09. मेजर् सैतानसिंहः
मेजर् सैतानसिंहः
१/१२/१९२४ तमे दिनाङ्के राजस्थानस्य जोधपुरमण्डले बाणसर इत्याख्ये ग्रामे भाटि इत्याख्ये रजपूतपरिवारे जन्म प्राप्तवान्
। तस्य पिता हेमसिंहः भारतीये सैन्ये एव लेप्टिनेण्ट् कर्नल्
इत्याख्ये पदे आसीत् । सः प्रथमविश्वयुद्धावसरे
फ्रान्स्-देशे कार्यं कृत्वा “Order of the British Empire” इति पुरस्कारं प्राप्तवान् आसीत् ।
सैतानसिंहः मेट्रिक्युलेशन्-पर्यन्तं जोधपुरे एव अध्ययनं कृतवान् ।
जस्वन्तकालेज् इत्यत्र स्नातकोपाधिं १/८/१९४९ तमे वर्षे प्राप्य जोधपुर-राजसंस्थानस्य सुरक्षाविभागे
अधिकारित्वेन नियुक्तः । पश्चात् जोधपुर-राजसंस्थानस्य भारतसर्वकारेण सह यद विलयो
जातः तदा कुमाओ रेजिमेण्ट् इत्याख्ये
सेनाङ्गे स्थानान्तरितः अभवत् । सः क्याप्टन् पदे पदोन्नतिं प्राप्य १९५३ तमे वर्षे नागापर्वतेषु
प्रवृत्तायां सैनिककार्यप्रक्रियायां
भागमग्रहीत् । पश्चात् १९६१ तमे वर्षे गोवाराज्यस्य विमोचनाय अपि कार्यम्
अकरोत् ।
अनन्तरं १९६२ तमे वर्षे
नवम्बरमासस्य शीतकाले
लद्दाकप्रान्ते चुसूल् सेक्टर्
इत्यत्र १६००० पदपरिमेते औन्नत्ये तुहिनवर्षे जायमाने युद्धार्थम् अपेक्षितेषु
प्राथमिकसौविध्येषु अलब्धेषु अपि (पर्वतीययुद्धपरिणत्यभावेऽपि) कुमाओ-रेजिमेण्ट्
इत्यस्य 13th Battalion इत्यस्य C-Company मध्ये विद्यमानाः १२४ रजपूतसैनिकाः मेजर् सैतानसिंहस्य
नेतृत्वे जगत्प्रसिद्धस्य रेसाङ्ग्लायुद्धस्य
श्रेयोविधातारः अभवन् ।
१८/११/१९६२ तमे दिनाङ्के प्रातः पञ्चवादने चैनाशत्रवः प्रवाहवत् आक्रमणं
कर्तुम् आरब्धवन्तः । भारतीयाः सैनिकाःLight Machine Gun, Mortar, Rifle, Grenade च उपयुज्य अतिसमीपं यावत्
शत्रूणाम् आगमनपर्यन्तं प्रतीक्ष्य सत्वरं
प्रहर्तुम् आरब्धवन्तः । प्रातः ५.४० वादने
शत्रवः शतघ्नीः (Artillery) उपयुज्य
अस्मदीयानाम् उपरि आक्रमणं कर्तुम् आरब्धवन्तः । अपि च ३५० संख्याकाः शत्रुसैनिकाः प्रवाहवत्
अस्मदीयान् उपासर्पन् । शत्रूणाम् इदमपि आक्रमणम् अस्मदीयैः रजपूतसैनिकैः
विफलीकृतम् । शत्रवः तस्मिन् पर्याये साफल्यं न प्राप्तवन्तः इत्यतः पुनः तृतीयचक्रे पृष्टतः ४०० संख्याकाः शत्रवः
आगत्य प्रहर्तुम् उद्युक्ताः । यदा अस्मदीयाः केवलं २० सैनिकाः एव अवशिष्टाः , शस्त्राणि च
परिसमाप्तानि तदा सुरक्षागर्तेभ्यः (Trench) बहिरागत्य शत्रुभिः
सह मुष्टामुष्टिमेव कृत्वा बहून्
मारितवन्तः ।
मेजर् सैतानसिंहः निरन्तरं
तस्य सप्तमे अष्टमे नवमे च सैनिकसमूहे(Platoon) गमनागमनं कुर्वन् सफलयुद्धाय
स्वगणस्य पुनःसङ्घटनं कुर्वन्
सैनिकान् प्रेरयन् आसीत् । स्वयमपि
Light
Machine Gun उपयुज्य बहून् शत्रून् मारितवान् । स्वस्य सुरक्षाविषये
ईषदपि चिन्ताम् अकृत्वा अन्तिमोच्छ्वासपर्यन्तमपि
अदम्यं साहसं प्रदर्शयितुम् एव स्वीयान् सैनिकान् सज्जीकृतवान् ।
अत्यन्तं व्रणितः यदा जातः तदापि
हस्तद्वयं विदीर्णं/विच्छिद्रं जातं चेदपि
एकं सैनिकम् उक्त्वा भुषुण्डिकायाः
पिञ्जं स्वपादाङ्गुल्या सह रज्वा बध्वा आन्तं यावत् युद्धं कृतवान् मेजर्
सैतानसिंहः ।
पश्चात् शीतकालं समाप्य यदा भारतीयसैनिकदलं तत्र अगमत् तदा तस्यामेव अवस्थायाम् (पादाङ्गुल्या भुषुण्डिकापिञ्जस्य
बन्धनस्य अवस्थायाम्) तस्य शवः तुहिनस्य मध्ये उपलब्धः । देशस्य सुरक्षार्थम् ईदृशरूपेण प्राणान्
त्यक्तवताम् सम्माननाय परमवीरचक्रमपि
अपर्याप्तमिति भासते ननु ? सर्वेऽपि भारतीयाः
एतादृशानां परमोच्चं त्यागं बलिदानञ्च
यदा सततं स्मर्तुम् आरभन्ते तदैव वस्तुतः
तस्य बलिदानं सार्थकं भविष्यति ।
No comments:
Post a Comment