Monday, March 21, 2022

10. हविल्दार अब्दुल हमीदः

 

10. हविल्दार अब्दुल हमीदः

 

अब्दुल हमीदः उत्तरप्रदेशस्य  गाजीपुरमण्डले धामपुर इत्याख्ये ग्रामे  १९३३ तमे इसवीयवर्षे  जुलैमासस्य प्रथमदिनाङ्के  जन्म प्राप्तवान् ।  तस्य पिता मुहम्मद उस्मान् सौचिकः आसीत् । तस्य चत्वारो भ्रातरः , द्वे सहोदर्यौ च आस्ताम् ।

अब्दुल हमीदः १९५४ तमे वर्षे दिसेम्बरमासस्य २७ तमे दिनाङ्के  भारतीयसैन्यस्य Grenediear Regiment इत्याख्ये सेनाङ्गे  नियुक्तः अभवत् ।  सः १९६२ तमे वर्षे  ओक्टोबरमासे  भारतचीनयोः मध्ये प्रवृत्ते युद्धे भागं गॄहीतवान् आसीत् ।

आपरेशम् जिब्राल्टर् इति नाम्ना पाकिस्थानस्य सैन्यशासनेन  भारतस्य आधीन्ये  विद्यमानस्य काश्मीरस्य म्लेच्छान् भारतशासनात् मोचयितुं कृतः विफलः प्रयासः  एव १९६५वर्षस्य  भारतपाकिस्थानयुद्धमस्ति ।

भारतपाकिस्थानयोः युद्धं न केवलं काश्मीरप्रदेशे प्रवृत्तम्, प्रत्युत द्वयोरपि देशयोः समग्रसीमायां प्रवृत्तम् । भारतचीनयोः युद्धे भारतस्य पराजयेन नेहरूमहोदयस्य मरणात्परं साधुस्वभाववतः लालबहादूरशास्त्रिवर्यस्य प्रधानमन्त्रीपदग्रहणेन च आनन्दितः पाकिस्थानदेशः  भारतं  साम्प्रतं दुर्बलमस्ति इति  मन्वानः तदुपरि आक्रमणं कर्तुं प्रयत्तवान् ।  काश्मीरस्य सीमायां त्रिंशत्सहस्रं  पाकिस्थानीयसैनिकान्  काश्मीरस्य ग्रामीणानां वेशभूषैः सीमायाः अन्तः सम्प्रेष्य  आरम्भिकं साफल्यं प्राप्नोत् । तदा सज्जनः शास्त्रिमहोदयः राष्ट्रीयसुरक्षासमितेः(National Defence Committee) उपवेशनं सत्वरं कारयित्वा   निमेषद्वयाभ्यन्तरे निर्णीय आदिशत् यत्  “काश्मीरं स्वायत्तीकर्तुं शत्रुदेशः प्रयतमानः अस्ति चेत् भवन्तः लाहोर्-नगरं आक्रम्य स्वायत्तीकुर्वन्तु” इति । एतादृशेन अचिन्तितेन तार्किकमार्गदर्शनपूर्णेन आदेशेन उत्साहितं भारतीयसैन्यं  4th Infantry Division इत्यस्मै सेनाङ्गाय तदुत्तरदायित्वं प्रायच्छत् ।  किन्तु तदानीं पाकिस्थानस्य पार्श्वे  भारतापेक्षया अधिकाः शतघ्न्यः(Tanker) आसन् । भारतस्य पार्श्वे तदानीं केवलं ७२० शतघ्न्यः आसन् । पाकिस्थानस्य पार्श्वे ७५६ शतघ्न्यः आसन् ।  ताः अपि नूतनतया निर्मिताः  अमेरिकादेशेन प्रदत्ताः  अधिकसामर्थ्ययुक्ताः  रात्रावपि युद्धं कर्तुं समर्थाः (Fecilitated with Night Vision)  अधिकतन्त्रज्ञानयुक्ताः आसन् ।  तेषां पार्श्वे विद्यमानानि विमानानि अपि अत्यधिकवेगयुक्तानि अत्याधुनिकानि आसन् ।  एतेषु अधिकाधिकानि अमेरिकादेशेन एव प्रदत्तानि आसन् । भारतस्य समीपे तु रशियादेशात् क्रीतानि  प्राचीनानि विमानानि, कानिचन स्वदेशीयानि च  आसन् । किन्तु अस्माकं सैनिकानां मनोबलं समर्पणभावः शौर्यं च अतुल्यम् अप्रतिमं च आसीत् । अतः अस्मिन् युद्धे  भारतेन विजयः प्राप्तः ।  यदि संयुक्तराष्ट्रसङ्घः  युद्धविरामार्थं  आग्रहं न अकरिष्यत् तर्हि अस्माकं सैनिकाः  पाकिस्थानस्य कापट्यं  पूर्णं मर्दयित्वा तस्य जम्बूकप्रवृत्तेः निग्रहम् अकरिष्यन् ।

