Friday, September 24, 2021

पाठ्यचर्या विद्यालयश्च प्रथमाध्यायः


प्रथमः अध्यायः
शिक्षा
 
१.       प्रत्येकं जनस्य शिक्षाप्राप्तेः धिकारः अस्ति । न्यूनातिन्यूनं प्राथमिकस्तरे शिक्षा निःशुल्का भवेत् । प्राथमिकी शिक्षा अनिवार्या भवेत् । तान्त्रिकशिक्षा/अभियान्त्रिकशिक्षा सुलभ्या कर्तव्या । अभिक्षमतानुसारं उन्नतशिक्षासमानरूपेण सर्वैः प्राप्तुं योग्या कर्तव्या । 

२.       मानवस्य सर्वाङ्गिकविकासाय, मौलिकस्वातन्त्र्यस्य मानवाधिकारस्य च विषये गौरववर्धनाय शिक्षायाः मार्गः कल्पनीयः । सर्वेषां देशानां मध्ये, धर्मानां मध्ये, जातीनां मध्ये च  परस्परावगतिं, सहनशक्तिं, भ्रातृत्वञ्च शिक्षा वर्धयेत् । शान्तेः संरक्षणार्थं संयुक्तराष्ट्रसङ्घस्य कार्यजातं शिक्षा संवर्धयेत् ।


२६ धारा अन्ताराष्ट्रीयमानवाधिकारघोषणापत्रम् [1]


पाठ्यबिन्दवः
१.१ शिक्षा
१.२ शिक्षायाः प्रकाराः
१.२.१ औपचारिकशिक्षा
१.२.२ अनौपचारिकशिक्षा
१.२.३ निरौपचारिकशिक्षा
१.३ शिक्षायाः उद्देश्यानि
१.४  शिक्षणम्
१.५  शिक्षकः
१.६ अधिगमः
 १.७  छात्रः
१.८  शिक्षणाधिगमप्रक्रिया
१.९ पाठ्यचर्या
·         उपसंहारः
·         अध्यायसारः
·         उपयुक्तप्रश्नाः

कश्चन जिल्लाधिकारी आसीत् । सः कथमपि अध्ययनं कृत्वा  तत्पदं प्राप्तवान् । सः आवर्षम् उद्विग्ने(तन्यतापूर्णे) वातावरणे कार्यं करोति । तस्य प्रायः कार्यमेव तादृशं भवति ।  वर्षान्ते एकवारं सपरिवारं यात्रां कर्तुम् इष्टवान् । तदर्थम् एकं शान्तं प्रकृतिरमणीयं स्थानं चितवान् । सपरिवारं
तादृशे प्रकृतिरमणीये वातावरणे यदा सः विहरति स्म तदा तत्र वृक्षस्य शाखायां दोलायमानं एकं पक्षिनीडं दृष्टवान् । तत् अत्यन्तं सुन्दरं नीडम् आसीत् । जिल्लाधिकारिणः पुत्रः तत् दृष्ट्वा “मह्यं तद् आवश्यकमेव” इति आग्रहं कृतवान् । तदा जिल्लाधिकारी तत् नीडं वृक्षात् पृथक्कृत्य पुत्राय दातुं उद्युक्तः । तद् दृष्ट्वा  कश्चन गोपालकः उक्तवान् “तत् नीडं मा स्वीकरोतु । तत्र इदानीं पक्षिशावकाः सन्ति । यदा ते शावकाः सशक्ताः सन्तः स्वातन्त्र्येण डयनं करिष्यन्ति तदा नीडं स्वीकर्तुम् शक्ष्यति” इति ।
इदानीं चिन्तयन्तु – अशिक्षितः गोपालकः पक्षिशावकान् प्रीणाति । तेषु अनुकम्पां प्रदर्शयति । तेषामपि अस्मितां आद्रियते । किन्तु बहुशिक्षितः जिल्लाधिकारी मेधावी स्यात् नाम, स्वपुत्रस्य विनोदाय तु पक्षिशावकानां जीवनं न गणयति । तस्य पुत्रस्य च सुखाय तान् हन्तुमपि सङ्कोचं न अनुभवति । तर्हि कः शिक्षितः? कः अशिक्षितः ? का शिक्षा अस्मभ्यं गोपालकस्य मानवीयगुणान्, अपि च जिल्लाधिकारिणः मेधां प्रयच्छति ? अस्मिन् अध्याये एतेषां विषये किञ्चित् चिन्तयाम ।
मानवे अन्तर्निहितस्य दैवत्वस्य आविर्भावना एव शिक्षा अस्ति । ज्ञानं मनुष्ये अन्तर्निहितमेव अस्ति ।  मनुष्यः तस्य अन्तर्निहितस्य एव ज्ञानस्य आविष्कारं करोति, अथवा स्वस्मिन् अन्तर्निहितम् अस्तीति अवगच्छति ।                  स्वामी विवेकानन्दः
Education is the manifestation of divinity already existing in man. Knowledge resides within the individual himself. He simply discovers or realizes it.                                      Swami Vivekananda
१.१ शिक्षा
शिक्षा इति शब्दः शिक्ष् विद्योपादाने इत्यस्मात् धातोः निष्पन्नः विद्यायाः प्राप्तिः शिक्षा इत्युच्यते । वेदस्य षट्सु अङ्गेषु शिक्षा[2] अन्यतमा अस्ति । शिक्षा व्याकरणं छन्दो निरुक्तं ज्यौतिषं तथा । कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः ॥ इति अमरकोषकारः वदति ।   किन्तु अत्र शिक्षा इत्यस्य वेदाङ्गत्वेन[1] विद्यमाना शिक्षा न अभिप्रेतः अर्थः । विद्योपादानरूपिणी प्रक्रिया शिक्षा इति अर्थः अत्र स्वीक्रियते । एषा शिक्षा मानवे पाशविकगुणान् दूरीकृत्य मानवीयगुणान् दैवीगुणान् च विकासयति । शिक्षा मानवं व्यवहारकुशलं करोति ।  शिक्षा मानवस्य व्यवहारं परिष्करोति । शिक्षा मानवं सुनागरिकं करोति । शिक्षया मानवस्य जन्मजातशक्तयः विकसन्ति । शिक्षा मानवं सुसंस्कृतं करोति । शिक्षा मानवस्य आवश्यकताः परिपूरयति । शिक्षा मानवम् आत्मनिर्भरं करोति । वातावरणेन सह सामञ्जस्यं सम्पादयितुं शिक्षा मानवं सज्जीकरोति । सारतः इत्थं वदामः - शिक्षा मानवस्य सर्वाङ्गिकं विकासं करोति इति । इयञ्च विद्या प्रयत्नेन एव फलति । अभ्यासाद्धार्यते विद्या[3] इति चाणक्यः कथयति ।
१.२ शिक्षायाः प्रकाराः
आधुनिके काले शिक्षायाः प्राधान्येन त्रीन् प्रकारान् वयं पश्यामः –
                                                औपचारिकी शिक्षा
शिक्षायाः प्रकाराः                       अनौपचारिकी शिक्षा
                                                निरौपचारिकी शिक्षा
१.२.१ औपचारिकशिक्षा
विद्यालयेषु नियमितरूपेण या शिक्षा दीयते तस्याः शिक्षायाः नाम औपचारिकी शिक्षा इति । अत्र समयः निश्चितः भवति । स्थानं निश्चितं भवति । विषयः निश्चितः भवति । शिक्षकः निश्चितः। छात्रः अपि निश्चितः भवति । एवं यत्र सर्वं सुनिश्चितं भवति तत्र दीयमाना शिक्षा औपचारिकशिक्षा इत्युच्यते । साम्प्रतं विद्यालयेषु दीयमाना शिक्षा एतस्य उदाहरणम् अस्ति ।
१.२.२ अनौपचारिकशिक्षा
बालकाः विद्यालये प्रवेशप्राप्तेः पूर्वं भाषाप्रयोगं कर्तुं शक्नुवन्ति । इत्युक्ते सम्भाषणं कर्तुं शक्नुवन्ति । ते बहूनि पद्यानि जानन्ति । केषुचित् गृहेषु प्रतिदिनं ज्येष्ठाः भजनानि गायन्ति । अतः बालकाः अपि स्वयमेव भजनं कर्तुं जानन्ति ।  तिथिवासरनक्षत्रसंवत्सराणाम् गुणनकोष्टकाना कण्ठस्थीकरणम् इत्याद्या शिक्षा विद्यालयगमनात् प्रागेव गृहे लभ्यते । विशिष्य पर्वदिनानाम् आचरणेन, भजनेन, स्तोत्रादिपठनेन, गुरुजनानाम् अभिवादनेन च या संस्कारादानात्मिका शिक्षा गृहे प्राप्यते सा नान्यत्र क्वचिदपि प्राप्यते । एवमेव विद्यालये प्रवेशप्राप्तेः प्राक् एव बहुविधानि कार्याणि कृत्वा बालकाः अनुभवं प्राप्नुवन्ति । बहुभिः सह व्यवहृत्य अनुभवं प्राप्नुवन्ति । एतत्सर्वं विद्यालयगमनात् पूर्वम् एव । अनन्तरमपि शालासु अधिकाधिकतया दिने षट् घण्टाः यापयन्ति । अवशिष्टसमयं (१८ घण्टाः) विद्यालयात् बहिरेव यापयन्ति । इत्थं विद्यालयापेक्षया विद्यालयाद् बहिरेव अस्माकं जीवनं अधिकाधिकं यापितं भवति । तर्हि शिक्षा केवलं विद्यालये एव प्राप्यते इति तु न सङ्गच्छते । विद्यालयाद् बहिः प्राप्यमाणा शिक्षा जीवननिर्वहणदृष्ट्या अत्यन्तम् महत्वपूर्णा भवति[4] । एतस्याः एव शिक्षायाः नाम अनौपचारिकी शिक्षा इति ।
१.२.३ निरौपचारिकशिक्षा
सर्वेऽपि विद्यालयं गत्वा एव अध्ययनं समापयितुं न शक्नुवन्ति ।  विभिन्नाः समस्याः तेषां भवन्ति । कस्यचित् वित्तीयसमस्या भवति । कस्यचित् पारिवारिकम् उत्तरदायित्वं भवति इत्यतः विद्यालयगमनं दुष्करं भवति । कस्यचित् अन्यविधा एव समस्या भवति । एतादृशीभिः समस्याभिः ग्रस्तानां जनानां शिक्षार्थम् एव पत्राचारशिक्षा, दूरस्थशिक्षा, अन्तर्जालाधारितशिक्षा (MOOCs and etc) इत्याद्याः व्यवस्थाः सन्ति । एतासु व्यवस्थासु नियमितरूपेण कक्ष्यायाम् उपवेष्टव्यम् इति नास्ति ।  किन्तु प्रवेशं प्राप्य परीक्षां लिखित्वा प्रमाणपत्रं तु प्राप्तुं शक्यते । इत्थं कक्ष्यायाम् उपवेशनम् इत्येतादृशी औपचारिकता यत्र न भवति, किन्तु परीक्षालेखनाख्या  औपचारिकता च यत्र भवति सा शिक्षा निरौपचारिकी शिक्षा इत्युच्यते । एवं औपचारिकता-अनौपचारिकतयोः सम्मिश्रणात्मिका शिक्षा एषा अस्ति ।
१.३ शिक्षायाः उद्देश्यानि
            अधुनातने काले प्राप्तजन्मानः सर्वेऽपि बालकाः शिक्षायाः अधिकारारिणः सन्ति । भारतस्य संविधानं निशुल्कप्राथमिकशिक्षां प्राप्तुं सर्वेभ्यः भारतीयेभ्यः अधिकारं प्रददाति ।  संविधानस्य २१तमधारायां  एतस्य इत्थम् उल्लेखो वर्तते –
क.शिक्षायाः अधिकारः – षष्ठवर्षाद् आरभ्य चतुर्दशवर्षपर्यन्तं  विद्यमानानां सर्वेषां बालानां निश्शुल्का अनिवार्या शिक्षा राज्यशासनेन  विधिपूर्वकं कल्पनीया[5] । इति ।
राष्ट्रियपाठ्यचर्यायाः रूपरेखायां(२००५) शिक्षोद्देश्यानां विषये इत्थं प्रतिपादितं वर्तते – पूर्वं प्रतिपादिताः मार्गदर्शकसिद्धान्ताः (शिक्षणाधिगमप्रक्रिया इति बिन्दोः विवरणसन्दर्भे उद्धृताः) सामाजिकमूल्यानां कृते महत्त्वं प्रयच्छन्ति । एतानि सामाजिकमूल्यानि शिक्षायाः उद्देश्यानि भवितुम् अर्हन्ति । लोकतन्त्रस्य, समानतायाः, न्याय्यस्य, स्वतन्त्रतायाः, परोपकारस्य, धर्मनिरपेक्षतायाः, मानवीयगरिमायाः, स्वाधिकारस्य, अन्येषु आदरस्य च मूल्यानां विषये प्रतिबद्धता भवेत् । एतेषां मूल्यानां विषये प्रतिबद्धतायाः निर्माणमेव  शिक्षायाः उद्देश्यानि  भवेयुः[6] इति ।
लक्ष्यम्
अमेरिकीयस्य पादकन्दुकक्रीडापटोः ओ.जे.सिम्सनस्य नाम भवद्भिः श्रुतपूर्वं स्यात् .... । पादकन्दुकक्रीडायां सिम्सन् चण्डमारुतः एव । सः यदि क्रीडाङ्गणं प्रविशति तत्प्रहारैः प्रतिपक्षीयाः नितरां परिश्रान्ताः भवन्ति । पादकन्दुकक्रीडायां तेन सर्वाः अपि सिद्धयः प्राप्ताः । कोटिशः धनम्, गगनोन्नतां कीर्तिं च .... प्राप्तवान् ।
वस्तुतः सिम्सनस्य जन्म अभवत् कस्मिंश्चित् निर्धने परिवारे! बाल्ये सः एवं निर्धनः आसीत् यत् धनं दत्वा पादकन्दुकक्रीडां द्रष्टुं सः न शक्नोति स्म । तस्मिन् काले पादकन्दुकक्रीडायां सर्वोन्नतस्थाने विराजते स्म ब्रौन् नामकः ।
कदाचित्  अद्भुतरीत्या क्रीडित्वा अनेकाः वैजयन्तीः प्राप्य क्रीडाङ्गणतः  बहिः आगतवान् ब्रौनः । तदा कश्चन लघुः बालः तत्समीपं गत्वा तस्य वस्त्रं आकर्षन् ’श्रीमन्’ इति आहूतवान् । ब्रौनः बालं दृष्ट्वा किम् ? इति अपृच्छत् । ’स्वामिन् अहं भवतः अभिमान’ इति अवदत् सः बालः । ’अहो, एवं वा?’  इति वदन् ब्रौनः ततः स्वस्य कारयानस्य समीपं गतवान् ।  पुनरपि पादकर्षणं प्राप्य सः दृष्टवान् । स एव बालः ! ’श्रीमन् आरम्भतः भवान् कतिषु स्पर्धासु भागं गृहीतवान्, कतिषु जयं प्राप्तवान् इत्यादिकं सर्वमपि विवरणं अहं जानामि’ बालः अवदत् । साधु, साधु इत्युक्त्वा ब्रौनः ततः प्रस्थितवान् । तदैव पुरतः आगत्य सः लघुबालः अवदत् ’ स्वामिन्,  कस्मिंष्चित् दिने  अहं भवतः सर्वान् अपि विक्रमान् अत्येष्यामि’ इति ।  ब्रौनः तु आश्चर्येण तं बालं वीक्ष्य तस्य पृष्ठं आस्फाल्य ततः गतवान् ।
सः बालः यदा प्रौढः जातः तदा स्वीयं तद् वचनं तथैव अनुष्ठितवान् ।  ब्रौनस्य सर्वानपि विक्रमान् अतिशय्य नूतनं विक्रमं प्राप्तवान् । ओ.जे.सिम्सन् एवं प्रसिद्धः जातः ।
स्वामिनः सुखबोधानन्दस्य “मनस्से रिल्याक्स् प्लीस्” इति कन्नडग्रन्थस्य डा.शान्तलावर्यया कृतात् संस्कृतानुवादात् उद्धृतः अयं भागः ।

