकरणं प्रायः सर्वोऽपि संस्कृतलोकः जानाति । एतस्य पद्यस्य कारणतः यन्मूल्यं मानवमात्रेण आसाद्यते तत्तु सहस्रकृत्वः उपदिश्यते चेदपि सम्पादितं न भवति । अत एव काव्यस्य कान्तासंहिता इति अभिधानं प्रसिद्धम् ।
मान्धाता च महीपतिः कृतयुगालङ्कारभूतो गतः
सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः ।
अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते
नैकेनापि समं गता वसुमती मुञ्ज त्वया यास्यति ॥५८॥
उपसंहृतिः
इत्थं संस्कृतवाङ्मये नैकानि मूल्यानि मानवस्य अभ्युदयाय तत्र तत्र प्रादर्शिषत । एतानि मूल्यानि मानवस्य व्यक्तित्वम् उज्ज्वलयन्ति इत्यत्र नास्ति सन्देहः । अत एव संस्कृतवाङ्मयस्य अध्ययनं ये कुर्वन्ति तेषां व्यक्तित्वं परिपूर्णम् भवितुमर्हति । अत एव उक्तं “द्वे विद्ये वेदितव्ये परा चापरा” इति । द्वाभ्यामपि एताभ्यां परापराभ्यां विद्याभ्यां परिपूर्णं व्यक्तित्त्वमवाप्य अभ्युदयनिश्रेयसयोः पात्रं सम्पत्स्यते पुरुषः ।
No comments:
Post a Comment