10. हविल्दार
अब्दुल हमीदः
अब्दुल हमीदः
उत्तरप्रदेशस्य गाजीपुरमण्डले धामपुर
इत्याख्ये ग्रामे १९३३ तमे
इसवीयवर्षे जुलैमासस्य प्रथमदिनाङ्के जन्म प्राप्तवान् । तस्य पिता मुहम्मद उस्मान् सौचिकः आसीत् । तस्य
चत्वारो भ्रातरः , द्वे सहोदर्यौ च आस्ताम् ।
अब्दुल हमीदः
१९५४ तमे वर्षे दिसेम्बरमासस्य २७ तमे दिनाङ्के
भारतीयसैन्यस्य Grenediear Regiment इत्याख्ये
सेनाङ्गे नियुक्तः अभवत् । सः १९६२ तमे वर्षे ओक्टोबरमासे
भारतचीनयोः मध्ये प्रवृत्ते युद्धे भागं गॄहीतवान् आसीत् ।
आपरेशम् जिब्राल्टर् इति नाम्ना पाकिस्थानस्य सैन्यशासनेन भारतस्य आधीन्ये विद्यमानस्य काश्मीरस्य म्लेच्छान् भारतशासनात्
मोचयितुं कृतः विफलः प्रयासः एव
१९६५वर्षस्य भारतपाकिस्थानयुद्धमस्ति ।
भारतपाकिस्थानयोः युद्धं न केवलं काश्मीरप्रदेशे प्रवृत्तम्, प्रत्युत
द्वयोरपि देशयोः समग्रसीमायां प्रवृत्तम् । भारतचीनयोः युद्धे भारतस्य पराजयेन
नेहरूमहोदयस्य मरणात्परं साधुस्वभाववतः लालबहादूरशास्त्रिवर्यस्य
प्रधानमन्त्रीपदग्रहणेन च आनन्दितः पाकिस्थानदेशः
भारतं साम्प्रतं दुर्बलमस्ति
इति मन्वानः तदुपरि आक्रमणं कर्तुं
प्रयत्तवान् । काश्मीरस्य सीमायां त्रिंशत्सहस्रं पाकिस्थानीयसैनिकान् काश्मीरस्य ग्रामीणानां वेशभूषैः सीमायाः अन्तः
सम्प्रेष्य आरम्भिकं साफल्यं प्राप्नोत् ।
तदा सज्जनः शास्त्रिमहोदयः राष्ट्रीयसुरक्षासमितेः(National Defence Committee) उपवेशनं सत्वरं कारयित्वा निमेषद्वयाभ्यन्तरे निर्णीय आदिशत् यत् “काश्मीरं स्वायत्तीकर्तुं शत्रुदेशः प्रयतमानः
अस्ति चेत् भवन्तः लाहोर्-नगरं आक्रम्य स्वायत्तीकुर्वन्तु” इति । एतादृशेन
अचिन्तितेन तार्किकमार्गदर्शनपूर्णेन आदेशेन उत्साहितं भारतीयसैन्यं 4th Infantry Division इत्यस्मै सेनाङ्गाय तदुत्तरदायित्वं प्रायच्छत् । किन्तु तदानीं पाकिस्थानस्य पार्श्वे भारतापेक्षया अधिकाः शतघ्न्यः(Tanker) आसन् । भारतस्य पार्श्वे तदानीं केवलं ७२० शतघ्न्यः आसन् । पाकिस्थानस्य पार्श्वे ७५६ शतघ्न्यः आसन्
। ताः अपि नूतनतया निर्मिताः अमेरिकादेशेन प्रदत्ताः अधिकसामर्थ्ययुक्ताः रात्रावपि युद्धं कर्तुं समर्थाः (Fecilitated with Night Vision) अधिकतन्त्रज्ञानयुक्ताः आसन् । तेषां पार्श्वे विद्यमानानि विमानानि अपि
अत्यधिकवेगयुक्तानि अत्याधुनिकानि आसन् ।
एतेषु अधिकाधिकानि अमेरिकादेशेन एव प्रदत्तानि आसन् । भारतस्य समीपे तु
रशियादेशात् क्रीतानि प्राचीनानि
विमानानि, कानिचन स्वदेशीयानि च आसन् ।
किन्तु अस्माकं सैनिकानां मनोबलं समर्पणभावः शौर्यं च अतुल्यम् अप्रतिमं च आसीत् ।
अतः अस्मिन् युद्धे भारतेन विजयः प्राप्तः
। यदि संयुक्तराष्ट्रसङ्घः युद्धविरामार्थं आग्रहं न अकरिष्यत् तर्हि अस्माकं सैनिकाः पाकिस्थानस्य कापट्यं पूर्णं मर्दयित्वा तस्य जम्बूकप्रवृत्तेः
निग्रहम् अकरिष्यन् ।
अब्दुल् हमीदः विरामं स्वीकृत्य स्वगृहं गतवान् आसीत् । सैन्येन तस्मै युद्धार्थं Teligram यदा प्रेषितं तदा सः सत्वरं गृहात्
प्रस्थितः । किन्तु प्रस्थानसमये तस्य स्यूतस्य रज्जुः छिन्ना अभवत् । एतत्