अतः एतादृश्याः निश्शुल्कायाः अनिवार्य-शिक्षायाः उद्देश्यानि कानि इति सम्प्रति विचारयामः । शिक्षायाः उद्देश्यानि स्तरानुगुणं विषयानुगुणं च भिन्नानि भवन्ति । इत्युक्ते प्रतिस्तरं प्रतिविषयं उद्देश्यानि बहुधा भिद्यन्ते । अत्र शिक्षायाः सामान्यानि उद्देश्यानि एव उच्यन्ते । तानि यथा –
·         शारीरिकविकासः
·         ज्ञानप्राप्तिः
·         सांस्कृतिकः विकासः
·         चारित्रिकविकासः
·         सन्तुलितविकासः
·         जीविकोपार्जनम्
·        
v    भारते सार्वजनीनशिक्षायाः दीर्घकालिकः भव्येतिहासः वर्तते । प्राचीनभारते शिक्षायाः लक्ष्यं ज्ञानप्राप्त्या अस्मिन् जगति जीवनयापनाय सज्जीकरणम्, विद्यालयीयशिक्षातः पश्चात् जीवनयापनम् वा न आसीत् । प्रत्युत  आत्मज्ञानास्य  प्राप्तिः  मोक्षश्च आसीत् ।
राष्ट्रियशिक्षानीतिः(संसदि पारयिष्यमाणा)
वातावरणेन सह सामञ्जस्यसम्पादनम्
·         आध्यात्मिकविकासः
·         परिपूर्णजीवनयापनम्
·         नैतिकविकासः
१.४ शिक्षणम्
 शिक्षायाः प्रदानम् शिक्षणम् । शिक्षकः शिक्षणं करोति । शिक्षणं ज्ञानप्रदानमात्रं कार्यं न । शिक्षणं छात्रस्य व्यवहारं परिष्करोति । शिक्षणम् अनुदेशनवत् निर्जीवप्रक्रिया नास्ति । शिक्षणं सजीवयोः छात्राध्यापकयोः मध्ये चलति । अतः शिक्षणं सजीवप्रक्रिया । अध्यापकः सक्रियः भवति इति सत्यम् । किन्तु छात्रः निष्क्रियः श्रोता न भवति । छात्रः अपि अस्यां प्रक्रियायां सक्रियः भागग्राही भवति । अतश्च शिक्षणं सजीवप्रक्रिया ।
शिक्षणे विषयाणाम् आदानं प्रदानं चेति उभयमपि कार्यं भवति । अत्र सदा शिक्षकः एव दाता भवति इति नास्ति । छात्रः सदा ग्रहीता इत्यपि नास्ति । कदाचित् शिक्षकः दाता, कदाचित् छात्रः दाता, कदाचित् शिक्षकः ग्रहीता, कदाचित् च छात्रः ग्रहीता भवति ।  इत्युक्ते शिक्षणप्रक्रियायां शिक्षकः बोध्यान् विषयान् बोधयित्वा छात्रान् प्रश्नं पृच्छति । छात्रः समाधानं वदति । कदाचित् छात्रः जिज्ञासां प्रकटयति । कदाचित् छात्रः विप्रतिपत्तिं(संशयम्) प्रकटयति । कदाचित् अध्यापकोक्तिं सम्बद्धैः  अन्यविषयैः  पोषयति ।  आहत्य शिक्षणं छात्राध्यापकयोः मध्ये जायमाना अन्तःक्रियात्मिका/ आदानप्रदानात्मिका सजीवा प्रक्रिया भवति । 
शिक्षणस्य लक्ष्यं ज्ञानप्रदानमात्रं नास्ति । शिक्षणस्य लक्ष्यं बालकस्य सर्वाङ्गिकविकासः अस्ति । शिक्षणस्य लक्ष्यं बालकस्य व्यवहारस्य समुचितं परिवर्तनम् ।  शिक्षणेन केवलं बालकस्य ज्ञानात्मकस्य पक्षस्य एव विकासः न, अपि तु भावात्मकस्य पक्षस्य क्रियात्मकपक्षस्य च विकासः भवति ।
१.५ शिक्षकः
शिक्षक इत्यर्थे लोके बहवः शब्दाः सन्ति । यथा गुरुः आचार्यः, अध्यापकः, उपाध्यायः इत्यादयः । प्रत्येकं शब्दस्य सामान्यः अर्थः समानः चेदपि विशिष्टार्थः भिन्न एव भवति । तदनुगुणं गुरुशब्दस्य निर्वचनम् इत्थं प्रदत्तमस्ति -
गुकारस्त्वन्धकारः स्यात् रुकारस्तन्निरोधकः ।
अन्धकारनिवृत्तेस्तु गुरुरित्यभिधीयते ॥
Ø भावावेशयुक्तस्य उत्तरदायित्ववतः विद्यालयीयशिक्षकस्य  विश्वविद्यालयीयाध्यापकस्य च अभावे   अस्यां शिक्षानीतौ यथा अभिलषितं तथा शैक्षिकलक्ष्यं साक्षात्कर्तुम् न शक्यते । तत्साक्षात्कर्तुं ते शिक्षकाः अपि सुष्ठु सज्जीकर्तव्याः । अतः शिक्षकाणां सज्जीकरणम्, अभिमुखीकरणम्, प्रशिक्षणञ्च नैकशास्त्रीयवातावरणयुतेषु विश्वविद्यालयेषु भवेत् । अध्यापनेन, अनुसन्धानेन, संस्थानिर्माणेन, छात्रविकाससम्पादनेन, सदृशैः अन्यैः क्रियाकलापैश्च शिक्षाव्यवस्थायाः संवर्धनाय शिक्षकैः क्रियमाणानि कार्याणि अभिज्ञायन्ते ।
राष्ट्रियशिक्षानीतिः(संसदि पारयिष्यमाणा) २०१९ पृ.सं. ३१
गुकारस्य अन्धकारः इत्यर्थः । रुकारस्य निरोधकः(गुरुः) इत्यर्थः । अज्ञानरूपं अन्धकारं निवारयति इत्यतः गुरुः इति उच्यते ।
एवमेव आचार्यशब्दस्य निर्वचनं इत्थम् अस्ति -
आचिनोति च शास्त्रार्थान् आचारे स्थापयत्यपि ।
 तस्मादाचार्य इत्युक्तः सर्वकार्योपदेशकः ॥[7]
 एतादृशः गुरुः कीदृशगुणान्वितः भवतीति उत्तररामचरिते इत्थम् उक्तम् -
वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे
न च खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा ।
भवति च तयोर्भूयान् भेदः फलं प्रतितद्यथा
प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदां चयः ॥
सारतः इत्थं वदामः – शिक्षकः निष्पक्षपातरीत्या सर्वान् छात्रान् बोधयति । कञ्चित् छात्रम् अधिकं, कञ्चित् छात्रं न्यूनं बोधयति इति नास्ति । तथापि वर्षान्ते द्वयोः छात्रयोः मध्ये महान् भेदः किमर्थं दृश्यते इति चेत् यस्य छात्रस्य चित्तं अध्ययनसमये निर्मलं भवति सः अधिकं विषयं गृह्णाति, यस्य चित्तं अध्ययनसमये निर्मलं न भवति सः अधिकं विषयं ग्रहीतुं न शक्नोति इति । इत्थं शिक्षकः छात्रस्य अज्ञानं दूरीकृत्य सर्वतोमुखविकासाय तं बोधयति इति सारतः गृह्णीमः ।
ü धिगमसिद्धान्ताः
शिक्षायाः चत्वारः स्तम्भाः
. ज्ञानार्थम् अधिगमः
. क्रियार्थम् अधिगमः
कौशलात् नैपुणीं यावत्
कार्यस्य अभौतिकीकरणम्, सेवाविभागस्य उत्कर्षः
अनौपचारिकवित्तीयव्यवस्थायां कार्यकरणम्
. सहजीवनाय अधिगमः, अन्यैः सह जीवितुम् अधिगमः
समानोद्देश्याय कार्यकरणम्
.  (किमपि) भवितुम् अधिगमः
एकविंशतितमशताब्देः शिक्षायै न्ताराष्ट्रियायोयोगः १९९६
१.६ अधिगमः
अधिगमः शिक्षाशास्त्रस्य पारिभाषिकः शब्दः । अधि-उपसर्गपूर्वकस्य घञन्तस्य गम्-धातोः प्राप्तिः इति शाब्दिकः अर्थः । ज्ञानं इत्यपि शाब्दिकः अर्थः अस्ति । किन्तु शिक्षाशास्त्रे पारिभाषिकः शब्दः इत्यतः अधिगमशब्दस्य अध्ययनम् इत्यर्थः शिक्षाशास्त्रे अस्ति ।  यथा शिक्षणम् शिक्षकनिष्ठं कार्यम् अस्ति तथा अधिगमः छात्रनिष्ठम् कार्यम् अस्ति । “यावज्जीवम् अधीते विप्रः” इत्युक्तिः अध्ययनं निरन्तरं (शिक्षकस्य अपि) चलेत्  इति आशयं प्रकटयति किल ! तर्हि कथं शिक्षकनिष्ठं कार्यम् अध्ययनं नास्ति ?  इति चेत् उच्यते - शिक्षकस्य प्रधानं कार्यं शिक्षणम् इत्यभिप्रायः, न तु शिक्षकस्य केवलम् शिक्षणमात्रं कार्यं भवति इति ।  अतः अध्ययनं छात्रनिष्ठं कार्यं इति कथनं न दोषाय ।
आधुनिकशिक्षापद्धतिः अधिगमस्य कृते प्राधान्यं ददाति । अधिगमानुकूलशिक्षणं भवेत् इति एतस्य तात्पर्यम्, न तु शिक्षणानुकूलः अधिगमः इति । इत्युक्ते छात्रः अधिगमेन अनुभूतिं सम्पादयेत् । छात्रः केवलं पुस्तकीयं ज्ञानं प्राप्नुयात् इति शिक्षायाः उद्देशः साम्प्रतं नास्ति । पुस्तकीयम् अपि ज्ञानम् अनुभवबलेन दृढतां प्राप्नुयात्[8] । तथा पाठ्यचर्या अपि भवेत् । शिक्षकस्य शिक्षणकार्यम् एतदनुगुणं भवेत् । इत्युक्ते छात्रः पुस्तकीयज्ञानस्य अनुभवं यथा प्राप्नुयात् तथा पाठ्यचर्यायाः कार्यान्वयनं शिक्षकः कुर्यात् । इत्थम् छात्रस्य अधिगमः शिक्षणेन संवर्धितः भवति ।
१.७ छात्रः
छत्रवद् अध्यापकस्य दोषान् आच्छादयति इति छात्रः । छत्रं गुरोः वैगुण्याच्छादनं शीलमस्य इति छात्रः ।  “छत्रादिभ्यो णः [9] (४.४.६२)” इति सूत्रेण पूर्वोक्ते अर्थे इदं पदं निष्पद्यते ।
काकचेष्टा बकध्यानं श्वाननिद्रास्तथैव च।
अल्पाहारी गृहत्यागी विद्यार्थी पञ्चलक्षणम्
