प्रो.
हरिप्रसादः के.
केन्द्रीयसंस्कृतविश्वविद्यालयः
भारतीतीर्थशास्त्रसमुत्कर्षकेन्द्रम्
राजीवगान्धीपरिसरः
शृङ्गेरी
रामं वनात् अयोध्यां नेतुम् उपयुक्तः अन्तिमोपायः
(अयोध्याकाण्डस्य
१०८-१०९ अध्याययोः माहात्म्यम्)
भगवान् श्रीरामचन्द्रः
पितृवाक्यपरिपालनाय वनवासार्थं गतः किल ।
तत्र भरतः अयोध्यावासिभिः सह रामम् अयोध्यां प्रति नेतुम् आगतः, विविधैः
प्रकारैः तस्य अनुनयादिकं कृत्वा विफलः सञ्जातः । तदा जाबालिरित्याख्यः
ब्राह्मणोत्तमः रामम् अयोध्यां गमयितुं चित्ताकर्षकाणि यानि वाक्यानि उक्तवान्,
तेषां निराकरणपुरस्सरं रामः समाधानं च यदुक्तवान् स एव विषयः अत्र निरूप्यते –
रामः अयोध्यां प्रति गमनाय भरतेन
कृतां प्रार्थनां निराकृतवान् । सः पित्रा कैकेय्यै दत्तं वरं निरर्थकं कर्तुं न
शक्तवान् । अतः वनवासार्थं कर्तव्यबुद्ध्या प्रस्थितः आसीत् । समग्रा अयोध्या
रामस्य यौवराज्यं वैभवेन सन्द्रष्टुम् आत्मानं सज्जीकृतवती आसीत् । स्वयं रामः तु
पद्मपत्रमिवाम्भसा स्थितःप्रज्ञः इव, सुखेषु विगतस्पृहः इव च अतिष्टत् । तथैव
पित्रा कैकेय्यै प्रदत्तस्य वरस्य विषये ज्ञात्वा दुःखेष्वनुद्विग्नमनाः इव वनं प्रातिष्ठत
। एतादृशस्य सुधार्मिकस्य जनस्य साक्षात् अनुजः भरतः भक्त्या प्रेम्णा च अनुनयं कृतवान्
चेदपि तदीयः निर्णयः शिथिलयितुं शक्यः नाभवत् । अतः पश्चात् धर्मबन्धात् बहिरानीय प्रापञ्चिकसुखप्राप्तिः
राज्ञा धर्ममार्गाविरोधेन कथं प्राप्तुं शक्यते इति अवगमयितुं प्रलोभनस्य मार्गः आश्रितः
। कश्चन जाबालिरित्याख्यः ब्राह्मणोत्तमः धर्मज्ञं रामम् अयोध्यादिशि गमयितुं धर्मोपेतं
वचनं अवादीत् इति वाल्मीकिः कथयति । यद्यपि चार्वाकबुद्ध्या रामस्य प्रलोभनाय एवम्
उक्तं चेदपि वाल्मीकिः एतस्य निन्दां न करोति । जाबालिरित्याख्यः ब्राह्मणोत्तमः धर्मोपेतमिदं
वचनम् उवाच इति ससम्माननम् वाल्मीकिराख्याति, यद्यपि रामः जाबालेर्वचनं
धर्मबुद्ध्या निराकरोति निन्दति चेति अग्रिमसर्गे वक्ष्यति । इत्युक्ते विचारभेदः
भवितुम् अर्हति । सः भिन्नः(भेदयुक्तः) विचारः अधार्मिकः चेत् त्यक्तुं शक्यः ।
अब्रहामीयमतेषु यथा विचारान्तरस्य सर्वात्मना निषेधः, तत् प्रस्तुतीकुर्वतां च
शिरच्छेदः इति अत्र नास्ति । अतः
रामायणकाले अपि इत्थं अधार्मिकानां/नास्तिकबुद्धीनां विचारस्य उपस्थापनाय अवसरः
आसीत् इति ज्ञायते । इत्थं नास्तिकबुद्धेः जाबालेः अधुनातनानां साम्यवादिनामिव
वचनं, रामण पश्चात् कृतं तन्निराकरणं क्रमशः अत्र प्रस्तूयते ।
सः जाबालिः आदौ रामस्य धर्मे स्थैर्यं, प्राकृतस्य (मूर्खस्य)
जनस्य इव अर्थविहीनम् अस्ति इति वदति । अनया बुद्ध्या किमपि प्रयोजनं नास्ति ।
निष्प्रयोजकं वनवासं रामः न कुर्वीत इति अभिप्रायः । अतः श्रेष्ठबुद्धेः तपस्विनः
रामस्य ईदृशी बुद्धिः न भवेत् इति जाबालिः
इत्थं ब्रूते -
साधु राघव मा भूत् ते
बुद्धिरेवं निरर्थिका ।
प्राकृतस्य नरस्येव
ह्यार्यबुद्धेस्तपस्विनः ॥ इति ।
मरणोत्तरसम्बन्धेन किम् ?
