२. नायक जदुनाथसिंहः
नायक जदुनाथसिंहः
उत्तरप्रदेशस्य शहजानपुरस्थे खजूरि इत्याख्ये ग्रामे २१/११/१९१६ तमे दिनाङ्के जन्म प्राप्नोत् । एतस्य पिता वीरबलसिंह राठोडः कृषकः आसीत् ।
मातुः नाम जमुना कन्वर इत्यासीत् । बीरबलस्य अष्टसु अपत्येषु एषः तृतीयः ।
परिवारस्य आर्थिकस्थितिः उत्तमा नासीत् इत्यतः जदुनाथः चतुर्थकक्ष्यापर्यन्तमेव पठितवान् । पश्चात् सः
कृषिकर्मणि एव रतः आसीत् । शारीरिकरूपेण
अत्यन्तं सुदृढः पुष्टकायः जदुनाथः
मल्लयुद्धे निपुणः भूत्वा ग्रामे “हनूमानभक्त बालब्रह्मचारी” इति नाम्ना
प्रसिद्धः अभवत् । सः हनूमतः भक्तः
सन् ब्रह्मचर्यव्रतं श्रद्धया पालितवान्
आसीत् ।
द्वितीयविश्वयुद्धावसरे 7th Rajaput Regiment मध्ये २१/११/१९४१ तमे दिनाङ्के सः नियुक्तः
अभवत् । १९४२तमे वर्षे जपानीयान् विरुध्य कृते बर्मायुद्धे भागं गृहीतवान्
। १९४७ तमे वर्षे नवम्बरमासे
रजपूत-बेटालियन् इत्यस्मै सेनाङ्गाय काश्मीरे “नौशेरा” इत्यस्य प्रदेशस्य वशीकरणाय
आदेशः दत्तः आसीत् । अतः तस्य
जदुनाथस्य रजपूत-बेटालियन् नवम्बरमासे एव
नौशेरापार्श्वे जङ्गर् इत्यत्र गत्वा Base Camp निर्माणम् अकरोत् ।
वातावरणं सम्यक् नासीत् इत्यतः दिसेम्बरमासस्य २४ दिनाङ्कपर्यन्तं अस्मत्सन्येन महत् किमपि कर्तुं न पार्यते स्म । तस्मिन् समये अस्माकं सेनाङ्गस्य (Brigade इत्यस्य) ब्रिगेडीयर
आसीत् महम्मद उस्मान् इत्यख्यः ।
नौशेराप्रान्ते जङ्गर् इति स्थानं
व्यूहात्मककार्यसम्पादनदृष्ट्या
अत्यन्तं सूक्ष्मप्रदेशः आसीत्
। अतः दिसम्बरमासस्य २४ तमे दिनाङ्के
पाकिस्थानीयशत्रवः आक्रमणं विधाय तत् स्थानं वशीकृतवन्तः । एतस्य स्थानस्य
वशीकरणेन मीरपुरं पूंछ इत्यनयोः स्थानयोः सम्पर्कव्यवस्थायाः नियन्त्रणं शत्रोः
आधीन्ये आगतम् । ततः परं शत्रोः इतोऽप्यग्रे आगमनं अवरोद्धुं 50th Para Brigade द्वारा निरन्तरं प्रयासः करणीयः अभवत् ।
नौशेरा इत्यस्य उत्तरदिशि तियानघर
इत्यस्मिन् स्थले शत्रोः अवरोधस्य उत्तरदायित्वं जदुनाथसिंहस्य सैनिकगणाय
प्रदत्तम् आसीत् । तस्मिन् गणे जदुनाथसिंहेन सह २७ इतरे सैनिकाः आसन् । तियानघर
इत्यत्र एकं Forward Post सैन्येन निर्मितम् । पाकिस्थानस्य शत्रवः एतत् Forward Post वशीकर्तुं महत्या
संख्यया तदुपसर्पन्ति स्म । जदुनाथस्य नेतृत्वे प्रथमचक्रे शत्रवः परास्ताः अभवन् । जदुनाथस्य
गणे चत्वारः सैनिकाः वीरमरणं प्राप्तवन्तः ।
पुनः द्वितीयचक्रे शत्रूणां महत्समूहः
आक्रमणार्थम् आगतः । जदुनाथः सर्वान् सैनिकान् प्रेरयन् धैर्यं शौर्यं च प्रदर्श्य शत्रून् विफलान्
कृत्वा Forward Post रक्षितवान् । तावता तस्य गणे विद्यमानाः सर्वेऽपि सैनिकाः वीरगतिं
प्राप्तवन्तः आसन् । स्वतः जदुनाथस्य
दक्षिणहस्तः विच्छिद्रः आसीत् । किन्तु जदुनाथः
युद्धात् विमुखो न जातः ।
तावता तृतीयचक्रे शत्रवः पुनः आक्रमणं कर्तुं आरब्धवन्तः । जदुनाथः Sten Gun गृहीत्वा/स्वीकृत्य सुरक्षागर्तात् बहिरागत्य वामहस्तेन एव
गोलिकावर्षं कुर्वन् शत्रून् विघटितान्
अकरोत् । एकाकी सन्नपि व्रणितशेदपि
महान्तं शत्रुसमूहं धैर्येण पराक्रमेण च
पराजितवान् नायक जदुनाथसिंहः । अन्ते शिरसि उरसि च अष्टौ गोलिकाः प्रविष्टाः इत्यतः वीरस्वर्गं प्राप्नोत् ।
भारतसर्वकारः एतस्य कृते
मरणोत्तरं अत्युच्चं
सैनिकपुरस्कारं परमवीरचक्रं १९५० तमे वर्षे प्रायच्छत् ।
No comments:
Post a Comment