प्रत्येकं छात्रस्य स्वाभाविकी प्रतिभा भवति । सा प्रतिभा आविष्करणीया, संरक्षणीया, प्रोत्साहनीया, विकासनीया च ।
 राष्ट्रियशिक्षानीतिः- २०१९, पृ.सं. १०३
Every Student has innate talents, which must be discovered, nurtured, fostered, and developed.
National Educational Policy 2019(Draft) Page No. 103
इति विद्यार्थिलक्षणं प्रसिद्धम् अस्ति ।
सुखार्थिनो कुतो विद्या नास्ति विद्यार्थिनः सुखम् ।
सुखार्थी चेत् त्यजेद्विद्यां विद्यार्थी चेत् त्यजेत्सुखम्[10]
इति इदं पद्यं परिश्रमेण विद्या अध्येतव्या इत्याशयं प्रकटयति 
एवं चेदपि आधुनिकसमाजे छात्रः ईदृशः भवेत्, ईदृशं कार्यं कुर्यात् इत्याद्यपेक्षाम् अकृत्वा कीदृशम् अपि छात्रं कथं शिक्षितं कुर्याम इति विषये विचिन्त्य शिक्षकैः प्रवर्तनीयम् इत्यत्र बलं दीयते । इत्युक्ते छात्रकेन्द्रितशिक्षा साम्प्रतं प्रवर्तते ।
छात्रकेन्द्रितशिक्षायां छात्रस्य सर्वाङ्गिकविकासाय शिक्षायाः व्यवस्था कल्प्यते, न तु मूल्याङ्कनमाध्यमेन विभिन्नस्तरेषु छात्राणां विभाजनं कृत्वा प्रमाणपत्रं दातुम् । छात्रस्य मस्तिष्के ज्ञानस्य आरोपणं शिक्षायाः लक्ष्यं नास्ति । छात्रस्य अभिरुच्यनुगुणं तस्य सामर्थ्यस्य व्यक्तित्वस्य च विकासाय परिवेशस्य निर्माणम् शिक्षायाः उद्देश्यमस्ति । यतो हि छात्रः मूर्खः नास्ति, सः असीमसामर्थ्यस्य खनिः अस्ति । तस्य  सामर्थ्यस्य परिचयप्रदानम् एव शिक्षायाः कार्यम् अस्ति । अतः छात्रं केन्द्रीकृत्य तस्य इच्छां सामर्थ्यं च अवलम्ब्य शिक्षादानार्थम् विधयः, उपकरणानि, सम्प्रेषणम्, मूल्याङ्कनम् इत्येतानि सर्वाणि संयोज्यन्ते ।
१.८ शिक्षणाधिगमप्रक्रिया
कक्ष्याशिक्षणे अध्यापकः शिक्षणाख्यं कार्यं निर्वर्तयति । छात्रः अधिगमाख्यं कार्यं करोति । एतयोः द्वयोः शिक्षणाधिगमयोः योगः(शिक्षण्म् + अधिगमः शिक्षणाधिगमप्रक्रिया) एव शिक्षणाधिगमप्रक्रिया इति न मन्तव्यम् । शिक्षकः शिक्षणमात्रं कार्यं न करोति, छात्रश्च अधिगमाख्यं कार्यमात्रं न करोति । तावन्मात्रं चेत् विद्यालयेषु सर्वत्र शिक्षकाणां नियोजनं कृत्वा तदीयवेतनार्थं बहुधनं[11] व्ययीकर्तव्यम् इति न भवति स्म । ततः अपि अधिकं किञ्चित् कक्ष्यायां भवति इत्यतः शिक्षकाणां नियुक्तिः क्रियते ।
शिक्षकस्य अभावेऽपि सङ्गणकस्य माध्यमेन वा, दूरदर्शनस्य माध्यमेन वा, तदितरमाध्यमेन वा शिक्षा दातुं शक्यते । एतादृशी शिक्षाव्यवस्था लोके अस्त्येव । यथा मुक्तविश्वविद्यालयीयशिक्षा, दूरस्थशिक्षा, पत्राचारशिक्षा, दूरदर्शनमाध्यमेन अनौपचारिकी शिक्षा, अन्तर्जालस्य माध्यमेन MOOCs इत्याख्या शिक्षा चेति बहुविधाः व्यवस्थाः सन्ति । सर्वत्र बहवः गुणाः सन्ति ।  किन्तु एतासु एकापि व्यवस्था कक्ष्याशिक्षणसमा नास्ति ।  किमर्थम् इत्युक्ते कक्ष्यायां शिक्षकाख्यः जीवन् मानवः अस्ति ।
सः छात्रस्य संवेदनाः अवगच्छति ।
सः छात्रस्य रुचिम् अवगच्छति ।
सः छात्रस्य सामर्थ्यम् अवगच्छति ।
सः छात्रस्य मनोदशाम् अवगच्छति ।
सः छात्रस्य व्यवहारम् अवगच्छति ।
सः छात्रस्य क्रमिकविकासम् अवगच्छति ।
सः छात्रस्य गुणान् अवगच्छति ।
सः छात्रस्य वैकल्यानि अवगच्छति ।
पूर्वोक्तस्थित्यनुगुणं सः बोधनविधिं परिवर्तयितुम् अर्हति ।
पूर्वोक्तस्थित्यनुगुणं सः उपकरणं परिवर्तयितुम् अर्हति ।
पूर्वोक्तस्थित्यनुगुणं सः बोधनशैलीं परिवर्तयितुम् अर्हति ।
पूर्वोक्तस्थित्यनुगुणं सः बोधनव्यूहं परिवर्तयितुम् अर्हति ।
पूर्वोक्तस्थित्यनुगुणं सः क्रियाकलापं परिवर्तयितुम् अर्हति ।
पूर्वोक्तस्थित्यनुगुणं सः कक्ष्यानिर्वहणे परिवर्तनं नावीन्यं वा आनीय छात्रविकासानुकूलतया समग्रं परिवर्तनम् अनेतुम् अर्हति । अतः कक्ष्यायां जायमाना शिक्षणाधिगमप्रक्रिया, सक्रियस्य छात्रहितम् इच्छतः शिक्षकस्य कारणतः महत्वपूर्णा भवति ।
           तैत्तिरीयोपनिषत् शिक्षणाधिगमप्रक्रियां एवं वर्णयति -
“अथ अधिविद्यम् । आचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनं सन्धानम् । इत्यधिविद्यम् ।”            तैत्तिरीयशिक्षावल्ली २/२
शिक्षणाधिगमप्रक्रियायां शिक्षकः छात्रः पाठ्यचर्या(विषयः) शिक्षणम् (प्रवचनम्) चेति चत्वारि अङ्गानि भवन्ति । पूर्वं शिक्षाक्षेत्रे पाश्चात्यसरणिम् आश्रित्य शिक्षा द्विध्रुवीयप्रक्रिया इत्युच्यते स्म । पश्चात्  शिक्षा त्रिध्रुवीयप्रक्रिया वर्तते इति वक्तुम् आरब्धवन्तः यत्र तृतीयविषयत्वेन पाठ्यविषयं योजितवन्तः । किन्तु भारतीयचिन्तनसरणिः तैत्तिरीयोपनिषदि शिक्षायाः आचार्यः, अन्तेवासी, विद्या, प्रवचनम् चेति चतुर्ध्रुवीयप्रक्रियां प्रतिपादयति ।
तत्रापि प्रवचनं कथं स्यात्  इति साम्प्रतं विचारयामः । अत्र कक्ष्यायां अध्यापनं प्रवचनम् इति वदामः । एतत् प्रवचनं एकमुखि न भवेत् । आदानप्रदानात्मकं भवेत् । इत्युक्ते शिक्षकः निरन्तरं वदन् एव भवति, छात्राश्च शृण्वन्तः एव भवन्ति इति न भवेत् । एतस्मिन् विषये राष्ट्रियपाठ्यचर्यायाः रूपरेखायां(२००५)  इत्थं उक्तम् – विद्यालयबाह्येन जीवनेन सह ज्ञानस्य सम्बन्धकल्पनम् (मार्गदर्शकसिद्धान्तेषु प्रथमः सिद्धान्तः[12]) इति । एवमेव  तत्रैव द्वितीयाध्यायस्य अरम्भे[13] साम्प्रतिक-अध्यापनप्रक्रियायाः दोषं परिमार्जयितुम् इत्थं  निर्देशः दत्तः – बालानां ध्वनेः अनुभवस्य च अभिव्यक्त्यर्थं कक्ष्यायाम् अवसरः न लभ्यते । प्रायः कक्ष्यायां शिक्षकस्य एव ध्वनिः श्रूयते । शिक्षकस्य प्रश्नस्य समाधानं केवलं दातुं अथवा शिक्षकोक्तविषयस्य आवर्तनं कर्तुं छात्राः मुखम् उद्घाटयन्ति । कक्ष्यायां किमपि कार्यं कृत्वा अनुभवं प्राप्तुम् अवसरः नास्ति । किमपि कार्यं आरब्धुं तेषाम् अवसरः नास्ति । पुस्तकीयस्य ज्ञानस्य आवर्तनक्षमतायाः विकासः न आवश्यकः । ते पाठ्यचर्यया स्वयं स्वीयं सामर्थ्यम् अभिज्ञातुं समर्थाः भवेयुः,  स्वस्य ज्ञानप्राप्तिविषयकम् औत्सुक्यं वर्धयितुं शक्नुयुः, स्वयं कार्यं कर्तुं शक्नुयुः, प्रश्नं प्रष्टुं, मूल्याङ्कनं कर्तुं, परीक्षितुं च शक्नुयुः, स्वीयानुभवानां विद्यालयीयैः अनुभवैः सह सम्बद्धुं शक्नुयुः च इति ।
१.९ प्रशिक्षकः
यः प्रशिक्षणं ददाति सः प्रशिक्षकः । प्रशिक्षणं नाम कौशलस्य प्राप्तिः । कौशलम् अभ्यासेन प्राप्यते । अभ्यासः इत्युक्ते आवृत्तिः[14] । एकस्य कार्यस्य नियमितरूपेण बहुवारम् आवृत्तिः क्रियते चेत् कौशलं सम्पादितं भवति । यथा – सीवनयन्त्रचालनम्, यानचालनम्, भाषणम्, लेखनम्,  इत्यादि । प्रशिक्षकः एतादृशस्य कौशलस्य सम्पादनाय साहाय्यम् आचरति । किं कौशलं कथं सम्पादनीयम् इति बोधयति । कौशलस्य प्राप्त्यर्थं ध्यातव्यान् अंशान् ज्ञापयति । कौशलानां सम्पादनाय अपेक्षितं परिवेशं कल्पयति ।  कौशलसम्पादने विद्यमानान् बाधान् निवारयति । कौशलस्य आदर्शप्रस्तुतिं करोति । काले काले मूल्याङ्कनं कृत्वा उचितां प्रतिपुष्टिं ददाति ।
१.१० कौशलम्
एकजातीयकस्य(एकस्य एव) कार्यस्य बहुवारं श्रद्धया आवृत्तिं कुर्मः चेत् तत् कार्यं अल्पकाले अधिकगुणवत्तापूर्णतया अल्पश्रमेण अनवधानेनापि सम्पादयितुं शक्नुमः । इत्थं कार्यस्य अयं गुणः एव कौशलम् इत्युच्यते । यथा सैकल् चालनम्, सीवनयन्त्रचालनम्, शिल्पकलानिर्माणम् . . . .
 
