"संस्कृताय सङ्ग्रामः" (The Battle for Sanskrit) राजीवमल्होत्रावर्यस्य राष्ट्रभक्तिः
संस्कृतस्य अध्ययनं विधाय संस्कृतेन अन्नं भुञ्जानोऽहं अद्यावधि वैश्विकस्तरे संस्कृतविषये संस्कृतविरोधिनां वञ्चनाजालं कीदृशं कार्यं कुर्वद् अस्ति इति ईषदपि न अज्ञासिषम् । गते जनवरिमासे अक्षरे राजीवमल्होत्रावर्यस्य "Snakes in the Ganga" इत्याख्यं विशालकायं पुस्तकं मह्यं निस्शुल्कं प्रायच्छन् । तत् पुस्तकं आङ्लभाषायां अस्ति चेदपि महत्वपूर्णं विषयमादाय गभीरचिन्तनं कर्तुं अस्मान् प्रवर्तयति इत्यतः अहं पठितुम् आरब्धवान् ।
तस्य पुस्तकस्य उपोद्घातः एव ५१ पृष्ठपरिमितः अस्ति । सप्तत्युत्तरैकशतं (१७०) पृष्ठानि ग्रन्थाधारं प्रदर्शनाय उपयुक्तानि । अनेनैव अस्माभिः ऊहितुं शक्यते यत् लेखकः विषयस्य प्रामाण्यविषये कथं बद्धादरः अस्ति इति । वस्तुतः अहं अस्य ग्रन्थस्य केवलं उपोद्घातं, ५७ पृष्ठात्मकं प्रथमाध्यायं च पठितवानस्मि । अस्मिन् ग्रन्थे २२ अध्यायाः सन्ति । भारतं यः प्रीणाति सः सर्वोऽपि जनः एनं ग्रन्थम् अवश्यं पठेत् । यतो हि देशस्य उपरि प्रीतिः नाम देशस्य विषये उत्तरदायित्वस्य भावना/निर्वहणम् इत्येव अर्थः। देशस्य विषये उत्तरदायित्वम् इत्युक्ते, देशस्य विकासेन सह देशस्य उपरि सम्भाव्यमानां विपदां अभिज्ञानम्, तदपनोदनाय प्रामाणिकः प्रयासश्च । अतः एतद्दिशि भारतस्य विनाशाय कार्यं कुर्वतां विषये सर्वोऽपि भारतीयः जानीयात् इति आदौ जागरणात्मकः प्रयासः भवेत् । अपि च आत्मरक्षां(भारतरक्षां) कृत्वा तदीयकापट्यस्य भञ्जनाय व्यूहात्मकः प्रयासः च भवेत् इति मे भासते । अत एव सर्वोऽपि भारतीयः एनं ग्रन्थं पठित्वा राष्ट्ररक्षायै प्रवर्तेत ।
एतद्दिशि अध्ययने प्रवृत्तस्य मम अस्मिन् समये तदीयस्य ग्रन्थान्तरस्य पठनाय च इच्छा समुत्पन्ना । तदनु राजीवमल्होत्रावर्यस्य ग्रन्थान्तरम् अमेजान्-माध्यमेन आनायितवान् यस्य नाम "The Battle for Sanskrit" इति ।
"The Battle for Sanskrit" इति ग्रन्थस्य अनुवादकार्यं कर्तुं मित्रमणिः मदनकुमारझावर्यः अस्मद्विश्वविद्यालयात् परियोजनामेकां (प्रायः अष्टादश्याम्) स्वीकृतवान् अस्ति इति स एव केभ्यश्चित् मासेभ्यः पूर्वं श्रावितवान् आसीत् । अहमपि तस्य ग्रन्थगौरवं लेखकस्य प्रतिष्ठां च ज्ञापयित्वा तं प्रोत्साहितवान् आसम् । किन्तु स्वयं ग्रन्थमिमं पठितुं अवसरं न प्राप्तवान् आसम् । किन्तु सम्प्रति भगवत्याः शारदाम्बायाः जगद्गूरूणाञ्च असीमानुकम्पया पुस्तकमिदं मम हस्तगतमस्ति -
पुस्तकस्य अस्य उपोद्घातं उपसंहारञ्च पठितवानस्मि ।
उपोद्घाते एव एकं मर्माघातकरं विषयं प्रास्तौत् लेखकः मल्होत्रावर्यः यस्य च विषयस्य केन्द्रस्थानं शृङ्गेरी एव अस्ति इत्येतत् इतोऽपि औत्सुक्यं तत्र अजनयत्। अमेरिकादेशस्य कोलम्बियाविश्वविद्यालये आदिशङ्कराध्ययनपीठस्य स्थापनं कर्तव्यमिति केचन अमेरिकादेशीयाः श्रीमठस्य भक्ताः विचिन्त्य तदर्थं अपेक्षितमात्रया धनसङ्रहणं च कृतवन्तः । धनसङ्ग्रहणाय काचित् वित्तसमितिः निर्मिता । एवमेव अध्ययनपीठे कार्यकरणाय अपरा शैक्षिकसमितिः रचिता यस्याः प्रमुखः मान्यः शेल्डन् पोलाकवर्यः। वास्तविकी समस्या अत्रैव वर्तते ।
का समस्या ?
