Wednesday, August 21, 2024

छात्रवैविध्यम् सामावेशात्मकशिक्षा च (Student Diversity and Inclusive Education)

 

छात्रवैविध्यम् सामावेशात्मकशिक्षा च

(Student Diversity and Inclusive Education)

उपोद्घातः Introduction

लोके नैकोऽपि जनः अन्यसमः अस्ति । मुण्डे मुण्डे मतिर्भिन्ना”, “लोको भिन्नरुचिः इत्याद्युक्तयः एतत् प्रमाणयन्ति । एवमेव विद्यालयेषु छात्राः अपि अनन्यसमाः भवन्ति । तेषाम् एतत् अनन्यसमत्वम् एव तदीया विशिष्टता इत्युच्यते । एषा विशिष्टता दोषाय न इति मन्यमानः शिक्षकः तस्य विशिष्टस्य छात्रस्य कक्ष्यायां समावेशं कृत्वा तस्य विकासार्थम्  उचितं यत्नं कुर्यात् । भारते अनादिकालादारभ्य तारतम्यविहीना शिक्षाव्यवस्था प्रचलति स्म । गुरुकुले सामान्यस्य निर्धनस्य पुत्रोऽपि राज्ञः पुत्रेण सह एव समानरीत्या तारतम्येन विना अधीते स्म । एषा तरतमविहीना शिक्षाव्यवस्था आङ्लेयानां भारते आगमनपर्यन्तमपि प्रचलति स्म । एतत् थामस् मुन्रो इत्येतादृशानाम् आङ्ग्लाधिकारिणां प्रतिवेदनेषु निरूपितमस्ति ।

समानी व आकूतिः समाना हृदयानि वः ।

समानमस्तु वो मनो यथा वः सुसहासति ॥

सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु माविद्विषावहै

जातिनीतिकुलगोत्रदूरगम् नामरूपगुणदोषवर्जितम् ।

देशकालविषयातिवर्ति यत् ब्रह्मतत्त्वमसि भावयात्मनि विवेकचूडामणिः

“सङ्गच्छध्वं संवदध्वम् सं वो मनांसि जानताम्

इत्यादीनि वाक्यानि भारते समावेशात्मिका शिक्षा अनादिकालतः आसीत् इति निरूपयन्ति । किन्तु आङ्लेयानां आगमनोत्तरं भारते जातीनां, राज्यानां, मतादीनां  मध्ये परस्परं वैषम्यम् उत्पादितम् शासनव्यवस्थायाः स्वायत्तीकरणाय । साम्प्रतं तत्फलत्वेन एव भारते समावेशात्मकशिक्षायाः आवश्यकता उत्पना अस्ति ।

छात्रेषु विविधता (Student Diversity)

विविधतयाः कापि सीमा न भवति । तथापि अत्र समावेशः केषां करणीयः इति निर्णयार्थं विविधतायाः केचन प्रकाराः चिन्त्यन्ते । ते च प्रकाराः अथवा छात्रविविधताः इत्थं प्रदर्शयिष्यन्ते -

लिङ्गभेदः

सामाजिकार्थिकवैविध्यम्

सांस्कृतिकवैविध्यम्

संज्ञानात्मकवैविध्यम्

प्रादेशिकवैविध्यम्

भाषागतं वैविध्यम्

शारीरिकक्षमतायां वैविध्यम्

मानसिकक्षतायां वैविध्यम्

मतीयवैविध्यम्  चेति । एतेषां विषये विस्तरेण किञ्चिदत्र विचारयाम -

लिङ्गभेदः (Gender Diversity)

         समग्रे प्रपञ्चे अनादिकालतः स्त्रीणां शिक्षा सुलभा नास्ति । मासिकधर्मादिक्लेषाः व्याजमात्रम् । पुराकाले शिक्षा नाम धार्मिकी एव भवति स्म इति केचन प्रतिपादयन्ति (भारते शिक्षा जीवनोपयोगिनी एव आसीत्, “द्वे विद्ये वेदितव्ये परा चापरा च” इति श्रुत्यनुगुणं अपरा विद्या जीवनोपयोगिनी अभ्युदयदात्री, परा च निश्रेयसकारणी आध्यात्मविद्या ) । साम्प्रतं धार्मिकशिक्षामात्रं शिक्षा नास्ति प्रत्युत शिक्षा सार्वजनीना वैविध्यपूर्णा च अस्ति वैदिककालिकशिक्षा इव । अतः पुरुषेण सह स्त्री अपि शिक्षां प्राप्नुयात् । पुराकाले तु स्त्रीणां शिक्षा समीचीना भवति स्म । “यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः” इति मनोभूमिः तदानीन्तनाम् आसीत् ।  शिक्षाप्रदानेन स्त्री सम्माननीया   येन देवताः प्रसीदन्ति इति भाव्यते स्म । पुनश्च स्त्रीणां यत्र अनादरः भवति स्म तत्र कृतानि कार्याणि सर्वाण्यपि निष्फलानि भवन्ति इति तत्रैव मन्यते स्म । यथा -

यत्रैतास्तु न पूज्यन्ते सर्वा एवाफलाः क्रियाः ॥ इति ।

मध्यकाले प्रायः स्त्रीणां शिक्षायाः विषये अनादरः आसीत् । अतः साम्प्रतं स्त्रीणां शिक्षाविषये उपेक्षा कर्तुं न शक्या । अतः स्त्रीणां शिक्षायां समावेशः अवश्यं कर्तव्यः ।

स्त्रीणां शिक्षया सह तृतीयलिङ्गिनां कश्चन समवायः भारते उपेक्षितुमशक्यः वर्तते एव । अमेरिकादिषु देशेषु अन्यलिङ्गिनामपि विभिन्नाः समवायाः सन्ति येषां शिक्षाद्यधिकारप्राप्तौ सङ्घटितः आग्रहः अस्ति । अतः तेषामपि तत्तद्देशे शिक्षायां समावेशार्थं विचारः योजना प्रवृत्तिश्च भवति ।

सामाजिकार्थिकवैविध्यम्
(Socioeconomic Diversity)

प्रपञ्चे सर्वत्र समाजः उच्चनीचादिभेदयुक्तः भवति ।  एवमेव आर्थिकदृष्ट्या धनिकदरिद्रादिभेदः अपि भवति । साम्यवादिषु देशेष्वपि अयं भेदः भवत्येव । एतस्य सुमहान् परिणामः शिक्षाक्षेत्रे  भवति । भारते अपि कस्मिंश्चित् काले वर्णव्यवस्था आसीत् । सा च व्यवस्था जन्माधारेण नासीत् । प्रत्युत कर्माधारेण आसीत् । किन्तु साम्प्रतं या जातिव्यवस्था अस्ति सा जन्माधारेण अस्ति । वैचित्र्यं नाम ये अनया व्यवस्थया शोषिताः इत्युच्यन्ते ते स्वजातिं परित्यक्तुं नेच्छन्ति । यान्शोषकाः इमेइति  मन्यन्ते तेषां निन्दाम् अवश्यं न त्यजन्ति । सर्वकाराः अपि जातिव्यवस्थायाः निन्दां कुर्वन्तः जात्त्युल्लेखम् अवश्यं कारयित्वा  जात्यनुगुणं शासनव्यवस्थां कल्पयन्ति । राजनैतिकदलानि जातिव्यवस्थायाः पोषणं कुर्वन्ति(शत्रन्तं रूपम्) निर्वाचने विजयं प्राप्तुं योजनाः निर्मान्ति । जातिव्यवस्थायाः सम्पोषणं कृत्वा अधिकारम् अवाप्य जातिव्यवस्थां निर्मूलयितुं कुतो वा राजनैतिकदलानि प्रयतेरन् ?  यदि जातिव्यवस्था निन्दनीया तर्हि कुतो वा निर्मूलयितुं विधिः तदनुष्ठानं च न स्यात् ? भवतु नाम राज्याङ्गव्यवस्थायां ईदृशी विडम्बना । अथापि शिक्षिताः तु जनानां मध्ये जागर्याम् उत्पाद्य  जातिकारणतः वैषम्यं वा, तारतम्यं वा यथा न स्यात् तथा कुर्युः । भारते अस्मन्वाङ्मये समदृष्टिः श्रेयसी इत्यभिप्रायेण भूरिशः प्रमाणानि समुपलभ्यन्ते । -   

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ इत्यादीनि ।

किञ्चन सुभाषितम् इत्थमस्ति यत्र इदम् अभिप्रेतम् अस्ति यत् तारतम्यं निर्जीवैरपि पदार्थैः न क्रियते सूक्ष्मसंवेदिभिः शिक्षितैः मनुष्यैः कथं वा क्रियते ? इति -

अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।

अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥

एवमेव स्वस्थः समाजः भगवदायतनं कथं भवति इति सुभाषितमिदं ब्रूते -

सद्वृत्तयः प्रकाशन्ते क्षीयन्ते दुष्टवृत्तयः ।

सुसंहिते  समाजे हि रमन्ते खलु देवताः ॥

एकस्मिन् समाजे उच्चनीचभावः भवति चेदपि क्षुद्राणां समाजोपकारिता कथं भवति इति दृष्टान्तबलेन सुभाषितमिदं प्रतिपादयति - 

संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि ।

तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ इति ।

सांस्कृतिकवैविध्यम् (Cultural Diversity)

संस्कृतिः अस्माकम् आचारविचाराणाम् औत्तम्यस्य परिचायिका अस्ति । औत्तम्यम् आदर्शपूर्णमस्ति चेत् अनुकरणीयं भवति ।  मातृदेवो भव ...”  इति अस्माकं संस्कृतिरस्ति । माता स्वापत्यानां हिताय स्वहितं अविगणय्य परिश्राम्यति । मातुः त्यागबुद्धेः कारणादेव सा अस्माभिः पूज्या । अत एव संन्यासिनः सन्तोऽपि मात्रा नमस्कार्याः  न भवन्तु प्रत्युत माता एव संन्यासिभिरपि नमस्कार्या भवति ।  एतदनुसारम् अस्मत्पूर्वजाः अस्माकं पुरस्तात् उत्तमान् अन्यांश्च आदर्शव्यवहारान् इत्थं प्रादर्शयन् -

नाहं जानामि केयूरे नाहं जानामि कुण्डले ।

नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥

लक्ष्मणः सीतान्वेषणावसरे वानरैः आनीतानि आभरणानि पश्यन् रामेण प्रश्ने पृष्टे सति इत्थं पूर्वोक्तरीत्या वदति । एषा दृष्टिः आदर्शपूर्णा अस्ति । संस्कृत्यन्तरे  गृहे विद्यमानैः बहुभिः पितृपुत्रादिभिः एका महिला उपभुज्यते । क्वचित् स्त्री कॆवलं भोगाय एव भवति । क्वचिच्च स्त्रीणां द्वितीयश्रेण्याः नागीकता/पौरत्वम् भवति । किन्तु भारते स्त्री मातृवत् पूज्यभावनया द्रष्टव्या इति बोध्यते, “मातृवत्परदारेषु” इत्यादिवचनैः ज्ञायते 

अस्मत्संस्कृतौ

“लोकाः समस्ताः सुखिनो भवन्तु ।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् ।

आ नो भद्राः क्रतवो यन्तु विश्वतः ।

अपुत्राः पुत्रिणः सन्तु   ....    ....”

इत्येतादृशाः उदात्तव्यवहाराः भवन्ति ।  तथापि एते व्यवहाराः शिक्षया साधनीयाः इत्येतत् न विस्मर्तव्यम् ।

संज्ञानात्मकवैविध्यम् (Cognitive Diversity)

छात्रेषु बौद्धिकक्षमताः न समानाः । समानवयसां छात्राणाम् मानसिकक्षमताः समानाः न भवन्ति । मन्दमतयः, प्रतिभाशालिनः, मानसिकशारीरिकादिक्लेषैः पीडिताः असमबुद्धयः च भवन्ति । केषुचित् पाठ्यक्रमेषु प्रवेशपरीक्षादिमाध्यमेन निश्चितस्तरस्य छात्राणां सङ्ग्रहाय यत्नो विधीयते । किन्तु तत्रापि छात्राणां सुमहान् भेदः भवत्येव । सञ्चालितायां परीक्षायां द्वाभ्यां छात्राभ्यां समानाः अङ्काः प्राप्यन्ते चेदपि द्वयोरपि समानं संज्ञानात्मकं सामर्थ्यं इति वक्तुं न शक्यते । तयोः विषयग्रहणसामर्थ्यादिकं  समानं न भवति । किन्तु गुरुः तयोः मध्ये तारतम्यं नाचरेत् । पुराकाले तथैव गुरवः भवन्ति स्म । उत्तररामचरिते भवभूतिः इत्थं गुरोः निष्पक्षपाताध्यापनविषये कथयति -

वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे

न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा ।

भवति हि पुनर्भूयान् भेदः फलं प्रति तद्यथा

प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः इति ।

 

प्रादेशिकवैविध्यम् (Geographic Diversity)

आसेतु हिमाचलम् भौगोलिकस्वरूपदृष्ट्या भारतम्  वैविध्यपूर्णम् अस्ति । यथा

अतिशीतवातावरणयुक्तात् हिमालयात् अत्यौष्ण्ययुक्तम् कलिङ्गं यावत्

अत्यन्तं समतलप्रदेशात् तुङ्गशिखरं यावत्

वृक्षविहीनमरुभूमितः घनारण्ययुक्तसह्यपर्वतं यावत्

देवमातृकाभ्यः नदीमातृकाः यावत् । इत्थं भौगोलिकं वैविध्यं यदस्ति तदनुगुणं शिक्षाव्यवस्था अपि भिद्यते ।

छात्रप्रकारः अपि तदनुगुणं (भौगोलिकस्थित्यनुगुणं) शारीरिकमानसिकक्षमतया, संस्कृत्या, आचारविचारैः   भिद्यते ।

भाषागतं वैविध्यम्

भाषा - भावविनिमयाय, वैचारिकसंवादाय, तात्विकप्रबोधाय, साहित्यिकसर्जनाय, कलात्मक-आस्वादनाय उपयुज्यते ।

भाषायाः विविधतायाम् सत्याम्-

साहित्यिकसमृद्धिः,सांस्कृतिकम् आदानप्रदानम्, सहिष्णुताविकासः, स्वस्थप्रतिस्पर्धा च भवति ।

छात्राः विविधभाषाभाषिणः तरतमभेदविहीनरीत्या अध्ययनाय अवसरं लभेरन् । भाषागतं वैविध्यम् समृद्धये न तु सङ्घर्षाय इति मानसिकतानिर्माणं समावेशस्य लक्ष्यं स्यात् ।

शारीरिकक्षमतायां वैविध्यम् (Diversity in Physical Capacity)

प्रज्ञाचक्षवः, दिव्यश्रोत्राः(मूकाः)

पॊलियोसदृशरोगैः पीडिताः (चलनासमर्थाः)

क्षतावयवाः (दिव्याङ्गाः)

दग्धशरीरिणः (दिव्याङ्गाः)

कार्श्य-स्थौल्य-वामनत्वादि-शरीरलक्षणाः च बालाः समाजे विद्यमानाः विद्यालयेषु अध्ययनाय अवसरं (समावेशात्मकरीत्या) लभेरन् ।

मानसिकक्षमतायां वैविध्यम्  (Diversity in Mental ability)

छात्राणां समेषां मानसिकक्षमताः समानाः  न भवन्ति । मनोविज्ञाने मानसिकक्षमतया बौद्धिकयोग्यताः गृह्यन्ते ।बौद्धिकक्षमताः बुद्धिलब्धेः माध्यमेन तोलयितुं शक्याः ।  बुद्धिलब्धेः (IQ) आधारेण वैविध्यम् एवम् भवति

सामान्या अक्षमता -                 IQ  50 - 70

मध्यमा अक्षमता -                  IQ  35 - 49

गभीरा अक्षमता -                   IQ  20 - 34

अतिगभीरा अक्षमता -              IQ  20 तः अधः

इत्थं बुद्धिलब्धिम् उपयुज्य छात्रेषु विद्यमानानां बौद्धिकवैविध्यानाम् आधारेण समावेशः केषाम् ? कथम् ? किं निमित्तं करणीयः ? इत्यादिकं चिन्त्यते ।

मतीयवैविध्यम् (Diversity in Religion)

अस्मद्देशे तत्तन्मतावलम्बिनां मतीयाचरणस्य कोऽपि निर्बन्धः नास्ति । अतः अत्र विभिन्नानि मतानि स्वातन्त्र्येण विकसन्ति ।  परस्परं विरुद्धाचरणेषु सत्सु समन्वयसाधनाय समावेशात्मकशिक्षायाम् उपायाः आविष्करणीयाः 

बौद्धाः(सौगताः)

जैनाः(दिगम्बरश्वेताम्बराः)

महम्मदीयाः सुन्नीत्यभिधाः

अहम्मदीयाः शियेत्यभिधाः

केथोलिकमतीयाः

प्रोटेष्टेण्टमतीयाः

सनातनधर्मीयाः इत्येवं रूपेण प्रपञ्चे मताधारेण विश्वासस्य वैविध्यम् अस्ति ।


समावेशात्मिका शिक्षा Inclusive Education

समावेशः केषाम् ?

विविधता कीदृशी ?

समावेशः किमर्थम् ? विशिष्टशिक्षा किमर्थं न स्यात् ?

समावेशः कथम् ?

समावेशात्परं किम् ?  

इत्येतैः प्रश्नैः समावेशात्मकशिक्षायाः स्वरूपावगमात् तेषाः प्रश्नानां समाधानप्रदानेन तत्साधयितुं यत्नः क्रियते । 

 

 समावेशः केषाम् ?