अब्दुल् हमीदः विरामं स्वीकृत्य स्वगृहं गतवान् आसीत् ।  सैन्येन तस्मै युद्धार्थं Teligram  यदा प्रेषितं तदा सः सत्वरं गृहात् प्रस्थितः । किन्तु प्रस्थानसमये तस्य स्यूतस्य रज्जुः छिन्ना अभवत् । एतत् शुभचिह्नं नास्ति इति मत्वा तस्य पत्नी युद्धार्थं  साम्प्रतं मा गच्छतु इति आग्रहं कर्तुम् उद्युक्ता ।  अब्दुल् हमीदः तत् उपेक्ष्य सैकल्-यानेन प्रस्थितः । तदा तस्य सैकल्-यानस्य शृङ्खला छिन्ना अभवत् ।  सः द्विचक्रिकां तत्रैव परित्यज्य वस्तूनां बन्धं शिरसि आरोप्य  पद्भ्यामेव रेल्-निस्थानं प्रति प्रस्थितवान् । यदा सः रेल्-निस्थानं प्रति आगतः  तदा तस्य रेल्-यानं निर्गतम् आसीत् ।  तदा सर्वेऽपि तस्य सुहृदः  उक्तवन्तः  - “एकस्य अनन्तरम् एकमिव अशुभचिह्नानि एव दृश्यन्ते । अतः भवान् युद्धार्थं मा गच्छतु” इति । किन्तु अब्दुल् हमीदः तन्न श्रुतवान् । तस्य देशभक्तिः असीमा आसीत् । अतः सः उत्तरवर्ति यानं आरुह्य रणक्षेत्रं प्राप्नोत् ।

सेप्ट्म्बरमासस्य सप्तमे दिनाङ्के  4Grenedier इति सेनाङ्गं  मध्यरात्रिकाले खेमकरण इत्याख्यं स्थलं प्राप्नोत् । कसूर्-खेमकरण-सरण्यामेव  वस्तुतः  शतघ्नीनां उपयोगेन  घोरयुद्धं प्रवृत्तमासीत् यत्र हविल्दार् अब्दुल् हमीदः  भागं गृहीतवान् ।


          खेमकरणतः गत्वा चीमा इत्याख्ये ग्रामे रात्रौ सुरक्षागर्तं निर्माय अस्माकं
4Grenedier   सैनिकाः शत्रोः आगमनं प्रतीक्षमाणाः आसन् । क्वचित् Engineering विभागेन  विस्फोटकानामपि निखननं कृतमासीत् ।  तस्मिन् प्रान्ते  व्यापकरूपेण केदारेषु इक्षोः आरोपणां कृतमासीत् । शत्रुभिः अत्यधिकमात्रया  शतघ्नीनाम् उपयोगः क्रियमाणः आसीत् । भारतस्य पार्श्वे आहत्य  पाकिस्थानापेक्षया  अधिकाः शतघ्न्यः न आसन् । अपि च तेषु  काश्चन चीनासीम्नि बङ्गालस्य च सीम्नि पूर्वसुरक्षायै नियोजनाय व्यवस्थीकृता आसन् ।   प्रकृते युद्धक्षेत्रे  भारतस्य पार्श्वे अत्यल्पसंख्याकाः एव शतघ्न्यः  उपयुक्ताः, याश्च पुरातन्यः आसन् । शतघ्नीनां न्यूनताकारणात् जीपयाने संयोजिता RCL भुषुण्डिका उपयुक्ता ।  यथा शतघ्न्यःभूतले मार्गेण विनापि यत्र कुत्रापि गन्तुं प्रभवन्ति तथा जीपयानं गन्तुं न शक्नोति ।  अतः आदावेव शत्रोरागमनमार्गम् ऊहित्वा कुत्रचित् गुप्तरूपेण तस्य तस्य प्रतिष्ठापनं कर्तव्यं भवति स्म । ततः एव लक्ष्यभूतंस्य शत्रोः  समीपम् आगमनपर्यन्तं प्रतीक्ष्य पश्चात् क्षणाभ्यन्तरे  लक्ष्यं केन्द्रीकृत्य प्रहारः कर्तव्यः आसीत् ।  शत्रुः अस्माकं जीपयानं पश्यति चेत्  सत्वरं अनायासेन शतघ्नीम् अपेक्षानुसारं इतस्ततः चालयित्वा  झटिति लक्ष्यं प्रहर्तुमर्हति ।

प्रथमे दिने शतघ्नीनां त्रितयं आगतम् । अब्दुल हमीदः एतादृश्यां विषमपरिस्थितौ दशगजपरिमिते दूरे एकां शतघ्नीं विस्फोटितवान् ।तत् ज्वलन्तीं शतघ्नीं दृष्ट्वा  पृष्ठतः विद्यमानयोः द्वाभ्यां शतघ्नीभ्यां  शत्रवः ततः कूर्दित्वा  पलायनं कृतवन्तः । पुनः ११.३० वादनवेलायां इतोऽपि शतघ्न्यः प्रहारं कुर्वत्यः एव  अग्रे आगताः । तदा पुनः अब्दुल हमीदः  इतस्ततः आत्मरक्षां कुर्वन्नेव उचिते स्थले जीपयानं  नियोजयन् शतघ्नीद्वयं ध्वंसीकृतवान् ।

अनन्तरं सेप्टम्बरमासस्य नवमे दिनाङ्के वैमानिकप्रहारेण सह शतघ्नीनां उपयोगः शत्रुभिः कृतः । तत्र तु बहवो हि अस्माकं सैनिकाः वीरमरणं प्राप्तवन्तः ।

09. मेजर् सैतानसिंहः

 

09. मेजर् सैतानसिंहः

 

मेजर् सैतानसिंहः १/१२/१९२४ तमे दिनाङ्के राजस्थानस्य जोधपुरमण्डले बाणसर इत्याख्ये ग्रामे  भाटि इत्याख्ये रजपूतपरिवारे जन्म प्राप्तवान् ।  तस्य पिता हेमसिंहः  भारतीये सैन्ये एव लेप्टिनेण्ट् कर्नल् इत्याख्ये पदे आसीत् ।  सः प्रथमविश्वयुद्धावसरे फ्रान्स्-देशे कार्यं कृत्वा “Order of the British Empire इति पुरस्कारं प्राप्तवान् आसीत् ।