 


चित्रम् -1                                   चित्रम् - 2                     चित्रम् -3
सैकल्-चालनम्             सीवनयन्त्रचालनम्                   शिल्पकलानिर्माणम्
द्विचक्रिकाचालनं वयं जानीमः । प्रथमप्रयासे एव वयं तत् लीलया चालयितुं न शक्नुमः । क्रमशः बहुवारम् अभ्यासं कुर्मः चेत् चालनकौशलं सम्पादयितुं शक्नुमः । पश्चात् इतोऽपि प्रयासं कुर्मः चेत् मार्गे अन्येषां यानानां गमनागमनं पश्यन्तः चालयितुं शक्नुमः । क्रमशः मार्गमुभयतः विद्यमानां प्रकृतिम् आस्वादयन्तः चालयितुं शक्नुमः । अकस्मात् कापि आपत् सम्मुखीभवति चेदपि झटिति यानं नियन्त्रयितुं प्रभवामः । आरम्भे केवलं पेडल् इत्यस्य उपरि एव दत्तदृष्टयः आस्म चेदपि कालान्तरे अभ्यासवशात् विना श्रमं/उद्वेगं/तन्यतां/भयं द्विचक्रिकां चालयामः । एतत् कौशलं इत्युच्यते । 
१.११ पाठ्यचर्या
छात्रस्य सर्वाङ्गिकं विकासम् उपलक्ष्य विद्यालये विद्यालयाद् बहिः च अनुष्ठीयमानं सर्वमपि कार्यं आहत्य पाठ्यचर्या इति उच्यते । विद्यालये प्रातः प्रार्थनायाः आरभ्य सायं क्रीडासमाप्तिपर्यन्तं बहुविधानि कार्याणि सम्पाद्यन्ते । यथा – कक्ष्यायाम् अध्ययनम्, प्रयोगशालायां प्रयोगकरणम्, वाचनालये पत्रिकादीनां पठनम्, ग्रन्थालये गभीराध्ययनम्, सभाङ्गणे कार्यक्रमवीक्षणम् सञ्चालनञ्च, उद्यानस्य निर्माणम् विकासश्च, क्रीडाङ्गणे विविधानां क्रीडानां क्रीडनम्, व्यायामशालायाम् योगासन-प्राणायाम-ध्यानादीनाम् अनुष्ठानम्, विद्यालयस्य विभिन्नस्थानेषु शिक्षकैः दत्तानां विभिन्नानां परियोजनानां[15]   सम्पादनम्, एन्.सि.सि. इत्यादिषु भागग्रहणम्, शैक्षिकभ्रमणम्, विभिन्नासु स्पर्धासु भागग्रहणम् इत्यादीनि ।
उपसंहारः  
            अस्मिन् अध्याये शिक्षायाः तात्पर्यं, प्रकारान्, उद्देश्यानि च चर्चितवन्तः स्मः । शिक्षासम्बद्धान् अन्यान् शिक्षकः, छात्रः, अधिगमः, शिक्षणम्, इत्यादीन् बहून् अपेक्षितान् अंशान् विचारार्थं स्वीकृतवन्तः स्मः । शिक्षासम्बद्धाः इतोऽपि बहवः विषयाः सन्त्येव येषां विषये अस्मिन् प्रसङ्गे चिन्तनं न अपेक्षितम् अस्ति । अतः तेषाः विषये भिन्नप्रसङ्गे चर्चां करिष्यामः ।  अन्ते पाठ्यचर्या इति एकः बिन्दुः अग्रिमाध्यायसम्बद्धः सङ्गत्यर्थं सारल्येन अत्र चर्चितः ।


अध्यायसारः
शिक्षा
विद्यायाः प्राप्तिः शिक्षा इत्युच्यते । शिक्षा मानवस्य सर्वाङ्गिकं विकासं करोति ।
औपचारिकशिक्षा
विद्यालयेषु नियमितरूपेण या शिक्षा दीयते तस्याः शिक्षायाः नाम औपचारिकी शिक्षा इति ।
अनौपचारिकशिक्षा
विद्यालयाद् बहिः प्राप्यमाणा शिक्षा अनौपचारिकी शिक्षा इत्युच्यते ।
निरौपचारिकशिक्षा
किञ्चित् औपचारिकता किञ्चित्  अनौपचारिकता च यत्र भवति सा शिक्षा निरौपचारिकी शिक्षा इत्युच्यते ।
शिक्षायाः उद्देश्यानि
            शिक्षायाः सामान्यानि उद्देश्यानि अधोलिखितानि सन्ति -
शारीरिकविकासः, ज्ञानप्राप्तिः, सांस्कृतिकः विकासः, चारित्रिकविकासः, सन्तुलितविकासः, जीविकोपार्जनम्, वातावरणेन सह सामञ्जस्यसम्पादनम्, आध्यात्मिकविकासः, परिपूर्णजीवनयापनम्, नैतिकविकासः चेति ।

शिक्षणम्
शिक्षणं छात्राध्यापकयोः मध्ये जायमाना अन्तःक्रियात्मिका सजीवा प्रक्रिया भवति ।  शिक्षणेन केवलं बालकस्य ज्ञानात्मकस्य पक्षस्य एव विकासः न, अपि तु भावात्मकस्य पक्षस्य क्रियात्मकपक्षस्य च विकासः भवति ।
शिक्षकः
छात्रस्य अज्ञानं दूरीकृत्य सर्वतोमुखविकासाय तं यः बोधयति सः शिक्षकः इत्युच्यते ।
अधिगमः
अधिगमशब्दस्य अध्ययनम् इत्यभिप्रायः शिक्षाशास्त्रे अस्ति ।  यथा शिक्षणम् शिक्षकनिष्ठं कार्यम् अस्ति तथा अधिगमः छात्रनिष्ठम् कार्यम् अस्ति ।
छात्रः
आधुनिकशिक्षाव्यवस्थायाः केन्द्रीयं तत्त्वं छात्रः अस्ति । अधिगमस्य इत्युक्ते अध्ययनस्य कर्ता छात्रः इत्युच्यते ।
शिक्षणाधिगमप्रक्रिया
कक्ष्यायां जायमाना शिक्षणाधिगमप्रक्रिया छात्रस्य सर्वतोमुखविकासाय भवति ।
प्रशिक्षकः
प्रशिक्षणेन कौशलस्य सम्पादनं भवति । यः प्रशिक्षणं ददाति सः प्रशिक्षकः ।

कौशलम्
एकस्य एव कार्यस्य बहुवारं श्रद्धया आवृत्तिं कुर्मः चेत् तत् कार्यम् अल्पकाले अधिकगुणवत्तापूर्णतया अल्पश्रमेण सम्पादयितुं शक्नुमः । इत्थं कार्यस्य अयं गुणः एव कौशलम् इत्युच्यते ।
पाठ्यचर्या
छात्रस्य सर्वाङ्गिकं विकासम् उपलक्ष्य विद्यालये विद्यालयाद् बहिः च अनुष्ठीयमानं सर्वमपि कार्यं आहत्य पाठ्यचर्या इति उच्यते ।

उपयुक्तप्रश्नाः

१.    के शिक्षिताः इत्युच्यन्ते ?
२.    आधुनिकशिक्षाव्यवस्थानुगुणम्  उत्तमशिक्षकस्य गुणाः के भवितुम् अर्हन्ति ?
३.    संस्कृतवाङ्मये उक्तानि छात्रलक्षणानि सङ्गृह्णीत ।
४.    अनौपचारिकशिक्षया मानवस्य व्यवहारः कथं परिवर्तते ? विशदीकुरुत ।
५.   MOOCs इत्याद्याः निरौपचारिकशिक्षायाः अत्याधुनिकप्रकाराः शिक्षाक्षेत्रे शिक्षार्थिनां कीदृशं सौविध्यं कल्पयन्ति इति विवेचयत ।



[1] वेदाङ्गत्वेन शिक्षा
शिक्षा नाम तच्छास्त्रं येन वेदमन्त्राणामुच्चारणं शुद्धं सम्पाद्येत । वेदे स्वरस्य प्राधान्यं वर्तते, स्वरज्ञानं च शिक्षाऽऽयत्तम्, अत एवेदं शिक्षाशास्त्रं वेदाङ्गम् । शिक्षाशास्त्रप्रयोजनं तैत्तिरीयोपनिषदारम्भे उक्तं, यथा
'अथ शिक्षां व्याख्यास्यामः - वर्णः, स्वरः, मात्रा, बलम्, साम, सन्तान इत्युक्तः शिक्षाध्यायः॥'
तत्र वर्णोऽकारादिः, स्वरोदात्तादिः, मात्रा ह्रस्वादिः, बलं स्थानप्रयत्नौ, साम निषादादिः, सन्तानो विकर्षणादिः । एतदवबोधनमेव शिक्षायाः प्रयोजनम् ।
यथा वैदिकविधीनां सम्पादनार्थं ब्राह्मणग्रन्थाः उपयुज्यन्ते, तथैवोच्चारणप्रयोजनेन शिक्षायाः उपयोगो वाञ्छच्यते । वेदानां वैदिकसाहित्यस्य वा अध्ययनाध्यापनविषयकविधीनां निर्देशः शिक्षाशास्त्रे कृतः । शिक्षा स्वरवर्णाद्युच्चारणानि केन प्रकारेण कर्त्तव्यानीत्येतस्मिन् विषये उपदिशति । सायणस्य ऋग्वेदभाष्यभूमिकायामुक्तम् -
'स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षेति'  इति ।
https://sa.wikipedia.org/wiki/शिक्षा


