Sunday, November 21, 2021

7.मेजर धनसिंह थापा

 

7.मेजर धनसिंह थापा

         

मेजर धनसिंह थापा मूलतः नेपालदेशीयः ।  सः १९२८ तमे वर्षे  एप्रिलमासस्य दशमे दिनाङ्के  हिमाचलप्रदेशस्य शिम्ला इत्याख्ये नगरे जन्म प्राप्तवान् । सः १९४९ तमे वर्षे  भारतीयसैन्यस्य गूर्खा बेटालियन् इत्याख्ये सेनाङ्गे  आगष्टमासे सैन्याधिकारित्वेन नियुक्तः अभवत् ।

चीनदेशः त्रिविष्टपस्य(तिब्बत) उपरि १९४९ तमे वर्षे  एव आक्रमणं कर्तुम् आरभत । चीनदेशे साम्यवादिशासनं (Communist) चलति स्म इत्यतः, नेहरूवर्यस्य तत्सिद्धान्ते आदरः आसीत् इत्यतश्च  त्रिविष्टपस्य विषये  भारतस्य यः परम्परया सम्प्राप्तः  अधिकारः आसीत् तमधिकारं  सर्वमपि नेहरूवर्यः अन्धवत् निर्बन्धं विना चीनदेशाय समार्पयत् । तदपि युद्धे पराजयप्राप्तेः ८ वर्षेभ्यः प्रागेव ।[1] अतः भारतीयानां सर्वासां प्रजानां  तद्विषये महान् क्रोधः आसीत् । साम्यवादस्य विस्तरणवादिनीत्यनुसारं चीनदेशः केवलेन त्रिविष्टपेन असन्तुष्टः सन् भारतस्य लद्दाकप्रान्ते  अक्सायचिन् इत्याख्यं सुविशालं भूप्रदेशं  १९४८ तमे वर्षे एव पाकिस्थानस्य साहाय्येन  उपायेन स्वायत्तीकृतवान् आसीत् ।

पश्चात् कालान्तरे भारतस्य उपरि आक्रमणं कर्तुं त्रिविष्टपे सर्वविधां सिद्धतां चीनदेशः कुर्वन्नेव आसीत् ।

किन्तु भारते सैन्यं सबलयितुं सैन्येन नैरन्तर्येण कृतां प्रार्थनां नेहरूमहोदयः तिरस्कृत्य सैन्याधिकारिणाम् अवमाननं  च यथासम्भवं कृत्वा सैन्यस्य सम्पूर्णाम् उपेक्षां कृतवान् आसीत् ।

चीनदेशः तु १०० % सज्जीभूय  युद्धार्थं यदा अस्माकं द्वारे एव उपस्थितः  तदानीमपि सैन्यस्य आग्रहं तिरस्कृत्य कस्यचित् सिविल्-अधिकारिणः वचनं श्रुत्वा  Forward Policy इत्याख्यां घोरां नीतिम् आश्रित्य  शत्रुनिग्रहमपि अकृत्वा  देशवासिनां मुखपिधानाय सर्वथा अयुक्तं आत्महत्यासदृशं मार्गं (यच्च देशाय अत्यन्तं घातकं) नेहरूवर्यः अनुसृतवान् ।

मेजर धनसिंह थापा एतस्याः Forward Policy इत्यस्याः  नीतेः अनुसारं  लद्दाकप्रान्तस्य पेनगाङ्ग इत्याख्यस्य सरसः उत्तरदिशि सिरिजैप् इत्यस्मिन् प्रदेशे Forward Post निर्माय  तत्र तत्संरक्षणाय स्थातुं नियुक्तः अभवत् । सिरिजैप् इत्याख्यः प्रदेशः  ४८ KM2  विस्तारयुक्तः आसीत् । धनसिंहस्य सैनिकगणे विद्यमानानां २८ सैनिकानाम् उत्तरदायित्वम् इदमासीत् यत् सिरिजैप् इत्यस्य संरक्षणम् इति ।

शीतकालस्य आरम्भः जातः आसीत् ।

तुहिनाच्छादिते पर्वते एतैः गर्तं निर्माय Forward Post निर्मातव्यमासीत् ।  १९६२ तमे वर्षे  ओक्टोबरमासस्य १९तमे दिनाङ्के  सैन्येन आदिष्टः धनसिंहस्य गणः  तत्र कार्यमारभत ।

