Friday, April 7, 2023

"संस्कृताय सङ्ग्रामः" (Battle for Sanskrit) राजीवमल्होत्रावर्यस्य राष्ट्रभक्तिः

 "संस्कृताय सङ्ग्रामः" (The Battle for Sanskrit) राजीवमल्होत्रावर्यस्य राष्ट्रभक्तिः


    संस्कृतस्य अध्ययनं विधाय संस्कृतेन अन्नं भुञ्जानोऽहं अद्यावधि वैश्विकस्तरे संस्कृतविषये संस्कृतविरोधिनां वञ्चनाजालं कीदृशं कार्यं कुर्वद् अस्ति इति ईषदपि न अज्ञासिषम् । गते जनवरिमासे  अक्षरे राजीवमल्होत्रावर्यस्य "Snakes in the Ganga" इत्याख्यं विशालकायं पुस्तकं मह्यं  निस्शुल्कं प्रायच्छन् । तत् पुस्तकं आङ्लभाषायां अस्ति चेदपि महत्वपूर्णं विषयमादाय गभीरचिन्तनं कर्तुं अस्मान् प्रवर्तयति इत्यतः अहं  पठितुम् आरब्धवान् । 

    तस्य पुस्तकस्य उपोद्घातः एव ५१ पृष्ठपरिमितः अस्ति । सप्तत्युत्तरैकशतं (१७०) पृष्ठानि ग्रन्थाधारं प्रदर्शनाय उपयुक्तानि । अनेनैव अस्माभिः ऊहितुं शक्यते यत् लेखकः विषयस्य प्रामाण्यविषये कथं बद्धादरः अस्ति इति ।  वस्तुतः अहं अस्य ग्रन्थस्य केवलं उपोद्घातं, ५७ पृष्ठात्मकं प्रथमाध्यायं च पठितवानस्मि । अस्मिन् ग्रन्थे २२ अध्यायाः सन्ति । भारतं यः प्रीणाति सः सर्वोऽपि जनः एनं ग्रन्थम् अवश्यं पठेत् । यतो हि देशस्य उपरि प्रीतिः नाम देशस्य विषये उत्तरदायित्वस्य भावना/निर्वहणम् इत्येव अर्थः। देशस्य विषये उत्तरदायित्वम् इत्युक्ते, देशस्य विकासेन सह देशस्य उपरि सम्भाव्यमानां विपदां अभिज्ञानम्,  तदपनोदनाय प्रामाणिकः प्रयासश्च । अतः एतद्दिशि भारतस्य विनाशाय कार्यं कुर्वतां विषये सर्वोऽपि भारतीयः जानीयात् इति आदौ जागरणात्मकः प्रयासः भवेत् । अपि च आत्मरक्षां(भारतरक्षां) कृत्वा तदीयकापट्यस्य भञ्जनाय व्यूहात्मकः प्रयासः च भवेत् इति मे भासते ।  अत एव सर्वोऽपि भारतीयः एनं ग्रन्थं पठित्वा राष्ट्ररक्षायै प्रवर्तेत ।

एतद्दिशि अध्ययने प्रवृत्तस्य मम अस्मिन् समये तदीयस्य ग्रन्थान्तरस्य पठनाय च इच्छा समुत्पन्ना । तदनु राजीवमल्होत्रावर्यस्य ग्रन्थान्तरम् अमेजान्-माध्यमेन आनायितवान् यस्य नाम "The Battle for Sanskrit" इति । 

    "The Battle for Sanskrit" इति ग्रन्थस्य अनुवादकार्यं कर्तुं मित्रमणिः मदनकुमारझावर्यः  अस्मद्विश्वविद्यालयात् परियोजनामेकां (प्रायः अष्टादश्याम्) स्वीकृतवान् अस्ति इति स एव केभ्यश्चित् मासेभ्यः पूर्वं श्रावितवान् आसीत् । अहमपि तस्य ग्रन्थगौरवं लेखकस्य प्रतिष्ठां च ज्ञापयित्वा तं प्रोत्साहितवान् आसम् । किन्तु स्वयं ग्रन्थमिमं पठितुं अवसरं न प्राप्तवान् आसम् । किन्तु सम्प्रति भगवत्याः शारदाम्बायाः जगद्गूरूणाञ्च असीमानुकम्पया पुस्तकमिदं मम हस्तगतमस्ति - 