पादटिप्पण्यः
[1]
Universal Declaration of Human Rights 1948
Article 26 
1. Everyone has the right to education. Education shall be free, at least in the elementary and fundamental stages. Elementary education shall be compulsory. Technical and professional education shall be made generally available and higher education shall be equally accessible to all on the basis of merit.
 2. Education shall be directed to the full development of the human personality and to the strengthening of respect for human rights and fundamental freedoms. It shall promote understanding, tolerance and friendship among all nations, racial or religious groups, and shall further the activities of the United Nations for the maintenance of peace.
[3] चाणक्यनीतिः ५/८
[4] समाज में मिलने वाली अनौपचारिक शिक्षा, विद्यार्थी में अपना ज्ञान स्वयं सृजित करने की स्वाभाविक क्षमता को विकसित करती है । जिस से विद्यार्थी में अपने आस पास के सामाजिक एवं भौतिक वातावरण से और विभिन्न कार्यों से जुडने की क्षमता बढती है ।
राष्ट्रीय पाठ्यचर्या की रूपरेखा 2005 पृष्ठसंख्या १५
[5] क. शिक्षा का अधिकार – राज्य, छह वर्ष से चौदह वर्ष तक की आयु वाले सभीबालकों के लिए निश्शुल्क और अनिवार्य शिक्षा देने का ऐसी रीती में, जो राज्य विधि द्वारा अवधारित करे, उपबन्ध करेगा ।
[6] “जिन मार्गदरशक सिद्धान्तो की पहले चर्चा की गई है वे सामाजिक मूल्यों को परिप्रेक्ष्य प्रदान करते हैं, जिसमें हम अपने शैक्षिक उद्देश्यों को रख सकते हैं । पहला है लोकतन्त्र, समानता, न्याय, स्वतन्त्रता, परोपकार, धर्मनिरपेक्षता, मानवीय गरिमा व अधिकार तथा दूसरे के प्रति आदर जैसे मूल्यों के प्रति प्रतिबद्धता । शिक्षा का उद्देश्य कारण और समझ पर आधारित इन्हीं मूल्यों के प्रति  प्रतिबद्धता का निर्माण करना होना चाहिए ।“
राष्ट्रीय पाठ्यचर्या की रूपरेखा २००५, पृष्ठसंख्या १२
[7] श्रीवैखानसगृह्यसूत्रम् -  भागः १
[8] The curriculum must enable children to find their voices, nurture their curiosity—to do things, to ask questions and to pursue investigations, sharing and integrating their experiences with school knowledge rather than their ability to reproduce textual knowledge.                                                                                                                                   NCF(2005)
[9] शब्दार्थकौस्तुभः पुटसंख्या १०९२
[10] विदुरनीतिः ८/६
[11] भारते केन्द्रीयसर्वकारेण शिक्षार्थं व्ययीक्रियमाणः धनराशिः ९९१०० कोटिरूप्यकणि । केवलं माध्यमिकविद्यालयेषु एव २१,२७,००० शिक्षकाः कार्यं कुर्वन्ति इति २०१२ वर्षस्य सर्वेक्षणेन ज्ञायते इति विकिपीडिया कथयति ।
[12]  Connecting knowledge to life outside the school.                             NCF(2005)
[13] Children’s voices and experiences do not find expression in the classroom. Often the only voice heard is that of the teacher. When children speak, they are usually only answering the teacher’s questions or repeating the teacher’s words. They rarely do things, nor do they have opportunities to take initiative. The curriculum must enable children to find their voices, nurture their curiosity—to do things, to ask questions and to pursue investigations, sharing and integrating their experiences with school knowledge—rather than their ability to reproduce textual knowledge.                                                                                          NCF(2005)
[14] “आवृत्तिरसकृदुपदेशात्” ब्रह्मसूत्रम् (४.१.१)               
[15] Project works
v India has had a long and illustrious history of holistic education. The aim of education in ancient India was not just the acquisition of knowledge, as preparation for life in this world or for life beyond schooling, but for complete realisation and liberation of the self.
National Policy of Education (Draft) 2019 Page No. 25

Ø None of this will be possible without passionate and committed school teachers and faculty in higher education institutions who will take charge of transforming the education system as envisioned in this Policy. For this, they also need to be adequately prepared. Teacher preparation, orientation and training will, therefore, move into the higher education sector, into multidisciplinary environments available at universities. The contributions of teachers to all aspects of improving the education system, through teaching, research, institution building, student empowerment and such other aspects will be recognised.      
National Policy of Education (Draft) 2019 Page No.31
ü  LEARNING PRINCIPLES
The four pillars of education
1.      Learning to know
2.      Learning to do
 From skill to competence
 The ‘dematerialization’ of work and the rise of the service sector
 Work in the informal economy
3.     Learning to live together, learning to live with others
 Discovering others
 Working towards common objectives
4.      Learning to be

3. तृतीयः परमवीरः राम रघोबा राणे

 

३. राम रघोबा राणे

 

एषः परमवीरः १९१८ तमे इसवीये वर्षे कर्नाटकराज्यस्य  हावेरी इत्यत्र  जन्म प्राप्तवान् । एतस्य पिता Police Constable  आसीत् । भारतीयसैन्यस्य  Mumbai Engineer Unit  इत्यत्र  १०/०७/१९४० तमे वर्षे नियुक्तः अभवत् ।

द्वितीयविश्वयुद्धावसरे  बर्माप्रदेशे  जापानदेशस्य सैन्यं विरुध्य एषः युद्धं कृतवान् आसीत् ।

१९४८ तमे वर्षे पाकिस्थानीयेभ्यः काश्मीरं उन्मोचयितुं/वशीकर्तुं  प्रवृत्ते युद्धे एषः महत्वपूर्णां भूमिकां निरवहत् ।  पाकिस्थानीयाः शत्रवः  काश्मीरस्य नौशेरा-रजौरी-राजमार्गं सम्पूर्णं ध्वंसीकृतवन्तः आसन् । तदा भारतीयसैन्येन  अग्रेसरणाय  अपरः मार्गः आश्रयणीयः अभवत् ।

युद्धार्थं Tanker इत्याख्याः शतघ्न्यः उपयोक्तव्याः आसन् ।  तेषां गमनाय  विद्यमाने मार्गे सर्वत्र  शत्रवः  विस्फोटकानां  निखननं कृत्वा  स्थापितवन्तः आसन् ।  अतः तानि उत्पाट्य  नाशयित्वा  एव अग्रे गन्तव्यमासीत् । किन्तु उत्पाटनाय  अस्मदीयाः  प्रवर्तन्ते चेत्  पर्वताग्रे  उपविष्टः शत्रुः अस्मदीयान् अनायासेन भुषुण्डिकया प्रहर्तुमर्हति स्म । अतः तानि विस्फोटकानि कथं वा निष्कासनीयानि इति चिन्ता अस्माकं सैन्यस्य आसीत् । तदा राणे एकम् उपायम् उक्तवान्  - “शतघ्नीनां अधस्तात् अल्पे एव स्थले अजगरवत् सर्पन् भूमौ शत्रुभिः निखनितानि विस्फोटकानि नाशयिष्यामि । शतघ्न्याः अधस्तात् एतत् कार्यं सम्पाद्यते इत्यतः शत्रुः लक्ष्यं भेत्तुं न शक्ष्यति ” इति ।  किन्तु एतत् कार्यं  अत्यन्तं दुष्करम् आसीत् ।  ईषदपि अनवधानं भवति चेत् अस्माकमेव शतघ्नीनां अधस्तात्  अस्माकं वीरयोद्धा  चूर्णीभवति । किन्तु अन्यः उपायः नासीत् ।  रामरघोबा राणेवर्यस्य  दलं एतत् कार्यं साधयितुं  सन्नद्धम् अभवत् । विस्फोटकानाम् अभिज्ञानमपि  अत्यन्तं कठिनं कार्यम् आसीत् ।  तानि अनभिज्ञाय  अग्रे प्रवर्तन्ते चेत्  तेषामेव विस्फोटनेन सर्वे म्रियेरन्  इति स्थितिः आसीत् । एवं कार्यं कर्तुं  आरब्धवत्सु  रामरघोबा राणेवर्यस्य  त्रयः सहकर्मिणः मृताः अभवन् । स्वयं राणेवर्यः  अपि शत्रूणां गोलिकावर्षणेन प्रहृतः अभवत् ।  तथापि  सः धैर्येण अहर्निशं  दिनत्रयं आहारनिद्रादिकं परित्यज्य शत्रूणां समीपं अस्माकं शतघ्नीनां गमनाय मार्गं प्रशस्तं कृतवान् ।

एषः एतस्मात् युद्धात्  अनन्तरमपि  २० वर्षाणि सैन्ये सेवां कृत्वा  १९६८ तमे वर्षे  निवृत्तः अभवत् ।  १९९६ तमे वर्षे पुणॆ नगरे सः इहलोकं  पर्यत्यजत् । स्वतन्त्रभारते सजीवः सन्तः परमवीरचक्रं प्राप्तवत्सु एषः आदिमः ।     

Wednesday, September 22, 2021

२. नायक जदुनाथसिंहः (द्वितीयः परमवीरचक्रधारी)

२. नायक जदुनाथसिंहः

 

नायक जदुनाथसिंहः उत्तरप्रदेशस्य शहजानपुरस्थे खजूरि इत्याख्ये ग्रामे २१/११/१९१६ तमे दिनाङ्के  जन्म प्राप्नोत् ।  एतस्य पिता वीरबलसिंह राठोडः  कृषकः आसीत् ।  मातुः नाम जमुना कन्वर इत्यासीत् ।  बीरबलस्य अष्टसु अपत्येषु एषः तृतीयः ।

परिवारस्य आर्थिकस्थितिः उत्तमा नासीत् इत्यतः जदुनाथः  चतुर्थकक्ष्यापर्यन्तमेव पठितवान् । पश्चात् सः कृषिकर्मणि एव रतः आसीत् ।  शारीरिकरूपेण अत्यन्तं सुदृढः पुष्टकायः जदुनाथः  मल्लयुद्धे निपुणः भूत्वा ग्रामे “हनूमानभक्त बालब्रह्मचारी” इति नाम्ना प्रसिद्धः अभवत् ।  सः हनूमतः भक्तः सन्  ब्रह्मचर्यव्रतं श्रद्धया पालितवान् आसीत् 

द्वितीयविश्वयुद्धावसरे 7th Rajaput Regiment मध्ये २१/११/१९४१ तमे दिनाङ्के सः नियुक्तः अभवत् ।  १९४२तमे वर्षे  जपानीयान् विरुध्य कृते बर्मायुद्धे भागं गृहीतवान् ।  १९४७ तमे वर्षे नवम्बरमासे रजपूत-बेटालियन् इत्यस्मै सेनाङ्गाय काश्मीरे “नौशेरा” इत्यस्य प्रदेशस्य वशीकरणाय आदेशः दत्तः आसीत् ।  अतः तस्य जदुनाथस्य  रजपूत-बेटालियन् नवम्बरमासे एव नौशेरापार्श्वे  जङ्गर् इत्यत्र गत्वा Base Camp निर्माणम् अकरोत् ।

वातावरणं सम्यक् नासीत् इत्यतः दिसेम्बरमासस्य  २४ दिनाङ्कपर्यन्तं अस्मत्सन्येन  महत् किमपि कर्तुं न पार्यते स्म ।  तस्मिन् समये अस्माकं सेनाङ्गस्य  (Brigade इत्यस्य)  ब्रिगेडीयर  आसीत् महम्मद उस्मान् इत्यख्यः ।  नौशेराप्रान्ते जङ्गर् इति स्थानं  व्यूहात्मककार्यसम्पादनदृष्ट्या  अत्यन्तं  सूक्ष्मप्रदेशः आसीत् ।  अतः दिसम्बरमासस्य २४ तमे दिनाङ्के पाकिस्थानीयशत्रवः आक्रमणं विधाय तत् स्थानं वशीकृतवन्तः । एतस्य स्थानस्य वशीकरणेन मीरपुरं पूंछ इत्यनयोः स्थानयोः सम्पर्कव्यवस्थायाः नियन्त्रणं शत्रोः आधीन्ये आगतम् । ततः परं शत्रोः इतोऽप्यग्रे आगमनं अवरोद्धुं 50th  Para Brigade द्वारा निरन्तरं प्रयासः करणीयः अभवत् ।

नौशेरा इत्यस्य उत्तरदिशि  तियानघर इत्यस्मिन् स्थले शत्रोः अवरोधस्य उत्तरदायित्वं जदुनाथसिंहस्य सैनिकगणाय प्रदत्तम् आसीत् । तस्मिन् गणे जदुनाथसिंहेन सह २७ इतरे सैनिकाः आसन् । तियानघर इत्यत्र एकं Forward Post  सैन्येन निर्मितम् । पाकिस्थानस्य शत्रवः एतत् Forward Post  वशीकर्तुं महत्या संख्यया  तदुपसर्पन्ति स्म ।  जदुनाथस्य नेतृत्वे  प्रथमचक्रे शत्रवः परास्ताः अभवन् । जदुनाथस्य गणे चत्वारः सैनिकाः वीरमरणं प्राप्तवन्तः ।

पुनः द्वितीयचक्रे शत्रूणां महत्समूहः  आक्रमणार्थम् आगतः । जदुनाथः सर्वान् सैनिकान् प्रेरयन्  धैर्यं शौर्यं च प्रदर्श्य शत्रून् विफलान् कृत्वा Forward Post  रक्षितवान् । तावता तस्य गणे  विद्यमानाः सर्वेऽपि सैनिकाः वीरगतिं प्राप्तवन्तः आसन् ।  स्वतः जदुनाथस्य दक्षिणहस्तः विच्छिद्रः आसीत् ।  किन्तु जदुनाथः युद्धात् विमुखो न जातः ।

तावता तृतीयचक्रे शत्रवः पुनः आक्रमणं कर्तुं आरब्धवन्तः ।  जदुनाथः  Sten Gun गृहीत्वा/स्वीकृत्य  सुरक्षागर्तात् बहिरागत्य वामहस्तेन एव गोलिकावर्षं  कुर्वन् शत्रून् विघटितान् अकरोत् ।  एकाकी सन्नपि  व्रणितशेदपि  महान्तं शत्रुसमूहं धैर्येण पराक्रमेण च  पराजितवान् नायक जदुनाथसिंहः । अन्ते शिरसि उरसि च  अष्टौ गोलिकाः प्रविष्टाः इत्यतः  वीरस्वर्गं प्राप्नोत् ।