तारतम्येन पीड्यमानानां नानाप्रकारकाणां छात्राणां समावेशः । Inclusion is the practice of including and accommodating people who often face discrimination and exclusion due to race, gender, ability, or identity.

समावेशः किमर्थम् ? विशिष्टशिक्षा किमर्थं न स्यात् ?

विशिष्टछात्रस्य सहजविकासाय, अन्यच्छात्राणाम् अवलोकनपुरस्सरं विशिष्टस्य बालस्य अधिगमाय, अन्यच्छात्राणाम् आत्मविश्वासवर्धनाय, विविधतायाः विषये आदरभावोत्पादनाय च ।

समावेशः कथम् ?

विशिष्टच्छात्रस्य स्वीकारेण, अवगमनेन, वैयक्तिकभिन्नतायाः परिग्रहेण, वैविध्यस्य अङ्गीकारेण च समावेशः करणीयः ।

समावेशात्परं किम् ?

भौतिकसौविध्यस्य प्रकल्पनम्

प्रशिक्षिताध्यापकानां नियोजनम्/नियुक्तानां प्रशिक्षणम्

समुचितशिक्षणविधीनां उपयोगः

समुचितशिक्षणोपकरणानाम् उपयोगः

समुचितमूल्याङ्कनप्रणाली(The Rights of Persons with Disabilities Act 2016 इत्यनुसारम्)

अधिगन्तृकेन्द्रित-प्रशिक्षणपद्धतयः
LEARNER-CENTERED PEDAGOGICAL PRACTICES

प्रशिक्षणम्- अध्यापककेन्द्रितम् ,  छात्रकेन्द्रितम्  च भवति । समावेशात्मकशिक्षायां छात्रकेन्द्रितपद्धतयः भवेयुः ।

          संवादाः, सामूहिककार्यम्, प्रबोधनवर्गाः, प्रायोगिकाभ्यासाः, परियोजनाकार्यम्, सहाध्ययनम्, बह्विन्द्रियशिक्षा, क्षेत्रानुभवश्च.

उपसंहारः (पाथेयम् )

छात्रवैविध्यम् - वैविध्यम् प्रकृतिधर्मः अस्ति । वैविध्ये सौख्यम् आनन्दः च। छात्रवैविध्यं तद्विकासे बाधकं न स्यात् ।

समावेशात्मिकी शिक्षा -समावेशः मानवस्य उत्तरदायित्वम् अस्ति येन लोकहितं भवति । प्रत्येकं छात्रस्य सहजविकासेन सह विविधतायाम् एकताइति समावेशस्य लक्ष्यं स्यात् ।

अत एव उच्यते “जिजीविषन्ति समं सहाध्यायिनः” इति । इत्युक्ते ये वैविध्यपूर्णच्छात्रसमवाये स्थित्वा अधीयते ते अध्ययनात्परम् अपि सहिष्णवः सन्तः सर्वैः सह सौहार्दपूर्णजीवनं यापयितुं शक्नुवन्ति इति ।

इति शम्

सन्दर्भाः

https://cod.pressbooks.pub/introtoeducation/chapter/9-1-student-diversity/

https://resilienteducator.com/classroom-resources/inclusive-education/

https://www.unicef.org/education/inclusive-education

https://www.education.gov.in/shikshakparv/docs/Inclusive_Education.pdf

“The Essence of Inclusive Education”, BR Ramachandraiah

“Education of Children with Special Needs” NCERT

 

Wednesday, May 8, 2024

भारतस्य विकासे संस्कृतस्य योगदानम्

 

भारतस्य विकासे संस्कृतस्य योगदानम्

विकसितस्य देशस्य लक्षणं किम् ? आर्थिकी प्रगतिरेव विकासो वा ?  आर्थिकी प्रगतिरपि कियत्या मात्रया स्यात् येन प्रगतिरभवदिति परिगण्यते ?  देशस्य कोषः समृद्धः चेत् विकसितः देशः इति तात्पर्यं किम् ?  काश्चन प्रजाः निरुद्योगिन्यः सन्ति चेत् देशः विकसितः नास्ति इति वक्तुं शक्यते  किम् ? प्रगतेः विकासस्य वा मानदण्डः कः ? इत्यादयः नैके प्रश्नाः सन्दर्भेऽस्मिन् उत्पद्यन्ते ।

संस्कृते काचित् उक्तिरस्ति

मनसि च परितुष्टे कोऽर्थवान् को दरिद्रःइति । कश्चन जनः यथा धनाभावेऽपि सन्तोषेण शान्त्या च जीवति तथैव देशोऽपि शान्त्या सन्तुष्टप्रजाभिः चलति चेत् तदपेक्षया कीदृशी समृद्धिरपेक्षिता स्यात् ? यतो हि “सन्तोष एव पुरुषस्य परं निधानम्” किल ।

अस्य नेदमस्ति तात्पर्यं यत् भौतिकी समृद्धिः नापेक्षिता/उपेक्षणीया इति, सर्वेऽपि विरागिणः सन्तः शमदमादिना सर्वे तुष्यन्तु चेति । भौतिकी समृद्धिः अवश्यं साधनीया एव । किन्तु तेन सहैव मनुष्यः सर्वैः आयामैः सन्तृप्तिं यथा भजेत तथा उपायाः अपि चिन्तनीयाः ।

जिहाद-क्रुसेड-माओइजम्-सदृशाः हिंसाप्रवृत्तयः भौतिकसमृद्धिरस्ति चेदपि मनुष्यस्य सन्तोषमपकर्षन्ति । समाजे उच्चनीचादिभेदाः कदाचित् सामाजिकीम् अशान्तिम् उत्पादयन्ति । वामचिन्तनस्य उत्पत्तौ इदमपि एकं बीजमस्ति । मतीयविभ्रान्तिः मतीयोन्मादः च समाजे अशान्तिं जनयतः । अतः भौतिकसमृद्ध्या सह एतादृशानाम् अशान्तिजनकानां तत्वानाम् अपि निर्मूलनाय संस्कृते किमौषधमस्ति इति अत्र चिन्तनीयमस्ति ।

भौतिकसमृद्धिः मेधया नियमितपरिश्रमेण च भवति । एतदर्थं संस्कृतवाङ्मये विफुलाः उपायाः प्रेरकतत्त्वानि च प्रादर्शिषत । यथा –

कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ॥ (अथर्ववेदः ७-५२-८)

न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ हितोपदेशः ।

 तन्त्रज्ञानस्य अभावे अपि विजयनगरसाम्राज्यस्य काले, विक्रमादित्यस्य काले, ललितादित्यस्य काले, राजराजचोळस्य काले, इतिहासस्य अन्यान्यसमये समृद्धिरासीत् ।  “शस्त्रेण रक्षिते राष्ट्रे शास्त्रचिन्ता प्रवर्तते”  इत्युक्त्यनुगुणं भारते शस्त्राभ्यासेन सह शास्त्राध्यनमपि विधाय देशस्य समृद्धिं शान्तिं च सम्पादयितुम् अपेक्षिता शिक्षाव्यवस्था भारते आसीत् । तदर्थं चतुष्षष्ठिकलाः अध्येयविषयाः आसन् । परापरविद्ययोः समानरूपेण प्राप्तेः व्यवस्था आसीत् ।  येन अभ्युदयनिश्रेयसयोः सम्प्राप्तिः सरला स्यात् , भौतिकसमृद्ध्या सह पारमार्थिकं सुखमवाप्तुं परमपुरुषार्थस्य द्बारं समेषाम् उद्घाटितमासीत्, न केवलं पुरुषाणाम्, न वा केवलं निर्दिष्टानाम् मतावलम्बिनाम् । विद्याप्राप्त्यधिकारः भारते कस्यचित् जातिविशेषस्य इति नासीत्, सर्वजातीयाः जनाः अत्र (आङ्ग्लेयानाम् भारते आगमनपर्यन्तम् अपि) तरतमभावेन विना एव अधीतये स्म चेति  थामस्-मुन्रो-प्रभृतीनां सर्वेक्षणस्य प्रतिवेदनेन स्पष्टम् अस्ति ।

भारतं पूर्वं निरन्तरम् आक्रामकानां लुण्ठनस्य लक्ष्यं भारतमासीत् इत्यस्य कारणं भारते महती समृद्धिः  साधिता आसीत् इति ।  किन्तु तादृशी समृद्धिः स्वमेधया परिश्रमेण च विना न कदापि साधिता आसीत् । एषा मेधा एव अस्माकं संस्कृतवाङ्मयमस्ति ।  परिश्रमार्थं प्रेरणापि तदेवास्ति ।  अत एव अत्र भूगोलात् खगोलपर्यन्तं, वैद्यकात् ब्रह्मविद्यापर्यन्तम्, वाजीकरणतन्त्रात् यन्त्रमाधवपर्यन्तम्, अणिमाद्यष्टसिद्धितः परब्रह्मप्राप्तिपर्यन्तं विद्यास्थानानि देशस्य सर्वेषु आयामेषु समृद्धिं साधयितुमेव आसन् । अतः भारतीयानि सर्वाण्यपि विद्यास्थानानि समरसतापूर्णरीत्या देशस्य विकासं साधयितुं सम्प्रत्यपि योग्यानि सन्ति इत्यत्र नास्ति संशीतिः ।

प्रो.हरिप्रसादः के.

