Wednesday, June 28, 2023

साम्यघ्नो जगद्धन्ता साम्यवादः प्रवर्तते

 

श्री गुरुभ्यो नमः

साम्यघ्नो जगद्धन्ता साम्यवादः प्रवर्तते

 

निश्चयेन समग्रे जगति उच्चनीचभावः आसीत् वर्वर्ति भविष्यति च । पूर्वं येन रूपेण आसीत् तथा इदानीं न स्यात् । इदानीं यथा अस्ति तथा भाविनिकाले न भविष्यति च । महाराष्ट्रे कश्चन महात्मा उच्चनीचभेदः समाजे न भवेत् इति आन्दोलनमेकं गते शतके आरब्धवान् इति । एवं तस्य आन्दोलनस्य नामकरणं “अजात” इति कृतवान् । आन्दोलनस्य आरम्भिकेषु दिवसेषु बहवः जनाः तत् समर्थयन्तः तस्य आन्दोलनस्य भागग्राहिणो भूत्वा स्वीयां जातिं त्यक्तवन्तः । तस्य विडाम्बनं इदमस्ति यत् महाराष्ट्रे २०१० तमे वर्षे प्रवृत्तगनगणनानुसारं १५० अजातजातीयाः सम्प्रति सन्ति इति । जातिव्यवस्थां निर्मूलयितुं प्रवृत्तं अजात इत्याख्यं आन्दोलनं एकां नूतनाम् अतिरिक्तां जातिम् असृजत्, पुर्वतनाः जातयः तु न नष्टाः ।  इत्थं सर्वत्र केषाञ्चित् समाजसुधारकाणाम् अन्दोलनकारणतः समाजे नूतनाः जातयः समुत्पन्नाः । पुर्वं वर्णसङ्करेण जातिः उत्पद्यते स्म । यथा गीतायां अर्जुनः शङ्कते –

“स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः” भगवद्गीता १-१८

किन्तु अद्यत्वे साङ्कर्यं स्वाभाविकं जातमस्ति । अतः साङ्कर्याधारेण जातयः न भवन्ति । बहूनां अभिनवसमाजसुधारकाणां (साम्यवादिनाम्) इदमपि मतमस्ति यत् साङ्कर्यं भवेत् येन जातीयः भेदः निर्गच्छति इति ।

 जन्माधारितं भेदं मानवसामान्यः नाङ्गीकुर्यात् इति उदात्तम् आदर्शपूर्णं वाक्यं बहवः आधुनिकाः विवेकिनः वदन्ति । तदर्थमेव सर्वकाराः विधीन् निर्मान्ति येषां कारणतः अयं भेदः इतोऽपि बलवत्तरः भवति ।  भारतीयं चिन्तनं तु  इत्थमस्ति -

“विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः” ॥ भगवद्गीता ५-१८

किन्तु एषः विधिः नास्ति । अत्र मनुष्यस्य स्वातन्त्र्यम् अस्ति । श्रेष्ठः यः भवितुं इच्छति सः ज्ञानी भवेत् (पण्डितः), स एव ज्ञानी यः समदर्शी भवति ।  स च समदर्शी गीतोक्तरीत्या भवेत् । अत एव अत्र समदर्शी इति पदं भगवता व्यासेन प्रयुक्तम्, साम्यवादी इति न । समदर्शी भेदं न पश्यति । साम्यवादी साम्यं सम्पादयाम इति प्रतिज्ञाय शोषकशोषितरूपेण समाजं द्विधा विभज्य शोषकत्वेन कल्पितानां प्रतिशोधाय शोषकाणां शोषणं कर्तव्यम् इत्यभिप्रैति ।

अस्मिन् लेखे साम्यवादिचिन्तनं असमतायाः निवारणार्थं प्रवृत्तं कुटिलैः उपायैः तदीयमेव चिन्तनं कार्यप्रणाली च अनुसर्तुं योग्यम्, अन्यत्सर्वं नाशयितुम् योग्यञ्चेति प्रतिपादयत् तदनुष्ठातुं  केन मार्गेण प्रवर्तमानम् अस्ति इति विम्रष्टुम् राजीव मल्होत्रा इत्याख्यस्य लेखकस्य “Snakes in the Ganga” इति ग्रन्थस्य केचन भागाः परिशील्यन्ते ।

 

साम्यवादः कार्ल् मार्क्स् इत्यनेन प्रतिपादितः पश्चात् विकासमवाप्य समग्रे जगति व्याप्नोत्  विभिन्नाभिः शाखाभिः । ऐरोप्यदेशेषु नवदशे शताब्दे उत्पन्नायाः यान्त्रिकक्रान्तेः कारणात् यन्त्रागाराणि महान्ति निर्मितानि यत्र कार्यं कर्तुं महत्या संख्यया कर्मकराः नियुक्ताः । तेषु देशेषु नियतरूपेण कृष्यादिकर्मणा जीवितुम् अवसरः न्यूनः इत्यतः यन्त्रागारेषु कर्मकराः अपि अत्यधिकसंख्यया प्रविष्टाः । जगतः बहुषु देशेषु स्वाधिकारं प्रतिष्ठाप्य तत्तदेशीयान् दासान् कृत्वा वेतनेन विना दमनात्मकनीत्या स्वकार्यं साधयितुं प्रवृत्तानां ऐरोप्यानां एषः स्वभावः अत्रापि प्रदर्शितः इत्यतः  कर्मकराणां जनानां पीडनं अपि स्वाभाविकमासीत् । एषा परिस्थितिः कार्ल् मार्क्स् इत्यस्य जन्मने कारणमभवत् । तेन स्पष्टतया एतद्विषये सिद्धान्तितं यत् समाजे द्विप्रकारकाः जनाः भवन्ति –प्रथमप्रकारकाः शोषकाः, द्वितीयप्रकारकाः शोषिताः इति । अस्य अभिनवस्य साम्यवादस्य बहूनि रूपाणि सन्ति – Marxism, Leninism, Maoism  Postmodernism, Critical Race Theory, Queer Theory, LGBTQ+ इत्यादि ।

एतेषाम् अनुसारं के शोषकाः भवन्ति ?  – श्वेतचर्माणः(विदेशेषु), ब्राह्मणाः, तैः निर्मिताः सर्वाः संस्थाः यथा मन्दिराणि, शैक्षिकादिसंस्थाः, भाषाः, साहित्यानि, गुरवः, देवताः, पर्वाणि, तीर्थस्थलानि, संस्काराः, पारिवारिकजीवनपद्धतिः .... इत्यादयः.

शोषिताः के – म्लेच्छाः, शूद्राः, LGBTQ+ … इत्यादयः ।

          अत्र शोषकाः के इति निर्णयं साम्यवादिनेतारः कुर्वन्ति । शोषिताः के इत्यपि ते एव निर्णयं कुर्वन्ति । कः शोषणं कृतवान् इति वैयक्तिकं न्यायिकं विश्लेषणं वा विचारणं वा न क्रियते । एवमेव कः शोषितः इत्यपि वैयक्तिकं न्यायिकं विश्लेषणं वा विचारणं वा न क्रियते । यः शोषितः सः कृष्णवर्णीयः/म्लेच्छः/निम्नजातीयः चेत् सर्वेऽपि कृष्णवर्णीयाः/म्लेच्छाः/निम्नजातीयाः शोषिताः इति परिगण्यन्ते । एवमेव एकः शोषकः श्वेतचर्मा/म्लेच्छेतरः/उच्चावर्गीयः चेत्  सर्वेऽपि श्वेतचर्माणः/म्लेच्छेतराः/उच्चावर्गीयाः शोषकाः इति परिगण्यन्ते । एवं च एकेन कृतस्य कर्मणः आरोपणं तज्जातीयस्य समूहस्य उपरि क्रियते । एवमेव एकः शोषितः चेत् तदीयसमूहः समुदायो वा जातिः वा तदीयमतं वा एव शोषितम् इति परिगण्यते ।