भारतसर्वकारः एतस्य कृते  मरणोत्तरं  अत्युच्चं सैनिकपुरस्कारं  परमवीरचक्रं  १९५० तमे वर्षे प्रायच्छत् । 

Sunday, September 19, 2021

१. प्रथमः परमवीरचक्रधारी मेजर सोमनाथशर्मा

 

१. मेजर सोमनाथशर्मा

भूमिका

१९४७ तमे इसवीये संवत्सरे धर्मस्य आधारेण देशस्य विभाजनं कर्तुम् अङ्गीकृत्य अस्माकं देशस्य तदानीन्तनाः केचन नेतारः  भारतस्य स्वातन्त्र्यं सम्पादितवन्तः । मुसल्मानजनेभ्यः  पृथगेव भारतस्य भूमौ कश्चन भागः आवश्यकः इति पक्षे ये ये अभिमतं (Vote)  दत्तवन्तः ते सर्वेऽपि मुसल्मानजनाः  स्वातन्त्र्यप्राप्तेः परं भारते एव स्थितवन्तः । ते पाकिस्थानं न गतवन्तः ।   यस्मिन् प्रदेशे पाकिस्थानं भवेत् इति पूर्वं निश्चितं तत्रत्याः  पाकिस्थानस्य निर्माणं भवेत् इति पक्षे मतं न दत्तवन्तः आसन् इति तु याथार्थ्यम् अस्ति । पाकिस्थानं मुसल्मानजनेभ्यः एव निर्मितम् अस्ति, तत्र वासं कर्तुं अन्येभ्यः अवसरः नास्ति इति तत्रत्याः हैन्दवाः यदा ज्ञातवन्तः तदा तेषां पार्श्वे स्वप्राणान् अतिरिच्य अन्यत् किमपि न अवशिष्टमासीत्, न पत्नी, न पतिः, न पुत्री, न पुत्रः, न पिता, न माता, न भूमिः, न गृहं, नान्या सम्पत् । अतः ते कथमपि स्वप्राणान् रक्षन्तः भारतं प्रति आगत्य  जीवेम इति चिन्तितवन्तः । किन्तु भारते गान्धीमहोदयः एतत् न इष्टवान् । कष्टं भवति चेदपि पाकिस्थाने विद्यमानाः सनातनधर्मानुयायिनः तत्रैव तिष्टन्तु । अत्रत्याः मुसल्मानजनाः अत्रैव तिष्टन्तु इति बोधयति स्म ।

          एतन्मध्ये जम्मुकाश्मीरस्य राजा हरिसिंहः स्वीयं राज्यं स्वतन्त्रमेव भवतु, पाकिस्थाने वा भारते वा तस्य विलयः मास्तु इति चिन्तितवान् आसीत् । अतः एषः सुसमयः इति मत्वा पाकिस्थानीयं सैन्यं गिरिजनानां वेशभूषैः काश्मीरस्य उपरि आक्रमणं व्यधासीत् ।  तेषां आक्रमणस्य नृशंशतायाः पराकाष्टां विज्ञाय राजा हरिसिंहः भारतस्य साहाय्यं प्रार्थितवान् । आरम्भे यद्यपि प्रधानमन्त्री बहुकालं यावत् किमपि निर्णेतुं अवसरं न प्राकल्पयत् तथापि सरदारपटेलवर्यः भारते जम्मूकाश्मीरस्य विलयाय सहमतिपत्रे तस्य हरिसिंहस्य हस्ताक्षरं कारयित्वा  पाकिस्थानीयस्य सैन्यस्य निग्रहाय भारतीयं सैन्यं प्रेषयितुं आदिष्टवान् । तावता पाकिस्तानीयाः सैनिकाः श्रीनगरपर्यन्तं  आगताश्चेदपि तान् पराजित्य जम्मुकाश्मीरसंस्थानं पाकिस्थानीयेभ्यः उन्मोचयितुं  प्रवृत्ताः भारतीयाः सैनिकाः प्रतिपदं साफल्यं प्राप्नुवन्तः आसन् चेदपि नेहरूवर्यः मध्ये प्रविश्य – “युद्धं स्थगयन्तु, अहम् एतं विवादं संयुक्तराष्ट्रसङ्घे नीत्वा परिहरिष्यामि इति आदिष्टवान् इत्यतः इदानीमपि जम्मुकाश्मीरस्य सुमहान् भागः पाकिस्थानस्य आधीन्ये एव अस्ति ।  नेहरूवर्यस्य मनोरथः कोऽपि वा भवतु, अस्माकं सैनिकानां त्यागः बलिदानं शौर्यं च तस्मिन् युद्धे अत्युत्कृष्टम् आसीत् ।

अतः तत्रादौ आत्मार्पणं भारतमातुः पदतले कृतवतः परमवीरस्य मेजर सोमनाथशर्मणः वीरगाथां सम्प्रति पश्यामः –

मेजर सोमनाथशर्मा  ३१/०१/१९२३ तमे इसवीये वर्षे हिमाचलप्रदेशस्य काङ्ग्डा जनपदे डोग्रा-ब्राह्मणपरिवारे  जन्म प्राप्तवान् । तस्य पिता अमरनाथशर्मा सैन्याधिकारी आसीत् । सः विद्यालयीयां शिक्षां उत्तराखण्डस्य नैनिताल इत्यत्र  शेर्वुड्-महाविद्यालये प्राप्नोत् । अनन्तरं देहराडूननगरे  सैनिकमहाविद्यालये  Prince of Wales Royal Militery Collage  इत्यत्र अध्ययनं कृतवान् । पितामहस्य मुखात् भगवद्गीतायाः विवरणं बाल्ये एव एषः श्रुत्वा अत्यन्तं प्रभावितः आसीत् ।

सः १९४२ तमे इसवीये वर्षे फेब्रवरीमासस्य २२तमे दिनाङ्के 19th Hyderabad Regiment इत्याख्ये सेनाङ्गे नियुक्तः अभवत् । पश्चात् स्वातन्त्र्यप्राप्तेः परं  कुमाओ रेजिमेण्ट् इत्यस्य सेनाङ्गस्य  चतुर्थं सैनिकसमूहं (4th Betalian) प्राविशत् ।

१९४७ तमे वर्षे ओक्टोबरमासस्य २७ तमे दिनाङ्के भारतीयसैन्यस्य  केचन सैनिकगणाः काश्मीरे आक्रमणं कृतवतः पाकिस्थानीयान् उन्मूलयितुं प्रेषिताः । ३१/१०/१९४७ तमे दिनाङ्के  मेजर सोमनाथशर्मणः नेतृत्वे  कुमाओ रेजिमेण्ट् इत्यस्य  सेनाङ्गस्य  4th Betalian मध्ये विद्यमानं D. Company इत्याख्यं सैनिकसमूहः भारतीयसैन्येन प्रेषितः ।  श्रीनगरात् अष्टमैल् परिमिते दूरे विमाननिस्थानस्य समीपे  बडगाम इति ग्रामः अस्ति यत्र सोमनाथशर्मणःसैनिकगणेन युद्धं कर्तव्यम् आसीत् । युद्धार्थं गमनात् प्राक् मेजर् सोमनाथशर्मा देहल्याम् आसीत् । तस्य वामहस्तस्य अस्थिभङ्गः पूर्वमेव जातः आसीत् । तस्य हस्तात् इतोपि Bandage  न निष्कासितम् आसीत् ।  तस्य कम्पनी युद्धार्थं गमिष्यति इति ज्ञात्वा सः स्वयमपि गन्तुं इष्टवान् । अस्थिभङ्गकारणात् तस्य उच्चाधिकारिणः तस्य अनुमतिं निराकृतवन्तः  चेदपि सः आग्रहं कृत्वा अनुमतिं सम्पादितवान् । “चतुर्थे कुमाओ कम्पनी मध्ये प्रत्येकं सैनिकस्य सामर्थ्यम् मदपेक्षया अन्यः कोऽपि सम्यक् न जानाति । अतः अहं गमिष्यामि चेत् अवश्यं युद्धे साफल्यं सम्पादयितुं शक्ष्यामि”  इति उक्त्वा अनुमतिं सम्पाद्य देहलीतः प्रस्थाय परेद्यवि सूर्योदयात् पूर्वमेव श्रीनगरस्थं युद्धभूमिं सम्प्राप्तवान् सोमनाथशर्मवर्यः ।

एतस्य समूहे उपाशीतिः सैनिकाः आसन् । किन्तु शत्रवः पञ्चशतात् अपि अधिकाः आसन् ।  बडगाम इत्यस्मिन् ग्रामे  ग्रामवासिनः इव वस्त्राणि धृत्वा  जवनीकासदॄशानाम् आच्छन्नवस्त्राणम् अन्तः शस्त्रास्त्राणि गृहीत्वा चतुर्थीं कुमाओ कम्पनीं  परितः  चतसृषु अपि दिक्षु ते शत्रुसैनिकाः समाविष्टाः अभवन् ।

एते भारतीयाः सैनिकाः आदौ शत्रूणां कापट्यं न ज्ञातवन्तः । मे. सोमनाथशर्मा सर्वानपि सैनिकान् प्रेरयन्, स्वस्य सुरक्षाविषये किञ्चिदपि अवधानं अप्रयच्छन् युद्धक्षेत्रे इतस्ततः धावति स्म । तस्य प्रेरणाकारणतः एव प्राणान् अपि पणीकृत्य युद्धं कृत्वा अस्माकं सैनिकाः शत्रूणां महतीं हानिम् उत्पादयितुं शक्ताः अभवन् ।  अस्मत्पक्षे २२ सैनिकाः वीरस्वर्गं प्राप्तवन्तः । षड्विंशतिः सैनिकाः व्रणिताः अभवन् ।  किन्तु त्रिशतादपि अधिकाः शत्रुसैनिकाः अस्मदीयानां शौर्यकारणतः यमपुरीं गताः ।

युद्धभूमौ शत्रुभिः प्रक्षिप्तं मोर्टर् अस्माकं मेजरवर्यस्य पार्श्वे एव पतित्वा विस्फोटितमभवत् इत्यतः अन्ते  सः युद्धभूमौ एव वीरस्वर्गं प्राप्नोत् । मरणसमये तस्य वयः  केवलं २४ वर्षाणि आसन् ।

Monday, August 2, 2021

भारतस्य इतिहासविषये व्यर्थप्रलापाः

 

प्रो.हरिप्रसादः के.


भारतस्य इतिहासविषये

व्यर्थप्रलापाः

(इत्याख्यस्य कन्नडग्रन्थस्य अनूदितः एकः अध्यायः)

 

उपोद्घातः

          भारतेन स्वातन्त्र्यम् अवाप्य ७५ संवत्सराणि सम्पद्यमानानि सन्ति । अतिदीर्धकालिकं पारतन्त्र्यम् स्वातन्त्र्येण चिन्तनात् अस्मान् विमुखीकरोति । स्वातन्त्र्यप्राप्तेः परमपि धूर्तानामेव शासनं भारतस्य स्वत्वस्य पुनरुज्जीवनाय अवसरं नाकल्पयत् । एतस्य परमं प्रमाणं स्वातन्त्र्योत्तरभारते निरन्तरं चत्वारः शिक्षामन्त्रिणः भारतभुवः संस्कृतेः सभ्यतायाः च अस्मितायाः विषये अनादरवन्तः म्लेच्छाः एव आसन् इति । भारतस्य अस्तित्वमेव जगतितले श्रेष्ठसभ्यतायाः संस्कृतेः ज्ञानविज्ञानानां आविष्कर्तृत्वेन प्रसारकत्वेन च आसीत् चेदपि ईदृशानां देशविरोधिनां प्रशासकानां कारणतः भारतस्य स्वत्वस्य पुनरुज्जीवनं यथा न स्यात् तथा कर्तुं सर्वविधप्रयत्नाः कृताः । तदर्थं आङ्ग्लेयानां सरणिः अनुसृता च । तत्र एकः प्रयत्नः भारतस्य वास्तविकं वैभवपूर्णम् इतिहासं जनमानसात् दूरीकृत्य नूतनसंततयः ततः अपरिचिताः यथा भवेयुः तथाकरणम् इति । किन्तु सत्यं बहुकालं यावत् गोपायितुं न शक्यते । तत् कथमपि स्वात्मानं कालान्तरे प्रकाशयति इत्यस्य उदाहरणम् एव  “ऎदि चरित्र” इत्याख्यः ग्रन्थः । एषः ग्रन्थः तेलुगुभाषया एम्.वि.आर्.शास्त्री इत्याख्येन तेलुगुलेखकेन लिखितो वर्तते । एतस्य कन्नडानुवादं बाबुकृष्णमूर्तिवर्यः अकार्षीत् । सर्वेणापि स्वाभिमानिना भारतीयेन अवश्यं पठनीयः ग्रन्थः ।  ३८० पृष्ठात्मकस्य एतस्य ग्रन्थस्य पञ्चमाध्यायस्य कश्चन भागः मया छात्रेषु अध्ययनजागृतिमुत्पादयितुम् अनूदितः । अ एव भागः अग्रे पठ्यताम् –