शिक्षाविभागः, राजीवगान्धीपरिसरः

Monday, May 6, 2024

6/5/2024 ಇವತ್ತಿನ ಸಂತಸದ ಸುದ್ದಿ

 

ಸಂತಸದ ಸುದ್ದಿ

ಇವತ್ತು ಒಂದು ಸಂತಸದ ಸುದ್ದಿ ಇದೆ. ದೇವರು ನಿಜವಾಗಲೂ ಇದ್ದೇನೆಂದು ಅದೆಷ್ಟು ಬಾರಿ ಸಾಬೀತುಪಡಿಸ್ತಾನೆ ಅಂತ ಆಶ್ಚರ್ಯ ಆಗುತ್ತದೆ.

ಇವತ್ತು ಸಂಜೆ ೫.೪೫ ರ ಸಮಯ. ಕಾಲೇಜಿನಲ್ಲಿ ಇನ್ನೇನು ನಾನು ನನ್ನ ಕಂಪ್ಯೂಟರ್ ಶಟ್ ಡೌನ್ ಮಾಡಿ ಬ್ಯಾಗಿಗೆ ತುಂಬಿಸುವುದರಲ್ಲಿದ್ದೆ. ಆಗ ನಮ್ಮ ಪ್ರೊ.ಚಂದ್ರಕಾಂತ ಭಟ್ಟರು ನಮ್ಮ ವಿಭಾಗದ ಒಳಗೆ ಬಂದರು. ಒಂದು ಲವ್ ಲೆಟರ್ ನ ಸುದ್ದಿ ಇದೆ. ಗೊತ್ತಾಗಿದೆಯಾ ಅಂತ ಕೇಳಿದರು. ನಾನು ಊಹೆ ಮಾಡಿದ್ದು ಪ್ರಾಯಶಃ ಅದೇ ಸುಬ್ರಾಯ ಭಟ್ಟರ ಏನೋ ವಿಚಾರ ಇರಬಹುದು ಅಂತ. ನಾನು ಗೊತ್ತಿಲ್ಲ ಅಂದೆ.

ನಮ್ಮ ಕ್ಯಾಂಪಸ್ ಡೈರೆಕ್ಟರ್ ಪ್ರೊ. ಹಂಸಧರ ಝಾ ಹೇಳಿದರು ಅಂತ ಅವ್ರು ಆರಂಭಿಸಿದ್ರು – ಒಂದು ಲೆಟರ್ ಆರ್ಡಿನರಿ ಪೋಸ್ಟ್ ನಲ್ಲಿ ಶೃಂಗೇರಿಯ ಪೋಸ್ಟ್ ಡಬ್ಬಿಗೆ ಯಾರೋ ಹಾಕಿದ್ರು. ಪೋಸ್ಟ್ ಮ್ಯಾನ್ ಆ ಪೋಸ್ಟ್ ಡಬ್ಬಿಯನ್ನು ಓಪನ್ ಮಾಡಿದಾಗ ಸ್ಟಾಂಪ್ ಇಲ್ಲದ ಪತ್ರ ಸಿಕ್ಕಿತು. ಅದರಲ್ಲಿ ಫ್ರಮ್ ಅಡ್ರೆಸ್ ಇರಲಿಲ್ಲ. ಟು ಅಡ್ರೆಸ್ ಇತ್ತು. ಅದು ನಮ್ಮ ವಿಶ್ವವಿದ್ಯಾಲಯದ ಕುಲಪತಿಗಳಾದ ಪ್ರೊ.ಶ್ರೀನಿವಾಸ ವರಖೇಡಿಯವರಿಗೆ(ಡಿಲ್ಲಿಗೆ) ಬರೆದ ಪತ್ರವಾಗಿತ್ತು. ಪೋಸ್ಟ್ ಮ್ಯಾನ್ ಸ್ಟಾಂಪ್ ಇಲ್ಲದ ಪತ್ರ ನಮ್ಮ ಕಾಲೆಜಿನದ್ದೇ ಅಂತ ಊಹಿಸಿ ಕಾಲೇಜಿನ ಆಫೀಸಿಗೆ ತಂದು ಕೊಟ್ಟು ಸ್ಟಾಂಪ್ ಹಚ್ಚಿ ಕೊಡಲು ಹೇಳಿದ. ಗುರುರಾಜ ಭಟ್ಟರು “ಕುಲಪತಿಗಳಿಗೆ ಇಂತಹ ಯಾವುದೇ ಪತ್ರ ಆರ್ಡಿನರಿ ಪೋಸ್ಟ್ ನಲ್ಲಿ  ಇಲ್ಲಿಂದ ಕಳುಹಿಸುವುದಿಲ್ಲ” ಎಂದು ಚಕಿತರಾಗಿ ಅದನ್ನು ನನ್ನ(ಡೈರಕ್ಟರ್ ರವರ) ಗಮನಕ್ಕೆ ತಂದಾಗ, ಹಾಗಾದ್ರೆ ಅದರಲ್ಲಿ ಯಾರು ಏನು ಬರೆದಿರಬಹುದು ಎಂದು ಒಂದು ಸಲ ಪರಿಶೀಲಿಸಬೇಕು ಎಂಬುದಾಗಿ ತೆರೆದು ನೋಡಿದಾಗ ಸ್ಪಸ್ಟ ಆಯಿತು – ಇದು ಅದೇ ಮನುಷ್ಯನ ಕಿತಾಪತಿ ಅಂತ. ಅದರಲ್ಲಿ ಹೀಗೆಲ್ಲಾ ಬರೆದಿತ್ತು -  ಬಿಹಾರಿ ಡೈರೆಕ್ಟರ್ ಬಂದಾಗಿನಿಂದ ಇಲ್ಲಿ ಯಾವುದೇ ರೀತಿಯ ವ್ಯವಸ್ಥಿತ ಅಡ್ಮಿನಿಸ್ಟ್ರೇಶನ್ ಇಲ್ಲ. ಎಲ್ಲರೂ ಸಂತೆಯ ತರಹ ಎಲ್ಲೆಂದರಲ್ಲಿ ವಾಹನಗಳನ್ನು ನಿಲ್ಲಿಸುತ್ತಾರೆ. ಕೆಲವರಂತೂ ಬಂದು ಸೈನ್ ಮಾಡಿ ಪೇಟೆ ಕಡೆಗೆ ವೈಯಕ್ತಿಕ ಕೆಲಸಗಳಿಗೆ ಹೋಗುತ್ತಾರೆ. ಒಬ್ಬನಂತೂ ಸೈನ್ ಮಾಡಿದ ತಕ್ಷಣ ಫುರ್ ಅಂತ ಬೈಕ್ ಸ್ಟಾರ್ಟ್ ಮಾಡಿ ಓಡಿ ಹೋಗ್ತಾನೆ. ಇನ್ನೊಬ್ಬ ಆರೋಗ್ಯ ಸರಿಯಿದ್ದರೂ ಮೆಡಿಕಲ್ ಲೀವ್ ಹಾಕಿ ಪೌರೊಹಿತ್ಯ ಮಾಡ್ತಾನೆ. ಕುಲಪತಿಗಳೂ ಸರಿಯಿಲ್ಲ. ಯಾರ್ಯಾರಿಗೋ ಶಿಕ್ಷಾವಿಭೂಷಣ ಎಂಬ ಬಿರುದು ಕೊಡ್ತಾರೆ. ಅದು ವಿಭೂಷಣವೋ ವಿಭೀಷಣವೋ ? ಇಲ್ಲಿ ನ್ಯಾಕ್ ಗಾಗಿ ಎಸ್ಟೆಸ್ಟೋ ಕೆಲಸ ಮಾಡಿದವರಿಗೆ ಏನೂ ಸನ್ಮಾನ ಇಲ್ಲ. ಪುರಸ್ಕಾರವೂ ಇಲ್ಲ ಇತ್ಯಾದಿ ಇತ್ಯಾದಿ.

