Wednesday, August 21, 2024

छात्रवैविध्यम् सामावेशात्मकशिक्षा च (Student Diversity and Inclusive Education)

 

छात्रवैविध्यम् सामावेशात्मकशिक्षा च

(Student Diversity and Inclusive Education)

उपोद्घातः Introduction

लोके नैकोऽपि जनः अन्यसमः अस्ति । मुण्डे मुण्डे मतिर्भिन्ना”, “लोको भिन्नरुचिः इत्याद्युक्तयः एतत् प्रमाणयन्ति । एवमेव विद्यालयेषु छात्राः अपि अनन्यसमाः भवन्ति । तेषाम् एतत् अनन्यसमत्वम् एव तदीया विशिष्टता इत्युच्यते । एषा विशिष्टता दोषाय न इति मन्यमानः शिक्षकः तस्य विशिष्टस्य छात्रस्य कक्ष्यायां समावेशं कृत्वा तस्य विकासार्थम्  उचितं यत्नं कुर्यात् । भारते अनादिकालादारभ्य तारतम्यविहीना शिक्षाव्यवस्था प्रचलति स्म । गुरुकुले सामान्यस्य निर्धनस्य पुत्रोऽपि राज्ञः पुत्रेण सह एव समानरीत्या तारतम्येन विना अधीते स्म । एषा तरतमविहीना शिक्षाव्यवस्था आङ्लेयानां भारते आगमनपर्यन्तमपि प्रचलति स्म । एतत् थामस् मुन्रो इत्येतादृशानाम् आङ्ग्लाधिकारिणां प्रतिवेदनेषु निरूपितमस्ति ।

समानी व आकूतिः समाना हृदयानि वः ।

समानमस्तु वो मनो यथा वः सुसहासति ॥

सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु माविद्विषावहै

जातिनीतिकुलगोत्रदूरगम् नामरूपगुणदोषवर्जितम् ।

देशकालविषयातिवर्ति यत् ब्रह्मतत्त्वमसि भावयात्मनि विवेकचूडामणिः

“सङ्गच्छध्वं संवदध्वम् सं वो मनांसि जानताम्

इत्यादीनि वाक्यानि भारते समावेशात्मिका शिक्षा अनादिकालतः आसीत् इति निरूपयन्ति । किन्तु आङ्लेयानां आगमनोत्तरं भारते जातीनां, राज्यानां, मतादीनां  मध्ये परस्परं वैषम्यम् उत्पादितम् शासनव्यवस्थायाः स्वायत्तीकरणाय । साम्प्रतं तत्फलत्वेन एव भारते समावेशात्मकशिक्षायाः आवश्यकता उत्पना अस्ति ।

छात्रेषु विविधता (Student Diversity)

विविधतयाः कापि सीमा न भवति । तथापि अत्र समावेशः केषां करणीयः इति निर्णयार्थं विविधतायाः केचन प्रकाराः चिन्त्यन्ते । ते च प्रकाराः अथवा छात्रविविधताः इत्थं प्रदर्शयिष्यन्ते -

लिङ्गभेदः

सामाजिकार्थिकवैविध्यम्

सांस्कृतिकवैविध्यम्

संज्ञानात्मकवैविध्यम्

प्रादेशिकवैविध्यम्

भाषागतं वैविध्यम्

शारीरिकक्षमतायां वैविध्यम्

मानसिकक्षतायां वैविध्यम्

मतीयवैविध्यम्  चेति । एतेषां विषये विस्तरेण किञ्चिदत्र विचारयाम -

लिङ्गभेदः (Gender Diversity)

         समग्रे प्रपञ्चे अनादिकालतः स्त्रीणां शिक्षा सुलभा नास्ति । मासिकधर्मादिक्लेषाः व्याजमात्रम् । पुराकाले शिक्षा नाम धार्मिकी एव भवति स्म इति केचन प्रतिपादयन्ति (भारते शिक्षा जीवनोपयोगिनी एव आसीत्, “द्वे विद्ये वेदितव्ये परा चापरा च” इति श्रुत्यनुगुणं अपरा विद्या जीवनोपयोगिनी अभ्युदयदात्री, परा च निश्रेयसकारणी आध्यात्मविद्या ) । साम्प्रतं धार्मिकशिक्षामात्रं शिक्षा नास्ति प्रत्युत शिक्षा सार्वजनीना वैविध्यपूर्णा च अस्ति वैदिककालिकशिक्षा इव । अतः पुरुषेण सह स्त्री अपि शिक्षां प्राप्नुयात् । पुराकाले तु स्त्रीणां शिक्षा समीचीना भवति स्म । “यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः” इति मनोभूमिः तदानीन्तनाम् आसीत् ।  शिक्षाप्रदानेन स्त्री सम्माननीया   येन देवताः प्रसीदन्ति इति भाव्यते स्म । पुनश्च स्त्रीणां यत्र अनादरः भवति स्म तत्र कृतानि कार्याणि सर्वाण्यपि निष्फलानि भवन्ति इति तत्रैव मन्यते स्म । यथा -