सैतानसिंहः मेट्रिक्युलेशन्-पर्यन्तं जोधपुरे एव अध्ययनं कृतवान् । जस्वन्तकालेज् इत्यत्र  स्नातकोपाधिं  १/८/१९४९ तमे वर्षे प्राप्य  जोधपुर-राजसंस्थानस्य सुरक्षाविभागे अधिकारित्वेन नियुक्तः । पश्चात् जोधपुर-राजसंस्थानस्य भारतसर्वकारेण सह यद विलयो जातः तदा कुमाओ रेजिमेण्ट् इत्याख्ये  सेनाङ्गे  स्थानान्तरितः अभवत् ।  सः क्याप्टन् पदे  पदोन्नतिं प्राप्य १९५३ तमे वर्षे नागापर्वतेषु प्रवृत्तायां सैनिककार्यप्रक्रियायां  भागमग्रहीत् । पश्चात् १९६१ तमे वर्षे गोवाराज्यस्य विमोचनाय अपि कार्यम् अकरोत् ।

अनन्तरं १९६२ तमे वर्षे  नवम्बरमासस्य शीतकाले  लद्दाकप्रान्ते  चुसूल् सेक्टर् इत्यत्र  १६००० पदपरिमेते औन्नत्ये  तुहिनवर्षे जायमाने युद्धार्थम् अपेक्षितेषु प्राथमिकसौविध्येषु अलब्धेषु अपि (पर्वतीययुद्धपरिणत्यभावेऽपि) कुमाओ-रेजिमेण्ट् इत्यस्य 13th Battalion इत्यस्य   C-Company मध्ये  विद्यमानाः १२४ रजपूतसैनिकाः मेजर् सैतानसिंहस्य नेतृत्वे जगत्प्रसिद्धस्य रेसाङ्ग्लायुद्धस्य  श्रेयोविधातारः अभवन् ।

१८/११/१९६२ तमे दिनाङ्के प्रातः पञ्चवादने चैनाशत्रवः प्रवाहवत् आक्रमणं कर्तुम् आरब्धवन्तः । भारतीयाः सैनिकाःLight Machine Gun, Mortar, Rifle, Grenade    उपयुज्य अतिसमीपं यावत् शत्रूणाम् आगमनपर्यन्तं प्रतीक्ष्य  सत्वरं प्रहर्तुम् आरब्धवन्तः । प्रातः ५.४० वादने  शत्रवः शतघ्नीः (Artillery) उपयुज्य  अस्मदीयानाम् उपरि आक्रमणं कर्तुम् आरब्धवन्तः । अपि च ३५० संख्याकाः शत्रुसैनिकाः  प्रवाहवत्  अस्मदीयान् उपासर्पन् । शत्रूणाम् इदमपि आक्रमणम् अस्मदीयैः रजपूतसैनिकैः विफलीकृतम् । शत्रवः तस्मिन् पर्याये साफल्यं न प्राप्तवन्तः इत्यतः  पुनः तृतीयचक्रे पृष्टतः ४०० संख्याकाः शत्रवः आगत्य  प्रहर्तुम् उद्युक्ताः ।  यदा अस्मदीयाः केवलं  २० सैनिकाः एव अवशिष्टाः , शस्त्राणि च परिसमाप्तानि तदा सुरक्षागर्तेभ्यः (Trench) बहिरागत्य शत्रुभिः सह  मुष्टामुष्टिमेव कृत्वा बहून् मारितवन्तः ।

मेजर् सैतानसिंहः  निरन्तरं तस्य  सप्तमे अष्टमे नवमे च सैनिकसमूहे(Platoon) गमनागमनं कुर्वन्  सफलयुद्धाय  स्वगणस्य पुनःसङ्घटनं कुर्वन्  सैनिकान् प्रेरयन् आसीत् ।  स्वयमपि Light Machine Gun  उपयुज्य बहून् शत्रून् मारितवान् । स्वस्य सुरक्षाविषये ईषदपि चिन्ताम् अकृत्वा  अन्तिमोच्छ्वासपर्यन्तमपि अदम्यं साहसं प्रदर्शयितुम् एव स्वीयान् सैनिकान् सज्जीकृतवान् ।

अत्यन्तं व्रणितः यदा जातः  तदापि हस्तद्वयं विदीर्णं/विच्छिद्रं जातं चेदपि  एकं सैनिकम् उक्त्वा  भुषुण्डिकायाः पिञ्जं स्वपादाङ्गुल्या सह रज्वा बध्वा आन्तं यावत् युद्धं कृतवान् मेजर् सैतानसिंहः 

पश्चात् शीतकालं समाप्य यदा भारतीयसैनिकदलं तत्र अगमत् तदा तस्यामेव  अवस्थायाम् (पादाङ्गुल्या भुषुण्डिकापिञ्जस्य बन्धनस्य अवस्थायाम्) तस्य शवः तुहिनस्य मध्ये उपलब्धः  । देशस्य सुरक्षार्थम् ईदृशरूपेण प्राणान् त्यक्तवताम् सम्माननाय  परमवीरचक्रमपि अपर्याप्तमिति भासते ननु ? सर्वेऽपि भारतीयाः  एतादृशानां परमोच्चं त्यागं बलिदानञ्च  यदा सततं स्मर्तुम् आरभन्ते तदैव वस्तुतः  तस्य बलिदानं सार्थकं भविष्यति ।

 

Sunday, November 21, 2021

8. सुबेदार जोगिन्दरसिंहः

 

8. सुबेदार  जोगिन्दरसिंहः

          सुबेदार जोगिन्दरसिंहः  १९२१ तमे वर्षे सेप्टम्बरमासस्य २८ तमे दिनाङ्के  पञ्जाबराज्यस्य मोगा इत्यत्र  एकस्मिन् कृषकपरिवारे जन्म प्राप्तवान् ।

