Sunday, November 21, 2021

8. सुबेदार जोगिन्दरसिंहः

 

8. सुबेदार  जोगिन्दरसिंहः

          सुबेदार जोगिन्दरसिंहः  १९२१ तमे वर्षे सेप्टम्बरमासस्य २८ तमे दिनाङ्के  पञ्जाबराज्यस्य मोगा इत्यत्र  एकस्मिन् कृषकपरिवारे जन्म प्राप्तवान् ।

१९३६ तमे वर्षे सः भारतीयसैन्यं आङ्लेयानां शासनकाले  सिख्-रेजिमेण्ट् इत्यस्य  1st Batalian सेनाङ्गे प्रविष्टवान् । अध्ययने एतस्य महती रुचिरासीत्  इत्यतः सैन्ये स्थित्वा एव  अध्ययनं कृत्वा परीक्षां च उत्तीर्य Unit Education Instructor रूपेण नियुक्तः अभवत् । द्वितीयविश्वयुद्धावसरे एषः बर्माप्रदेशे युद्धं कृतवान् आसीत् । पश्चात् १९४८ तमे वर्षे काश्मीरस्य श्रीनगरे पाकिस्थानीयैः  शत्रुभिः सह अपि युद्धं कृतवान् आसीत् ।  अनन्तरं १९६२ तमे वर्षे अक्टोबरमासस्य नवमे दिनाङ्के  NEFA विभागस्य बुम्ला पास् इत्याख्यायां पर्वतश्रेण्यां २० सैनिकैः सह चैनादेशस्य सैन्यं प्रतिरोद्धुं  आदिष्टः ।

          बुम्ला-पास्-तः अग्रे  उत्तरदिशि नम्काचुनद्याः तीरे अत्यन्तम् असुरक्षिते स्थले  नेहरूवर्यस्य सैन्यविरोधिनीतेः(फार्वर्ड-पालिसि) नीतेः कारणतः एकं फार्वर्ड् पोष्ट् निर्माय तत्संरक्षणाय भारतीयसैनिकाः मृत्युमुखे प्रवृत्ताः आसन् ।

          ओक्टोबरमासस्य २० तमे दिनाङ्के प्रातः ४.३० वादने चैनाशत्रवः अस्माकं तत्र स्थितानां सैनिकानाम् उपरि आक्रम्य सर्वानपि मारितवन्तः । पश्चात् भारतस्य सीम्नि  अरुणाचलप्रदेशे विद्यमानं  तवाङ्ग इत्याख्यं जिल्लाकेन्द्रं  स्वायत्तीकर्तुं योजनां अकुर्वन् ।  किन्तु तत्र उपसर्तुम् अवरोधकत्वेन  मध्येमार्गं  सुबेदार जोगिन्दरसिंहस्य सैनिकसमूहः आसीत् । अतः चैनादेशीयं सैन्यं त्रिषु पर्यायेषु  जोगिन्दरसिंहस्य सैनिकगणस्य उपरि आक्रमणम् अकरोत् ।  प्रतिपर्यायम् आक्रमणसमये चैनादेशीये सैन्ये  २०० सैनिकाः भवन्ति स्म । एतस्य गणे आरम्भे ओक्टोबरमासे नवमे दिनाङ्के  गताः २० सैनिकाः एव आसन् । (मध्ये मध्ये Reinforcement  न दीयते स्म ।)

          ओक्टोबरमासस्य २३ तमे दिनाङ्के प्रातः ५.३० वादने प्रथमचक्रे चैनादेशस्य २०० सैनिकाः अत्याधुनिकैः  शस्त्रास्त्रैः सुबेदारजोगिन्दरसिंहस्य गणस्य उपरि आक्रमणं कर्तुम् आरभन्त । सुबेदारजोगिन्दरसिंहस्य मार्गदर्शने  सिख्-सैनिकाः  अत्यन्तं शौर्यं प्रदर्श्य  शत्रून् पराजेतुं  समर्था अभवन् । अनन्तरं पुनः द्वितीयचरणे २०० सैनिकाः आक्रमणं कृतवन्तः । तदानीमपि शत्रवः सफलतया परास्ताः । किन्तु एतस्य सुबेदारजोगिन्दरसिंहस्य गणे अर्धः भागः नष्टः आसीत् । स्वयं जोगिन्दरसिंहः व्रणितः आसीत् । तस्य पार्श्वे शस्त्रास्त्राण्यपि नासन् । इतोऽपि शस्त्रसाहाय्यं कर्तुं सैनिककेन्द्रं प्रति सन्देशः प्रेषितः चेदपि किमपि प्रयोजनं न प्राप्तम् । अन्ते तृतीयचरणे  भुषुण्डिकानां अग्रभागः(Bionet) एव एतेषां शस्त्राणि संवृत्तानि ।

          अवशिष्टाः सिख्-सैनिकाः  “वाहे गुरूजी का खाल्सा, वाहे गुरूजी का फतेह” इति युद्धघोषं कुर्वन्तः Bionet द्वारा शत्रून् निग्रहीतुं प्रवृत्ताः । शस्त्रविहीनाः अस्माकं दश सैनिकाः द्विशतं संख्याकैः सशस्त्रैः शत्रुभिः सह  युद्धं कृत्वा Bionet माध्यमेनापि बहून् शत्रून् हन्तुं समर्थाः अभवन् । किन्तु एतत् सर्वं शौर्यं क्षणार्धं यावदेव शक्यमासीत् । यतो हि बलाबले  किञ्चिदपि साम्यं न आसीत् ।  अन्ते अत्यन्तं व्रणितः जोगिन्दरसिंहः शत्रुभिः चैनासैनिकैः बद्धः अभवत् ।  किन्तु व्रणाधिक्यात्  सत्वरं वीरस्वर्गमपि प्राप्नोत् ।  जोगिन्दरसिंहस्य एतत् अप्रतिमं शौर्यं  विज्ञाय भारतसर्वकारः तस्मै मरणोत्तरम् अत्युच्चं सैनिकपुरस्कारं परमवीरचक्रं प्रायच्छत् ।

No comments:

Post a Comment