भारतस्य विकासे संस्कृतस्य योगदानम्
विकसितस्य देशस्य लक्षणं किम् ? आर्थिकी प्रगतिरेव विकासो वा ? आर्थिकी प्रगतिरपि कियत्या मात्रया स्यात् येन
प्रगतिरभवदिति परिगण्यते ? देशस्य कोषः समृद्धः चेत् विकसितः देशः
इति तात्पर्यं किम् ? काश्चन प्रजाः निरुद्योगिन्यः
सन्ति चेत् देशः विकसितः नास्ति इति वक्तुं शक्यते
किम् ? प्रगतेः विकासस्य वा मानदण्डः कः ? इत्यादयः नैके प्रश्नाः
सन्दर्भेऽस्मिन् उत्पद्यन्ते ।
संस्कृते काचित् उक्तिरस्ति –
“मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः” इति । कश्चन जनः यथा धनाभावेऽपि सन्तोषेण
शान्त्या च जीवति तथैव देशोऽपि शान्त्या सन्तुष्टप्रजाभिः चलति चेत् तदपेक्षया कीदृशी
समृद्धिरपेक्षिता स्यात् ? यतो हि “सन्तोष एव पुरुषस्य परं निधानम्” किल ।
अस्य नेदमस्ति तात्पर्यं यत् भौतिकी
समृद्धिः नापेक्षिता/उपेक्षणीया इति, सर्वेऽपि विरागिणः सन्तः शमदमादिना सर्वे
तुष्यन्तु चेति । भौतिकी समृद्धिः अवश्यं साधनीया एव । किन्तु तेन सहैव मनुष्यः
सर्वैः आयामैः सन्तृप्तिं यथा भजेत तथा उपायाः अपि चिन्तनीयाः ।
जिहाद-क्रुसेड-माओइजम्-सदृशाः
हिंसाप्रवृत्तयः भौतिकसमृद्धिरस्ति चेदपि मनुष्यस्य सन्तोषमपकर्षन्ति । समाजे
उच्चनीचादिभेदाः कदाचित् सामाजिकीम् अशान्तिम् उत्पादयन्ति । वामचिन्तनस्य
उत्पत्तौ इदमपि एकं बीजमस्ति । मतीयविभ्रान्तिः मतीयोन्मादः च समाजे अशान्तिं
जनयतः । अतः भौतिकसमृद्ध्या सह एतादृशानाम् अशान्तिजनकानां तत्वानाम् अपि
निर्मूलनाय संस्कृते किमौषधमस्ति इति अत्र चिन्तनीयमस्ति ।
भौतिकसमृद्धिः मेधया
नियमितपरिश्रमेण च भवति । एतदर्थं संस्कृतवाङ्मये विफुलाः उपायाः प्रेरकतत्त्वानि
च प्रादर्शिषत । यथा –
कृतं मे दक्षिणे हस्ते जयो
मे सव्य आहितः ॥ (अथर्ववेदः ७-५२-८)
न हि सुप्तस्य सिंहस्य
प्रविशन्ति मुखे मृगाः ॥ हितोपदेशः ।
तन्त्रज्ञानस्य अभावे अपि
विजयनगरसाम्राज्यस्य काले, विक्रमादित्यस्य काले, ललितादित्यस्य काले,
राजराजचोळस्य काले, इतिहासस्य अन्यान्यसमये समृद्धिरासीत् । “शस्त्रेण रक्षिते राष्ट्रे शास्त्रचिन्ता
प्रवर्तते” इत्युक्त्यनुगुणं भारते
शस्त्राभ्यासेन सह शास्त्राध्यनमपि विधाय देशस्य समृद्धिं शान्तिं च सम्पादयितुम्
अपेक्षिता शिक्षाव्यवस्था भारते आसीत् । तदर्थं चतुष्षष्ठिकलाः अध्येयविषयाः आसन्
। परापरविद्ययोः समानरूपेण प्राप्तेः व्यवस्था आसीत् । येन अभ्युदयनिश्रेयसयोः सम्प्राप्तिः सरला
स्यात् , भौतिकसमृद्ध्या सह पारमार्थिकं सुखमवाप्तुं परमपुरुषार्थस्य द्बारं
समेषाम् उद्घाटितमासीत्, न केवलं पुरुषाणाम्, न वा केवलं निर्दिष्टानाम्
मतावलम्बिनाम् । विद्याप्राप्त्यधिकारः भारते कस्यचित् जातिविशेषस्य इति नासीत्,
सर्वजातीयाः जनाः अत्र (आङ्ग्लेयानाम् भारते आगमनपर्यन्तम् अपि) तरतमभावेन विना एव
अधीतये स्म चेति थामस्-मुन्रो-प्रभृतीनां
सर्वेक्षणस्य प्रतिवेदनेन स्पष्टम् अस्ति ।
भारतं पूर्वं निरन्तरम् आक्रामकानां लुण्ठनस्य लक्ष्यं भारतमासीत् इत्यस्य
कारणं भारते महती समृद्धिः साधिता आसीत्
इति । किन्तु तादृशी समृद्धिः स्वमेधया
परिश्रमेण च विना न कदापि साधिता आसीत् । एषा मेधा एव अस्माकं संस्कृतवाङ्मयमस्ति
। परिश्रमार्थं प्रेरणापि तदेवास्ति
। अत एव अत्र भूगोलात् खगोलपर्यन्तं,
वैद्यकात् ब्रह्मविद्यापर्यन्तम्, वाजीकरणतन्त्रात् यन्त्रमाधवपर्यन्तम्,
अणिमाद्यष्टसिद्धितः परब्रह्मप्राप्तिपर्यन्तं विद्यास्थानानि देशस्य सर्वेषु
आयामेषु समृद्धिं साधयितुमेव आसन् । अतः भारतीयानि सर्वाण्यपि विद्यास्थानानि
समरसतापूर्णरीत्या देशस्य विकासं साधयितुं सम्प्रत्यपि योग्यानि सन्ति इत्यत्र
नास्ति संशीतिः ।
प्रो.हरिप्रसादः के.
शिक्षाविभागः, राजीवगान्धीपरिसरः
No comments:
Post a Comment