यत्रैतास्तु न पूज्यन्ते सर्वा एवाफलाः क्रियाः ॥ इति ।

मध्यकाले प्रायः स्त्रीणां शिक्षायाः विषये अनादरः आसीत् । अतः साम्प्रतं स्त्रीणां शिक्षाविषये उपेक्षा कर्तुं न शक्या । अतः स्त्रीणां शिक्षायां समावेशः अवश्यं कर्तव्यः ।

स्त्रीणां शिक्षया सह तृतीयलिङ्गिनां कश्चन समवायः भारते उपेक्षितुमशक्यः वर्तते एव । अमेरिकादिषु देशेषु अन्यलिङ्गिनामपि विभिन्नाः समवायाः सन्ति येषां शिक्षाद्यधिकारप्राप्तौ सङ्घटितः आग्रहः अस्ति । अतः तेषामपि तत्तद्देशे शिक्षायां समावेशार्थं विचारः योजना प्रवृत्तिश्च भवति ।

सामाजिकार्थिकवैविध्यम्
(Socioeconomic Diversity)

प्रपञ्चे सर्वत्र समाजः उच्चनीचादिभेदयुक्तः भवति ।  एवमेव आर्थिकदृष्ट्या धनिकदरिद्रादिभेदः अपि भवति । साम्यवादिषु देशेष्वपि अयं भेदः भवत्येव । एतस्य सुमहान् परिणामः शिक्षाक्षेत्रे  भवति । भारते अपि कस्मिंश्चित् काले वर्णव्यवस्था आसीत् । सा च व्यवस्था जन्माधारेण नासीत् । प्रत्युत कर्माधारेण आसीत् । किन्तु साम्प्रतं या जातिव्यवस्था अस्ति सा जन्माधारेण अस्ति । वैचित्र्यं नाम ये अनया व्यवस्थया शोषिताः इत्युच्यन्ते ते स्वजातिं परित्यक्तुं नेच्छन्ति । यान्शोषकाः इमेइति  मन्यन्ते तेषां निन्दाम् अवश्यं न त्यजन्ति । सर्वकाराः अपि जातिव्यवस्थायाः निन्दां कुर्वन्तः जात्त्युल्लेखम् अवश्यं कारयित्वा  जात्यनुगुणं शासनव्यवस्थां कल्पयन्ति । राजनैतिकदलानि जातिव्यवस्थायाः पोषणं कुर्वन्ति(शत्रन्तं रूपम्) निर्वाचने विजयं प्राप्तुं योजनाः निर्मान्ति । जातिव्यवस्थायाः सम्पोषणं कृत्वा अधिकारम् अवाप्य जातिव्यवस्थां निर्मूलयितुं कुतो वा राजनैतिकदलानि प्रयतेरन् ?  यदि जातिव्यवस्था निन्दनीया तर्हि कुतो वा निर्मूलयितुं विधिः तदनुष्ठानं च न स्यात् ? भवतु नाम राज्याङ्गव्यवस्थायां ईदृशी विडम्बना । अथापि शिक्षिताः तु जनानां मध्ये जागर्याम् उत्पाद्य  जातिकारणतः वैषम्यं वा, तारतम्यं वा यथा न स्यात् तथा कुर्युः । भारते अस्मन्वाङ्मये समदृष्टिः श्रेयसी इत्यभिप्रायेण भूरिशः प्रमाणानि समुपलभ्यन्ते । -   

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ इत्यादीनि ।

किञ्चन सुभाषितम् इत्थमस्ति यत्र इदम् अभिप्रेतम् अस्ति यत् तारतम्यं निर्जीवैरपि पदार्थैः न क्रियते सूक्ष्मसंवेदिभिः शिक्षितैः मनुष्यैः कथं वा क्रियते ? इति -

अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।

अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥

एवमेव स्वस्थः समाजः भगवदायतनं कथं भवति इति सुभाषितमिदं ब्रूते -

सद्वृत्तयः प्रकाशन्ते क्षीयन्ते दुष्टवृत्तयः ।

सुसंहिते  समाजे हि रमन्ते खलु देवताः ॥

एकस्मिन् समाजे उच्चनीचभावः भवति चेदपि क्षुद्राणां समाजोपकारिता कथं भवति इति दृष्टान्तबलेन सुभाषितमिदं प्रतिपादयति - 

संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि ।

तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ इति ।

सांस्कृतिकवैविध्यम् (Cultural Diversity)

संस्कृतिः अस्माकम् आचारविचाराणाम् औत्तम्यस्य परिचायिका अस्ति । औत्तम्यम् आदर्शपूर्णमस्ति चेत् अनुकरणीयं भवति ।  मातृदेवो भव ...”  इति अस्माकं संस्कृतिरस्ति । माता स्वापत्यानां हिताय स्वहितं अविगणय्य परिश्राम्यति । मातुः त्यागबुद्धेः कारणादेव सा अस्माभिः पूज्या । अत एव संन्यासिनः सन्तोऽपि मात्रा नमस्कार्याः  न भवन्तु प्रत्युत माता एव संन्यासिभिरपि नमस्कार्या भवति ।  एतदनुसारम् अस्मत्पूर्वजाः अस्माकं पुरस्तात् उत्तमान् अन्यांश्च आदर्शव्यवहारान् इत्थं प्रादर्शयन् -

नाहं जानामि केयूरे नाहं जानामि कुण्डले ।

नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥

लक्ष्मणः सीतान्वेषणावसरे वानरैः आनीतानि आभरणानि पश्यन् रामेण प्रश्ने पृष्टे सति इत्थं पूर्वोक्तरीत्या वदति । एषा दृष्टिः आदर्शपूर्णा अस्ति । संस्कृत्यन्तरे  गृहे विद्यमानैः बहुभिः पितृपुत्रादिभिः एका महिला उपभुज्यते । क्वचित् स्त्री कॆवलं भोगाय एव भवति । क्वचिच्च स्त्रीणां द्वितीयश्रेण्याः नागीकता/पौरत्वम् भवति । किन्तु भारते स्त्री मातृवत् पूज्यभावनया द्रष्टव्या इति बोध्यते, “मातृवत्परदारेषु” इत्यादिवचनैः ज्ञायते 

अस्मत्संस्कृतौ

“लोकाः समस्ताः सुखिनो भवन्तु ।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् ।

आ नो भद्राः क्रतवो यन्तु विश्वतः ।

अपुत्राः पुत्रिणः सन्तु   ....    ....”

इत्येतादृशाः उदात्तव्यवहाराः भवन्ति ।  तथापि एते व्यवहाराः शिक्षया साधनीयाः इत्येतत् न विस्मर्तव्यम् ।

संज्ञानात्मकवैविध्यम् (Cognitive Diversity)

छात्रेषु बौद्धिकक्षमताः न समानाः । समानवयसां छात्राणाम् मानसिकक्षमताः समानाः न भवन्ति । मन्दमतयः, प्रतिभाशालिनः, मानसिकशारीरिकादिक्लेषैः पीडिताः असमबुद्धयः च भवन्ति । केषुचित् पाठ्यक्रमेषु प्रवेशपरीक्षादिमाध्यमेन निश्चितस्तरस्य छात्राणां सङ्ग्रहाय यत्नो विधीयते । किन्तु तत्रापि छात्राणां सुमहान् भेदः भवत्येव । सञ्चालितायां परीक्षायां द्वाभ्यां छात्राभ्यां समानाः अङ्काः प्राप्यन्ते चेदपि द्वयोरपि समानं संज्ञानात्मकं सामर्थ्यं इति वक्तुं न शक्यते । तयोः विषयग्रहणसामर्थ्यादिकं  समानं न भवति । किन्तु गुरुः तयोः मध्ये तारतम्यं नाचरेत् । पुराकाले तथैव गुरवः भवन्ति स्म । उत्तररामचरिते भवभूतिः इत्थं गुरोः निष्पक्षपाताध्यापनविषये कथयति -

वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे

न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा ।

भवति हि पुनर्भूयान् भेदः फलं प्रति तद्यथा

प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः इति ।

 

प्रादेशिकवैविध्यम् (Geographic Diversity)

आसेतु हिमाचलम् भौगोलिकस्वरूपदृष्ट्या भारतम्  वैविध्यपूर्णम् अस्ति । यथा

अतिशीतवातावरणयुक्तात् हिमालयात् अत्यौष्ण्ययुक्तम् कलिङ्गं यावत्

अत्यन्तं समतलप्रदेशात् तुङ्गशिखरं यावत्

वृक्षविहीनमरुभूमितः घनारण्ययुक्तसह्यपर्वतं यावत्

देवमातृकाभ्यः नदीमातृकाः यावत् । इत्थं भौगोलिकं वैविध्यं यदस्ति तदनुगुणं शिक्षाव्यवस्था अपि भिद्यते ।

छात्रप्रकारः अपि तदनुगुणं (भौगोलिकस्थित्यनुगुणं) शारीरिकमानसिकक्षमतया, संस्कृत्या, आचारविचारैः   भिद्यते ।

भाषागतं वैविध्यम्

भाषा - भावविनिमयाय, वैचारिकसंवादाय, तात्विकप्रबोधाय, साहित्यिकसर्जनाय, कलात्मक-आस्वादनाय उपयुज्यते ।

भाषायाः विविधतायाम् सत्याम्-

साहित्यिकसमृद्धिः,सांस्कृतिकम् आदानप्रदानम्, सहिष्णुताविकासः, स्वस्थप्रतिस्पर्धा च भवति ।

छात्राः विविधभाषाभाषिणः तरतमभेदविहीनरीत्या अध्ययनाय अवसरं लभेरन् । भाषागतं वैविध्यम् समृद्धये न तु सङ्घर्षाय इति मानसिकतानिर्माणं समावेशस्य लक्ष्यं स्यात् ।

शारीरिकक्षमतायां वैविध्यम् (Diversity in Physical Capacity)

प्रज्ञाचक्षवः, दिव्यश्रोत्राः(मूकाः)

पॊलियोसदृशरोगैः पीडिताः (चलनासमर्थाः)

क्षतावयवाः (दिव्याङ्गाः)

दग्धशरीरिणः (दिव्याङ्गाः)

कार्श्य-स्थौल्य-वामनत्वादि-शरीरलक्षणाः च बालाः समाजे विद्यमानाः विद्यालयेषु अध्ययनाय अवसरं (समावेशात्मकरीत्या) लभेरन् ।

मानसिकक्षमतायां वैविध्यम्  (Diversity in Mental ability)

छात्राणां समेषां मानसिकक्षमताः समानाः  न भवन्ति । मनोविज्ञाने मानसिकक्षमतया बौद्धिकयोग्यताः गृह्यन्ते ।बौद्धिकक्षमताः बुद्धिलब्धेः माध्यमेन तोलयितुं शक्याः ।  बुद्धिलब्धेः (IQ) आधारेण वैविध्यम् एवम् भवति

सामान्या अक्षमता -                 IQ  50 - 70

मध्यमा अक्षमता -                  IQ  35 - 49

गभीरा अक्षमता -                   IQ  20 - 34

अतिगभीरा अक्षमता -              IQ  20 तः अधः

इत्थं बुद्धिलब्धिम् उपयुज्य छात्रेषु विद्यमानानां बौद्धिकवैविध्यानाम् आधारेण समावेशः केषाम् ? कथम् ? किं निमित्तं करणीयः ? इत्यादिकं चिन्त्यते ।

मतीयवैविध्यम् (Diversity in Religion)

अस्मद्देशे तत्तन्मतावलम्बिनां मतीयाचरणस्य कोऽपि निर्बन्धः नास्ति । अतः अत्र विभिन्नानि मतानि स्वातन्त्र्येण विकसन्ति ।  परस्परं विरुद्धाचरणेषु सत्सु समन्वयसाधनाय समावेशात्मकशिक्षायाम् उपायाः आविष्करणीयाः 

बौद्धाः(सौगताः)

जैनाः(दिगम्बरश्वेताम्बराः)

महम्मदीयाः सुन्नीत्यभिधाः

अहम्मदीयाः शियेत्यभिधाः

केथोलिकमतीयाः

प्रोटेष्टेण्टमतीयाः

सनातनधर्मीयाः इत्येवं रूपेण प्रपञ्चे मताधारेण विश्वासस्य वैविध्यम् अस्ति ।


समावेशात्मिका शिक्षा Inclusive Education

समावेशः केषाम् ?