ಆ ಕಾಗದವನ್ನು ಹಿಂದಿಯಲ್ಲಿ ಬರೆದಿದ್ದರು. ಅದರ ಭಾಷೆಯಿಂದಲೇ ಸ್ಪಷ್ಟವಾಗುವುದು ಏನೆಂದರೆ ಇದನ್ನು ಯಾವನೋ ಒಬ್ಬ ಹಿಂದಿ ಮಾತೃಭಾಷೆಯಲ್ಲದವ ಬರೆದದ್ದು ಎಂದು. ಅದರಲ್ಲಿ ಕೊನೆಗೆ ಶಿಕ್ಷಾವಿಭೂಷಣದ ಬಗ್ಗೆ ಆಕ್ಷೇಪ ಎತ್ತಿದ್ದೇ ಅದನ್ನು ಪಡೆದವರೋ ಅವರ ಒಡನಾಡಿಗಳೋ ಬರೆದಿದ್ದಲ್ಲವೆಂದು ಸಾಬೀತುಪಡಿಸಲು. ಜೊತೆಗೆ ನ್ಯಾಕ್ ಗಾಗಿ ಕೆಲಸ ಮಾಡಿದವರಗಿಗೆ ಶಿಕ್ಷಾವಿಭೂಷಣ ಕೊಡಲಿಲ್ಲ ಎಂದು ಬರೆದಿದ್ದೇ ಅನಂತಪದ್ಮನಾಭರು ಈ ಕಾಗದವನ್ನು ಬರೆದಿದ್ದಾರೆ ಎಂದು ಕುಲಪತಿಗಳು ಊಹಿಸಲಿ ಅಂತ. ಏಕೆಂದರೆ ಹಾಗೆ ಬರೆಯುವುದರಿಂದ ಶಿಕ್ಷಾವಿಭೂಷಣ ಪಡೆದವರಿಗೆ ಯಾವುದೇ ಹಾನಿಯಿಲ್ಲ. ಜೊತೆಗೆ ಕುಲಪತಿಗಳು ಇಂತಹ ಬಿರುದುಗಳನ್ನು ಸರಿಯಾಗಿ ಕೊಡುತ್ತಿಲ್ಲ ಎಂದು ಆಕ್ಷೇಪಗಳಿವೆ ಎಂಬುದೂ ಇದರಿಂದ ತಿಳಿಯಲಿ ಅಂತ.

ಸೈನ್ ಮಾಡಿ ಬೈಕ್ ಪುರ್ ಅಂತ ಓಡಿಸಿಕೊಂಡು ಹೋಗುತ್ತಾರೆ ಅಂತ ಬರೆದಿರುವುದು ಹರಿಪ್ರಸಾದ್ ಕುರಿತಾಗಿ. ನಾನು ಈಗ ಒಂದು ದಿವಸ ಪರಿಸರದ ಅಧ್ಯಾಪಕೇತರ ಕರ್ಮಚಾರಿಗಳಿಗೆ ಗೀತಾ ಒಲಂಪಿಯಾಡ್ ನ ಪರೀಕ್ಷೆ ಕಟ್ಟಿಸಿದ್ದರಿಂದ ಅವರಿಗೆ ಪಾಠಮಾಡುವ ವ್ಯವಸ್ಥೆ ಮಾಡಿದ್ದೆ. ಹಾಗಾಗಿ ಅವರ ಅಪೇಕ್ಷೆಯ ಮೇರೆಗೆ ನಾನು ಅವರಿಗೆ ಉಚಿತವಾಗಿ ಗೀತಾ ಪ್ರೆಸ್ ನ ಕನ್ನಡದ ಅರ್ಥ ಸಹಿತವಾದ ಭಗವದ್ಗೀತೆಯ ಪುಸ್ತಕಗಳನ್ನು ಹಂಚ್ಚುತ್ತಿದ್ದೆ. ಐದಾರು ಪ್ರತಿಗಳು ಕಡಿಮೆಯಾಗಿದ್ದರಿಂದ ಯಾವತ್ತು ನಾನು ಸೈನ್ ಮಾಡಿ ಅದನ್ನು ತರಲು ಪೇಟೆಗೆ ೯.೩೦ ಕ್ಕೆ ಹೋಗಿದ್ದೆನೋ ಆವತ್ತೇ ಸುಬ್ರಾಯ ಭಟ್ಟರು ಸೈನ್ ಮಾಡಿ ಪೇಟೆಗೆ ಹೊರಡುತ್ತಿದ್ದ ನನ್ನನ್ನು ನೋಡಿ ಅವತ್ತೇ ಡೈರೆಕ್ಟರ್ ಬಳಿಯಲ್ಲಿ ಕಂಪ್ಲೆಂಟ್ ಮಾಡಿದ್ದರು. ನಾನು ಆವತ್ತು ಹತ್ತು ಗಂಟೆಗೆ ಪುಸ್ತಕ ಖರೀದಿ ಮಾಡಿ ಬಂದ ಮೇಲೆ ತಿಳಿಯಿತು ಈ ಮನುಷ್ಯ ಡೈರೆಕ್ಟರ್ ಬಳಿಯಲ್ಲಿ ಕಂಪ್ಲೆಂಟ್ ಮಾಡಿದೆ ಅಂತ. ಹೀಗೇ ಆ ಕಾಗದದಲ್ಲಿಯೂ ಬರೆದಿದ್ದರಿಂದ ಸ್ಪಸ್ಟ ಆಯ್ತು ಏನೆಂದರೆ ಅದನ್ನು ಬರೆದಿದ್ದು ಸುಬ್ರಾಯ ಭಟ್ಟ ಮತ್ತು ಆತನ ಪಟಾಲಮ್ಮೇ ಅಂತ.

ಚಂದ್ರಕಾಂತ ಭಟ್ಟರು ಹೆಚ್. ಪಿ. ಎಲ್. ತೆಗೆದುಕೊಂಡಿದ್ದರು. ಆದರೆ ಆಫೀಸಿನ ಮಂಜುಳಾ  ಎಮ್.ಎಲ್.(ಮೆಡಿಕಲ್ ಲೀವ್) ಅಂತ ಅಟೆಂಡೆಂನ್ಸ್ ಬುಕ್ ನಲ್ಲಿ ಬರೆದಿದ್ದಳು.  ಅದು ಯಾರದ್ದೋ ಸೂಚನೆಯ ಮೇರೆಗೆ ಬರೆದಂತೆ ಅನಿಸುತ್ತದೆ. ಯಾಕೆಂದರೆ ಯಾವತ್ತೂ ಅಟೆಂಡೆಂನ್ಸ್ ಬುಕ್ ನಲ್ಲಿ ಎಮ್.ಎಲ್.(ಮೆಡಿಕಲ್ ಲೀವ್) ಅಂತ ಬರೆಯುವ ಪದ್ಧತಿ ಇಲ್ಲ. ಹಾಗಾದರೆ ಅವಳ ಕೈಯಲ್ಲಿ ಆ ರೀತಿ  ಬರೆಯಲು ಪ್ರೇರೇಪಿಸಿದವರು  ಸುಬ್ರಾಯಭಟ್ಟರ ಪಟಾಲಮ್ಮಿನವರೇ ಎಂಬುದು ಸ್ಪಸ್ಟ.

ದೇವರು ನಿಜವಾಗಲೂ ಇದ್ದಾನೆ ರೀ. ಇಲ್ಲದಿದ್ದರೆ ಖದೀಮರ ಸಂಚು ಹೇಗೆ ಬಯಲಾಗುತ್ತೆ.

Sunday, May 5, 2024

ನಮ್ಮ ಶಾಲೆ

 

ನಮ್ಮ ಶಾಲೆ

ಮೇಲ್ಮಠದ ಎದುರಿನ ಅಂಗಳದ ಉತ್ತರದಲ್ಲಿ ಎತ್ತರದಲ್ಲಿ ಒಂದು ಸಣ್ಣ ಶಾಲೆ ಇತ್ತು. ಅದರಲ್ಲಿ ೨೦/೩೦ ಅಡಿ ಉದ್ದದ ಒಂದೇ ಕೊಠಡಿ ಇದ್ದದ್ದು. ಇನ್ನೊಂದು ಕಡಿಮಾಡಿನಡಿಯಲ್ಲಿ ಸಣ್ಣ ಕೊಠಡಿಯಿತ್ತು. ಅದನ್ನು ಯಾರಾದರೂ ಹೊರಗಿನ/ಪರವೂರಿನ ಉಪಾಧ್ಯಾಯರು ಬಳಸುತ್ತಿದ್ದರು.

ನಾನು ಶಾಲೆಗೆ ೫ನೇ ವರ್ಷಕ್ಕೆ ಹೋಗಲು ಆರಂಭಿಸಿದ್ದೆ. ನನ್ನ ಅಣ್ಣಂದಿರಿಬ್ಬರು ಅಕ್ಕಂದಿರಿಬ್ಬರು ಆಗ ಆ ಶಾಲೆಗೆ ಹೋಗುತ್ತಿದ್ದರು. ನಾನಿನ್ನೂ ಒಂದನೇ ತರಗತಿಗೆ ಸೇರಿರಲಿಲ್ಲ. ಶಾಲೆಯ ಒಬ್ಬರೇ ಒಬ್ಬರು ಮಾಸ್ಟರ್ ಆದ ವೃದ್ಧ ವೆಂಕಪ್ಪ ಹೆಬ್ಬಾರ್ ರವರು ನನಗೆ ಸ್ಲೇಟ್ನಲ್ಲಿ ಅ ಆ ಇ ಈ ಎಂಬ ಅಕ್ಷರಗಳನ್ನು ದೊಡ್ಡದಾಗಿ ಬರೆದು ಕೊಡುತ್ತಿದ್ದರು. ನಾನು ಅದನ್ನು ಹೊರಗಿನ ಜಗಲಿಯಲ್ಲಿ ಕುಳಿತು ಮತ್ತೆ ಮತ್ತೆ ತಿದ್ದಿ ಬರೆಯಬೇಕಿತ್ತು. ಹಾಗೆ ತಿದ್ದಿ ತಿದ್ದಿ ಮದ್ಯಾಹ್ನ ಆಗುವಾಗ ಗೋಣಿ ದಾರದಷ್ಟು ದಪ್ಪಗಾದ ನಾಲ್ಕು ಅಕ್ಷರಗಳು ತಯಾರಾಗುತ್ತಿದ್ದವು.

