Wednesday, August 21, 2024

कर्म एव मोक्षसाधनमिति मीमांसकपक्षस्य खण्डनम् (२७-१-२०२४ वेदान्तसङ्गोष्ट्यर्थं सज्जीकृतः लेखः , न प्रकाशितश्च)

 

श्रीगुरुभ्यो नमः

कर्म एव मोक्षसाधनमिति मीमांसकपक्षस्य खण्डनम्

प्रार्थना

 

श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम् ।

नमामि भगवत्पादशंकरं लोकशङ्करम् ॥

सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।

अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥

 

स्वाविद्याविभवप्रसूतविफुलद्वैतप्रपञ्चाहित

स्पष्टभ्रान्ति-तिरोहितात्ममतयो यं भागशो मन्वते ।

निर्भागं सकलाभिधान-मनन—व्यापार-दूरस्थितं

वन्दे नन्दितविश्वमव्ययमजं भक्त्या तमेकं विभुम् ॥

 

श्रीशङ्करभगवत्पादविरचितबृहदारण्यकतैत्तिरीयभाष्ययोः सुरेश्वराचार्यकृतद्वादशसाहस्रिकायां वार्तिकसरण्यां सम्बन्धवार्तिकप्रतिपादितं किञ्चन प्रकरणम् अत्र उपस्थापयामि ।

 

मोक्षः साध्यः अप्राप्तरूपत्वात् अभ्युदयवत् ।  पूर्वम् अविद्यमानः मोक्षः साधनैः पश्चात् साध्यते, यथा पूर्वम् अप्राप्तं स्वर्गादिफलं पश्चात् अग्निष्टोमादिना प्राप्यते ।

 “अग्निष्टोमेन जुहुयात् स्वर्गकामः” इत्यादिश्रुत्या अग्निहोत्रादिकर्मणा स्वर्गादिफलं पूर्वम् अप्राप्तं प्राप्यते/ (विधिवाक्यैः साध्यते) तथैव पूर्वम् असाधितः मोक्षः कर्मणा साधयितुं शक्यते(ज्ञानजन्यः मोक्षः इति वेदान्तिभिरपि मोक्षस्य जन्यत्वम् उक्तम्) । अतः मोक्षोऽपि साध्यः इति चेत्              (वार्तिकम् श्लो.सं.२६)

 

उच्यते -

नित्यमुक्तस्य आत्मनः अज्ञानात् एव स्वरूपानवगतिः भवति ।  ज्ञानेन यदा अज्ञाननाशः भवति तदा मोक्षः प्राप्यते इति उपचारार्थं ज्ञानिनः कथयन्ति । वस्तुतः मोक्षः न आप्यः । (देशकालादिना परिच्छिन्नस्य एव आप्यत्वम्)                                                                      (वार्तिकम् श्लो.सं.२६)

यदा रोगेण पीडितः उपचारात्परं पूर्वतनं एव स्वास्थ्यं पुनः प्राप्नोति तदा भैषज्येन नरः सृष्टः भवति इति न उच्यते, प्रत्युत पूर्वतनस्थितिं प्राप्तवान् इत्युच्यते । तद्वत् ज्ञानेन मोक्षः स्वर्गादिवत् न आप्यः भवति इत्युच्यते । पूर्वं विद्यमानः एव ज्ञातः इति ।

अत्र प्रमाणम् इदमस्ति – “ब्रह्म वा इदमग्र आसीत्” इति “ब्रह्मैव सन् ब्रह्माप्येति” इति च श्रुतिः ।

 

अत्र मीमांसकानाम् आक्षेपः इत्थम् अस्ति –

लोके मनुष्यस्य स्वास्थ्यप्राप्तिरिव स्वस्वरूपे एव अवस्थितिः मोक्षः इति चेत् एतादृशः मोक्षः कर्मणा एव सिध्यति ।                                                                         (वार्तिकम् श्लो.सं.३२)

श्रुतिषु स्मृतिषु च कर्म एव विहितम् अस्ति  । कर्मातिरिक्तं किमपि मुक्तेः अभ्युदयस्य  च साधनत्वेन वेदेषु न श्रूयते ।  यतो हि समग्रः वेदः विधिनिषेधात्मकः अस्ति । 

 

तर्हि वेदान्तिना अत्र एवम् उच्यते

 ब्रह्म वा इदमग्र आसीत्” इति “ब्रह्मैव सन् ब्रह्माप्येति” इति च विधिनिषेधभिन्नं ब्रह्मवस्तुप्रतिपादकं वाक्यं पूर्वं उदाहृतं किल ।

इति चेत् न –

 

विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः” (जै.सू. १.२.६)