किन्तु एतद्विपरीततया शोषकजातीयत्वेन गृहीतस्य शोषणं शोषितेन क्रियते चेत् एषः पूर्वोक्तः नियमः तत्र न अन्वेति । यथा भारते काश्मीरं विहाय अन्यत्र मुसल्मानजनाः अल्पसंख्याकाः (सत्स्वपि उपत्रिंशत्कोटिसंख्याकेषु) इति कृत्वा तेषां रक्षणाय पूर्वतनेन यु.पि.ए.सर्वकारेण Communal Violence Bill संसदि पारयितुं यत्नः विहितः, यस्य आधारेण हिन्दुमुस्लिम्-कलहे जाते सति, कलहस्य कारणीभूताः अधिकसंख्याकाः यवनाः भवन्ति चेदपि एकाकिनः हैन्दवस्य एव दण्डविधानं करणीयमिति नियमः योजितः आसीत् । यतो हि पीडां प्राप्तवान् हैन्दवः एकाकी चेदपि, सः  बहुसंख्याकसमूहस्य सदस्यः अस्ति । एवमेव कलहकारणीभूताः यवनाः बहवः भवन्ति चेदपि ते अल्पसंख्याकमतस्य सदस्याः । अपि च ते दोषं कृतवन्तः चेदपि ते शोषितवर्गीयाः इत्यतः शोषकाः न । एवमेव हैन्दवः पीडितः जातः चेदपि न पीडितः इत्येव अङ्गीकर्तव्यम्, यतः सः शोषकसमूहत्वेन साम्यवादिभिः निर्णीतहैन्दवधर्मीयः अस्ति ।  अत एव काश्मीरे तत्रत्यानां हैन्दवानां पण्डितप्रभृतीनां नृशंसं सामूहिकं हननं जातम् आसीत् । तद्विषये भारतस्य तदानीन्तनः सर्वकारो वा देशविदेशेषु विद्यमानाः साम्यवादिनः वा दुःखं न अनुभूतवन्तः । यतो हि काश्मीरे मृताः पण्डितजातीयाः शोषकत्वेन(???) परिगणितस्य समूहस्य/धर्मस्य सदस्याः । मारितवन्तः यवनाः अल्पस्ख्याकसमूहस्य(???) सदस्याः ।

एवमेव साम्यवादिनः निश्चिन्वन्ति यत् के शोषकाः के च शोषिताः इति । एते शोषिताः वस्तुतः शोषिताः एव भवन्ति इति निश्चयः नास्ति, शोषकाश्च शोषकाः इति । साम्यवादिनेतारः यान् शोषकाः इति गृह्णन्ति ते शोषकाः इत्यर्थः । यान् च शोषिताः इति कल्पयन्ति ते शोषिताः इत्यर्थः ।  अमेरिकादेशे यथा कृष्णवर्णीयाः शोषिताः इति गृह्यन्ते तथैव यवनाः अपि ग्रहीतव्याः इति साम्यवादिमतम् । अत एव इस्लामोफोबिया अस्ति इति लोके कोऽपि वदति चेत् सः दण्डनीयः इति अमेरिकादेशस्य संसदि विधिः पारितः एतेषां साम्यवादिनां कुटिलोपायकारणात् । वस्तुतः जिहाद् इत्यस्य कारणतः एव इस्लामोफोबिया उत्पद्यते किल । किन्तु आतङ्ककारिणि कार्ये  यवनाः गृह्यन्ते चेदपि यवनाः आतङ्कम् उत्पादयन्ति इति कथनं असाधु इति साम्यवादिनां निर्णयः । अत एव यः इस्लाम् आतङ्कम् उत्पादयति इति वदति सः तन्मतस्य निन्दां करोति इति गृह्यते । अतः सः जनः दण्डनीयः इति विधिं पारयितुम् अमेरिकादेशस्य संसदि(अमेरिकादेशस्य संसत् Congress इत्युच्यते) यत्नः विहितः, पारितश्च ।  किन्तु Senate (Upper House/Assembly of US ) मध्ये सः विधिः यथा पारितः न भवेत् तथा लेखकगणेन परिश्रमः कृतः ।

 

परिहारोपयः कः ?

 

 

 वस्तुतः साम्यवादी कथं भवेत् इति  गीता अस्मान् इत्थम् उपदिशति -

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।

निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥

समः शत्रौ च मित्रे च तथा मानापमानयोः ।

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ गीता १२/१३,१८

किन्तु अभिनवः साम्यवादः ईदृशं तत्वं नाङ्गीकरोति । गीतासदृशं प्राचीनं कमपि ग्रन्थं, ग्रन्थप्रतिपादितं सर्वहितकारितत्वं वा नाङ्गीकरोति । तत्रत्यां भाषामपि शोषकभाषां मन्यते । सा भाषा निम्नजातीयानां शोषणमुखेन उच्चवर्गीयाणाम्/ब्राह्मणानां आत्मलाभाय प्रवृत्ता इत्यभिप्रैति[1] अतः एतादृश्यः भाषाः नाशनीयाः इत्येतादृशानि तदीयानि उद्देश्यानि भवन्ति ।  वस्तुतः भाषा एतादृशोद्देशेन प्रवर्तते किम् इति अग्रे विव्रियते ।

           

साम्यवादिनः अभिप्रयन्ति यत् –’विधीन्(शासननियमान्) ये निर्मान्ति ते तदीयापेक्षानुगुणं निर्मान्ति न तु शोषितानां कल्याणाय, शोषकाणां मर्दनाय वा । परम्परया ये समाजे प्राप्तादराः(privilaged) तेषामेव निकटे अधिकाराः भवन्ति । असौविध्यानि सर्वाण्यपि उपेक्षितवर्गाणामेव भवन्ति । धनिकाः प्राप्तशासनाधिकाराः उच्चवर्गीयाः  तदीयानि उन्नतसामाजिकस्थानानि रक्षितुं निम्नवर्गीयाणां दमनाय शासननियमान् उपयुञ्जते’ इति ।

“The law supports the interests of those who create the law. a power dynamic which favours the historically privileged and disadvantages the historically underprivileged.... The wealthy and the powerful use the law as an instrument for oppression in order to maintain their place in hierarchy.”[2]

         

साम्यवादिनां(Postmodernist) इदं मतम् अस्ति यत् – सामाजिकं याथार्थ्यं शक्तिशालिसंवादेन भवति, यच्च सामाजिकं याथार्थ्यं इदं अपेक्षेत यत् शोषितानां अभिप्रायः शोषकाणां वचनस्य उपरि विजयं प्राप्नुयात् (प्राधान्यं प्राप्नुयात्)  ।

साम्यवादिनां अनेन मतेन पूर्वतनी उदारदृष्टिः ध्वंसीभूता । सा उदारदॄष्टिः इयमासीत् यत् विचाराणां विपण्यां कुत्सिताः विचाराः सहजतया उत्तमविचारेभ्यः पराजिताः भवन्ति इति । अपि च अनेन उदारवादे एकं महत्परिवर्तनं इदमागतम् यत्  स्वतन्त्रचिन्तनस्य स्थाने प्रबद्धचिन्तनं आवृणोत् इति । प्रबद्धचिन्तनं इत्युक्ते कश्चन सिद्धान्तः एव स्वीकार्यः, यश्च सिद्धान्तः साम्यवादिराजनीतेः सिद्धान्तः भवति ।

“The Postmodernist view that social reality is constructed by dominant discourses has been turned into the demand that the speech of the oppressed must prevail over that of the oppressor. This has toppled the previous liberal view that in the 'marketplace of ideas' the bad ideas will automatically get defeated by the better ones. A big shift in Liberalism is that free thinking is being replaced by the dogma that only one particular ideology is acceptable, and this is the ideology of identity politics.”(Page no. 43)

 

साम्यवादिभिः तेषां पक्षस्य दृढीकरणाय प्रतिष्ठापनाय अथवा तद्विरोधिनां आक्षेपेभ्यः आत्मानं रक्षितुं एवं उच्यते यत् – अस्माभिः सिद्धान्ताः इत्थं प्रतिपाद्यन्ते यत् विश्वासयोग्यं ज्ञानं तर्केण वा प्रमाणेन वा परिप्रश्नेन/वादेन वा न जायते । तत् ज्ञानं शोषितानां/दूरीकृतानां जीवनानुभवस्य श्रवणात् प्राप्यते ।  दूरीकृताः के इति निर्णयं साम्यवादिनेतारः कुर्वन्ति । पुनश्व एते कथं दूरीकृताः इति निर्णीतं इति प्रष्टुं कस्यापि अधिकारो नास्ति । तेषां सिद्धान्तानुसारं केवलं शोषितानां(इति कैश्चिदेव मन्यमानानाम्) जीवनानुभवः एव मान्यः भवति, न तु अन्यत् किमपि । अतः सर्वाणि अपि पारम्परिकाणि शास्त्राणि,  आधिकारिकाश्च  ग्रन्थाः तिरस्कर्तव्याः । यतो हि तेषु ग्रन्थेषु दमनशीला भाषा अस्ति ।