ಶಾಲೆಗೆ ಹೋಗುವಾಗ ಮಳೆಗಾಲದಲ್ಲಿ ನಮಗೆ ೫ ಮಂದಿ ಅಣ್ಣ ತಮ್ಮಂದಿರಿಗೆ ಅಕ್ಕತಂಗಿಯರಿಗೆ ಕೊಡೆ ಎಲ್ಲಿಂದ ತರಬೇಕು. ಆಗ ಪ್ರಾಯಶಃ ನಮ್ಮೂರಲ್ಲಿ ಮನೆಗೊಂದು ಕೊಡೆ ಇರ್ತಿತ್ತೋ ಇಲ್ವೋ ? ಜಾರ್ನಬೇಟ್ಟಿನ ಅಜ್ಜಿ ಲಕ್ಷ್ಮ್ಯಕ್ಕ ಯಾವಗಲೂ ಮರಸಣಿಗೆಯ ದೊಡ್ಡ ಎಲೆಯನ್ನು (ದಂಟು ಸಮೇತ ಕತ್ತರಿಸಿ)  ಹಿಡಿದುಕೊಂಡೇ ಎಲ್ಲಾ ಕಡೆ ಓಡಾಡುತ್ತಿದ್ದರು. ಪ್ಲಾಸ್ಟಿಕ್ ನ ಕೊಪ್ಪೆ ತಯಾರಿಸಿ ಬಹುಶಃ ಹೆಚ್ಚಿನ ಮಕ್ಕಳು ಮಳೆಗಾಲದಲ್ಲಿ ಬಳಸುತ್ತಿದ್ದರು. ನಮಗೂ ಅದೇ ಛತ್ರಿ. ನಾನಂತೂ ಇನ್ನೂ ಸೇಫ್ ಹೇಗಂತೀರಾ ? ಇಬ್ಬರು ಅಕ್ಕಂದಿರು ಒಂದು ಪ್ಲಾಸ್ಟಿಕ್ ನ್ನು ಮುಂದೆ ಒಬ್ಬಳು ಹಿಂದೆ ಒಬ್ಬಳು ಅಂತ ಎಳೆದು ಇಡಿದುಕೊಳ್ಳುತ್ತಿದ್ದರು. ನಾನು ಅವರಿಬ್ಬರ ನಡುವೆ ಸೇಫ್. ಆಗ ಆಳುಗಳೂ ಕೂಡ ಪ್ಲಾಸ್ಟಿಕ್ ನ ಕೊಪ್ಪೆಯನ್ನು ಹೆಚ್ಚಾಗಿ ಬಳಸುತ್ತಿರಲಿಲ್ಲ. ಅದರೆ ಕೊಟ್ರಾಕ್ಯಾರ್ ದಾಟಿ ಕೆಳಸುಳಿಗೋಡಿನ(ಹಿತ್ತಲ್ಲದ) ಪಾಚಿ ತುಂಬಿದ ಸಂಕದಲ್ಲಿ(ಪಾಪು) ದಾಟುವುದು ತುಂಬ ಅಪಾಯದ ಕೆಲಸ ಆಗಿತ್ತು.

ನೆಟ್ಟಿಗಾಗುವಾಗ ಬಳಸುತ್ತಿದ್ದ ಕೊರಂಬು ತುಂಬ ಹಿತಕರ ಸಾಧನ ಆಗಿತ್ತು. ಪ್ಲಾಸ್ಟಿಕ್ ನ ಬಳಕೆ  ಆಗ ತೀರ ಕಡಿಮೆ ಇತ್ತು. ಕೊಡೆಗಳೂ ಹೆಚ್ಚಾಗಿ ಮರದ/ಬೆತ್ತದ ಜೆಲ್(ಹಿಡಿ ಮತ್ತು ಮಧ್ಯದ ಸಲಾಕೆ)ನವುಗಳೇ ಆಗಿದ್ದವು. ಅವುಗಳಲ್ಲಿ ಬಳಸು ಬಟ್ಟೆಯೂ ಕಪ್ಪಿನ ಕಾಟನ್(ಹತ್ತಿ)ಬಟ್ಟೆಯೇ ಆಗಿತ್ತು. ಅದು ಮಳೆ ಬಿಟ್ಟ ಮೇಲೆ ಒಣಗಲು ಬಹಳ ಸಮಯವನ್ನು ತೆಗೆದುಕೊಳ್ಳುತ್ತಿತ್ತು. ನಂತರ ನಾನು ೫ ನೇ ತರಗತಿಯಲ್ಲಿದ್ದಾಗ ಟೆರಿಕಾಟ್ ಬಟ್ಟೆಯನ್ನು ಬಳಸಿದ ಬಟನ್ ನ ಕೊಡೆಗಳು ಮಾರುಕಟ್ಟೆಗೆ ಬರಲು ಆರಂಭಿಸಿದವು.

ನನಗೆ  ಆರು ವರ್ಷವಾದ ಬಳಿಕ ವೆಂಕಪ್ಪ ಹೆಬ್ಬಾರ್ ರು  ನನಗೆ ಒಂದನೇ ತರಗತಿ ಗೆ ಪ್ರವೇಶ ಕೊಟ್ಟರು. ಆಗ ನನ್ನ ತರಗತಿಯಲ್ಲಿ ಒಟ್ಟು ಎಂಟು ಜನ ಮಾತ್ರ ವಿದ್ಯಾರ್ಥಿಗಳು ಇದ್ದರು.

Saturday, May 4, 2024

ಕಳ್ಳ ಭಟ್ಟಿ ತಯಾರಿ

 

ಕಳ್ಳ ಭಟ್ಟಿ ತಯಾರಿ

          ನಮ್ಮ ಗುಡ್ಡೆಯಲ್ಲಿ ಹೆಚ್ಚಲ್ಲದಿದ್ದರೂ ಸುಮಾರು ಒಂದು ಕ್ವಿಂಟಾಲ್ ಗೇರುಬೀಜವಾಗುವಷ್ಟು ಗೇರುಮರಗಳಿದ್ದವು. ಹಾಗಾಗಿ ಆ ಹಣ್ಣುಗಳನ್ನು ಬಳಸಿಕೊಂಡು ಕಳ್ಳಭಟ್ಟಿ ತಯಾರಿಸುವ ಯೋಜನೆ ಸೂರ್ಯಣ್ಣ ಶೆಟ್ಟರದ್ದಾಗಿತ್ತು. ನಮ್ಮ ಜಮೀನಿನ ಪೂರ್ವದಲ್ಲಿ ಮಿತ್ತಗುಮ್ಮೆಯಲ್ಲಿ ಒಂದು ಕೆರೆ ಇತ್ತು. ಅದರ ಪಕ್ಕದಲ್ಲಿಯೇ ನಾವು ಬೇಸಿಗೆಯಲ್ಲಿ ಯಾವಾಗಲೂ ಕೊಡದಲ್ಲಿ ಅದೇ ಕೆರೆಯಿಂದ ನೀರೆತ್ತಿ ಸ್ನಾನ ಮಾಡುತ್ತಿದ್ದೆವು. ಚಳಿಗಾಲದಲ್ಲಿ ತಣ್ಣೀರು ಸ್ನಾನ ಮಾಡಲು ಕಷ್ಟ ಅಂತ ಅಲ್ಲಿ ನಮ್ಮ ತಾಮ್ರದ ಹಂಡೆಯನ್ನು ತೆಗೆದುಕೊಂಡು ಹೋಗಿ ಬಟಾಬಯಲಿನಲ್ಲಿ ಒಂದು ಒಲೆ ಮಾಡಿ ಅಲ್ಲೇ ಬಿಸಿನೀರು ಕಾಯಿಸಿ ಸ್ನಾನ ಮಾಡುವ ಪರಿಪಾಠಿ ಮನೆಯ ಎಲ್ಲರದ್ದೂ. ಸೂರ್ಯಣ್ಣ ಶೆಟ್ಟರಿಗೆ ಈ ತಾಮ್ರದ ಹಂಡೆಯ ಮೆಲೆ ಕಣ್ಣು ಬಿತ್ತು. ಕಳ್ಳಭಟ್ಟಿ ತಯಾರಿಗೆ ಅದರ ಆವಶ್ಯಕತೆ ಇತ್ತು.