दशरथः दिवं गतः । तस्य दिवंगमनात्परं तेन सह कः सम्बन्धः ।
यदा मनुष्यस्य जननं भवति तदा सः एक एव एनं लोकं प्रविशति । मरणसमये अपि एवमेव
एकाकी मरणं गच्छति । मध्ये केवलं सम्बन्धाः भवन्ति तदनुगुणं च जीवनं भवति । मरणात्
परं तेन सम्बन्धेन किम् ? अतः मृतस्य दशरथस्य वचनं पालयितुं निष्प्रयोजकं वनवासं
रामः न कुर्यात् इति जाबालिः अभिप्रैति अग्रिमे पद्ये -
कः कस्य पुरुषो बन्धुः
किमाप्यं कस्य केनचित् ।
एको हि जायते जन्तुरेक एव
विनश्यति ॥ इति ।
एवं स्थिते सा मम माता, सः मम पिता चेति मरणात्परमपि यो जनः
चिन्तयति सः उन्मत्तः इत्येव मन्तव्यम् । वस्तुतः मरणात्परं कस्यापि बन्धुः कोऽपि
न भवति ।
तस्मान्माता पिता चेति राम
सज्जेत यो नरः ।
उन्मत्त इव स ज्ञेयो नास्ति
कश्चिद्धि कस्यचित् ॥
राजा दशरथः अन्यः, त्वं च अन्यः
इदानीं दशरथस्य कृते भवान् किमपि न । एवमेव भवतः कृते
दशरथोऽपि किमपि न । दशरथः अन्यः राजा । भवान् अपि अन्यः कश्चन स्वतन्त्रः राजा ।
अतः तेन वरः दत्तः चेत् तस्य स एव उत्तरदायी । भवान् तस्य उत्तरदायी न इति
अभिप्रायं मम कथनात् स्वीकरोतु इति जाबालिः इत्थम् अब्रवीत् -
न ते कश्चित् दशरथस्त्वं च
तस्य च कश्चन ।
अन्यो राजा त्वमन्यस्तु
तस्मात् कुरु यदुच्यते ॥ इति ।
पिता केवलं पुरुषस्य उत्पत्तेः
कारणम्
पिता स्वसन्ततेः उत्पतौ बीजमात्रं
भवति । आधुनिकविज्ञानानुगुणम् इदमेव साम्प्रतमपि उच्यते कैश्चित् लोकायतिकैः
। शोणितं शुक्रं रुतुमत्या संयुक्तं सत्
पुरुषस्य उत्पत्तेः कारणं भवति । अतः पिता केवलं जन्तोः Biological Cause इति मन्तव्यम् ।
बीजमात्रं पिता जन्तोः
शुक्रं शोणितमेव च ।
संयुक्तमृतुमन्मात्रा
पुरुषस्येह जन्म तत् ॥
सहजतया अरण्ये
जन्तवः राक्षसाः तापसाः जीवन्ति, भवान् न
नृपतिः दशरथः गन्तव्यस्थाने
गतवान् । एवं सर्वेऽपि उत्पन्नाः लोकाः
अवश्यमेव एकस्मिन् दिने गमिष्यन्ति । एषा उत्पन्नानां जन्तूनां सहजप्रवृत्तिः
अस्ति । किन्तु भवान् एवं सहजप्रवृत्या वनवासाख्यकार्ये न प्रवृत्तः । सहजतया तु
अरण्ये जन्तवः राक्षसाः तापसाः वा जीवन्ति । भवान् रामः मृषा/मिथ्याप्रत्ययेन
व्यर्थरूपेण वनवासं कुर्वन् अस्ति इति जाबालिः इत्थं वदति -
गतः स नृपतिस्तत्र गन्तव्यं
यत्र तेन वै ।
प्रवृत्तिरेषा भूतानां त्वं
तु मिथ्या विहन्यसे ॥
पितृश्राद्धं निरर्थकम्
पितृश्राद्धं अष्टप्रकारकं
जनाः कुर्वन्ति । अत्र पिण्डदानादिनिमित्तं
वृथा अन्नस्य नाशः क्रियते । मृतः मनुष्यः कदापि एवम् अन्नम् अत्तुं
शक्नोति किम् ? अतः पितृश्राद्धं कृत्वा अन्नस्य नाशः अनुचितः । पितृश्राद्धे वयं ब्राह्मणभोजनादिना पितॄन्
सन्तर्पयितुं यतामहे । ब्राह्मणादिभिः श्राधे भुक्तं मृतानां पितॄणां शरीरं गच्छति
चेत् सुदूरयात्रार्थं प्रस्थितवतां कृते पाथेयदानापेक्षया श्राद्धपिण्डदानमेव वरं