 “The assumption being made is that reliable knowledge can be obtained without evidence, reasoning  or cross examination. It can be obtained simply by listening to the lived experiences of those who have been designated as marginalised groups, and this designation is fixed by the authorities of this Church and can not be questioned. Because only lived experience are valid, all traditional and authoritative texts must be discarded because they contain language that is oppressive.”(Page no. 43)

 

दीप्ति राव इत्याख्या भारतीया महिला सङ्गणक्षेत्रे अभियान्त्रिकीं अधीत्य अमेरिकादेशस्य silicon valley इत्यत्र कार्यरता अस्ति । सा अस्वाभाविक्या इच्छया अमेरिकादेशीयस्य LGBTQ+ इत्याख्यस्य आन्दोलनस्य(सङ्घटनस्य) सदस्या अभवत् । तत्र प्रवेशात्परं तस्याः ये अनुभवाः तत्र सङ्घटने जाताः तान् सा इत्थं विवृणोति –

“यदा अहं  LGBTQ+ समूहे पूर्णतः प्रविष्टा तदा तत्रत्यानां सुहृदां भारतविषये सनातनधर्मविषये सुमहान् विरोधः अस्ति इति ज्ञातवती ।  सनातनधर्मः दमनकारी अस्ति, उच्चनीचजातिभिः संवलितः अस्ति, अतः सः धर्मः नाशनीयः” इति ते संलपन्ति । भारते सर्वविधसमस्यानां मूलं ब्राह्मणवादः अस्ति इति ते आरोपं कुर्वन्ति । भारतसर्वकारस्य धनात्मकाः नीतयः  विकासपराः सन्ति इति उच्यते चेत् तत् दमनात्मकराजनीतेः प्राचारतन्त्रमात्रम् इति ते कथयन्ति । अहं यत्किमपि  सकारात्मकं (भारतसर्वकारस्य नीतिः उचिता अस्ति) अभिप्रायं प्रकटयामि चेत् अत्यन्तम् असभ्यरीत्या ते तत् निराकुर्वन्ति । ते यवनसंस्कृतेः समर्थनं कुर्वन्ति । यवनमतस्य दमनात्मिका संरचना अस्ति चेदपि, तदीयः इतिहासः च  LGBTQ+विरुद्धतया अस्ति चेदपि तद्विम्रष्टुं ते न इच्छन्ति । एषा अप्रामाणिकता अस्ति, एषा मतान्धता अस्ति ।“

Lived experience of Deepti Rao an Indian American software professional in silicon valley is insightful-----

 “As I got deeper into the American LGBTQ+ movement, I noticed that this new group of friends had antagonistic views about Hinduism and India. They were vocal about Hinduism being oppressive and casteist and in need of being dismantled. They attributed all the problems in India to ‘Brahminical Petriarchy’ and called any positive policies and progress of India as fascist and nationalistic propaganda…. Any alternative view I presented was rudely dismissed. These individuals supported Muslim culture, never once wanting to discuss Islam’s anti-LGBTQ+ history and structural oppression. This is dishonest and bigoted” (Page no. xxxix)

हार्वर्डविश्वविद्यालयस्य राजनैतिकसाहाय्येन अमेरिकादेशस्य संसदि एकः विधिः पारितः/अङ्गीकृतः । कः सः विधिः ?  Islamophobia इत्यस्य उत्पादनं अपराधाय भवति इति । समग्रे जगति एषः विधिः अन्वेति, न केवलं अमेरिकादेशे । Islamophobia इत्यस्य उत्पादनं कुर्वतां दण्डविधानाय एका संस्था अमेरिकादेशेन प्रतिष्ठापिता ।  यस्मिन् कस्मिन् अपि देशे केनापि Islam भयमुत्पादयति इति वदति चेत्  तत्तद्देशम् अमेरिका दण्डयति । एतत् विडम्बनम् अस्ति यत् – एतादृशः विधिः अन्यधर्माणां विषये न कृतः ।  अने

With the political support of Harvard (University) the US Congress passed a bill making Islamophobia a crime worldwide and requiring the government  to create a special organisation prosecuting Islamophobia everywhere and to apply US sanctions against countries found guilty. The irony is that no such protection was offered to other religions.  In parallel, Pakistan introduced a resolution in the United Nations General Assembly on ‘International Day to Combat Islamophobia’  It stated that ‘Hate speech, discrimination and violence are proliferating in several parts of world, causing great anguish in the Islamic world’. Though France desired any such resolution to be inclusive of all religions and not just for Islam, and India had similar views as well, there were many Muslim countries supporting the resolution. It was passed with the decision ‘to proclaim15 March the International Day to Combat Islamophobia’  (Page No xliii) 

Harvard University

Our research suggests that Harvard University is the epicenter for developing the discourse and weaponizing it into activism, as well as training thousands of fighters in this warefare Harward is developed its own community with a vast network of branches. (Page no. xiviii)

China is playing a double role: Opposing this idealogy(CRT and etc) at home but helping those bring to its enemies like US and India. (Page no. xiviii)

Indian billionaires are supporting this breaking India work at Harvard by actively funding it and giving it legitimacy knowingly or unknowingly. (Page no. xiviii)

A large number of Indians are employed by the global left at all levels from the highest to lowest. They are a key part of this latest incarnation of the Marxist revolution. The global left operates across national boundaries. (Page no. xlix)

 

The French Marxist, Pierre Bourdieu, further developed the theory that culture is a form of capital. His contribution to Marxism was to formulate the relationship between culture and power. He stated that people in power use culture as an emotional tool to exploit the public and protect the status quo of their power. Culture contains deep, and invisible, safety nets, and emotional shock absorbers. People exist with their economic miseries without revolting because the cultural structures protect the power structure. In this way, culture has hidden structures that enable the elites to assert power over the masses.

 

Critical theorists feel that capitalism is subverting the materialistic revolution by diverting the masses away from such a revolution. Capitalists are promoting emotional 'good feelings' among the working class that deflects their attention away from real-world physical experiences. Culture has been co-opted by capitalism, and the advertising industry is one of its devices. Popular culture and advertising serve as a soothing Do balm that the ruling elites use to brainwash the masses and placate them. The goal is to channel their energies away from any social and political activism. Consumerism thus, is the enemy of social and political activism.

 

Herbert Marcuse, the young follower of Horkheimer, famously explained how capitalism had won over the oppressed masses psychologically: (Page No. 09)

It is important to note that Marxism had only two classes: bourgeoisie and proletariat. The bourgeoisie was one single class and there were no separate minority groups or identities each vying for victimhood status and power. The replacement of one single victim class with several is a major recent adaptation of Marxism.

 

The focus of Critical Theory and all its offshoots and variations was to attack Western institutions and norms in order to tear them down. It was to disrupt traditional thinking that schools imparted and what the masses believed. (Page No. 10)

 

In other words, all claims to truth are culturally biased and are constructed by the social power of the elites. One consequence of such a theory is that a critic cannot offer counter aurguements against any Postmodernist statement using scaintific evedence  and methedology, because the critisism would itself be rejected as a product of elitism.(Page-12)

            New York Times इत्यस्याः पत्रिकायाः प्रथमस्थाने विक्रीयमाणस्य पुस्तकस्य लेखकः, National Book Award इत्यस्य भाजनः Ibram X Kendi इत्याख्यः कथयति यत् पूर्वं कृतस्य तारतम्यस्य निर्मूलनं वर्तमाने तारतम्येन एव निवारणीयम् । वर्तमाने क्रियमाणस्य तारतम्यस्य निर्मूलनं भविष्यदि तारतम्येन एव कर्तव्यम् ।

 

The number one New York Times best selling author and National Book Award winner Ibram X Kendi, has famously said –

The only remidy to past discrimination is present discrimination. The only remidy to present discrimination is future discrimination.