१९३६ तमे वर्षे सः भारतीयसैन्यं आङ्लेयानां शासनकाले  सिख्-रेजिमेण्ट् इत्यस्य  1st Batalian सेनाङ्गे प्रविष्टवान् । अध्ययने एतस्य महती रुचिरासीत्  इत्यतः सैन्ये स्थित्वा एव  अध्ययनं कृत्वा परीक्षां च उत्तीर्य Unit Education Instructor रूपेण नियुक्तः अभवत् । द्वितीयविश्वयुद्धावसरे एषः बर्माप्रदेशे युद्धं कृतवान् आसीत् । पश्चात् १९४८ तमे वर्षे काश्मीरस्य श्रीनगरे पाकिस्थानीयैः  शत्रुभिः सह अपि युद्धं कृतवान् आसीत् ।  अनन्तरं १९६२ तमे वर्षे अक्टोबरमासस्य नवमे दिनाङ्के  NEFA विभागस्य बुम्ला पास् इत्याख्यायां पर्वतश्रेण्यां २० सैनिकैः सह चैनादेशस्य सैन्यं प्रतिरोद्धुं  आदिष्टः ।

          बुम्ला-पास्-तः अग्रे  उत्तरदिशि नम्काचुनद्याः तीरे अत्यन्तम् असुरक्षिते स्थले  नेहरूवर्यस्य सैन्यविरोधिनीतेः(फार्वर्ड-पालिसि) नीतेः कारणतः एकं फार्वर्ड् पोष्ट् निर्माय तत्संरक्षणाय भारतीयसैनिकाः मृत्युमुखे प्रवृत्ताः आसन् ।

          ओक्टोबरमासस्य २० तमे दिनाङ्के प्रातः ४.३० वादने चैनाशत्रवः अस्माकं तत्र स्थितानां सैनिकानाम् उपरि आक्रम्य सर्वानपि मारितवन्तः । पश्चात् भारतस्य सीम्नि  अरुणाचलप्रदेशे विद्यमानं  तवाङ्ग इत्याख्यं जिल्लाकेन्द्रं  स्वायत्तीकर्तुं योजनां अकुर्वन् ।  किन्तु तत्र उपसर्तुम् अवरोधकत्वेन  मध्येमार्गं  सुबेदार जोगिन्दरसिंहस्य सैनिकसमूहः आसीत् । अतः चैनादेशीयं सैन्यं त्रिषु पर्यायेषु  जोगिन्दरसिंहस्य सैनिकगणस्य उपरि आक्रमणम् अकरोत् ।  प्रतिपर्यायम् आक्रमणसमये चैनादेशीये सैन्ये  २०० सैनिकाः भवन्ति स्म । एतस्य गणे आरम्भे ओक्टोबरमासे नवमे दिनाङ्के  गताः २० सैनिकाः एव आसन् । (मध्ये मध्ये Reinforcement  न दीयते स्म ।)

          ओक्टोबरमासस्य २३ तमे दिनाङ्के प्रातः ५.३० वादने प्रथमचक्रे चैनादेशस्य २०० सैनिकाः अत्याधुनिकैः  शस्त्रास्त्रैः सुबेदारजोगिन्दरसिंहस्य गणस्य उपरि आक्रमणं कर्तुम् आरभन्त । सुबेदारजोगिन्दरसिंहस्य मार्गदर्शने  सिख्-सैनिकाः  अत्यन्तं शौर्यं प्रदर्श्य  शत्रून् पराजेतुं  समर्था अभवन् । अनन्तरं पुनः द्वितीयचरणे २०० सैनिकाः आक्रमणं कृतवन्तः । तदानीमपि शत्रवः सफलतया परास्ताः । किन्तु एतस्य सुबेदारजोगिन्दरसिंहस्य गणे अर्धः भागः नष्टः आसीत् । स्वयं जोगिन्दरसिंहः व्रणितः आसीत् । तस्य पार्श्वे शस्त्रास्त्राण्यपि नासन् । इतोऽपि शस्त्रसाहाय्यं कर्तुं सैनिककेन्द्रं प्रति सन्देशः प्रेषितः चेदपि किमपि प्रयोजनं न प्राप्तम् । अन्ते तृतीयचरणे  भुषुण्डिकानां अग्रभागः(Bionet) एव एतेषां शस्त्राणि संवृत्तानि ।

          अवशिष्टाः सिख्-सैनिकाः  “वाहे गुरूजी का खाल्सा, वाहे गुरूजी का फतेह” इति युद्धघोषं कुर्वन्तः Bionet द्वारा शत्रून् निग्रहीतुं प्रवृत्ताः । शस्त्रविहीनाः अस्माकं दश सैनिकाः द्विशतं संख्याकैः सशस्त्रैः शत्रुभिः सह  युद्धं कृत्वा Bionet माध्यमेनापि बहून् शत्रून् हन्तुं समर्थाः अभवन् । किन्तु एतत् सर्वं शौर्यं क्षणार्धं यावदेव शक्यमासीत् । यतो हि बलाबले  किञ्चिदपि साम्यं न आसीत् ।  अन्ते अत्यन्तं व्रणितः जोगिन्दरसिंहः शत्रुभिः चैनासैनिकैः बद्धः अभवत् ।  किन्तु व्रणाधिक्यात्  सत्वरं वीरस्वर्गमपि प्राप्नोत् ।  जोगिन्दरसिंहस्य एतत् अप्रतिमं शौर्यं  विज्ञाय भारतसर्वकारः तस्मै मरणोत्तरम् अत्युच्चं सैनिकपुरस्कारं परमवीरचक्रं प्रायच्छत् ।

7.मेजर धनसिंह थापा

 

7.मेजर धनसिंह थापा

         