आम्नायस्य क्रियार्थत्वात् आनर्थक्यम् अतदर्थानाम्” (जै.सू. १.२.७)

इति जैमिनीयसूत्रानुगुणं

विधिशेषतया एकवाक्यत्वं समग्रस्य आम्नायस्य वक्तव्यम् भवति ।  नो चेत् वाक्यभेदकल्पनागौरवाख्यः दोषः भवति । इति मीमांसकेन उच्यते ।

 

तत्र वेदान्ती इदमाक्षिपति –

नित्यः मोक्षः कर्मणः फलमिति उच्यते  चेत् तस्य नित्यस्य मोक्षस्य अनित्यत्वप्रसक्तिः ।  जगति कुत्रापि कर्मणः नित्यं फलं न दृष्टमस्ति ।  अतः पारिशेष्यात् ज्ञानमेव मोक्षस्य कारणम् इत्युच्यते , – “ज्ञात्वा देवम् मुच्यते सर्वपापैः” इति श्रुतेः ।

अत्र मीमांसकेन इत्थम् उच्यते –

कर्मभिरेव मुक्तिः भवति । कथमिति चेत् –

निषिद्धकर्मणां परित्यागेन जन्मान्तराणि नरकादीनि च फलानि न भवन्ति ।

काम्यकर्मणां त्यागेन स्वर्गादिभोगः न भवति इत्यतः फलसंस्पर्शः नास्ति  

नित्यकर्मणाम् अनुष्ठानेन किमपि फलं न उक्तम् इत्यतः फलसंस्पर्शः नास्ति ।

प्रारब्धकर्मणां फलं तु अनुभूय एव समाप्यते ।

पूर्वजन्मनः अफलितानि कर्माणि सञ्चितानि इत्युच्यन्ते । तानि मनुष्यजन्म प्राप्त्या समाप्तानि भवन्ति ।  अतः देहे विद्यमानस्य आत्मनः मुक्तिः स्वतः सिद्धा भवति । एषा मुक्तिः कर्मणां कारणतः भवति । एकात्मज्ञानेन विना एव इत्थं कर्मभिः मुक्तिः भवति ।

 

अत्र

निचाय्य तं मृत्युमुखात् प्रमुच्यते”(कठ.) “ब्रह्म वेद ब्रह्मैव भवति” इत्यादिश्रुतिषु आत्मज्ञानस्य फलत्वेन मुक्तिः उक्ता किल इति वेदान्ती वदति चेदुच्यते मीमांसकेन –

 

स तु अर्थवादः एव  इति । यथा –

द्रव्यसंस्कार कर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात्”(जै.सू.४/३९१) इति जैमिनिसूत्रोक्तरीत्या  पर्णमयी इत्यादिषु पर्णमय्याः अर्थवादः उक्तः तथैव पूर्वोक्तानां “ब्रह्म वेद ब्रह्मैव भवति” इत्यादिवाक्यानाम् अर्थवादः वक्तव्यः । तथैव आत्मनः कर्मशेषत्वात् तत्ज्ञानमपि कर्मणः फलमेव इति अभ्युपगन्तव्यम्  

इति चेत्

 

सिद्धान्तः इत्थमुपस्थाप्यते –

मुक्तेः अभ्युदयस्य च स्वरूपं साधनं च विलक्षणमस्ति ।                  (वार्तिकम् श्लो.सं.४६)

 

काम्यादि कर्मत्यागेन स्वस्वरूपावस्थितिः मोक्षः इति भवता उक्तम् ।  तत्र आत्मा कर्मानुष्ठानात् पूर्वं स्वस्वरूपे अवस्थितः भवति उत न ?  स्वस्वरूपे अवस्थितः न भवति इत्यतः किल काम्यादिकर्मत्यागः क्रियते । स्वस्वरूपे अनवस्थितः  बलात् हेतुना(कर्मणा) साध्यते चेत् तत् स्वस्वरूपं न भवति ।

यदि तदर्थम् आत्मा शुद्धस्वरूपे एव अस्ति इति उच्यते चेत्  साधनान्वेषणं (कर्मणः अनुष्ठानम्) किमर्थम् ?  साधनत्वेन कर्म आश्रीयते चेत्  तत् कर्म मोक्षेऽपि अनुवर्तते  इत्यतः कर्मसम्बन्धात् अनिर्मोक्षः प्रसज्यते । अतः निषिद्धकाम्यादिकर्मणां वर्जनात् मोक्षः नैव भवति । ज्ञानेनैव तु कैवल्यम् इति सिद्धम् ।

 

इति शम् ॥

 

 

 

 

No comments:

Post a Comment