See: Ibram X. Kendi Defines What to mean to be an antiracist '. Penguin RERRI on April 30, 2022 (https://www.penguin.co.uk/articles/2020/june/ibram-Definition-of-antiracist.htm)



[1] Sanskrit is being declared an oppressive language. Critical Race Theory argues that languages contain structures of “White Privilege” in the case of the west, and by extension, Sanskrit perpetuates Brahmin privilege as a tool for exploiting the lower castes and Dalits.  (Snakes in Ganga Page no. XXXVII)

 

 

[2] 'Critical Legal Theory'. Cornell Law School. Retrieved on April 30, 2022 (https://www.law.cornell.edu/wex/critical_legal_theory); (Kennedy and Klare 1984)

Tuesday, May 23, 2023

पञ्चमाध्यायः, सामाजिकरूपेण उत्तरदायित्वहीनं काव्यम् ’रामायणम्’ इति चित्रितम्

पञ्चमाध्यायः

सामाजिकरूपेण उत्तरदायित्वहीनं काव्यम् ’रामायणम्’ अस्ति इति चित्रितम्

 

          वैदिककालिक-सामाजिकदमनस्य प्रचाराय विद्यमाना योजना एव रामायणस्य रचना इति पोलाकस्य दृष्टिकोणः अस्ति ।

पोलाकः १९८४ तमे इसवीये संवत्सरे वाल्मीकिरामायणस्य विषये एकम् महत्त्वपूर्णं कार्यं कृतवान् यन्माध्यमेन संस्कृतग्रन्थानाम् अध्ययनविषये तदीयविचाराणाम् सौष्ठवं निरूपितं स्यात् । रामायणम् ऐतिहासिकघटनाः आश्रित्य लिखितमिति सः न मन्यते, प्रत्युत रामायणम् काल्पनिकम् इति । बौद्धानां जातककथाभ्यः पूर्णतः प्रेरिता कथा अस्ति रामाख्यस्य जनस्य । एतादृशाय कल्पनाय पोलाकेन प्रदर्शितः एकः तर्कः कः इत्युक्ते – जातककथासु उपयुक्तानां छन्दसाम् अनुकरणं वाल्मीकिः रामायणलेखनवेलायां कृतवान् इति ।

          तथापि रामायणम् प्राचीनस्य ’बार्डरिक’सम्प्रादायस्य वीरगीतानां पराकाष्ठायाः प्रदर्शकं स्यात् । अपि च अयं स्मरणीयः कविः वाल्मीकिः जानपदसाहित्यस्य/लोकसाहित्यस्य कानिचन लक्षणानि अवश्यम् उपयुक्तवान् स्यात् । यथा बौद्धानां जातककथासु तत्पद्यं भारतीय-साहित्येतिहासस्य प्रथमाध्यायत्वेन लीलया परिगृहीतम् न तु प्राचीनस्य अन्तिमाध्यायत्वेन ।

          रामायणम् वास्तविकानां घटनानां प्रतिबिम्बरूपम् अस्ति इति अस्माभिः मन्यमानं साम्प्रदायिकं दृष्टिकोणं अत्र पोलाकः उपेक्षमाणो वर्तते । अत्र ऐतिहासिकानां प्रामाण्यानां विषये सः चर्चां न करोति । सः रामायणविषये एवं वदति यत् – लोकसाहित्यस्य लक्षणानि आश्रित्य प्राचीनस्य ’बार्डिक’सम्प्रदायस्य पद्यानि इव चतुरः वाल्मीकिः रामायणाख्यां वीरगाथां निबद्धवान् । पोलाकः बलात् ऐरोप्यानां बार्ड इत्यभिधानां कवीनाम् आदर्शं वाल्मीकौ आरोपयति । प्राचीनायां क्रैस्तपूर्वायाम् आङ्लसंस्कृतौ,  बार्ड इत्युक्ते राजाश्रये विद्यमानः कविः, अथवा प्रवासी गायकः यश्च केनापि धनिकेन राज्ञा वा नियुक्तः तदीयपूर्वजानां स्मृतिगीतगायनाय इत्यर्थः । पश्चात् एषः बार्डिक-सम्प्रदायः लुप्तः अभवत् । किन्तु तत् पदं तु महाकाव्यस्य लेखक/गायक/निरूपक इत्यर्थं प्राप्नोत् । ते लेखकाः गायकाः वा पुराणानि/कथाः रचयन्ति इत्यतः तानि पुराणानि इतिहासस्य विश्वसितुम् अयोग्यम् मूलम् इति मन्यन्ते ।

          पोलाकस्य अनुसारम्, वैदिकब्राह्मणाः बौद्धैः विकासितं साहित्यिकं संस्कृतं(लौकिकसंस्कृतम्) तदीयस्य आदिकाव्यस्य रामायणस्य लेखनाय उपयुक्तवन्तः/चितवन्तः ।  एवं कृतम् इत्यतः ते वैदिकानि तत्त्वानि प्रसारयितुं शक्ताः अभवन् । एतस्य कालस्य अनुसारं सर्वस्य समञ्जनं कर्तुं पोलाकः वाल्मीकिरामायणस्य कालं १५० बि.सी.ई. (इसवीयपूर्वकालः) इति कल्पितवान् । अस्मिन् एव काले बौद्धानां कृतयः सुष्ठु निबद्धाः इति सः कथयति । किन्तु अन्ये विद्वांसः रामायणस्य कालः इतोऽपि प्राचीनः इति अभिप्रयन्ति । एवं चेदपि पोलाकस्य कृते, रामायणस्य तेन कल्पितः एषः कालः प्रमुखः भवति,  यतो हि वेदानाम् उपरि बौद्धानाम् आक्रमणं विरुध्य रामायणम् लिखितम् अस्ति इति निरूपयितुं शक्यते ।

          सः एवं प्रतिपादयति यत् – रामायणे राज्ञः शासनस्य प्रधानम् उद्देश्यम् इदम् अस्ति  - ब्राह्मणश्रेष्ठायाः सामाजिकव्यवस्थायाः संरक्षणम् इति । समाजस्य संरक्षणेन सह राज्ञः प्रधानम् उत्तरदायित्वं/कर्तव्यम् इदम् अस्ति यत् बाह्यप्रतिरोधानाम् मर्दनम् इति । एतदर्थं सामाजिकाः अवश्यं राजानं दैवीशक्तिसम्पन्नम् इति शत्रून् च असुरशक्तिसम्पन्नान् मन्येरन् इति । अतः सः पोलाकः एवं तार्किकरूपेण प्रतिपादयति यत् द्विपार्श्विकी दैवासुरसंरचना रामायणे इत्थम् कृता अस्ति इति –

·       राज्ञि दैविकतायाः आरोपः वैदिकचिन्तनप्रक्रियाकारणात् भवति । अनेन मनुष्ये इन्द्रजालवत् दैवीगुणाः आरोप्यन्ते । इत्थं दैवीगुणानाम् आरोपणात्परं राजा निरङ्कुशः भवति । वाल्मीकीये रामायणे, रामे दैवीगुणान् आरोपयितुं  दैवीकरणम् उपयुक्तम् अस्ति । अतः सः रामः विभिन्नदोषेभ्यः मुक्तः भवति, सामान्यजनैः साधयितुम् अशक्यं विजयं एषः साधयितुं शक्नोति । एतादृशस्य दैवीकरणस्य सिद्धान्ताः वेदेषु एव उपलभ्यन्ते इति सः कथयति ।

·       केषाञ्चित् बाह्यानां समूहानां राक्षसीकरणम्/आसुरीकरणम् एतस्य एव पूरकप्रतिक्रिया अस्ति । सामान्यैः मनुष्यैः पराजेतुम् अशक्यान् बाह्यजनानाम् असाधारणशक्तिमतः समूहान् शत्रवः इति परिगणन्ति । केवलं दैवीशक्तिमतः राज्ञः कारणादेव सामाजिकाः रक्षिताः भवन्ति, राजा च हिंसामार्गेण एव तादृशान् शत्रून् हन्यात् । रावणः अत्र राक्षसत्वेन आरोपितः अस्ति । हैन्दवानां नृपाणाम् स्वाधिकारान् सुदृढीकर्तुं एषः वैदिकसिद्धान्तः अन्यान् बाह्यान् जनान् असुरान् करोति इति पोलाकः अभिप्रैति । 