किल ? इति जाबालिः वदति । श्राद्धादीनां निरर्थकतां प्रतिपाद्य अनेनैव क्रमेण
मृतस्य पितुः वचनस्य पालनं निरर्थकमिति रामम् अवगमयितुं जाबालिः प्रयतते -
अष्टकापितृदैवत्यमित्ययं
प्रसृतो जनः ।
अन्नस्योपद्रवं पश्य मृतो हि
किमशिष्यति ॥
यदि भुक्तमिहान्येन
देहमन्यस्य गच्छति ।
दद्यात् प्रवसतां श्राध्दं न
तत् पथ्यशनं भवेत् ॥
दानस्य प्रतिग्रहाय एव समग्रग्रन्थराशिः निर्मितः
दानं भूरिशः प्राप्तव्यम्
इति धिया एव मेधाविनः केचन जनाः बहून् धर्मशास्त्रादिग्रन्थान् निर्ममिरे । तत्र
यागं कुरु, दीक्षां गृहाण, तपः कुरु, दानं प्रकामं प्रयच्छ इत्यादिरूपेण लिखितं
भवति । (साम्प्रतिके काले अपि नास्तिकाः एतदेव कथयन्ति यत् अस्माकं आचाराः
कैश्चित् उच्चवर्गीयैः नियन्त्र्यन्ते ये अन्येषां दमनाय, स्वसमृद्धये च एव
ईदृशरूपेण ग्रन्थान् लिखित्वा अन्यान् तदनुपालयितुम् आगृह्णन्ति इति ।) अतः पिता तु सम्प्रति नास्ति । प्रत्यक्षतः यदस्ति
तद्विषये विचारं कुरु ।
दानसंवनना ह्येते ग्रन्था
मेधाविभिः कृताः ।
यजस्व देहि दीक्षस्व
तपस्तप्यस्व संत्यज ॥
स नास्ति परमित्येतत् कुरु बुद्धिं महामते ।
प्रत्यक्षं यत् तदातिष्ठ
परोक्षं पृष्ठतः कुरु ॥
रामेण जाबालेः वचनानां निराकरणम्
नास्तिकवत्
युक्तीः आश्रित्य रामस्य प्रियं भवति इति मन्वानः तन्मनः परिवर्तयितुं,
तन्माध्यमेन रामम् आयोध्यायाः सिंहासने प्रतिष्ठापयितुं प्रवृत्तस्य जाबालेः वचनं श्रुत्वा रामः इत्थं
प्रतिक्रियां ददाति -
भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।
अकार्यं कार्यसंकाशमपथ्यं पथ्यसंनिभम् ॥
भवान् तु मम प्रीत्यर्थं कर्तव्यत्वेन यद्वदति तत् वस्तुतः कर्तुं योग्यं नास्ति, पथ्यमिव वदति
चेदपि अपथ्यमेवास्ति ।
मर्यादहीनो न मान्यते
निर्मार्यादस्तु पुरुषः पापाचारसमन्वितः ।
मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥
यः जनः अस्माकं धर्ममार्गं
परित्यज्य पापम् आचरति सः मर्यादविहीनः इत्युच्यते । तस्य चरित्रं अधार्मिकं भवति
। अतः सज्जनानां मध्ये गौरवं न प्राप्नोति ।
चरित्रम् अस्मत्परिचायकम्
कुलीनमकुलीनं वा वीरं पुरुषमानिनम्
।
चारित्रमेव व्याख्याति शुचिं वा
यदि वाशुचिम् ॥
चारित्र्येण शुद्धः एव वस्तुतः
शुद्धः श्रेष्ठः च । मनुष्यः कुलीनवंशे जातः उत अकुलीने वंशे इति तत्स्य
चारित्र्यमेव ख्यापयति । चारित्र्यमेव जनं
वीरमिति प्रमाणयति, स्वयमेव स्वस्य विषये बहु कीर्तयति चेत् सः वीर इति वा पराक्रमी
इति वा न गृह्यते । एवमेव कः पवित्रात्मा ? को वा अपवित्रात्मा इति तदीयचरित्रमेव
आख्याति ।
दुःशीलः शीलवानिव
अनार्यस्त्वार्यसंस्थानः
शौचाद्धीनस्तथा शुचिः ।
लक्षण्यवदलक्षण्यो दुःशीलः
शीलवानिव ॥
लोके केचन ईदृशाः जनाः भवन्ति
येषाम् अनुसरणं भ्रान्त्या इतरे केचन जनाः कुर्वन्ति । यथा - श्रेष्ठ इव आत्मानं प्रदर्शयितुम् प्रवृत्तः
