श्रीगुरुभ्यो नमः
कर्म एव मोक्षसाधनमिति मीमांसकपक्षस्य खण्डनम्
प्रार्थना
श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम् ।
नमामि भगवत्पादशंकरं लोकशङ्करम् ॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥
स्वाविद्याविभवप्रसूतविफुलद्वैतप्रपञ्चाहित
स्पष्टभ्रान्ति-तिरोहितात्ममतयो यं भागशो मन्वते ।
निर्भागं सकलाभिधान-मनन—व्यापार-दूरस्थितं
वन्दे नन्दितविश्वमव्ययमजं भक्त्या तमेकं विभुम् ॥
श्रीशङ्करभगवत्पादविरचितबृहदारण्यकतैत्तिरीयभाष्ययोः
सुरेश्वराचार्यकृतद्वादशसाहस्रिकायां वार्तिकसरण्यां सम्बन्धवार्तिकप्रतिपादितं
किञ्चन प्रकरणम् अत्र उपस्थापयामि ।
मोक्षः साध्यः अप्राप्तरूपत्वात् अभ्युदयवत्
। पूर्वम् अविद्यमानः मोक्षः साधनैः
पश्चात् साध्यते, यथा पूर्वम् अप्राप्तं स्वर्गादिफलं पश्चात् अग्निष्टोमादिना
प्राप्यते ।
“अग्निष्टोमेन जुहुयात् स्वर्गकामः” इत्यादिश्रुत्या अग्निहोत्रादिकर्मणा
स्वर्गादिफलं पूर्वम् अप्राप्तं प्राप्यते/ (विधिवाक्यैः साध्यते) तथैव पूर्वम्
असाधितः मोक्षः कर्मणा साधयितुं शक्यते(ज्ञानजन्यः मोक्षः इति वेदान्तिभिरपि
मोक्षस्य जन्यत्वम् उक्तम्) । अतः मोक्षोऽपि साध्यः । इति चेत् (वार्तिकम्
श्लो.सं.२६)
उच्यते -
नित्यमुक्तस्य आत्मनः
अज्ञानात् एव स्वरूपानवगतिः भवति ।
ज्ञानेन यदा अज्ञाननाशः भवति तदा मोक्षः प्राप्यते इति उपचारार्थं ज्ञानिनः
कथयन्ति । वस्तुतः मोक्षः न आप्यः । (देशकालादिना परिच्छिन्नस्य एव आप्यत्वम्) (वार्तिकम् श्लो.सं.२६)
यदा रोगेण पीडितः
उपचारात्परं पूर्वतनं एव स्वास्थ्यं पुनः प्राप्नोति तदा भैषज्येन नरः सृष्टः भवति
इति न उच्यते, प्रत्युत पूर्वतनस्थितिं प्राप्तवान् इत्युच्यते । तद्वत् ज्ञानेन
मोक्षः स्वर्गादिवत् न आप्यः भवति इत्युच्यते । पूर्वं विद्यमानः एव ज्ञातः इति ।
अत्र प्रमाणम् इदमस्ति –
“ब्रह्म वा इदमग्र आसीत्” इति
“ब्रह्मैव सन् ब्रह्माप्येति” इति च श्रुतिः ।
अत्र मीमांसकानाम्
आक्षेपः इत्थम् अस्ति –
लोके मनुष्यस्य
स्वास्थ्यप्राप्तिरिव स्वस्वरूपे एव अवस्थितिः मोक्षः इति चेत् एतादृशः मोक्षः
कर्मणा एव सिध्यति । (वार्तिकम्
श्लो.सं.३२)
श्रुतिषु स्मृतिषु च कर्म
एव विहितम् अस्ति । कर्मातिरिक्तं किमपि
मुक्तेः अभ्युदयस्य च साधनत्वेन वेदेषु न
श्रूयते । यतो हि समग्रः वेदः
विधिनिषेधात्मकः अस्ति ।
तर्हि वेदान्तिना अत्र
एवम् उच्यते –
“ब्रह्म वा
इदमग्र आसीत्” इति “ब्रह्मैव सन् ब्रह्माप्येति” इति च विधिनिषेधभिन्नं ब्रह्मवस्तुप्रतिपादकं वाक्यं पूर्वं उदाहृतं किल ।
इति चेत् न –
“विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन
विधीनां स्युः” (जै.सू. १.२.६)
“आम्नायस्य क्रियार्थत्वात् आनर्थक्यम्