एतत् दैवासुरद्वैविध्यं कथं कार्यं करोति इति विवरणस्य प्रदाता वाल्मीकिः अस्ति इति पोलाकः अभिप्रैति । रामायणकालादारभ्य एतत् दैवासुरद्वैविध्यम् राजधर्मस्य  आधारः अभवत् । एषः राजधर्मः हैन्दवानाम् आदर्शप्रशानरीतिः अस्ति  इति पोलाकः अभिप्रैति । सनातनधर्मः अविनाशी अपरिवर्तनीयः च अस्ति इत्यतः राजधर्मः अपि निरन्तरं प्रवर्तेत इति भारतीयानां विचारः अस्ति इति पोलाकः कथयति । अत एव सः कथयति – इदानीमपि हैन्दवसमाजः एवं निर्वक्तुं शक्यः यत्  प्रशासकः दैवीगुणानां माध्यमेन बाह्यशत्रूणां निग्रहं करोति इति ।

पोलाकस्य अन्यः प्रमुखः अभिप्रायः अयम् अस्ति यत् - रामायणस्य प्रधानपात्रेषु स्वतन्त्रेच्छायाः अभावः अस्ति इति । अन्यैः शब्दैः एवं वक्तुं शक्यते यत् – तानि पात्राणि तथा वर्तितुं विवशाः(वशीभूताः) सन्ति इति । सः पोलाकः आरोपयति यत् – हैन्दवाः राजानः प्रजानां निग्रहार्थं, महिलाः च अधिकारात् दूरे स्थापयितुं रामायणस्य उपयोगं कुर्वन्ति स्म इति । अस्मिन् विषये सः एवं कथयति यत् –

·         रामः सम्पूर्णरूपेण दशरथस्य विधेयः अधीनः इव चित्रितः । सः तु हैन्दवानां कृते एतादृशम् उदाहरणम् अस्ति यत् वशीभूतजनस्य चिन्तनम् इव ।

·         स्वीयां मुक्ताम् इच्छां पूरयितुं स्वपत्या सह प्रवृत्ता कुटिला महिला इव कैकेयी चित्रिता । कौसल्या सीता च  अन्याय्यं भवति चेदपि पत्युः विधेये इव  चित्रिते स्तः ।

सः एवं स्वपक्षमुपस्थापयति यत् –

          हैन्दवान् प्रचोदयितुं, १२ शताब्दात् षोडशशताब्दपर्यन्तम् आक्रमणं कृतवतः मुसलमानजनान् राक्षसत्वेन निरूपयितुं रामायणस्य उपयोगः कृतः इति । हैन्दवाः राजानः आत्मानम् एवं प्रदर्शयन्ति स्म यत् दैवांशसम्भूताः वयं स्मः,  वयं प्रजाः संरक्षामः, मुसल्मानाः राजानः राक्षसाः सन्ति, तेषां हननं कर्तव्यम् चेति । सः अनन्तरम् एवं वदति यत् – आधुनिके काले भारतीयजनतापक्षेण/विश्वहिन्दूपरिषदा च रामायणम् एम् उपयुक्तम् यत् – वयमपि प्राचीनाः हैन्दवराजाः इव स्मः । अतः अस्माभिः मुसल्मानराजानां राक्षसत्वम् प्रतिपाद्य अवश्यं संहर्तव्याः इति ।  एतादृशकार्यार्थं रामायणम् आन्तरङ्गिकरूपेण सहकरोति इति पोलाकः वदति । एषा पोलाकस्य रामायणनिन्दायाः रीतिः अस्ति ।

          एतादृशाः विचाराः वेदेषु कथम् आरब्धाः? अनन्तरं रामायणे कथं जनप्रियाः अभवन् ? अन्ते हैन्दवेषु मतीयभावनाम् आक्रमणप्रवृत्तिं च कथम् उत्पादितवन्तः इति पोलाकः यत् वर्णयति तस्य मूलं अहम्(लेखकः) सम्प्रति परीक्षिष्ये ।

दैवीकरणस्य कल्पनम्

          पोलाकः वदति – वेदेषु दैवीकरणस्य आसुरीकरणस्य च अनेकानि उदाहरणानि सन्ति । तत्र एकः सामाजिकः समूहः उन्नतस्थानसम्मानादिना  दैविकः इति प्रदर्श्यते, अपरः सामाजिकसमूहः राक्षसः इति चित्रीक्रियते ।  विष्णुः कथं असुरेभ्यः जयं प्राप्तवान् ? (पोलाकः राक्षसेभ्यः इति अनूदितवान्) तदीयाः सम्पदः स्वायत्तीकृत्य देवताभ्यः  कथं वितीर्णवान् इति वेदाः प्रतिपादयन्ति इति सः वदति । पोलाकस्य दृष्ट्या विष्णुः अत्र दैविकशक्तेः प्रतिनिधिः भवति । राज्ञि दैविकशक्तिम् आपादयितुं ब्राह्मणाः अयजन्त । ब्राह्मणैः कृतायाः एतस्याः दैवीकरणस्य प्रक्रियायाः कारणतः राजा सामान्य मनुष्य एव न भवति, सः सर्वेषाम् मनुष्याणाम्  अपेक्षया श्रेष्ठः भवति । अतः एतादृशपुराणानाम्/कथानाम् आधारेण राजा परिपूर्णाधिकारं प्राप्नोति इति पोलाकः अभिप्रैति ।

दैवीकरणस्य स्रोतः वेदाः इति  प्रतिपाद्य पुनः प्रत्यावृत्य पुराणानां कः अर्थः इति पोलाकः विवृणोति –

पुराणानाम् अर्थकथनवेलायां अहं प्रपञ्चस्य क्रमीकृतं(वर्णाश्रमभेदेन) व्यवस्थां उल्लिखामि । एषा व्यवस्था नैरन्तर्येण व्यापकरूपेण च तत्रत्यसंस्कृत्या सह सम्बद्धा भवति ।  एषा व्यवस्था अपरिवर्तनीयं काल्पनिकं सामाजिकजालम् अस्ति यस्मिन् बहुमुखी-अनुभवाः  द्रष्टुं शक्यन्ते । वास्तविकतां विवरीतुम् अपेक्षिता काल्पनिकी  शक्तिः एषा अस्ति या अत्यन्तापेक्षिता  वर्तते । पौराणिकदृष्ट्या रामायणम् याथार्थ्यस्य अन्यान् अंशान् न पुरस्करोति ।

रामायणस्य सामाजिक-आयामस्य विषये स्पष्टं वक्तव्यं चेत् तत् कस्यापि एकस्य जनस्य कल्पनाम् आधारीकृत्य प्रवर्तते यच्च पोलाकस्य अनुसारं तु (वर्णव्यवस्थाख्यम्)काल्पनिकं सामाजिकजालम्(Conceptual Grid) अस्ति  । पोलाकः रामायणादिग्रन्थविषये तस्य राजनैतिकतन्त्रम् अस्ति इति सङ्केतयति ।

अनन्तरं सः वदति – समाजस्य  गभीरं संरचनास्वरूपम् आश्रित्य वेदाः प्रवर्तन्ते । अत्र सामान्यमनुष्याः अत्यन्तं दुर्बलाः इति गण्यन्ते । मनुष्यस्य स्वाभाविकदौर्बल्यस्य कारणतः समाजिकाः राजानम् आश्रित्य जीवन्ति इति सः वदति ।  सोऽपि राजा सामान्यः राजा न । सः अवश्यं विष्णोः गुणान् धारयित्वा स्वप्रजाः संरक्षितुं समर्थः भवति । सः तादृशान् नृपान् भगवतः अनन्तरवर्तिनः(Second order being) इति (भारतीयाः/वेदाः मन्यन्ते इति)कथयति ।  रामायणम् एतस्य चिन्तनस्य प्रथमं वाहकम् अस्ति । अस्य वाहकस्य माध्यमेन प्राचीनवैदिकरीतयः साम्प्रदायिकानां भारतीयानां दैनन्दिनजीवनस्य भागाः एव सन्ति । पोलाकः एवं प्रतिपादयति –