कश्चन जाल्मः/तुच्छः भवति । शुचिरिव
आत्मानं दिदर्शयिषुः कश्चन वस्तुतः अशुचिरेव भवति । अवलक्षणः सन् अपि
उत्तमलक्षणोपेत इव कश्चन आत्मानं दर्शयति । दुश्चरित्रः चेदपि शीलवान् इव कश्चन
जगति सर्वत्र आत्मानं प्रसारयति । अतः तद्वत् अहं करिष्यामि चेत् किं भविष्यति इति
भगवान् रामः अग्रे कथयति -
अधर्मं धर्मवेशेण यद्यहं
लोकसङ्करम् ।
अभिपत्स्ये शुभं हित्वा क्रियां
विधिविवर्जिताम् ॥
धर्माचरणस्य नटनं कुर्वन् अधर्मं
करोमि चेत्, शुभं कार्यं परित्यज्य विधिहीनं कार्यं करोमि चेत् कलङ्कितो भविष्यामि
इति ।
यथा राजा तथा प्रजाः
कामवृत्तोऽन्वयं लोकः कृत्स्नः
समुपवर्तते ।
यद्वृत्ताः सन्ति
राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥
स्वैरचारिणः सर्वे जनाः राजानं
अनुकुर्वन्ति । राजानो यादृशम् आचरन्ति तादृशमेव प्रजा अपि आचरन्ति । यथा राजा तथा
प्रजाः इति उक्तिः प्रसिद्धा एव । विशिष्य यदनुसर्तुमयोग्यं तदेव अनुकुर्वन्ति
प्रजाः । अतः रामः कयापि युक्त्या अधर्माचरणं कर्तुं नेष्टवान् ।
सत्यस्य सेतुं न भेत्स्यामि
नैव लोभान्न मोहाद्वा न चाज्ञानात्
तमोन्वितः ।
सेतुं सत्यस्य भेत्स्यामि गुरोः
सत्यप्रतिश्रवः ॥
पितृवाक्यपरिपालनस्य प्रतिज्ञाम्
आदौ कृत्वा लोभात् मोहात् अज्ञानात् वा
तामेव प्रतिज्ञां भञ्जयितुं नाहम् उद्युञ्जे इति रामः आख्याति ।
नृशंससेवितमधर्मं त्यक्ष्ये
क्षात्रं धर्ममहं त्यक्ष्ये
ह्यधर्मं धर्मसंहितम् ।
क्षुद्रैनृशंसैर्लुब्धैश्च सेवितं
पापकर्मभिः ॥
यदि तादृशः कश्चन धर्मवत्
प्रतीयमानः अधर्मः अस्ति यस्य आचरणं बहवः पापकर्माणः क्षुद्राः क्रूराः जनाः कुर्वन्ति तादृशं क्षात्रं धर्मम् अहं
त्यक्षामि । इत्युक्ते पितुराज्ञाम् उल्लङ्घ्य सिंहासने आरोहणाख्यम् बहुभिः
क्षुद्रैः क्रूरैः पापकर्मिभिः क्रियमाणम् अधर्मं नाहं करिष्यामि । अस्माकं
इतिहासे तादृशाः बहवः म्लेच्छाः राजानः बभूवुः ये पितुरिच्छाम् उल्लङ्घ्य पितरं वा
भातॄन् वा हत्वा कारागारे निक्षिप्य सिंहासनम् आरुरुहुः । सन्दर्भेऽस्मिन् रामस्य
श्रेष्ठत्वं कीदृशमिति अस्माभिः अवगन्तव्यम् ।
तर्हि कर्तव्यं किम् इति चेत् रामो
वदति –
सत्यं च धर्मं च पराक्रमं च
भूतानुकम्पां प्रियवादितां च ।
द्विजातिदेवातिथिपूजनञ्च
पन्थानमाहुस्त्रिदिवस्य सन्तः ॥ इति ।
इत्थं रामायणे तु वस्तुतः भरतस्य
अपेक्षानुगुणं अयोध्यावासिनां सन्तोषाय जाबालिः अधार्मिकं मार्गं धर्ममार्गवत्
व्याख्याय रामं सिंहासने अभिषेक्तुं
प्रायतिष्ट यस्य च निराकरणं निन्दनभर्त्सनाभ्यां रामेण कृतञ्च । धर्मवत्
प्रतीयमानः अधर्मः अधुनातने अपि लोके बहुभिः उपदिश्यते । विशिष्य भारतीयसमाजस्य
कुमार्गे नयनाय वामवादिनः नास्तिकाः
ईदृशमार्गम् अनुसरन्तः दृश्यन्ते । तत्र सामाजिकाः राममार्गं अनुसरेयरिति
प्रकरणादस्मात् ज्ञायते ।