मेजर धनसिंह थापा मूलतः नेपालदेशीयः ।  सः १९२८ तमे वर्षे  एप्रिलमासस्य दशमे दिनाङ्के  हिमाचलप्रदेशस्य शिम्ला इत्याख्ये नगरे जन्म प्राप्तवान् । सः १९४९ तमे वर्षे  भारतीयसैन्यस्य गूर्खा बेटालियन् इत्याख्ये सेनाङ्गे  आगष्टमासे सैन्याधिकारित्वेन नियुक्तः अभवत् ।

चीनदेशः त्रिविष्टपस्य(तिब्बत) उपरि १९४९ तमे वर्षे  एव आक्रमणं कर्तुम् आरभत । चीनदेशे साम्यवादिशासनं (Communist) चलति स्म इत्यतः, नेहरूवर्यस्य तत्सिद्धान्ते आदरः आसीत् इत्यतश्च  त्रिविष्टपस्य विषये  भारतस्य यः परम्परया सम्प्राप्तः  अधिकारः आसीत् तमधिकारं  सर्वमपि नेहरूवर्यः अन्धवत् निर्बन्धं विना चीनदेशाय समार्पयत् । तदपि युद्धे पराजयप्राप्तेः ८ वर्षेभ्यः प्रागेव ।[1] अतः भारतीयानां सर्वासां प्रजानां  तद्विषये महान् क्रोधः आसीत् । साम्यवादस्य विस्तरणवादिनीत्यनुसारं चीनदेशः केवलेन त्रिविष्टपेन असन्तुष्टः सन् भारतस्य लद्दाकप्रान्ते  अक्सायचिन् इत्याख्यं सुविशालं भूप्रदेशं  १९४८ तमे वर्षे एव पाकिस्थानस्य साहाय्येन  उपायेन स्वायत्तीकृतवान् आसीत् ।

पश्चात् कालान्तरे भारतस्य उपरि आक्रमणं कर्तुं त्रिविष्टपे सर्वविधां सिद्धतां चीनदेशः कुर्वन्नेव आसीत् ।

किन्तु भारते सैन्यं सबलयितुं सैन्येन नैरन्तर्येण कृतां प्रार्थनां नेहरूमहोदयः तिरस्कृत्य सैन्याधिकारिणाम् अवमाननं  च यथासम्भवं कृत्वा सैन्यस्य सम्पूर्णाम् उपेक्षां कृतवान् आसीत् ।

चीनदेशः तु १०० % सज्जीभूय  युद्धार्थं यदा अस्माकं द्वारे एव उपस्थितः  तदानीमपि सैन्यस्य आग्रहं तिरस्कृत्य कस्यचित् सिविल्-अधिकारिणः वचनं श्रुत्वा  Forward Policy इत्याख्यां घोरां नीतिम् आश्रित्य  शत्रुनिग्रहमपि अकृत्वा  देशवासिनां मुखपिधानाय सर्वथा अयुक्तं आत्महत्यासदृशं मार्गं (यच्च देशाय अत्यन्तं घातकं) नेहरूवर्यः अनुसृतवान् ।

मेजर धनसिंह थापा एतस्याः Forward Policy इत्यस्याः  नीतेः अनुसारं  लद्दाकप्रान्तस्य पेनगाङ्ग इत्याख्यस्य सरसः उत्तरदिशि सिरिजैप् इत्यस्मिन् प्रदेशे Forward Post निर्माय  तत्र तत्संरक्षणाय स्थातुं नियुक्तः अभवत् । सिरिजैप् इत्याख्यः प्रदेशः  ४८ KM2  विस्तारयुक्तः आसीत् । धनसिंहस्य सैनिकगणे विद्यमानानां २८ सैनिकानाम् उत्तरदायित्वम् इदमासीत् यत् सिरिजैप् इत्यस्य संरक्षणम् इति ।

शीतकालस्य आरम्भः जातः आसीत् ।

तुहिनाच्छादिते पर्वते एतैः गर्तं निर्माय Forward Post निर्मातव्यमासीत् ।  १९६२ तमे वर्षे  ओक्टोबरमासस्य १९तमे दिनाङ्के  सैन्येन आदिष्टः धनसिंहस्य गणः  तत्र कार्यमारभत ।

२० तमे दिनाङ्के  प्रातः चतुर्वादने  षट्शतेन  सङ्ख्यया  शत्रवः एतेषाम् उपरि  अत्याधुनिकैः शस्त्रैः  आक्रमणं कर्तुम् आरभन्त ।  धनसिंहस्य गणः  काले प्रतिक्रियां प्रदाय  शत्रोः महतीं हानिं प्रथमचक्रे कृत्वा सफलः  सञ्जातः ।  तावता एतस्य गणे  सप्त एव सैनिकाः अवशिष्टाः आसन् ।  पुनः द्वितीयचक्रे यदा शत्रुदलं आक्रमणं कर्तुम् आरभत  तदा स्वसमीपं शत्रोः आगमनपर्यन्तं प्रतीक्ष्य पश्चात् सत्वरं प्रतिक्रियां दत्वा  पुनः शत्रून् पराजितवन्तः अस्माकं वीरयोद्धारः ।  तृतीयचक्रे शत्रोः शतघ्न्यः(Tankers) अपि अग्निवर्षं कर्तुम् आरभन्त   धनसिंहस्य गणॆ तदा केवलं त्रयः एव सैनिकाः अवशिष्टाः आसन् ।  शस्त्राणि अपि सर्वाणि समाप्तानि आसन् ।  तथापि सुरक्षागर्तात्  बहिरागत्य  Bionet इत्याख्येन भुषुण्डिकाग्रेण अस्मत्सैनिकाः शत्रून् प्रहर्तुम् आरब्धवन्तः । तावता सर्वासु दिक्षु आवृताः शत्रवः  धनसिंहस्य गणं बध्वा  युद्धबन्धित्वेन चीनदेशं नीतवन्तः ।

