Monday, March 21, 2022

09. मेजर् सैतानसिंहः

 

09. मेजर् सैतानसिंहः

 

मेजर् सैतानसिंहः १/१२/१९२४ तमे दिनाङ्के राजस्थानस्य जोधपुरमण्डले बाणसर इत्याख्ये ग्रामे  भाटि इत्याख्ये रजपूतपरिवारे जन्म प्राप्तवान् ।  तस्य पिता हेमसिंहः  भारतीये सैन्ये एव लेप्टिनेण्ट् कर्नल् इत्याख्ये पदे आसीत् ।  सः प्रथमविश्वयुद्धावसरे फ्रान्स्-देशे कार्यं कृत्वा “Order of the British Empire” इति पुरस्कारं प्राप्तवान् आसीत् ।

सैतानसिंहः मेट्रिक्युलेशन्-पर्यन्तं जोधपुरे एव अध्ययनं कृतवान् । जस्वन्तकालेज् इत्यत्र  स्नातकोपाधिं  १/८/१९४९ तमे वर्षे प्राप्य  जोधपुर-राजसंस्थानस्य सुरक्षाविभागे अधिकारित्वेन नियुक्तः । पश्चात् जोधपुर-राजसंस्थानस्य भारतसर्वकारेण सह यद विलयो जातः तदा कुमाओ रेजिमेण्ट् इत्याख्ये  सेनाङ्गे  स्थानान्तरितः अभवत् ।  सः क्याप्टन् पदे  पदोन्नतिं प्राप्य १९५३ तमे वर्षे नागापर्वतेषु प्रवृत्तायां सैनिककार्यप्रक्रियायां  भागमग्रहीत् । पश्चात् १९६१ तमे वर्षे गोवाराज्यस्य विमोचनाय अपि कार्यम् अकरोत् ।

अनन्तरं १९६२ तमे वर्षे  नवम्बरमासस्य शीतकाले  लद्दाकप्रान्ते  चुसूल् सेक्टर् इत्यत्र  १६००० पदपरिमेते औन्नत्ये  तुहिनवर्षे जायमाने युद्धार्थम् अपेक्षितेषु प्राथमिकसौविध्येषु अलब्धेषु अपि (पर्वतीययुद्धपरिणत्यभावेऽपि) कुमाओ-रेजिमेण्ट् इत्यस्य 13th Battalion इत्यस्य   C-Company मध्ये  विद्यमानाः १२४ रजपूतसैनिकाः मेजर् सैतानसिंहस्य नेतृत्वे जगत्प्रसिद्धस्य रेसाङ्ग्लायुद्धस्य  श्रेयोविधातारः अभवन् ।

१८/११/१९६२ तमे दिनाङ्के प्रातः पञ्चवादने चैनाशत्रवः प्रवाहवत् आक्रमणं कर्तुम् आरब्धवन्तः । भारतीयाः सैनिकाःLight Machine Gun, Mortar, Rifle, Grenade  च  उपयुज्य अतिसमीपं यावत् शत्रूणाम् आगमनपर्यन्तं प्रतीक्ष्य  सत्वरं प्रहर्तुम् आरब्धवन्तः । प्रातः ५.४० वादने  शत्रवः शतघ्नीः (Artillery) उपयुज्य  अस्मदीयानाम् उपरि आक्रमणं कर्तुम् आरब्धवन्तः । अपि च ३५० संख्याकाः शत्रुसैनिकाः  प्रवाहवत्  अस्मदीयान् उपासर्पन् । शत्रूणाम् इदमपि आक्रमणम् अस्मदीयैः रजपूतसैनिकैः विफलीकृतम् । शत्रवः तस्मिन् पर्याये साफल्यं न प्राप्तवन्तः इत्यतः  पुनः तृतीयचक्रे पृष्टतः ४०० संख्याकाः शत्रवः आगत्य  प्रहर्तुम् उद्युक्ताः ।  यदा अस्मदीयाः केवलं  २० सैनिकाः एव अवशिष्टाः , शस्त्राणि च परिसमाप्तानि तदा सुरक्षागर्तेभ्यः (Trench) बहिरागत्य शत्रुभिः सह  मुष्टामुष्टिमेव कृत्वा बहून् मारितवन्तः ।

मेजर् सैतानसिंहः  निरन्तरं तस्य  सप्तमे अष्टमे नवमे च सैनिकसमूहे(Platoon) गमनागमनं कुर्वन्  सफलयुद्धाय  स्वगणस्य पुनःसङ्घटनं कुर्वन्  सैनिकान् प्रेरयन् आसीत् ।  स्वयमपि Light Machine Gun  उपयुज्य बहून् शत्रून् मारितवान् । स्वस्य सुरक्षाविषये ईषदपि चिन्ताम् अकृत्वा  अन्तिमोच्छ्वासपर्यन्तमपि अदम्यं साहसं प्रदर्शयितुम् एव स्वीयान् सैनिकान् सज्जीकृतवान् ।

अत्यन्तं व्रणितः यदा जातः  तदापि हस्तद्वयं विदीर्णं/विच्छिद्रं जातं चेदपि  एकं सैनिकम् उक्त्वा  भुषुण्डिकायाः पिञ्जं स्वपादाङ्गुल्या सह रज्वा बध्वा आन्तं यावत् युद्धं कृतवान् मेजर् सैतानसिंहः  ।

पश्चात् शीतकालं समाप्य यदा भारतीयसैनिकदलं तत्र अगमत् तदा तस्यामेव  अवस्थायाम् (पादाङ्गुल्या भुषुण्डिकापिञ्जस्य बन्धनस्य अवस्थायाम्) तस्य शवः तुहिनस्य मध्ये उपलब्धः  । देशस्य सुरक्षार्थम् ईदृशरूपेण प्राणान् त्यक्तवताम् सम्माननाय  परमवीरचक्रमपि अपर्याप्तमिति भासते ननु ? सर्वेऽपि भारतीयाः  एतादृशानां परमोच्चं त्यागं बलिदानञ्च  यदा सततं स्मर्तुम् आरभन्ते तदैव वस्तुतः  तस्य बलिदानं सार्थकं भविष्यति ।

 

No comments:

Post a Comment