२० तमे दिनाङ्के  प्रातः चतुर्वादने  षट्शतेन  सङ्ख्यया  शत्रवः एतेषाम् उपरि  अत्याधुनिकैः शस्त्रैः  आक्रमणं कर्तुम् आरभन्त ।  धनसिंहस्य गणः  काले प्रतिक्रियां प्रदाय  शत्रोः महतीं हानिं प्रथमचक्रे कृत्वा सफलः  सञ्जातः ।  तावता एतस्य गणे  सप्त एव सैनिकाः अवशिष्टाः आसन् ।  पुनः द्वितीयचक्रे यदा शत्रुदलं आक्रमणं कर्तुम् आरभत  तदा स्वसमीपं शत्रोः आगमनपर्यन्तं प्रतीक्ष्य पश्चात् सत्वरं प्रतिक्रियां दत्वा  पुनः शत्रून् पराजितवन्तः अस्माकं वीरयोद्धारः ।  तृतीयचक्रे शत्रोः शतघ्न्यः(Tankers) अपि अग्निवर्षं कर्तुम् आरभन्त   धनसिंहस्य गणॆ तदा केवलं त्रयः एव सैनिकाः अवशिष्टाः आसन् ।  शस्त्राणि अपि सर्वाणि समाप्तानि आसन् ।  तथापि सुरक्षागर्तात्  बहिरागत्य  Bionet इत्याख्येन भुषुण्डिकाग्रेण अस्मत्सैनिकाः शत्रून् प्रहर्तुम् आरब्धवन्तः । तावता सर्वासु दिक्षु आवृताः शत्रवः  धनसिंहस्य गणं बध्वा  युद्धबन्धित्वेन चीनदेशं नीतवन्तः ।

एतन्मध्ये कश्चन सैनिकः  पराजये सुनिश्चिते  आत्मरक्षां कृत्वा अस्माकं सैनिककेन्द्रं प्रति कष्टेन प्रत्यागत्य अस्माकं सैनिकगणस्य पराजयस्य  समूर्णां वार्तां श्रावितवान् ।  पश्चात् सैन्याधिकारिभिः  धनसिंहस्य शौर्यं साहसं च परिगणय्य  प्रेषितप्रस्तावानुसारं  १९६३ तमे वर्षे  भारतसर्वकारः  धनसिंहस्य कृते  मरणोत्तरं परमवीरचक्रं  उदघोषयत् ।  अयं शत्रुभिः बद्धः अस्ति, न मृतः इति  सर्वकारेण न ज्ञातमासीत् । सैन्याधिकारिभिः तस्य पत्न्यै  भर्तुः वीरमरणस्य/बलिदानस्य वार्ता अपि पत्रद्वारा प्रेषिता आसीत् ।  तत्परिवारीयाः  तस्य और्ध्वदैहिकं अन्त्यसंस्कारं सर्वमपि  तदीयपरम्परानुगुणं  कृतवन्तः आसन् । तत्पत्नी गर्भवती आसीत् । सा गर्भवती सती एव  विधवावस्त्रमपि धारयितुम् आरब्धवती आसीत् ।  अनन्तरम् एकस्मै शिशवे  जन्म दत्तवती ।

एतन्मध्ये रैफल्मन् तुलसीराम इत्याख्यः  धनसिंहस्य गणॆ स्थित्वा  चीनीयैः बद्धः सैनिकः चातुर्येण कथमपि आत्मानं मोचयित्वा दिनचतुष्टयं यावत् हिमालयपर्वते चलन् शत्रूणां दृष्टिपथे अपि अनागत्य  सैनिककेन्द्रं प्रति प्रत्यागमने सफलो जातः । सः धनसिंहस्य अन्येषां च त्रयाणां बन्धनस्य वार्तां श्रावयित्वा धनसिंहः जीवितो वर्तते  इति उक्तवान् ।



[1]  अत एव साम्प्रतम् अस्मदीयैः  कैलासमानसयात्रा  करणीया चेत्  चीनदेशाय १५०००० रूप्यकाणि दातव्यानि भवन्ति ।

No comments:

Post a Comment