एतन्मध्ये कश्चन सैनिकः  पराजये सुनिश्चिते  आत्मरक्षां कृत्वा अस्माकं सैनिककेन्द्रं प्रति कष्टेन प्रत्यागत्य अस्माकं सैनिकगणस्य पराजयस्य  समूर्णां वार्तां श्रावितवान् ।  पश्चात् सैन्याधिकारिभिः  धनसिंहस्य शौर्यं साहसं च परिगणय्य  प्रेषितप्रस्तावानुसारं  १९६३ तमे वर्षे  भारतसर्वकारः  धनसिंहस्य कृते  मरणोत्तरं परमवीरचक्रं  उदघोषयत् ।  अयं शत्रुभिः बद्धः अस्ति, न मृतः इति  सर्वकारेण न ज्ञातमासीत् । सैन्याधिकारिभिः तस्य पत्न्यै  भर्तुः वीरमरणस्य/बलिदानस्य वार्ता अपि पत्रद्वारा प्रेषिता आसीत् ।  तत्परिवारीयाः  तस्य और्ध्वदैहिकं अन्त्यसंस्कारं सर्वमपि  तदीयपरम्परानुगुणं  कृतवन्तः आसन् । तत्पत्नी गर्भवती आसीत् । सा गर्भवती सती एव  विधवावस्त्रमपि धारयितुम् आरब्धवती आसीत् ।  अनन्तरम् एकस्मै शिशवे  जन्म दत्तवती ।

एतन्मध्ये रैफल्मन् तुलसीराम इत्याख्यः  धनसिंहस्य गणॆ स्थित्वा  चीनीयैः बद्धः सैनिकः चातुर्येण कथमपि आत्मानं मोचयित्वा दिनचतुष्टयं यावत् हिमालयपर्वते चलन् शत्रूणां दृष्टिपथे अपि अनागत्य  सैनिककेन्द्रं प्रति प्रत्यागमने सफलो जातः । सः धनसिंहस्य अन्येषां च त्रयाणां बन्धनस्य वार्तां श्रावयित्वा धनसिंहः जीवितो वर्तते  इति उक्तवान् ।



[1]  अत एव साम्प्रतम् अस्मदीयैः  कैलासमानसयात्रा  करणीया चेत्  चीनदेशाय १५०००० रूप्यकाणि दातव्यानि भवन्ति ।

Monday, October 25, 2021

6. Captain गुरुबचनसिंह सलारिया

 

6. Captain  गुरुबचनसिंह सलारिया

Captain  गुरुबचनसिंहः इदानीन्तनस्य  पाकिस्थानस्य  नरोवलमण्डलस्य  शकरघरनगरे १९३५ तमे वर्षे  नवम्बरमासस्य २९ तमे दिनाङ्के जन्म प्राप्नोत् । सः (१९४६ तमे वर्षे)  King Georges Royal Indian Military Collage Banglore इत्यस्य National Defence Academy इत्यस्य च छात्रचरः आसीत् ।

 सः गूर्खारैफल्स् इत्याख्ये सेनाङ्गे  क्याप्टन् इति पदे  १९५७ तमे वर्षे नियुक्तः आसीत् ।

१९६१तमे वर्षे दिसम्बरमासस्य पञ्चमे दिनाङ्के संयुक्तराष्ट्रसंघस्य शान्तिसंरक्षकदले  स्थित्वा  षोडशसैनिकैः सह  गुरुबचनसिंहः काङ्गोगणराज्यस्य  State of Katenga  इत्यत्र एलिजबेत् विले इत्यस्य विमाननिस्थानस्य गमनमार्गे प्रत्येकतावादिनां समूहेन कृतं मार्गावरोधकं उन्मूलयेत् इति आदेशः एतस्य कृते आसीत् ।

प्रत्येकतावादिनः यानद्वये उपशतं सैनिकाः आसन् ।  विमाननिस्थाने गमनाय विद्यमानस्य प्रधानमार्गस्य  मोचनात् पूर्वं  उपमार्गः प्रत्येकतावादिभ्यः मोचनीयः इति विचिन्त्य गुरुबचनसिंहः राकेट्-लाञ्चर्-माध्यमेन तदुपरि आक्रमणं कर्तुं  आरब्धवान् । यदा आरम्भे प्रत्येकतावादिनः एतस्य आक्रमणात्  सन्दिग्धताम् अनुभूय  तदीयदलस्य पुनःसङ्घटनाय प्रवृत्ताः तदा एव “अयं सुसमयः” इति विचिन्त्य गुरुबचनसिंहस्य दलेन गोलिकावर्षणमेव कृतम् । अनेन ४० संख्याकाः प्रत्येकतावादिनः मृताः ।  अवशिष्टाः भीत्या एव पलायनं कृतवन्तः । किन्तु अन्तिमसमये  शत्रूणां गोलिकाद्वयं गुरुबचनस्य ग्रीवायां प्रविष्टमित्यतः अन्ते सः वीरमरणम् अवाप्नोत् । तदानीं तस्य वयः आसीत् २६ वर्षाणि ।

प्रधानमन्त्री नरेन्द्रमोदीवर्यः २०१७ तमे वर्षे अक्टोबरमासे  “मन की बात”  इति कार्यक्रमे  तस्य त्यागं बलिदानं च कार्तज्ञ्येन संस्मृतवात् ।