पुस्तकस्य अस्य उपोद्घातं उपसंहारञ्च पठितवानस्मि ।  

    उपोद्घाते एव एकं मर्माघातकरं विषयं प्रास्तौत् लेखकः मल्होत्रावर्यः  यस्य च विषयस्य केन्द्रस्थानं शृङ्गेरी एव अस्ति इत्येतत् इतोऽपि औत्सुक्यं तत्र अजनयत्।   अमेरिकादेशस्य कोलम्बियाविश्वविद्यालये आदिशङ्कराध्ययनपीठस्य स्थापनं  कर्तव्यमिति केचन अमेरिकादेशीयाः श्रीमठस्य भक्ताः विचिन्त्य तदर्थं अपेक्षितमात्रया धनसङ्रहणं च कृतवन्तः ।  धनसङ्ग्रहणाय काचित् वित्तसमितिः निर्मिता । एवमेव अध्ययनपीठे कार्यकरणाय अपरा शैक्षिकसमितिः रचिता यस्याः प्रमुखः मान्यः शेल्डन् पोलाकवर्यः।  वास्तविकी समस्या अत्रैव वर्तते । 

का समस्या ? 

शेल्डन पोलाकवर्यस्य एतदवधिकः सर्वविधः प्रयासः संस्कृतस्य गभीराध्ययनं कृत्वापि संस्कृतानुकूलः नास्ति । संस्कृताश्रितसंस्कृत्यनुकूलः नास्ति ।  प्रत्युत संस्कृतस्य, संस्कृतेः, सनातनधर्मस्य,  भारतस्य, तन्मूलकत्वेन समग्रस्य जगतः अहितकारकः अस्ति इति तदीयशोधानां, तदीयग्रन्थानां, तदीयकर्मणां च आधारेण लेखकः अस्मिन् ग्रन्थे प्रतिपादयति । ईदृशः संस्कृतविरोधी संस्कृतिविरोधी, सनातनधर्मविरोधी, भारतविरोधी जनः कथं वा अध्ययनपीठस्य प्रमुखत्वेन भारतीयानां धनं खादन् तदीयानां नियोजनं कृत्वा शङ्कराचार्याणां सन्देशं प्रसारयेत् ? शाङ्करसिद्धान्तेन अपरिचितः, भारतीयसंस्कृतिविषये अनादरभाववान् सन् कथं वा तस्य पदस्य न्याय्यं कर्तुं प्रभवेत् ? भारतीयानां धनं भुञ्जानः भारतीयतां विरुध्य, सनातनधर्मं विरुध्य, शाङ्करसन्देशं विरुध्य कार्यं कर्तुं तदीयजनान् एव नियोज्य प्रवर्तते चेत् कीदृशी हानिः भविष्यति ? इति ऊहितुमपि न शक्यते ।  नारायणमूर्तिसदृशानां भारतीयानां उद्यमपतीनां Corporate Fund  उपयुज्य तेन पोलाकवर्येण इतः पूर्वमपि सनातनधर्मस्य हितकारकं, संस्कृतवाङ्मयस्य सम्पोषकं  कार्यं न कृतमस्ति ।

    भारतीयानाम् अज्ञानताकारणात्  भारते एव सः बहुविधान् पुरस्काराम् उपाधीन् च प्राप्तवान् अस्ति । पद्मश्री पुरस्कारमपि भारतसर्वकारात् सः २०१० तमे एव संवत्सरे प्राप्तवान् अस्ति । 

    ईदृशीम् उपलब्धिं प्रदर्श्य सः इतोऽपि पुनः भारतीयानां मानसे भ्रमं जनयित्वा लाभं अवाप्य अहितं जनयिष्यति इति आतङ्केन लेखकः तन्निवारयितुं यद्यत् कर्तुं शक्यते तद्विषये प्रवृत्तो भूत्वा अमेरिकायां विद्यमानान् मठीयप्रशासकान् , धनदातॄन् श्रीमठीयभक्तनेतॄन् बोधयितुं प्रायतिष्ट । अपि च शेल्डन पोलाकवर्येण सह  भाषित्वा जगद्गूरून् उपसृत्य  याथार्थ्यं विनिवेद्य पुस्तकमिदं लेखितुं उद्यतोऽभूत् ।

No comments:

Post a Comment