शेल्डन पोलाकवर्यस्य एतदवधिकः सर्वविधः प्रयासः संस्कृतस्य गभीराध्ययनं कृत्वापि संस्कृतानुकूलः नास्ति । संस्कृताश्रितसंस्कृत्यनुकूलः नास्ति । प्रत्युत संस्कृतस्य, संस्कृतेः, सनातनधर्मस्य, भारतस्य, तन्मूलकत्वेन समग्रस्य जगतः अहितकारकः अस्ति इति तदीयशोधानां, तदीयग्रन्थानां, तदीयकर्मणां च आधारेण लेखकः अस्मिन् ग्रन्थे प्रतिपादयति । ईदृशः संस्कृतविरोधी संस्कृतिविरोधी, सनातनधर्मविरोधी, भारतविरोधी जनः कथं वा अध्ययनपीठस्य प्रमुखत्वेन भारतीयानां धनं खादन् तदीयानां नियोजनं कृत्वा शङ्कराचार्याणां सन्देशं प्रसारयेत् ? शाङ्करसिद्धान्तेन अपरिचितः, भारतीयसंस्कृतिविषये अनादरभाववान् सन् कथं वा तस्य पदस्य न्याय्यं कर्तुं प्रभवेत् ? भारतीयानां धनं भुञ्जानः भारतीयतां विरुध्य, सनातनधर्मं विरुध्य, शाङ्करसन्देशं विरुध्य कार्यं कर्तुं तदीयजनान् एव नियोज्य प्रवर्तते चेत् कीदृशी हानिः भविष्यति ? इति ऊहितुमपि न शक्यते । नारायणमूर्तिसदृशानां भारतीयानां उद्यमपतीनां Corporate Fund उपयुज्य तेन पोलाकवर्येण इतः पूर्वमपि सनातनधर्मस्य हितकारकं, संस्कृतवाङ्मयस्य सम्पोषकं कार्यं न कृतमस्ति ।
भारतीयानाम् अज्ञानताकारणात् भारते एव सः बहुविधान् पुरस्काराम् उपाधीन् च प्राप्तवान् अस्ति । पद्मश्री पुरस्कारमपि भारतसर्वकारात् सः २०१० तमे एव संवत्सरे प्राप्तवान् अस्ति ।
ईदृशीम् उपलब्धिं प्रदर्श्य सः इतोऽपि पुनः भारतीयानां मानसे भ्रमं जनयित्वा लाभं अवाप्य अहितं जनयिष्यति इति आतङ्केन लेखकः तन्निवारयितुं यद्यत् कर्तुं शक्यते तद्विषये प्रवृत्तो भूत्वा अमेरिकायां विद्यमानान् मठीयप्रशासकान् , धनदातॄन् श्रीमठीयभक्तनेतॄन् बोधयितुं प्रायतिष्ट । अपि च शेल्डन पोलाकवर्येण सह भाषित्वा जगद्गूरून् उपसृत्य याथार्थ्यं विनिवेद्य पुस्तकमिदं लेखितुं उद्यतोऽभूत् ।