 

तस्मिन् देशे बलिष्टान् अश्वान् अपि सर्पाः लीलया गिलन्ति । तत्र केषाञ्चित् सर्पाणां पक्षिणामिव द्वौ पक्षौ भवतः । रात्रौ ते जतुकाः इव डयन्ते । तेषां मूत्रं वा स्वेदो वा मनुष्याणाम् उपरि पतति चेत् तत्र पिटकानि उत्पद्यन्ते । क्रमशः शरीरस्य सः भागः पूयते क्षीयते च ।  सर्पाणामिव वृश्चिकाणामपि तत्र महान्तौ पक्षौ भवतः ।   तत्र अश्वानां  मुखानि हरिणानां मुखानि इव भवन्ति । तेषां मस्तके एकं शृङ्गं भवति ।

तस्य देशस्य आदिवासिनां जनानाम् अकाराः इतोऽपि विचित्राः भवन्ति ।  केषाञ्चित् पादाः तिरोमुखाः भवन्ति । पादानां पृष्ठभागं पुरोभागे भवति । अङ्गुल्यः पृष्ठभागे भवन्ति । इतोऽपि केषाञ्चित् आदिवासिनाम् मुखमेव न भवति ।  मुखस्य स्थाने  द्वे रन्ध्रे भवतः । ताभ्यां रन्ध्राभ्यामेव मांसानां फलानां वा गन्धम् आघ्राय जीवन्ति । कदाचित्  दुर्गन्धं आघ्रान्ति चेत् अवश्यं ते म्रियन्ते ।  इतोपि केषाञ्चित् आदिवासिनाम् एकमेव नेत्रं  भवति । तदपि ललाटस्य मध्यभागे । अन्येषां केषाञ्चित् आदिवासिनाम् पादाः सर्पाः इव रज्जुस्वरूपाः भवन्ति । केषाञ्चित्  तु गजपादवत् पादाः भवन्ति । केषाञ्चित् आदिवासिनां कर्णौ चलनसमये भूमिं स्पृशन्तौ भवतः । तेषां कर्णौ तावद्विशालौ भवतः यौ प्रसारयामः चेत् अवश्यं तदुपरि मनुष्याः कटेषु इव शयनं कतुम् अर्हन्ति ।

तस्मिन् देशे पर्वतवासिषु केचन वामनाः भवन्ति । तेषु कस्यापि औन्नत्यं सार्धद्वयात् पादात् अधिकं न भवति । ते जनाः बलाकेभ्यः बहु एव पीडिताः भवन्ति ।  अतः ते  अजान् मेषान् च आरुह्य धनुः बाणान् च गृहीत्वा वसन्तर्तौ समुद्रतीरं गत्वा तत्र तैः निक्षिप्तान् अण्डान्, अण्डात् निर्गतान् बलाकशावकान् च मारयन्ति । एतत् कार्यं प्रतिवर्षं मासत्रयं प्रवर्तते । ते तथा न कुर्वन्ति चेत्  बलाकाः तेभ्यः जीवितुमेव अवसरं न प्रयच्छन्ति ।

तत्र  षष्ठे वयसि बालिकाः गर्भवत्यः भवन्ति ।

तस्मिन् देशे सुवर्णस्य उत्पादनं पिपीलिकाः कुर्वन्ति ।  एकैका पिपीलिका अपि अस्मद्देशीयात् जम्बूकादपि बृहती भवति ।  भूमौ बिलं निर्मायं पिपीलिकाः सुवर्णस्य चूर्णानि सङ्गृह्णन्त्यः भवन्ति । गच्छति काले सङ्गृहीतस्य सुवर्णस्य चूर्णं पर्वताकारेण वर्धते । सुवर्णानां चूर्णानि तथा निबिडतया सङ्गृहीतानि भवन्ति येन तन्मध्ये तिष्ठामः चेत् सूर्यस्यापि दर्शनं न भवति ।  अत्यन्तं प्रकाशमानया कान्त्या शोभायमानं सुवर्णराशिं पश्यामः चेत् अस्माकं नेत्राभ्यां दृक्शक्तिरेव निर्गच्छेत् । तत्र पार्श्वस्थेभ्यः मरुस्थलेभ्यः मनुष्याः अश्वशकटेषु आगत्य मध्याह्नसमये  यदा पिपीलिकाः भूम्याः अन्तः बिलेषु प्रविशन्ति तदा यथाशक्ति सुवर्णपर्वतं खनित्वा शकटेषु पूरयित्वा अतिवेगेन ततः पलायन्ते । एतत् ज्ञात्वा पिपीलिकाः ताननुगम्य  प्रयत्नेन अविश्रम्य संयुध्य म्रियन्ते ।  ताः पिपीलिकाः अपि सुवर्णस्य मूल्यं सम्यक् जानन्ति । अत एव ताः स्वप्राणान् अपि पणीकृत्य   युध्यन्ते”

एतत् सर्वं प्रलापं श्रुत्वा किं चिन्तयन्ति भवन्तः ? उन्मत्तानां ऊहाप्रपञ्च इति वा ?  सुरापानं कृत्वा वाचिता कथा इति वा ?  अरेबियन् नैट्स् इत्याख्या कथा इति वा ?  पातालभोगिनां कथाजालमिति वा ?

नैव भोः नैव ।  अस्माकं इतिहासकारैः परमप्रमाणत्वेन स्वीकृतात्  एकस्मात् इतिहासग्रन्थात् उद्धृतानि अनर्घ्यानि मौक्तिकानि सन्ति इमानि वाक्यानि !!!

तस्य ग्रन्थस्य नाम इण्डिका इति । तस्य रचयिता (अथवा रचयिता इति चिन्तितः) मेगास्तनिस् इत्युच्यते । तेन उपरि वर्णितः विषयः कस्यचित्  कल्पितलोकस्य नास्ति भोः, साक्षात् अस्माकं भारतस्य वर्तते India that is Bharat  इत्येतस्य 

बहुभ्यः वर्षेभ्यः अस्माभिः पठ्यमानस्य इतिहासस्य लेखकानां सर् विलियम् जेम्स्  म्याक्स्मुल्लर् इत्येतादृशानां पाश्चात्यविदुषां दृष्ट्या  भारतीयसाहित्यस्य ऐतिहासिकं महत्वमेव नास्ति ।  भारतीयानाम् अस्माकं आरम्भतः एव इतिहासविषयकं कल्पनमेव स्पष्टं नास्तीति ते कथयन्ति ।  प्राचीनाः सुदीर्घाणि पुराणानि तु लिखितवन्तः  । किन्तु तानि सर्वाणि कल्पनामात्राणि सन्ति, युगाः मन्वन्तराणि इत्येवं प्रकारेण अस्माभिः सहस्रवर्षाणां कोटिवर्षाणां गणनानि सर्वथा मिथ्याभूतानि इति ते कथयन्ति ।   विष्णुः शिवः ऋषयः, शापाः, यागाः इत्येवं रूपेण  कथाजालनिर्माणम् अकृत्वा वैदेशिकैः लेखकैरिव स्पष्टतया स्फुटवेद्यत्वेन इतिहासलेखनस्य विचार एव पौर्वात्यानां भारतीयानां नासीदिति ते अभिप्रयन्ति । अस्मान् शासितवतः ऐरोप्यशासकानाम् अभिप्रायानुसारं  -इसवीयपूर्वे ३२तमे वर्षे अलेग्साण्डरस्य भारतस्य उपरि आक्रमणपर्यन्तं  भारतस्य विश्वसितुं योग्यः इतिहास एव न लिखितः आसीत् इति । सः ग्रीकवीरः  तस्य विजयगाथां साक्षात् अवलोक्य  तत् लिपिबद्धं कर्तुं कांश्चन मेधाविनः विदुषः आनीतवान् आसीत् । तैः तदानीं लिखितसामग्रीणाम् साहाय्येन प्राचीनभारतस्य इतिहासः लिखितरूपः प्राप्यमाणः अभवत् । ग्रीकानां समग्राणां ऐतिहासिकसामग्रीणां मध्ये   मेगास्तनीस् इत्यनेन लिखितम् इण्डिका इत्याख्यं पुस्तकं मेरुतुल्यम् अस्ति पाश्चात्यानां इतिहासबृहस्पतीनां  ऊहा वर्तते ।  तैः वञ्चनाबुद्ध्या ग्रथितां खपुष्पेतिहासमालां सगर्वं धारयित्वा तदीयशौर्यशुक्तिकां रजतभ्रान्त्या कौतुकेन अवलोक्य श्लाघामहे । अस्मत् सन्ततिभ्यः तदेव दर्शयितुम् अभिलषामः च ।

उदाहरणार्थम् –

केन्द्रीयपाठ्यक्रमस्य ११तमकक्ष्यायाः पाठ्यक्रमे रामशरणशर्मा इत्यनेन रचिते प्राचीनभारतदेशः(Ancient India) इत्यस्मिन् ग्रन्थे एवं ससम्माननं लिखितम् अस्ति यत् –

“सेल्यूकस् इत्यस्य राजदूतरूपेण मेगास्तनीस् इत्याख्यः चन्द्रगुप्तमौर्यस्य राजधान्यां पाटलीपुत्र इत्याख्यायां नगर्यां स्थित्वा मौर्यसाम्राज्यस्य विषये पाटलीपुत्रनगरशासनविषये च यत्लिखितवान्  तत् तत्कालीनसामाजिकार्थिकस्थितीः सम्यक् प्रकाशयति” इति  (Throws valuable light on the administration, society and economy of Maurya times)

प्राचीनभारतस्य इतिहासविषये अत्यन्तं विश्वासार्हः आधारः इति द्विशतात् वर्षेभ्यः अस्माकम् इतिहासकारैः वर्णिते इण्डिका इत्याख्ये ग्रन्थे कथं इतिहासःलिखितः इति भवन्तः  अस्य लेखस्य आरम्भे एव पठित्वा ज्ञातवन्तः सन्ति किल !

अनादिकालादारभ्य भारतीयैः अनुस्रियमाणाः स्मृतयः इतिहासपुराणानि च ऐतिहासिकमहत्वहीनानि कल्पनामात्राणि इति आधुनिक-इतिहासचक्रवर्तिनः निर्णीतवन्तः । पुराणादीनां प्रामाण्यं ग्रीकलेखकैः रचितानां ग्रन्थानाम् आधारेण एव निर्णेतव्यम् इति च निर्णीतवन्तः  इत्येतत् अस्ताम् नाम । किन्तु तैः परमप्रमाणत्वेन स्वीक्रियमाणाः ग्रीकग्रन्थाः  कुत्रापि नोपलभ्यन्ते !!!  सहस्रवर्षेभ्यः पूर्वमेव ते कालकवलीभूताः सन्ति । अलेग्साण्डरतः पूर्ववर्तिषु स्कैलाक्स्, हेचाटियस्, मुल्लेटस्, हेरोडोटस्, केशियस् इत्यादिषु   कोऽपि भारतस्य मुखं न दृष्टवान् । भारतस्य विषये तैः लिखितानां ग्रन्थानां को वा आधारः इति न ज्ञायते  । ते ग्रन्थाः अनतिकाले एव नष्टाः । अलेग्साण्डरेण सह आगताः नेर्चस्, वन्सिक्रोटस्, अरिश्टोबुलस्,  केल्लिस्थेनीस् इत्यादयः भारतं दृष्ट्वा यल्लिखितवन्तः  तत् किमपि सम्प्रति नोपलभ्यते । अलेग्साण्डरतः अनन्तरं चतुश्शतात् वर्षेभ्यः परम् उत्पन्नाः अरियन् ष्ट्राबो इत्यादयः अपि तान् ग्रन्थान् न प्राप्तवन्तः  । अन्ततः अस्माभिः इदानीमपि सगर्वम् कीर्त्यमानः इण्डीका इत्याख्यः ग्रन्थः अपि द्वित्रेषु शतकेषु एव अदृश्यतां गतः । तं ग्रन्थं ये पठितवन्तः तेषां स्मृतौ खिलीभूय तदीयग्रन्थेषु  क्वचिदुद्धृतम् एव साम्प्रतम् उपलभ्यते ।  इत्थम् इतस्ततः प्रकीर्णं  वस्तु सङ्गृह्य Megasthenis India   इति नाम्ना लोकाय समार्पयत् जर्मनदेशस्य विद्वान् डा.श्चुवानबेक् इत्याख्यः । तदेव Ancient India as Described by Megasthenis and Arrian इति नाम्ना १८७७ तमे वर्षे जे.एन्. मेक्. क्रिण्डल् इत्याख्यः आङ्ग्ले अनूदितवान् । अस्य लेखस्य आरम्भे उद्धृतानि वाक्यानि तत्रत्यानि एव वर्तन्ते ।