रामायणस्य एताः प्राचीनरीतयः परामर्शरूपाः, सङ्कीर्णाः, शक्तिशालिन्यश्च सन्ति । एते राजानः देवात् अनन्तरवर्तिनः इति वस्तुस्थितिः अस्ति ।  एते राजानः दैवीगुणयुक्ताः मानवाः सन्ति । एते नश्वरदेवताः सन्ति । एते साम्प्रदायिकभारते प्रजानां सामाजिकराजनैतिकप्रतिनिधयः भवन्ति । सुरनरयोः मध्यवर्तिनः एते राजानः मनुष्यरूपेण भुवि चरन्तः देवताः सन्ति ।

सः वदति यत् ब्राह्मणस्य प्राधान्येन सः यज्ञं कृत्वा राजनि विष्णोः गुणान् सामर्थ्यानि च आपादयति । तस्य प्रतिफलत्वेन राजा अवश्यं ब्राह्मणान् संरक्षेत् ।  अनेन ब्राह्मणाः एतादृशम् अन्यैः निर्वोढुम् अशक्यं  निर्णायकपात्रम् अनुवर्तयितुं शक्नुवन्ति ।  अतः क्षत्रियः राजा, तस्य राज्ञः दैविकस्वरूपं साधयितुं प्रवृत्ताः ब्राह्मणाश्च समाजस्य योगक्षेमाय अनिवार्याः सन्ति । पोलाकस्य दृष्ट्या एष एव राजधर्मस्य  सारः अस्ति । 

पोलाकः राजधर्मं महाभारतेन सह अपि बध्नाति – अहं महाभारताख्यस्य महाकाव्यस्य एकं भागं साम्प्रदायिकं राजनैतिकं धर्मशास्त्रं राजधर्माख्यं विभागं   पृथक् कृत्वा प्रदर्शयामि । सः तत्र एनं विषयं उल्लोखति –

राजानं विरुध्य कोऽपि मनुष्यः कार्यं करोति चेत् सः सुखं न प्राप्नोति(रामायणम् III 38/20)। सः स्वयं अपि न प्राप्नोति, तस्य निकटवर्तिनःभ्रातृपुत्रमित्रादयः... वा न प्राप्नुवन्ति । राज्ञः याः सम्पदः भवन्ति ताः स्वीयाः इव रक्षणीयाः ।  ताभ्यः सम्पद्ब्यः अन्तरालः रक्षणीयः ।  ततः कस्यापि वस्तुनः स्वीकरणम् इत्युक्ते मरणवत् भयकारकम् इति मन्तव्यम् । कस्यापि वस्तुनः स्पर्शः क्रियते चेत् नाशः भवन्तः नश्यन्ति ... । राजा तस्य प्रजानां हृदयानां हृदयम् भवति, आधारः भवति, आश्रयः भवति,आत्यन्तिकसन्तोषः च भवति । प्रजाः तदीयस्य नृपस्य  आश्रयणेन इदानीन्तनस्य प्रपञ्चस्य विजेतारः निश्चयेन भवन्ति,  भविष्यत्कालिकस्य प्रपञ्चस्यापि विजेतारः भविष्यन्ति ।(म.भा.XII.68.37-59)

 अनन्तरं पोलाकः एनं दृष्टिकोणं वाल्मीकिना सह सम्बध्नाति । इत्थम् – वाल्मीकेः पद्यस्य पठनेन कोऽपि जनः विशिष्टं प्रभावं प्राप्नोति यत् राजधर्मस्य सिद्धान्तः एक एव, तस्य राजधर्मस्य बलवर्धनं अस्य पद्यस्य उद्देश्यम् अस्ति इति । अत्र अवधार्यताम् यत् – पोलाकः तस्य वादस्य सहायकत्वेन केवलं महाभारतस्य एकं पद्यम् उल्लिखति । तच्च पद्यम् तस्मिन् महाभारते विद्यमानानेषु बहुषु अभिप्रायेषु एकस्य अभिप्रायस्य द्योतकम् अस्ति । एतत् पद्यं कस्मिन् सन्दर्भे प्रयुक्तम् इति सः न विवृणोति । सः एनं विषयं गाम्भीर्येण अविचिन्त्य कथयति यत्  रूढिगतस्य राजधर्मस्य प्रतिपादकम् एतत् पद्यम् अस्ति, अपि च एषः दृष्टिकोणः वाल्मीकेः कृतेः पठनेन दृढः अभवत् इति ।

कानिचन धर्मशास्त्राणि ईदृशाणि आसन् यानि पूर्वोक्तरीत्या राजधर्मस्य व्याख्यानं विरुन्धन्ति स्म अथवा मौनम् आवहन्ति स्म इति पोलाकः अङ्गीकरोति । स्वाभीष्टरीत्या प्रचारयितुं न शक्यते इत्यतः एतादृशानि धर्मशास्त्राणि अप्रासङ्गिकाणि इति सः तानि तिरस्करोति । पोलाकः अङ्गीकरोति यत् स्वयं दुर्बले आधारे स्थित्वा एवं कथयन् अस्ति इति । राज्ञः भूमिकाविषये विदुषां मध्ये चर्चाः जायन्ते स्म, विरुद्धदृष्टिकोणाः च आसन् इति सः अङ्गीकरोति । वाल्मीकिरामायणविषये तस्य यत् ज्ञानम् अस्ति तस्य उपोद्बलकतया अपेक्षितान् विषयान् ततः चिनुयाम् इति तस्य आशयः इति सः प्रामाणिकरूपेण अङ्गीकरोति ।

पोलाकस्य कथनानुगुणं दैवीशक्तिसम्पन्नः राजा धर्मशास्त्रस्य नियमान् पालयेत् इति नास्ति । यतो हि ते नियमाः केवलं सामान्यशासकानां विषये अन्वियन्ति । दैवीगुणसम्पन्नस्य राज्ञः प्रत्येकं प्रजाः राज्ञः अपेक्षाः आदेशान् च स्पष्टतया पालयेयुः । अतः वैदिकसंस्कृतौ राज्ञः दैवीकरणं तं निरङ्कुशाधिकारिणं करोति । वाल्मीकीये रामायणे रामेण उक्तम् एकं वाक्यं १०   उद्धृत्य रामः स्पष्टरूपेण निरङ्कुशाधिकारी आसीत् इति  पोलाकः निरूपयितुम् इच्छति ।

रामायणे आदौ दैवीगुणसम्पन्नः राजा  इति विषये पोलाकः किमर्थं विशेषावधानं ददाति ? पौर्वात्यनिरङ्कुशवादः  सार्वभौमिकस्य उत्तरदायित्वस्य न्यायिकविधानेन आबद्धः नास्ति, दैविकनिष्ठया आबद्धः अपि नास्ति इति सः प्रतिपादयति ।  तस्य एतादृशी भूमिका तस्मै  ईदृशम् एकं द्वारम् उद्घाटयति  यन्माध्यमेन सः इदं प्रदर्शयितुं शक्नोति यत् – भारते केनापि उत्तरदायित्वेन विना, नियमस्य बन्धनेन विना च जनान् दमयितुम् दैवीगुणयुक्तः राजा अधिकारं प्राप्नोति इति । ईदृशेन व्याख्यानेन ज्ञायते यत् कोऽपि धार्मिकः निर्बन्धः दैविकराजं न अन्वेति/संबध्नाति । यतो हि दैविकः राजा धर्माधारितसंस्थातः राजाधिकारं न प्राप्नोति ।   तत्र सामान्यानां राज्ञां केचन निर्बन्धाः भवन्ति । दैविकराजाः साक्षात् विष्णोः सकाशात् शक्तिं प्राप्नुवन्ति । ताः शक्तयः ब्राह्मणैः अनुष्ठीयमानानां यज्ञानां कारणतः भवन्ति ।