१९६१तमे वर्षे काङ्गोगणराज्यं प्रति  तदानीन्तनेन नेहरूसर्वकारेण संयुक्तराष्ट्रसङ्घस्य शान्तिसंरक्षकदले १ब्रिगेड् परिमितं सैन्यं  इत्युक्ते चतुस्सहस्रं सैनिकाः प्रेषिताः आसन् । किन्तु तेनैव नेहरूसर्वकारेण  चैनादेशीयेभ्यः अस्माकं देशस्य संरक्षणाय भारतीयसैन्येन असकृत् प्रार्थितं चेदपि  पूर्णरूपेण एकं ब्रिगेड् परिमितम् अपि सैन्यं  युद्धार्थं प्रेषयितुम् अनुमतिः न दत्ता असीत् । सैन्याय अत्यन्तं प्राथमिकं सौविध्यमपि कल्पयितुं सिद्धः नासीत् नेहरूसर्वकारः । संयुक्तराष्ट्रसंघस्य सुरक्षासमितेः सदस्यत्वं  प्राप्यमाणमपि निराकृत्य शत्रवे चीनदेशाय तत् दापयितुं प्रवृत्तः आसीत् नेहरू । निष्प्रयोजके संयुक्तराष्ट्रसङ्घस्य शान्तिसंरक्षकदले १ब्रिगेड् परिमितं सैन्यं प्रेषयित्वा स्वदेशस्य आपदः(चैना-आक्रमणकाले) काले विदेशेषु भ्रमणं कुर्वन्नासीत् गान्धीप्रियः देशस्य प्रथमप्रधानमन्त्री, अस्य देशस्य कल्याणाय कीदृशीं सन्ततिपरम्पराम् उत्पादयेत् ? कति गुरुबचनसिंहाः स्वप्राणान् वृथा परित्यजेयुः ?

 

5 Captain करम सिंहः Lance Nayak

 

क्याप्टन् करमसिंहः Lance Nayak

 

पञ्जाबराज्यस्य बर्नाला इत्याख्यस्य मण्डलस्य सेहनाख्ये ग्रामे १९१५ तमे वर्षे सेप्टम्बरमासस्य १५ दिनाङ्के एकस्मिन् कृषकपरिवारे Lance Nayak करमसिंहः जन्म प्राप्तवान् । शारीरिकरूपेण अत्यन्तं सुदृढः करमसिंहः कबड्डीसदृशीषु क्रीडासु अत्यन्तं कुशलो भूत्वा निकटवर्तिषु ग्रामेषु  अपि प्रसिद्धो जातः आसीत् ।

अन्याय्यं कदापि असहमानः एषः एकदा ग्रामे  अन्येन कृषकेण सह वाग्युद्धं कुर्वन् तं मारयितुमपि उद्युक्तः आसीत् । पश्चात् प्रतिवेशिनः विषये  स्वस्य क्रोधस्य प्रदर्शनापेक्षया देशस्य शत्रूणाम् उपरि कोपस्य प्रदर्शनं श्रेयसे भवेत् इति विचिन्त्य भारतीयसैन्यं प्रविष्टवान् ।

तस्य मातुलः सैन्ये सेवां कृतवान् आसीत् इत्यतः करमसिंहस्य सैन्ये प्रवेशः सुकरः अभवत् । १९४१ तमे वर्षे सः भारतीयसैन्यं प्रविष्टवान् । तत्र वर्षद्वयस्य प्रशिक्षणात्परं सः बर्मायुद्धे जपानीसैनिकान् विरुध्य युद्धं कर्तुम् अवसरं प्राप्तवान् । तत्र जपानीसैनिकैः बद्धः, पश्चात्  अत्यन्तं चातुर्येण तदीयानेव सैनिकान् हत्वा एकस्य जापानीसैनिकस्य पृष्ठमारुह्य  स्वसैनिककेन्द्रपर्यन्तं प्रापयितुं तं निर्बद्धमकरोत् (विवशमकरोत्)। तस्य तादृशाय कौशलाय आङ्ग्लसर्वकारेण विशिष्टः सैनिकपुरस्कारः प्रदत्तः ।

१९४८ तमे वर्षे आगष्टमासस्य त्रयोदशे दिनाङ्के काश्मीरस्य टिट्वाल् इत्यस्मिन् ग्रामे  रिचमरगली इत्यत्र  भारतीयसैन्यस्य सैनिकगणस्य नेतृत्वम् ऊढ्वा  पाकिस्थानीयैः शत्रुभिः सह युद्धं कृतवान् ।  शत्रवः मोर्टर इत्यस्याः भीमभुषुण्डिकायाः  माध्यमेन  ग्रेनेड् इत्यस्य च विस्फोटकस्य माध्यमेन आक्रमणम् अव्याहतरूपेण/निरन्तरं कुर्वन्ति स्म । एकस्मिन् एव दिने अष्टवारं शत्रुभिः  आक्रमणं विहितम् ।

करमसिंहः तस्मिन् युद्धे स्वयं अत्यन्तं  व्रणितः चेदपि, स्वगणस्य बहवो हि सैनिकाः  वीरगतिं प्राप्तवन्तः चेदपि  इतस्ततः स्वीयेषु बङ्कर् इत्याख्येषु  आक्रमणकेन्द्रेषु गमनागमनं कुर्वन् व्रणितानां सैनिकानां प्रथमचिकित्सां दत्वा, अवशिष्टान् सैनिकान् युद्धार्थं प्रेरयति स्म । शत्रूणां संख्या अत्यन्तं वर्धमाना अस्ति इति ज्ञात्वा, स्वगणीयाः सैनिकाः बहवः वीरगतिं प्राप्तवन्तः इति च ज्ञात्वा, इतोऽप्यधिकान् सैनिकान् साहाय्यार्थं (Reinforcement) प्रेषयन्तु इति उच्चाधिकारिणां निकटे करमसिंहः सन्देशं प्रेषितवान् ।  किन्तु ततः  “किमपि साहाय्यं सद्यः कर्तुं न शक्यते । अतः युधक्षेत्रात् प्रत्यागम्यताम्” इति आदेशः प्राप्तः ।