शुभचिह्नं नास्ति इति मत्वा तस्य पत्नी युद्धार्थं साम्प्रतं मा गच्छतु इति आग्रहं कर्तुम्
उद्युक्ता । अब्दुल् हमीदः तत् उपेक्ष्य
सैकल्-यानेन प्रस्थितः । तदा तस्य सैकल्-यानस्य शृङ्खला छिन्ना अभवत् । सः द्विचक्रिकां तत्रैव परित्यज्य वस्तूनां
बन्धं शिरसि आरोप्य पद्भ्यामेव
रेल्-निस्थानं प्रति प्रस्थितवान् । यदा सः रेल्-निस्थानं प्रति आगतः तदा तस्य रेल्-यानं निर्गतम् आसीत् । तदा सर्वेऽपि तस्य सुहृदः उक्तवन्तः
- “एकस्य अनन्तरम् एकमिव अशुभचिह्नानि एव दृश्यन्ते । अतः भवान् युद्धार्थं
मा गच्छतु” इति । किन्तु अब्दुल् हमीदः तन्न श्रुतवान् । तस्य देशभक्तिः असीमा
आसीत् । अतः सः उत्तरवर्ति यानं आरुह्य रणक्षेत्रं प्राप्नोत् ।
सेप्ट्म्बरमासस्य सप्तमे दिनाङ्के 4Grenedier इति सेनाङ्गं मध्यरात्रिकाले
खेमकरण इत्याख्यं स्थलं प्राप्नोत् । कसूर्-खेमकरण-सरण्यामेव वस्तुतः
शतघ्नीनां उपयोगेन घोरयुद्धं
प्रवृत्तमासीत् यत्र हविल्दार् अब्दुल् हमीदः
भागं गृहीतवान् ।
खेमकरणतः गत्वा चीमा इत्याख्ये
ग्रामे रात्रौ सुरक्षागर्तं निर्माय अस्माकं 4Grenedier सैनिकाः शत्रोः आगमनं प्रतीक्षमाणाः आसन् ।
क्वचित् Engineering विभागेन
विस्फोटकानामपि निखननं कृतमासीत् ।
तस्मिन् प्रान्ते व्यापकरूपेण
केदारेषु इक्षोः आरोपणां कृतमासीत् । शत्रुभिः अत्यधिकमात्रया शतघ्नीनाम् उपयोगः क्रियमाणः आसीत् । भारतस्य
पार्श्वे आहत्य पाकिस्थानापेक्षया अधिकाः शतघ्न्यः न आसन् । अपि च तेषु काश्चन चीनासीम्नि बङ्गालस्य च सीम्नि
पूर्वसुरक्षायै नियोजनाय व्यवस्थीकृता आसन् ।
प्रकृते युद्धक्षेत्रे भारतस्य
पार्श्वे अत्यल्पसंख्याकाः एव शतघ्न्यः
उपयुक्ताः, याश्च पुरातन्यः आसन् । शतघ्नीनां न्यूनताकारणात् जीपयाने
संयोजिता RCL भुषुण्डिका उपयुक्ता । यथा शतघ्न्यःभूतले मार्गेण विनापि यत्र
कुत्रापि गन्तुं प्रभवन्ति तथा जीपयानं गन्तुं न शक्नोति । अतः आदावेव शत्रोरागमनमार्गम् ऊहित्वा
कुत्रचित् गुप्तरूपेण तस्य तस्य प्रतिष्ठापनं कर्तव्यं भवति स्म । ततः एव
लक्ष्यभूतंस्य शत्रोः समीपम् आगमनपर्यन्तं
प्रतीक्ष्य पश्चात् क्षणाभ्यन्तरे लक्ष्यं
केन्द्रीकृत्य प्रहारः कर्तव्यः आसीत् ।
शत्रुः अस्माकं जीपयानं पश्यति चेत्
सत्वरं अनायासेन शतघ्नीम् अपेक्षानुसारं इतस्ततः चालयित्वा झटिति लक्ष्यं प्रहर्तुमर्हति ।
प्रथमे दिने शतघ्नीनां त्रितयं आगतम् । अब्दुल हमीदः एतादृश्यां
विषमपरिस्थितौ दशगजपरिमिते दूरे एकां शतघ्नीं विस्फोटितवान् ।तत् ज्वलन्तीं
शतघ्नीं दृष्ट्वा पृष्ठतः विद्यमानयोः द्वाभ्यां
शतघ्नीभ्यां शत्रवः ततः कूर्दित्वा पलायनं कृतवन्तः । पुनः ११.३० वादनवेलायां इतोऽपि
शतघ्न्यः प्रहारं कुर्वत्यः एव अग्रे
आगताः । तदा पुनः अब्दुल हमीदः इतस्ततः
आत्मरक्षां कुर्वन्नेव उचिते स्थले जीपयानं
नियोजयन् शतघ्नीद्वयं ध्वंसीकृतवान् ।
अनन्तरं सेप्टम्बरमासस्य नवमे दिनाङ्के वैमानिकप्रहारेण सह शतघ्नीनां
उपयोगः शत्रुभिः कृतः । तत्र तु बहवो हि अस्माकं सैनिकाः वीरमरणं प्राप्तवन्तः ।
No comments:
Post a Comment