पोलाकः इदं लक्ष्यीकरोति यत् – राज्ञः राजधर्मस्य च मध्ये अपेक्षितः भेदः अस्माकं महाकाव्येषु आदरं न प्राप्नोति इति । एषा भेदकल्पना मूलतः मध्ययुगीना अस्ति । एषा ऐरोप्या न्यायिककल्पना अस्ति । पाश्चात्यभारतीययोः आदर्शभूतराजधर्मयोः मध्ये विद्यमाने भेदे संवेदनशीलता अस्ति इति नाङ्गीक्रियते चेदपि सः बलात्  भारतीयपरिस्थितौ पाश्चात्यानाम् राजधर्मस्य आदर्शान् आरोपयति । भारतस्य विषये ऋणात्मकम् अभिप्रायम् आकलयितुं  सः पोलाकः तत्र भेदं दर्शयति । ऐरोप्यदेशानां मध्यकालिके इतिहासे राज्ञः राजधर्मस्य च मध्ये औपचारिकः भेदः आधिक्येन दृश्यते । एषः भेदः wedge रूपेण कार्यं करोति यश्च राजधर्मस्य उपरि पन्थाह्वानानि निर्बन्धांश्च अनुमन्यते । एषः कुप्रसिद्धस्य राज्ञः दैविकाधिकारस्य विनाशस्य आरम्भः अस्ति । एषः उपक्रमः पाश्चात्यानां राजनैतिकविकासाय बाधकः भवति इति विद्वांसः अभिप्रयन्ति । एतद्विपरीतत्वेन भारते तादृशः भेदः एव नास्ति चेदपि प्राच्यनिरङ्कुशाधिपत्यं प्रबलयति इति पोलाकः अभिप्रैति । अतः भारतं पाश्चात्यदेशाः च भिन्नाः इति सः वदति । राज्ञः दैविकाधिकारस्य विषये पाश्चात्यानां कल्पनाकारणतः पाश्चात्याः विकासं प्राप्तवन्तः, भारतीयाः तु तथा कर्तुं न पारितवन्तः ।

पोलाकस्य विश्लेषणं दोषपूर्णम् अस्ति । पाश्चात्येषु राज्ञः दैवीगुणाः अब्रहामीयान् नियमान् आश्रित्य प्रवर्तन्ते ।  एतस्य अयमर्थः यत् – एतत् दैविकं चित्तम् आश्रित्य चलति । एतत् पूर्वनिश्चितेन नियमेन बद्धं सत् स्वातन्त्र्येण कुप्रसिद्ध्या च कार्यनिर्वहणं करोति । भारतीयपरिस्थितौ/परिप्रेक्ष्ये  दैविकः राजधर्मः धार्मिकपद्धतिम् आश्रयते ।  एतत् भगवन्तम् महाविष्णुम् अपि अविहाय  अन्तर्निर्मितेषु नियमेषु सर्वान् बद्धान् करोति । एतस्य परिणामतः संस्कृतकाव्येषु राज्ञः राजधर्मस्य/राजाधिकारस्य च मध्ये भेदः न प्रदर्श्यते इत्यतः सः भेदाभावः  राजानं तस्य परिमितिभ्यः न उन्नयति पोलाकस्य कथनस्य विरुद्धतया ।  

सनातनः दैवीगुणसम्पन्नः राजा तस्य निरङ्कुशाधिकारं प्रतिष्ठापयति इति तदीयं कथनं प्रमाणीकर्तुं सः पोलाकः तैत्तिरीयब्राह्मणस्य  उदाहरणं प्रयच्छति । तत्र एवं वर्णितमस्ति इति सः ब्रवीति – राजवंशस्य परिशुद्धीकरणकार्यक्रमे (एतादृशः कार्यक्रमः यवनमते अस्ति । सनातनधर्मानुगुणं तु पञ्चगव्यं निर्माय पुण्याहः इति सम्प्रदायः अस्ति यश्च व्यक्तिविशेषस्य निमित्तमिति नास्ति, कस्यापि जननाद्यशौचनिवृत्तिसमये अथवा वैदिककार्यक्रमस्य आरम्भे एतस्य विधेः अनुष्ठानं क्रियते, यजमानस्य, समेषां परिवारजनानां च यागाद्यनुष्ठानाधिकारसिध्यर्थम्) राजा यदा विष्णोः/वामनस्य इव त्रीणि पदानि विन्यस्यति तदा स्वयमेव विष्णुर्भवति येन त्रिभुवनस्य उपरि विजयं साधयति इति । पोलाकस्य एतत् प्रमाणं/हेतुः बलहीनम्(हेत्वाभासः) अस्ति । विष्णुत्वस्य प्राप्तिः वैयक्तिकसामर्थ्यस्य विषयः इति एतादृशेन आचरणेन कथं वा प्रमाणीकृतं भवति ?  किमर्थम् एतत् परमात्मना निर्मितम् अथवा परमात्मना नियन्त्रितम् इति सिद्धान्तानुगुणं साङ्केतिकम् आचारणम् इति नोच्यते ? पोलाकः तैत्तिरीयवाक्यस्य एतत् तात्पर्यं न परिगणयति  ।  एतद्विपरीततया सः एवं आग्रहेण परिगृह्णाति यत् – इत्थं (तदीयमतीयकल्पनानुगुणम्) शुद्धीभूतस्य राज्ञः कर्तव्यं तु ब्राह्मणानाम् अधिकारस्य रक्षणम् इति । सः एवं लिखति – एकवारम् एवं सृष्टः राजा सदाचारस्य प्रतिज्ञां करोति, वचनं च ददाति यत् – अस्यां पृथिव्यां लब्धजन्मनां ब्राह्मणानां रक्षां करोमि, ब्राह्मणीयसामाजिकसंरचनां संरक्षामि इति । अन्यैः शब्दैः एवं वक्तुं शक्यते – पोलाकस्य दृष्ट्या राज्ञः आद्यं कर्तव्यं तु ब्राह्मणानां प्राबल्यस्य संरक्षणमेव ।

एतत् कर्तव्यं एवञ्च एतदेकमेव कर्तव्यं राजधर्मस्य मूलम् इति पोलाकः अभिप्रैति । धर्मः राजानम् एव आश्रित्य तिष्ठति इति सः प्रमाणयितुं महाभारतस्य कानिचन चितानि अपूर्णानि पद्यानि उदाहरति –राज्ञः धर्मः “रक्षणम्”  अस्ति, एतद् रक्षणमेव प्रपञ्चं परिपालयति । सर्वाः प्रजाः धर्मम् आश्रित्य जीवन्ति, धर्मश्च राजानं अवलम्ब्य तिष्टति ।  किन्तु राजा कर्तव्यबुध्या किं वस्तुतः रक्षेत् ? पोलाकः एवं कथयति –

   राजा विशेषतः ब्राह्मणानां तपस्विनां रक्षणं करोति । ... एतत् जीवनस्य सुरक्षायाः वरदानम्  अन्यैः ब्राह्मणभिन्नैः दुर्लभ्यम् अस्ति । किञ्च अनेनैव समग्रा ब्राह्मणीयसामाजिकसंरचना यागादिसम्प्रदायः जीवति, प्रपञ्चः च रक्षितः भवति ।

सारतः वक्तव्यं चेत् – पोलाकः नैरन्तर्येण राजधर्मस्य उपरि इतिहासे एवम् अधोलिखितान् आरोपान् करोति –

·       राज्ञः मौलिकं कार्यं तु ब्राह्मणानां संरक्षणम् ।

·       ब्रह्मणानां सुखमयजीवनम् अत्यावश्यकम् येन ते वैदिकान् यागान् अनुष्ठाय ब्रह्माण्डस्य समतोलनं कुर्वन्ति ।

·       राज्ञः अपरिमिता शक्तिः कियद्वा दमनात्मिका भवतु, तथापि तत् समर्थ्यते ।

पावित्र्यस्य (ब्राह्मणैः सम्बद्धम्) प्रशासनस्य (क्षत्रियैः सम्बद्धम्) च विषययोः संरक्षणं कृत्वा कृते  प्राधान्यं प्रादायि इति तस्य कथनं तु सत्यमेव यद्यपि तथापि पोलाकः राज्ञः अन्यकर्तव्यानां विषये मौनम् आचरति । सः अन्यानि शास्त्राणि नयेन उपेक्षते, यथा अर्थशास्त्रम् । अर्थशास्त्रे तु सर्वासां प्रजानां योगक्षेमं रक्षितुं कारणानि स्पष्टतया विव्रियन्ते, किञ्च योगक्षेमयोः रक्षणं कथं कर्तव्यमिति सूच्यते । समेषां आर्थिककल्याणस्य सुनिश्चयः , पर्यावरणस्य समतोलनसम्पादनम् च राजधर्मस्य प्रधानं तत्त्वद्वयमिति अर्थशास्त्रं प्रतिपादयति ।