किन्तु करमसिंहः अत्यन्तं व्रणीतश्चेदपि प्रत्यागन्तुं सिद्धः नासीत् । तस्य एकः बाहुः पूर्णरूपेण शीर्णः आसीत् । वेदनां असहमानः सः  तन्निवृत्यर्थं स्वयमेव सूच्यौषधं स्वीकृत्य अन्यतरेण हस्तेन  एकां भुषुण्डिकां स्वीकृत्य पादेनापि रज्वाः साहाय्येन  अपरां भुषुण्डिकां प्रयोक्तुम् आरभत । अन्ततो गत्वा शत्रवः भीत्या पलायिताः अभवन् ।

करमसिंहः स्वस्य अप्रतिमसाहसस्य  शौर्यस्य च निमित्तं  भारतस्य अत्युच्चं सैनिकपुरस्कारं  परमवीरचक्रं प्राप्तवान् । एषः स्वतन्त्रभारते द्वितीयः सैनिकः जीवितः सन्नेव परमवीरचक्रेण सम्मानितः अस्ति । १९६९ तमे वर्षे  एषः भारतीयसैन्यात् निवृत्तः अभवत् । बर्नालामण्डलस्य स्वग्रामे  १९९३ तमे वर्षे  जनवरीमासस्य  २० तमे दिनाङ्के एषः पञ्चत्वं गतः ।

 

Saturday, October 2, 2021

४. हविल्दारः पीरुसिंह शेखावतः

 

४. हविल्दारः पीरुसिंह शेखावतः

अयं परमवीरः १९१८ तमे वर्षे राजस्थानस्य  जुनजुनुजिल्लायाः बेरी इत्यस्मिन् ग्रामे एकस्मिन् कृषकपरिवारे जन्म प्राप्तवान् । एतस्य चतस्रः भगिन्यः त्रयः भ्रातरः च आसन् । एषः सर्वापेक्षया कनीयान् आसीत् ।  अध्ययने एतस्य रुचिः न्यूना आसीत् । एषः पित्रा सह कृषिकार्यं कर्तुं बहु इच्छति स्म ।  अत्यन्तं पुष्टकायः उन्नतः आजानुबाहुः  एषः पञ्चदशे एव वयसि सैन्ये प्रवेष्टुम् इच्छति स्म ।  किन्तु एतस्य अष्टादशे वयसि  सैन्ये चयनम् अभवत् । एतस्य नियुक्तिः Panjab Regiment इत्यस्य 5th Battalion   इत्यस्मिन्  सेनाङ्गे जाता ।

शरीरसौष्टवं सम्यग् आसीत् इत्यतः  एषः क्रीडायाम् अपि अत्यन्तं निपुणः आसीत् । हाकी बास्केट बाल इत्येतादृशीषु क्रीडासु अत्यन्तं नैपुण्यं एतस्य आसीत् इत्यतः Inter-regimental Tournament मध्ये एष एव सदा एतस्य गणस्य नायकः भवति स्म । एतस्य ईदृशं नेतृत्वगुणम् अवलोक्य एतस्य कृते उद्योगे वेगेन प्रोन्नतिः मिलति स्म ।

१९४८ तमे वर्षे जुलैमासस्य   १८ दिनाङ्के काश्मीरस्य तिथवाल इत्यत्र  पाकिस्थानीयैः शत्रुभिः आक्रान्तस्य एकस्य पर्वतस्य  वशीकरणस्य उत्तरदायित्वम् एतस्मै सैन्येन प्रदत्तम् । शत्रुः पर्वताग्रे सर्वसन्नद्धः आसीत् । पीरुसिंहस्य सैनिकगणः पर्वतारोहणं कर्तुम् आरभत । तस्य गणस्य उपरि गोलिकावर्षमेव अभवत् । अपि च अव्याहतरूपेण ग्रेनेड् इत्याख्यानि विस्फोटकानि एतेषामुपरि क्षिप्तानि । एतस्य गणार्धं तु तत्रैव धराशायि अभवत् । अवशिष्टान् सैनिकान् सङ्घटय्य सम्प्रेर्य च पीरुसिंहः शत्रूणाम् उपरि  आक्रमणं कृत्वा  तेषां बङ्कर् इत्यभिधं  आक्रमणकेन्द्रद्वयं ध्वंसीकृतवान्  । तावता तस्य गणे तदतिरिक्तः कोऽपि सैनिकः न अवशिष्टः आसीत् ।  सः एकाकी चेदपि  पुनः शत्रोः उपरि आक्रमणं कर्तुं प्रवृत्तः अभवत् ।  तदा शत्रुभिः क्षिप्तम्  एकं विस्फोटकं(ग्रेनेड्)  तस्य मुखस्य पार्श्वे एव विस्फोटितमभवत् । तस्य मुखे  अत्यधिकः व्रणः जातः । तस्य मुखात् धाराप्रवाहितया रक्तं स्रवति स्म । रक्तप्रवाहकारणात्  सः नेत्राभ्यां शत्रुसमूहमपि स्पष्टतया अभिज्ञातुं कष्टम् अनुभवति स्म । तथापि सः युद्धात् विमुखो न जातः । निरन्तरं युद्धं कृत्वा शत्रोरायतनं ध्वंसीकृत्य एव वीरस्वर्गं प्राप्नोत् ।

पीरुसिंहस्य एतादृशम् अद्भुतं  पराक्रमम् अवलोक्य तस्मै सर्वोच्चं युद्धपुरस्कारं मरणोत्तरं परमवीरचक्रं  १९५० तमे वर्षे भारतसर्वकारः प्रायच्छत् ।