अतदर्थानाम्” (जै.सू. १.२.७)
इति जैमिनीयसूत्रानुगुणं
विधिशेषतया एकवाक्यत्वं
समग्रस्य आम्नायस्य वक्तव्यम् भवति । नो
चेत् वाक्यभेदकल्पनागौरवाख्यः दोषः भवति । इति मीमांसकेन उच्यते ।
तत्र वेदान्ती
इदमाक्षिपति –
नित्यः मोक्षः कर्मणः
फलमिति उच्यते चेत् तस्य नित्यस्य
मोक्षस्य अनित्यत्वप्रसक्तिः । जगति
कुत्रापि कर्मणः नित्यं फलं न दृष्टमस्ति ।
अतः पारिशेष्यात् ज्ञानमेव मोक्षस्य कारणम् इत्युच्यते , – “ज्ञात्वा देवम् मुच्यते सर्वपापैः” इति श्रुतेः ।
अत्र मीमांसकेन इत्थम्
उच्यते –
कर्मभिरेव मुक्तिः भवति ।
कथमिति चेत् –
निषिद्धकर्मणां
परित्यागेन जन्मान्तराणि नरकादीनि च फलानि न भवन्ति ।
काम्यकर्मणां
त्यागेन स्वर्गादिभोगः न भवति इत्यतः फलसंस्पर्शः नास्ति ।
नित्यकर्मणाम्
अनुष्ठानेन किमपि फलं न उक्तम् इत्यतः फलसंस्पर्शः नास्ति ।
प्रारब्धकर्मणां
फलं तु अनुभूय एव समाप्यते ।
पूर्वजन्मनः अफलितानि
कर्माणि सञ्चितानि इत्युच्यन्ते । तानि मनुष्यजन्म प्राप्त्या समाप्तानि भवन्ति
। अतः देहे विद्यमानस्य आत्मनः मुक्तिः स्वतः सिद्धा भवति । एषा मुक्तिः कर्मणां कारणतः भवति । एकात्मज्ञानेन
विना एव इत्थं कर्मभिः मुक्तिः भवति ।
अत्र
“निचाय्य तं मृत्युमुखात् प्रमुच्यते”(कठ.) “ब्रह्म वेद
ब्रह्मैव भवति” इत्यादिश्रुतिषु आत्मज्ञानस्य फलत्वेन
मुक्तिः उक्ता किल इति वेदान्ती वदति चेदुच्यते मीमांसकेन –
स तु अर्थवादः एव इति । यथा –
“द्रव्यसंस्कार कर्मसु परार्थत्वात्
फलश्रुतिरर्थवादः स्यात्”(जै.सू.४/३९१) इति
जैमिनिसूत्रोक्तरीत्या पर्णमयी इत्यादिषु
पर्णमय्याः अर्थवादः उक्तः तथैव पूर्वोक्तानां “ब्रह्म वेद ब्रह्मैव भवति” इत्यादिवाक्यानाम् अर्थवादः वक्तव्यः । तथैव आत्मनः कर्मशेषत्वात् तत्ज्ञानमपि
कर्मणः फलमेव इति अभ्युपगन्तव्यम् ।
इति चेत्
सिद्धान्तः
इत्थमुपस्थाप्यते –
मुक्तेः अभ्युदयस्य च
स्वरूपं साधनं च विलक्षणमस्ति । (वार्तिकम्
श्लो.सं.४६)
काम्यादि कर्मत्यागेन
स्वस्वरूपावस्थितिः मोक्षः इति भवता उक्तम् ।
तत्र आत्मा कर्मानुष्ठानात् पूर्वं स्वस्वरूपे अवस्थितः भवति उत न ? स्वस्वरूपे अवस्थितः न भवति इत्यतः किल
काम्यादिकर्मत्यागः क्रियते । स्वस्वरूपे अनवस्थितः बलात् हेतुना(कर्मणा) साध्यते चेत् तत्
स्वस्वरूपं न भवति ।
यदि तदर्थम् आत्मा
शुद्धस्वरूपे एव अस्ति इति उच्यते चेत्
साधनान्वेषणं (कर्मणः अनुष्ठानम्) किमर्थम् ? साधनत्वेन कर्म आश्रीयते चेत् तत् कर्म मोक्षेऽपि अनुवर्तते इत्यतः कर्मसम्बन्धात् अनिर्मोक्षः प्रसज्यते ।
अतः निषिद्धकाम्यादिकर्मणां वर्जनात् मोक्षः नैव भवति । ज्ञानेनैव तु कैवल्यम् इति
सिद्धम् ।
इति शम् ॥
No comments:
Post a Comment