इत्युक्ते मौर्यसाम्राज्ये मेगास्तनीसेन दृष्टमस्ति, दृष्ट्वा लिखितमस्ति चेति केवलं कल्प्यते । सः किं दृष्टवान् ? किं लिखितवान् चेति कोऽपि न जानाति ।  तदीयमिति यत्  साम्प्रतम् उच्यते तत् यथार्थं वा अयथार्थं वा इति केनापि तृतीयेन कल्पितं वा इति कोपि वक्तुं नार्हति ।  अस्माकं पुरस्तात् विद्यमानं वस्तु(इण्डिका) मेगास्तनिसस्य एव  इति सामान्यव्यवहारे उच्यते चेदपि प्राज्ञः कोपि अङ्गीकर्तुं न शक्नोति । एतद्विषये इण्डिका इत्यस्यसम्पादकस्य श्चानबेक् इत्यस्य  एव इत्थं अवगन्तव्यम् -

“The ancient writers, whenever they judge of those who have written on Indian matters, are without doubt want to reckon Megasthanis among those writers who are given tolying and least worthy of credit…”

[Mc Crindle,1877  p 18]

(इत्युक्ते – भारतस्य इतिहासादिविषये लिखितवतां विषये वक्तव्यं चेत्  असत्यवादिनाम् विश्वसितुं अयोग्यानाम् आवल्यां  मेगास्तनीसं प्राचीनलेखकाः योजितवन्तः)

इसवीयपूर्वे ६३ तमे वर्षे ष्ट्राबो इत्याख्यः तद्देशीयानां महालेखकानां विषये किमुक्तवानिति किञ्चित् आकर्ण्यताम् –

“Generally speaking, the men who have hitherto written on the affairs of India were a set of liars. Deimachos holds the first place in the list, Megasthenes comes next …. No faith whatever can be placed in Deimachos and  Megasthenes. They coined the tables concerning men with ears large enough to sleep in, men without any mouths, without noses with only one eye…. And fingers bent backward…. They told of ants digging for gold…. Of serpents swallowing down oxen and stags…. Meantime accusing each other of falsehood”

[Mc Crindle, 1877  p 20]

(स्थूलरूपेण वक्तव्यं चेत्  - एतावत्पर्यन्तं भारतस्य विषये ये ये लिखितवन्तः ते सर्वेपि अनृतवादिनः सन्ति । तेषु प्रथमस्थानं प्राप्नोति डिमचस्  इत्याख्यः ।  द्वितीयं स्थानमर्हति मेगास्तनीसः । डिमचस-मेगास्तनीसाभ्याम् उक्तं किमपि विश्वसितुं न शक्यते ।  मनुष्यैः शयितुं योग्यविशालकर्णयुतानां विषये मुखनासिकारहितानां विषये , एकाक्षिणां विषये तिर्यक्पादाङ्गुलीनां विषये च ते मिथ्याकथाजालं  रचितवन्तः । सुवर्णार्थं भूम्याः खननं कुर्वतीनां पिपीलिकानां विषये गोहरिणभक्षानां सर्पाणां विषये लिखितवन्तः । एकः अन्यम् इव परस्परम् अनृतवादी इति दूषितवन्तः)

तर्हि मेगास्तनीसस्य पुस्तकस्य किमपि मूल्यं नास्ति किम् ? तस्य पुस्तके विश्वसितुं योग्यं किमपि नास्ति  किम् ? सर्वमपि असत्यमेव वा ?

उपरि अतिशयोक्तिमात्रं कल्पनाविलासः इत्यादिपदानि इण्डिकाविषये उक्तानि चेदपि विश्वसितुं योग्याः बहवः विषयाः तत्र सन्ति । तेन दृष्टस्य देशस्य तदानीन्तनस्थितयः, शासनरीतिः,आर्थिकसामाजिकस्थितिः, आचारविचाराः, वैदेशिकानां विषये आदरः, स्वीयस्य प्राचीनेतिहासस्य विषये भारतीयानां मनोभूमिः, हैन्दव-बौद्धधर्मयोः भेदः इत्यादिविषये मेगास्तनीसस्य पुस्तकं वस्तुतः साहाय्यमाचरति एव । सनातनधर्मस्य विषये तदीयसम्प्रदायानां व्यवस्थाविषये अज्ञानेन वा धारणाभेदेन वा मेगास्तनीसस्य लेखने दोषाः स्युः नाम ।  किन्तु अन्ततः कस्यचित् वैदेशिकस्य दृष्टौ तदानीन्तनं भारतं कथम् आसीत् इति ज्ञातुं वा तदीयग्रन्थः उपयोगी भवितुम् अर्हति ।

एवमेतत् ।

तस्य याथार्थ्यं कियदस्ति इति प्रश्नः अस्ति चेदपि इतः २००० वर्षेभ्यः पूर्वम् इसवीयपूर्वे चतुर्थे शतके अयं ( इण्डिका ) ग्रन्थः लिखितः इत्यतः पुरातत्वशास्त्रदृष्ट्या अधिकं महत्वं दातव्यं स्यात् ।  तस्य प्राचीनतायाः कारणादेव चारित्रिकदृष्ट्या अपरिमितं प्राधान्यं  प्राप्नोति ।  ग्रन्थोक्तं प्रत्येकमपि अक्षरं सत्यं भविष्यति चेदेव तस्य मूल्यं अधिकं भवति इति कथनं मौर्ख्यं भवति ।  तादृशेषु ग्रन्थेषु तर्कसंमताः अंशाः कुत्रापि लभ्यन्ते चेत्  तानेव स्वीकृत्य ऐतिहासिकेषु अध्ययनेषु  विचारः/अनुसन्धानम् अनुवर्तनीयम्  । एतादृशीषु परिस्थितिषु आधुनिकान् पण्डितान् उद्दिश्य एतदेव प्रष्टव्यं यत् -  इतिहासविषये भवद्भिः उच्यमानानि धर्मसूत्राणि मेगास्तनीसे यथा अन्वियन्ति तथा भारतीयपुराणेषु नान्वियन्ति किम् ?

सहस्रात् वर्षेभ्यः पूर्वमेव नष्टस्य, नाममात्रावशेषस्य मेगास्तनीसरचितग्रन्थस्य  ऐतिहासिकाधारत्वेन परिग्रहः कृतः चेत्, तत्पठित्वा  यावत् स्मृतौ वर्तते तावत् रटित्वा एकत्रीकृतवाक्यानि एव इण्डिका इति च स्वीकृतं चेत्,  सहस्रशः वर्षेभ्यः किञ्चिदपि अपरिवर्त्य सुरक्षितरूपेण विद्यमानानि पुराणानि ऐतिहासिकाधारत्वेन  न परिगण्यन्ते  इति कथं वा ते वदन्ति ?

आधुनिकेतिहासग्रन्थेषु यथा दिनाङ्कानुगुणं घटनाः वर्ण्यन्ते  तथा पुराणेषु घटनाः न निरूपिताः स्युः ।  लोकाः, युगाः, देवताः, तदीयतरतमभावाः,  धर्माः, तद्रहस्यानि,  इत्यादिविषयाः पुराणेषु प्रतिपादिताः आधुनिकानां जनानां दृष्ट्या विचित्राः इव भासेरन् । आधुनिकशास्त्रानुगुणं पश्यामः चेत्  तत्रस्थाः अनेके विषयाः सन्दिग्धाः इव भासेरन् । पुराणद्वयस्य मध्ये क्वचित् पारस्परिकविरोधः स्यादपि । कदाचित् आधुनिकाः प्रगतिचिन्तकाः इति आत्मानं मन्वानाः वयं भाषणवेलायां “पुराणेषु नवतिः प्रतिशतं भागः निरर्थकः” इति  वदामः चेदपि तत्र एव उपयोगार्हाः 10% विषयाः सन्ति इति मत्वा तेषु विषयेषु आदरं प्रदर्शयेम किल ? अस्माकं तेषु विषयेषु आदरो भवतु, न वा भवतु ; न्यूनातिन्यूनं ऐतिहासिकदृष्ट्या वा तर्कसङ्गतानां विषयाणां कृते प्राधान्यं दातव्यं किल ?  बहुषु पुराणॆषु पारस्परिकविरोधेन विनैव प्रतिपादिताः विषयाः बहवः सन्ति ये शास्त्रसम्मताः, विभिन्नैः प्रमाणैः प्रमाणीकृताः, विद्वद्भिः पुरस्कृताः च सन्ति । ईदृशाणां विषयाणाम् इतिहासस्य शोधार्थं  स्वीकरणस्य आवश्यकता नास्ति किम् ?

अलेग्साण्डर् इत्यस्य आक्रमणपर्यन्तं  भारतस्य समग्रः अपि इतिहासः भ्रमाभूयिष्टः  निरर्थकप्रलापः आसीत् इति  विलियम जोन्स-म्याक्स-मुल्लर-प्रभृतिभिः  उपेक्षाबुद्ध्या  उक्तं चेदपि  अस्मिन् देशे सहस्रशः संवत्सरेभ्यः अविच्छिन्नप्रवाहवत् समागतः, स्पष्टरूपेण अभिज्ञातुं शक्यः,  असन्दिग्धः, केनापि शुद्धान्तःकरणेन निराकर्तुं अशक्यः सुदीर्घेतिहासः अस्य देशस्य वर्तते । सः सर्वोऽपि प्राचीनेतिहासः अस्माभिः उपहास्यमानेषु पुराणेषु निगूहितो वर्तते ।

कृतयुग-त्रेतायुग-द्वापरयुगानां लक्षशः वर्षाणि भवन्ति इत्यतः तेषां गणनादिकं भ्रमं जनयेत् इति धिया  पार्श्वे स्थापयित्वा कलियुगस्य एव गणनां करवाम । पुराणगतानि नामानि तत्पृष्टवर्तिनीः कथाः च अवलोकयामः चेत्  अस्माकं हासः भवितुम् अर्हति । कलियुगस्य आरम्भतः अपि अस्माकं पूर्वजाः स्पष्टतया  कालस्य गणनां कृतवन्तः एव सन्ति । अस्माकं देशे प्रत्येकस्मिन् पञ्चाङ्गे कलियुगस्य आरम्भतः प्रत्येकस्मिन् वर्षे कियान् कालः जातः इति  स्पष्टगणना वर्तते ।  तदनुगुणं 2003 तमे इसवीये वर्षे  कल्यादिः 5104 तमः संवत्सरः । इत्युक्ते इसवीयपूर्वे  3101-102 तमे (इत्युक्ते 5104 - 2003) संवत्सरे कलिशकः आरब्धः ।  कलिशकस्य गणना इसवीयपूर्वे 3102 तमे संवत्सरे  फेब्रवरीमासस्य 20तमे दिनाङ्के आरब्धः इति पाश्चात्याः अपि विद्वांसः स्वीकुर्वन्ति ।   ततः 36 वर्षेभ्यः पूर्वम् , इत्युक्ते इसवीये पूर्वे 3138 तमे संवत्सरे महाभारतयुद्धं प्रवृत्तम् ।  तत्र विजयं प्राप्य 36 वर्षाणां शासनं कृत्वा  श्रीकृष्णस्य देहत्यागवार्तां श्रुत्वा युधिष्ठिरः  परीक्षितस्य पट्टाभिषेकं कृत्वा सपत्नीकः सहोदरैः सह स्वर्गारोहणाय प्रस्थितः ।  तदानीमेव कलिशकस्य आरम्भः अभवत् । ततः 26 वर्षेभ्यः परं(इत्युक्ते इसवीयपूर्वे 3076 तमे वर्षे) सः स्वर्गं प्राप्नोत् ।  तदभिज्ञानाय तस्मादेव संवत्सरादारभ्य युधिष्ठिरशकस्य आरम्भः अभवत् । तं लौकिकाब्दः इत्यपि जनाः वदन्ति । तदनुगुणमेव इदानीमपि काश्मीरेषु पञ्चाङ्गं प्रचलति ।...