ಇನ್ನೊಂದು ಹಂಡೆಯನ್ನು ಸೂರ್ಯಣ್ಣ ಶೆಟ್ರು ಖರೀದಿಸಿ ತಂದ್ರು. ಅದರಲ್ಲಿ ಗೇರು ಹಣ್ಣುಗಳನ್ನು ತುಂಬಿಸಿ ಸ್ವಲ್ಪ ನೀರು ಬೆರೆಸಿ ೧೫ ದಿನಗಳ ಕಾಲ ಮುಚ್ಚಿ ಇಡುತ್ತಿದ್ದರು. ಗೇರುಹಣ್ಣು ಅದರಲ್ಲಿ ಕೊಳೆತು ಹುಳಿಯಾಗಿ ಹದವಾದ ಮೇಲೆ ರಾತ್ರಿ ಹೊತ್ತು ಭಟ್ಟಿ ತಯಾರಿಸುವ ಯೋಜನೆ. ಅದಕ್ಕೆ ಶೆಟ್ರಿಗೆ ಒಬ್ಬ ಸಹಾಯಕ ಬೇಕು. ಅವರಿಗೆ ಸುಲಭವಾಗಿ ಅದಕ್ಕೆ ಸಿಕ್ಕಿದ್ದು ಮತ್ತಾವಿನ ಹಬುರ ಗೌಡ. ಹಬುರ ಗೌಡ ನಮ್ಮ ಮನೆಗೆ ಯಾವಾಗಲೂ ಅಡಿಕೆ ಕೊಯ್ಲಿಗೆ, ತೆಂಗಿನಕಾಯಿ ಕೊಯ್ಲಿಗೆ, ಮಳೆಗಾಲದಲ್ಲಿ ಔಷಧಿ ಸಿಂಪರಣೆಗೆ ಬರ್ತಾ ಇದ್ದ. ತುಂಬ ಒಳ್ಳೆಯ ಮನುಷ್ಯ. ಭಟ್ಟಿ ತಯಾರಿಸಲಿಕ್ಕೆ ಶುರು ಮಾಡುವುದೇ ಆ ದಿನದ ಹಗಲಿನ ಕೆಲಸ (ನಮ್ಮ ಮನೇದು) ಮುಗಿದ ಮೇಲೆ. ಕೆಲಸ ಮುಗಿಯುವುದು ೬.೦೦ ಗಂಟೆಗೆ. ಆ ನಂತರ ಶೆಟ್ರು ೧೫ ದಿನದ ಹಿಂದೆ ಗೌಪ್ಯವಾಗಿ ತುಂಬಿಸಿ ಇಟ್ಟ ಹಂಡೆಯಿಂದ ಬಕೆಟಿನಲ್ಲಿ ಕೊಳೆತ ಗೇರುಹಣ್ಣನ್ನು ತಂದು ನಮ್ಮ ಸ್ನಾನದ ಹಂಡೆಗೆ ತುಂಬಿಸುತ್ತಿದ್ದ.  ಸುಮಾರು ಮುಕ್ಕಾಲು ಭಾಗದಷ್ಟು ಕೊಳೆತ ಗೆರು ಹಣ್ಣು ತುಂಬಿದ ಮೇಲೆ ಅದರ ಒಳಗೆ ಮುಳುಗದಂತೆ ಒಂದು ಬೋಗುಣಿಯನ್ನು (ಸುಮಾರು ೫ ಲೀ ನೀರು ತುಂಬುವಷ್ಟು ದೊಡ್ಡದು) ಹಗ್ಗದ ಸಹಾಯದಿಂದ ನೇತು ಹಾಕುತ್ತಾರೆ. ನಂತರ ಹಂಡೆಯ ಬಾಯಿಗೆ ತಾಮ್ರದ ಕಡುಬಿನ ಅಟ್ಟದ ಮುಚ್ಚಳವನ್ನು ಅಂಗಾತವಾಗಿ ಮುಚ್ಚಿ ಇಡುತ್ತಾರೆ. ಕಡುಬಿನ ಅಟ್ಟದ ಮುಚ್ಚಳ ಮತ್ತು ಹಂಡೆಯ ಬಾಯಿಯ ನಡುವಿನ ಗ್ಯಾಪ್ ನ್ನು ಅಂಟು ಮಣ್ಣು ಲೇಪಿಸಿ ಮುಚ್ಚುತ್ತಾರೆ. ನಂತರ ಅಂಗಾತ ಮುಚ್ಚಿದ ಕಡುಬಿನ ಅಟ್ಟದ ಮುಚ್ಚಳದ ಒಳಗೆ ನೀರನ್ನು ಸುರಿಯಲಾಗುತ್ತದೆ. ಸುಮಾರು ೨/೩ ಗಂಟೆಗಳ ಕಾಲ ಬಲವಾದ ಬೆಂಕಿಯಲ್ಲಿ ಕೊಳೆತ ಗೇರುಹಣ್ಣನ್ನು ಕುದಿಸಲಾಗುತ್ತದೆ. ಆ ವಧಿಯಲ್ಲಿ ಸುಮಾರು ೧೦/೧೨ ಬಾರು ಮುಚ್ಚಳದ ಮೇಲಿನ ಬಿಸಿಯಾದ ನೀರನ್ನು ತೆಗೆದು ತಣ್ಣೀರನ್ನು ಸುರಿಯಲಾಗುತ್ತದೆ. ಆಗ ಹಂಡೆಯ ಒಳಗೆ ನೆತು ಬಿಟ್ಟ ಸ್ಟೀಲಿನ ಬೋಗುಣಿಯಲ್ಲಿ ಬಾಷ್ಪೀಕರಿಸಿದ ಕೊಳೆತ ಗೇರುಹಣ್ಣಿ ನ ರಸ ಶೇಖರಣೆಯಾಗುತ್ತದೆ. ಅದರ ಪರಿಮಾಣ ಸುಮಾರು ೫ ಲೀ. ಸುಮಾರು ರಾತ್ರಿ ಹತ್ತು ಗಂಟೆಗೆ ಈ ಕೆಲಸ ಮುಗಿಯುತ್ತದೆ.

ಹಬುರನಿಗೆ ಅದರಲ್ಲಿ ಪ್ರಾಯಶಃ  ಎರಡು ಬಾರಿ ೯೦ ಕುಡಿಯುವ ಅವಕಾಶ. ಅವನಿಗೆ ಅದೇ ಸಂಬಳ. ಅದೇ ಇನಾಮು. ಉಳಿದ ಕಳ್ಳಭಟ್ಟಿಯನ್ನು ಬೇರೆ ಬೇರೆ ಬಾಟಲಿಗಳಿಗೆ ತುಂಬಿಸಿ ನಮ್ಮ ಅಡಿಕೆ ತೋಟದಲ್ಲಿ ಅಲ್ಲಲ್ಲಿ ಅಡಿಕೆ ಬುಡದಲ್ಲಿ ಶೆಟ್ರು  ಹುಗಿಸಿಟ್ಟಿರುತ್ತಾರೆ. ಯಾರದರೂ ಆಗಾಗ ಹಗಲಿನಲ್ಲಿ ಅವರನ್ನು ಕೇಳಿಕೊಂಡು ಬರುವ ಗಿರಾಕಿಗಳಿಗೆ ಶ್ಟ್ರು ಅದನ್ನು ಮಾರುತ್ತಾರೆ. ಹೇಗಿದೆ ಶೆಟ್ರ ಭಟ್ಟಿ?

Friday, May 3, 2024

ಸೂರ್ಯಣ್ಣ ಶೆಟ್ಟ್ರು.

 

ಸೂರ್ಯಣ್ಣ ಶೆಟ್ಟ್ರು.

         ನಮ್ಮ ತಂದೆಯವರು ತೀರಿ ಎರಡು ವರ್ಷದ ಬಳಿಕ ನಮ್ಮ ಮನೆಗೆ ಸೂರ್ಯಣ್ಣ ಶೆಟ್ಟರ ಆಗಮನವಾಯಿತು. ಆಗಲೇ ಶೆಟ್ರಿಗೆ ಅರವತ್ತು ವರ್ಷ ಕಳೆದಿತ್ತು. ಅವರಿಗೆ ದಿನಕ್ಕೆ ೮ ರೂಪಾಯಿ ಸಂಬಳ. ಅವರು ಚಲ್ಲ ಪೂಜಾರಿಯ ಮನೆಯಲ್ಲಿ ಪ್ರಾಯಶಃ ರಾತ್ರಿ ಉಳಿದುಕೊಳ್ಳುತ್ತಿದ್ದರು. ಚಲ್ಲ ಪೂಜಾರಿಯ ವಿಧವೆ ಮಗಳಾದ ಸಂಕ್ರಿಯ ಮೇಲೆ ಅವರಿಗೆ ಏನೋ ಅನುರಾಗ ಅಂತ ಅನಿಸುತ್ತದೆ.