विविधता कीदृशी ?

समावेशः किमर्थम् ? विशिष्टशिक्षा किमर्थं न स्यात् ?

समावेशः कथम् ?

समावेशात्परं किम् ?  

इत्येतैः प्रश्नैः समावेशात्मकशिक्षायाः स्वरूपावगमात् तेषाः प्रश्नानां समाधानप्रदानेन तत्साधयितुं यत्नः क्रियते । 

 

 समावेशः केषाम् ?

तारतम्येन पीड्यमानानां नानाप्रकारकाणां छात्राणां समावेशः । Inclusion is the practice of including and accommodating people who often face discrimination and exclusion due to race, gender, ability, or identity.

समावेशः किमर्थम् ? विशिष्टशिक्षा किमर्थं न स्यात् ?

विशिष्टछात्रस्य सहजविकासाय, अन्यच्छात्राणाम् अवलोकनपुरस्सरं विशिष्टस्य बालस्य अधिगमाय, अन्यच्छात्राणाम् आत्मविश्वासवर्धनाय, विविधतायाः विषये आदरभावोत्पादनाय च ।

समावेशः कथम् ?

विशिष्टच्छात्रस्य स्वीकारेण, अवगमनेन, वैयक्तिकभिन्नतायाः परिग्रहेण, वैविध्यस्य अङ्गीकारेण च समावेशः करणीयः ।

समावेशात्परं किम् ?

भौतिकसौविध्यस्य प्रकल्पनम्

प्रशिक्षिताध्यापकानां नियोजनम्/नियुक्तानां प्रशिक्षणम्

समुचितशिक्षणविधीनां उपयोगः

समुचितशिक्षणोपकरणानाम् उपयोगः

समुचितमूल्याङ्कनप्रणाली(The Rights of Persons with Disabilities Act 2016 इत्यनुसारम्)

अधिगन्तृकेन्द्रित-प्रशिक्षणपद्धतयः
LEARNER-CENTERED PEDAGOGICAL PRACTICES

प्रशिक्षणम्- अध्यापककेन्द्रितम् ,  छात्रकेन्द्रितम्  च भवति । समावेशात्मकशिक्षायां छात्रकेन्द्रितपद्धतयः भवेयुः ।

          संवादाः, सामूहिककार्यम्, प्रबोधनवर्गाः, प्रायोगिकाभ्यासाः, परियोजनाकार्यम्, सहाध्ययनम्, बह्विन्द्रियशिक्षा, क्षेत्रानुभवश्च.

उपसंहारः (पाथेयम् )

छात्रवैविध्यम् - वैविध्यम् प्रकृतिधर्मः अस्ति । वैविध्ये सौख्यम् आनन्दः च। छात्रवैविध्यं तद्विकासे बाधकं न स्यात् ।

समावेशात्मिकी शिक्षा -समावेशः मानवस्य उत्तरदायित्वम् अस्ति येन लोकहितं भवति । प्रत्येकं छात्रस्य सहजविकासेन सह विविधतायाम् एकताइति समावेशस्य लक्ष्यं स्यात् ।

अत एव उच्यते “जिजीविषन्ति समं सहाध्यायिनः” इति । इत्युक्ते ये वैविध्यपूर्णच्छात्रसमवाये स्थित्वा अधीयते ते अध्ययनात्परम् अपि सहिष्णवः सन्तः सर्वैः सह सौहार्दपूर्णजीवनं यापयितुं शक्नुवन्ति इति ।

इति शम्

सन्दर्भाः

https://cod.pressbooks.pub/introtoeducation/chapter/9-1-student-diversity/

https://resilienteducator.com/classroom-resources/inclusive-education/

https://www.unicef.org/education/inclusive-education

https://www.education.gov.in/shikshakparv/docs/Inclusive_Education.pdf

“The Essence of Inclusive Education”, BR Ramachandraiah

“Education of Children with Special Needs” NCERT

 

No comments:

Post a Comment