Friday, August 29, 2025

वरखेदिमहोदयाय इदानीं प्रेषितं पत्रम् ।

आचार्येभ्यः प्रणामान् समर्पये ।

तत्र भवद्भिः प्रेषितं परमपूज्यानां सरसङ्घचालकानां वीडियो अवलोक्य परमानन्दः समजनि । 

भारतस्य स्वातन्त्र्यप्राप्तेः परं शासनं खलानां हस्ते आसीदित्यतः, निरन्तरं पञ्च शिक्षामन्त्रिणः अस्याः पुण्यभुवः संस्कृतेः सभ्यतायाश्च प्रबलविरोधिनः न्ययुज्यन्त इत्यतश्च आङ्ग्लेयाभीप्सित-मेकाले-शिक्षणपद्धतेः अनुवर्तनेन सह भारतीय-गुरुकुलशिक्षा नितान्तम् उपेक्षिता । अपि च सर्वकारपोषितशिक्षाव्यवस्थायां भारतीयतायाः यथा अनादरः स्यात् तथा सम्पूर्णव्यवस्था प्राकल्पि । किञ्च म्लेच्छेभ्यः यवनेभ्यश्च तदीयमतेषु अक्षुण्णा श्रद्धा, सनातनधर्मे विद्वेषश्च यथा सुदृढा स्यात् तथा कर्तुं सांविधानिको विधिरानायि ।
अस्याः पुण्यभुवः संस्कृतेः विद्यायाः परम्परायाः सभ्यतायाश्च विषये आदरः, प्रेमभावः, गर्वश्च वर्धेत इत्येतदर्थं कोऽपि उपक्रमः सर्वकारपक्षतः नानायि । 
जगतितले कस्मिन्नपि देशे स्वातन्त्र्योत्तरं तदीयसंस्कृतेः सभ्यतायाश्च सन्दर्भे ईदृशी विपरीता शैक्षिकी नीतिः नावालम्बि, प्रत्युत तद्विकासाय तदीया श्रेष्ठा रीतिराश्रिता  । स्वदेशविषये अनादरः अश्रद्धा च कथमपि न जायेत इत्येतदर्थं तैः तैः अनुसृतं वर्त्म श्लाघ्यमेव अस्ति । 
भारतेन स्वत्वस्य परिरक्षणाय संवर्धनाय च प्राचीनशिक्षासरणिराश्रयणीया इत्यत्र मम महान् आग्रहो वर्तते । परमपूज्यानां सरसङ्घचालकानां तत्सम्बद्धां वाणीम् आकर्ण्य अत एव सुप्रीतोऽस्मि । 
बाल्ये एव सङ्घस्य त्यागजीविनां सम्पर्कः प्राप्तः आसीत् इति कारणात् राष्ट्रियविचारेषु आदरः मम रुधिरारूढो वर्तते । 
अहं आपञ्चविंशतेः वर्षेभ्यः भारतीयविद्यानां महिमानं कीर्तयितुं लब्धम् अवसरं कदापि न पर्यत्याक्षिषम् । छात्रजीवने एव ग्रामपार्श्वे (मुनियाल्, कर्जे, हेब्रि, इत्यादिषु स्थलेषु) बहुषु विद्यालयेषु गत्वा घण्टापर्यन्तं भारतीयविद्यानां गुरुकुलशिक्षणपद्धतेश्च विषये व्याख्यानं व्यधासिषम् ।  शिक्षाशास्त्रस्य पाठ्यक्रमे भारतीयशिक्षेतिहासः इत्यस्मिन् पत्रे गुरुकुलशिक्षायाः श्रेष्ठतायाः विषये निरन्तरं छात्रान् प्राबोधयाम ।
२०० वर्षेभ्यः पूर्वं भारतीयगुरुकुलशिक्षायाः स्थितिः कीदॄशी आसीत् इति विषयं थामस् मुन्रो प्रभृतीनां प्रतिवेदनाधारेण पाट्यक्रमे विषयोऽयं नास्ति चेदपि कक्ष्यायां सदा संविभाजयामि । 
प्रायः प्रतिवर्षं सत्रारम्भे मासपर्यन्तं (समेषां छात्राणां प्रवेशकार्यं यावन्न जायते तावत्पर्यन्तम्) राष्टियविचारानादाय एव छात्रान् बोधयामि । अतः परमपूज्यानां सरसङ्घचालकानां कथनानुगुणं यदि सर्वकारः समुचितरीत्या Main Stream Education मध्ये गुरकुलीयशिक्षापद्धतिम् आनेष्यति चेत् भारतं भारतैः(विद्याविनोदिभिः) सम्पन्नं भविष्यति, जगद्गुरुः भविष्यति इत्यत्र नास्ति सन्देहलेशः ।
प्रणामैः सह 
हरिप्रसादः के.

No comments:

Post a Comment