          ನಮ್ಮ ಮನೆಯಲ್ಲಿ ಬೆಳಿಗ್ಗೆ ೮.೩೦ ಕ್ಕೆ ಬಂದು ಎರಡು ಮೂರು ಹೊರೆ ಸೊಪ್ಪು/ದರಲೆ ಮಾಡಿ, ೨/೩ ಹೊರೆ ಹಸಿರು ಹುಲ್ಲು ಮಾಡಿ, ತೋಟದ ಕೆಲಸ ಮಾಡಿ ದನಗಳಿಗೆ ಕೋಣಗಳಿಗೆ ಕಲಕಚ್ಚು ಕೊಟ್ಟು ಆರೈಕೆ ಮಾಡಿ ಸಂಜೆ ಸ್ನಾನ ಮಾಡಿ ಊಟ ಮಾಡಿ ೬ ಗಂಟೆಗೆ ಹೋಗುತ್ತಿದ್ದರು.

ವಿಶೇಷವಾಗಿ ಸೂರ್ಯಣ್ಣ ಶೆಟ್ರಿಗೆ ಪ್ರಿಯವಾದ ಕೆಲಸ ಅಂದರೆ ಹೂಟೆ ಮಾಡುವುದು. ಅವರು ಗದ್ದೆಯಲ್ಲಿ ಹೂಟೆ ಮಾಡಲಿಕ್ಕೆ ಕೊಣಗಳನ್ನು ಕರಕೊಂಡು ಹೋಗುವಾಗ ನಾನೂ ಕೂಡ ಹೋಗುತ್ತಿದ್ದೆ. ಅವರು ಕೋಣಗಳೆರಡಕ್ಕೆ ನೊಗ ಕಟ್ಟಿ ನೇಗಿಲನ್ನು(ನಾವೇರಿ) ಕಟ್ಟಬೇಕಿದ್ದರೆ ಇನ್ನೊಂದು ತುದಿಯಲ್ಲಿ ನೇಗಿಲ ಹಿಡಿಯನ್ನು ಹಿಡಿದುಕೊಳ್ಳಲು ಯಾರಾದರೂ ಬೇಕಾಗುತ್ತದೆ. ನಾನು ಅದಕ್ಕೆ ಆಗ ಉಪಲಭ್ಯನಿರುತ್ತಿದ್ದ ಹುಡುಗ. ಆಮೇಲೆ ಶೆಟ್ರಿಗೆ ಹತ್ತು ಗಂಟೆಗೆ ಚಾ ತಿಂಡಿ(ದೋಸೆ/ಕಡುಬು) ತೆಗೆದು ಕೊಂಡು ಹೋಗುವುದೂ ನಾನೇ. ಚಾ ಒಂದು ಲೋಟದಷ್ಟು ಸಾಕಾಗುತ್ತಿರಲಿಲ್ಲ. ಅದಕ್ಕಾಗಿ ಒಂದು ಸಣ್ಣ ಸ್ಟೀಲಿನ ಚೊಂಬು ಮನೆಯಲ್ಲಿ ಇತ್ತು.  ಆ ಚೊಂಬಿನಲ್ಲಿ ಮುಕ್ಕಲುಭಾಗ ಚಾ ಅವರಿಗೆ ಬೇಕಾಗ್ತಿತ್ತು. ಆಮೇಲೆ ಮಧ್ಯಾಹ್ನ ಹೂಟೆ ಮುಗಿದ ಮೇಲೆ ಕೋಣಗಳನ್ನು ಸ್ನಾನ ಮಾಡಿಸಲು ಪೊಸಮಠದ ಹೊಳೇಗೆ(ಗುಂಡಿಗೆ) ಕರೆದುಕೊಂಡು ಹೋಗುತ್ತಿದ್ದರು. ಆಗಲೂ ನಾನು ಹೋಗುತ್ತಿದ್ದೆ. ಜೊತೆಗೆ ಕರುಣನೂ ಇರುತ್ತಿದ್ದ. ಮಳೆಗಾಲದ ಆರಂಭ(ಕಾರ್ತಿ ತಿಂಗಳು) ಆಗಿದ್ದರಿಂದ ಮಳೆ ಬಂದು ಹೊಳೆಯಲ್ಲಿ ರಭಸವಾಗಿ ನೀರು ಹರಿಯುತ್ತಿತ್ತು. ಕೋಣಗಳು  ಸಂತೋಷದಿಂದ ಗೊಂಡಿಯಲ್ಲಿ ಈಜಾಡುತ್ತಿದ್ದಾಗ ನಾವೂ ಕೂಡ ಅದರಲ್ಲಿ ಅವುಗಳ ಜೊತೆಗೆ ಮುಳುಗೇಳುತ್ತಿದ್ದೆವು. ಅವುಗಳ ಬೆನ್ನು ಹೆಚ್ಚಾಗಿ ಮುಳುಗುತ್ತಿರಲಿಲ್ಲ ಹಾಗಾಗಿ ಬೆನ್ನಲ್ಲಿದ್ದ ಕೆಸರನ್ನು ಶೆಟ್ರು ತೊಳೆಯುತ್ತಿದ್ದರು. ಆ ಬಳಿಕ ಅವುಗಳನ್ನು ಮೇಯಲಿಕ್ಕೆ ಅಲ್ಲೇ ಬೈಲಿನ ಅಂಚಿಗೆ ಶೆಟ್ರು ಬಿಡುತ್ತಿದ್ದರು. ನಾವು ಮಧ್ಯಾಹ್ನ ಊಟ ಮುಗಿಸಿ ಅವುಗಳು ಮೇಯುತ್ತಿರುವಾಗ ಅವುಗಳ ಬೆನ್ನೇರಿ ಕುಳಿತುಕೊಳ್ಳುತ್ತಿದ್ದೆವು. ನಾನು ಕಾಳನ ಮೇಲೆ ಕುಳಿತರೆ ಕರುಣ ಬೆಳ್ಳನ ಮೇಲೆ ಕುಳಿತುಕೊಳ್ಳುತ್ತಿದ್ದ. ಆದರೆ ಅವು ಪಾಪದ ಕೋಣಗಳು. ಮೇಯುವಾಗ ಅವುಗಳಿಗೆ ನಾವು ಕುಳಿತಿರುವುದು ಕಿರಿಕಿರಿಯಾದರೂ ಸಹಿಸಿಕೊಳ್ಳುತ್ತಿದ್ದವು. ಆದರೆ ಅಮ್ಮನಿಗೆ ಗೊತ್ತಾದರೆ ಅಮ್ಮ “ಕೋಣನ ಮೇಲೆ ಕುಳಿತುಕೊಂಡ್ರೆ ಆನೆಯ ಮೇಲೆ ಮೇಲೆ ಕುಳಿತುಕೊಳ್ಳುವ ಯೋಗ ನಶಿಸುತ್ತದೆ” ಅಂತ ಬೈಯುತ್ತಿದ್ದಳು. ಆದರೆ ನಮಗೆ ಆನೆ ಎಲ್ಲಿ ಯಾವಾಗ ಸಿಗುತ್ತದೆ ? ಆ ಯೋಗ ಅಂದರೆ ಆನೆ ಸಿಕ್ಕಿದ ಮಾತ್ರಕ್ಕೆ ಕುಳಿತುಕೊಳ್ಳುವಂತಹುದಲ್ಲ. ಅದಕ್ಕೆ ಅಂಥ ಸಾಧನೆ ಮಾಡಿ ಗೌರವವನ್ನು ಸಂಪಾದಿಸಿರಬೇಕು. ಆಗ ಮಾತ್ರ ಕುಳಿತುಕೊಳ್ಳಲು ಸಾಧ್ಯ. ಇಲ್ಲದಿದ್ದರೆ ಮಾವುತ ಕೂತ ಹಾಗಾಗುತ್ತದೆ. ಮೈಸೂರು ಮಹಾರಾಜರು ಕುಳಿತ ಹಾಗಾಗುವುದಿಲ್ಲ. ಅದು ತುಂಬ ದೂರದ ಮಾತು. ಹಾಗಾಗಿ ನಾವು ಹತ್ತಿರದಲ್ಲೆ ಇದ್ದ ಕೋಣನ ಮೇಲೆ ಕೂರುವುದರಲ್ಲೇ ಸಂತೋಷ ಪಡುತ್ತಿದ್ದೆವು. ಪ್ರಾಯಶಃ ಹೆಚ್ಚಿನ ಮನುಷ್ಯರ ಪ್ರವೃತ್ತಿಯೇ ಹೀಗೆ. ದೊಡ್ಡದಾದದ್ದನ್ನು ಪಡೆಯುವ ಉದ್ದೇಶವೇ ಇಲ್ಲ, ಹಂಬಲವೂ ಇಲ್ಲ, ಪ್ರವೃತ್ತಿಯಾಗಲೀ, ಪ್ರಯತ್ನವಾಗಲೀ ಇಲ್ಲವೇ ಇಲ್ಲ. ಆದರೆ ಅಮ್ಮ ನಿರಕ್ಷರಳಾದರೂ ದೊಡ್ಡದಾದ ಲಕ್ಷ್ಯವನ್ನು ತೋರಿಸುವ ಕೆಲಸ ಮಾಡಿದ್ದಾಳೆ. ನಾವು ದಡ್ರು ಅಷ್ಟೇ.