के.एस्.कण्णन्-वर्यः (वैयक्तिकसंवादवेलायाम् उक्तवान्) अधोलिखितैः उदाहरणैः रामायणानुगुणं राज्ञः कर्तव्यानि कानि इति कथनमुखेन पोलाकस्य आक्षेपानां समाधानं ददाति –

रामपट्टाभिषेकसमये दशरथः राजसभाम् आयोजितवान् तत्र न केवलं ब्राह्मणाः आसन्, अपि तु  नगरप्रमुखाः, ग्रामप्रमुखाः च आसन् ।  एतत् निरङ्कुशशासनात् शासननिर्णये सामाजिकानां समावेशस्य शासनरीतिः उत्तमा इति  सूचयति ।(रामायणम् २.२)

राजा कदापि अत्र स्वेच्छानुगुणं शासनं न कृतवान् । सः धर्मशास्त्रैः बद्धः असीत् । सः परिषदः जनसभायाश्च मार्गदर्शनं प्राप्नोति स्म । पथभ्रष्टस्य राज्ञः  बहिष्कारः शक्य आसीत् । दुर्व्यवहारकारणात् सगरपुत्रस्य राज्ञः बहिष्करणस्य उदाहरणं रामायणे अस्ति ।(रामायणम् १.३८.२१)

रामायणे २.६७ इत्यत्र  अराजकतायाः अपायाः वर्णिताः । तत्र ब्राह्मणानाम् अपेक्षाणां सम्पूर्तिं अतिरिच्य  राज्ञः प्रमुखम् उत्तरदायित्वम् अन्येषां जनानां हिताय कार्यकरणम् इति वर्णितम् ।१६

यथा राजा तथा प्रजाः । अतः राजा प्रजानाम् आदर्शरूपेण आचरणं कुर्वन् भरणं कुर्यात् । (रामायणम् २.१०९.९)

शत्रूणाम् उपरि आक्रमणसमये अपि राज्ञा केचन नियमाः पालनीयाः आसन् । यथा – शयानानां, निरायुधानां, स्त्रीसङ्गे विद्यमानानां, मधुमत्तानाञ्च उपरि आक्रमणं न कर्तव्यम् ।(रामायणम् ४.११.३६)

रामः नियमिततया  मन्त्रिभिः सह मन्त्रणां कृत्वा पश्चादेव निर्णयं करोति स्म । (रामायणम् ६.४१.५८ )

सर्वाः प्रजाः धर्मानुगुणं जीवनं कुर्वाणाः रामम् आदर्शं मन्यन्ते स्म । (रामायणम् – ६.१३१.९८)

दैविकः राजा निर्बन्धरहितः सन् निरङ्कुशः इव प्रवर्तते इति पोलाकस्य दृष्टिकोणस्य विरुद्धतया  एते विषयाः सन्ति ।

आसुरीकरणम्

दैवीकरणम्-आसुरीकरणम् चेति द्विपार्श्विकसंरचनायां दैवीकरणं पोलाकः कथं प्रतिपादयति, तच्च राजधर्मस्य आधारत्वेन कथमस्ति इति अहं दर्शितवान् । पश्चात् सः एतादृशस्य द्वैविध्यस्य अपरं ध्रुवं गृहीत्वा आसुरीकरणस्य पृष्ठतः का राजनीतिः अस्ति इति कल्पयति । रामः दैविकं मानुषञ्च स्वरूपं धृतवान् इति विषये पश्चिमदेशीयाः संस्कृतज्ञाः सन्दिग्धमानसाः सन्ति ।  एनां  सन्दिग्धतां वयं   रावणस्य आसुरप्रवृत्तेः अवगमनेन निवारयितुं शक्नुमः । सः पोलाकः एवं लिखति –

रामायणस्य नायकस्य दैविकस्थानगता समस्या मौलिकरूपेण अस्माकं एतद्विषयिणीं धारणां नियन्त्रयति । सा च निश्चयेन पाश्चात्यानां पाण्डित्यम् अनिश्चिततया व्याप्नोत् । तत्रत्यानां केषाञ्चित् विस्तृतविवरणात्मकानां पद्यानां विमर्शात्मकस्य प्रभावोत्पादकस्य च अध्ययनस्य निराकरणं  सूक्ष्मविश्लेषणेन कर्तुं शक्यते । तत्र एकम् उदाहरणम्  रामयणस्य अविभाज्य-अङ्गत्वेन विद्यमाना रावणस्य वरस्य कथा  ।१७

पोलाकः वदति – रावणस्य आसुरीकरणस्य आरम्भः तस्य वरप्रदानेन भवति, येन दैविकत्वापादितस्य राज्ञः अपेक्षया अधिकशक्तिशाली सः भवति  । सः लिखति –

सहस्रवर्षाणां उग्रतपस्यायाः निमित्तं ब्रह्मणा रावणाय प्रदत्तः सः वरः एवंगुणविशिष्टः आसीत् – सः रावणः केनापि देवेन, दानवेन, गन्धर्वेण, पिशाचेन, पक्षिणा, सर्पेण वा कदापि हतः न भवेत्  इति । एतत् सामान्यतः इतिहासपुराणादिषु नैजरूपेण  चित्र्यते यत् तपसः आचरणेन  प्रपञ्चस्य परिपालकाः देवताः/देवाः(ब्रह्मविष्णुमहेश्वराः) आगृहीताः/वशीभूताः भवन्ति येन ते वरं दातुं  न इच्छन्ति चेदपि दुष्टशक्तिभ्यः वरं प्रयच्छन्ति । यान्त्रिकरूपेण राक्षसानां स्वमरणाय कियमाणं तपः देवतानां प्राबल्यं विच्छिद्यात् । तच्च  प्राबल्यं देवताभिः सागरमथनवेलायां महता श्रमेण अमरत्वप्राप्त्या सम्पादितम् त्रिविष्टपम् अस्ति । किन्तु एतादृशं वरप्रदानं तस्य एव त्रिविष्टपस्य नाशार्थं प्रवर्तते । १८

उपरितने उल्लेखे पोलाकः तपस्यायाः त्याग्स्य च दोषपूर्णं अनुवादं एवं करोति यत्  Self Mortification इति । एतत् जूडॊ क्रिश्चियन् सन्यासत्वस्य प्रक्षेपणम् अस्ति ।  एतदतिरिच्य -  १. वरप्राप्तेः परं दुर्व्यवहारस्य प्रदर्शनेन रावणः शत्रुः अभवत् नान्यथा, २. सः ब्राह्मणश्चेदपि महामुनेः पुत्रः चेदपि सः दुष्टः इत्येव गृह्यते इति हैन्दवान् अत्र बोधयन्ति । पोलाकः रामायणस्य एतादृशं महत्वं उपेक्षते । ब्राह्मणाः सदा उत्तमाः भवन्ति इति रामायणादिषु प्रतिपादितम् इति कथयितुं (केनापि उद्देशेन) प्रवृत्तस्य तस्य पोलाकस्य विचारं प्रायः एषः अभिप्रायः(ब्राह्मणश्चेदपि ....) भञ्जयति ।

रावणः असामान्यशक्तिसम्पन्नः मानवः अस्ति ।  केवलं दैवीगुणसम्पन्नः रामः तं संहर्तुं शक्नोति, अपि च अनया रीत्या प्रजानां संरक्षणं कर्तुम् अर्हति । पोलाकः कथयति यत् एषः सम्बन्धः वेदेषु विद्यमानम् एकं प्रमापितं सूत्रम् अस्ति । एतत् मान्त्रिकं रूपविज्ञानम् अस्ति, यच्च पुराणानाम् आरम्भाकालात् अपि पूर्वतनम् अस्ति, पोलाकस्य दृष्ट्या वैदेशिकैः इण्डो-आर्यजनैः निर्मितम् इति –

वरप्रदानम् भारतस्य पुराणानां एकं “मार्फीम्” अस्ति ।  एतत्  आर्यभारतीयजनानां आरम्भिकं स्तरं प्रति प्रत्यावृत्तम् इति भासते । स्वाभाविकरूपेण आरम्भतः अस्तित्वहीनस्य जन्तोः अथवा घटनायाः माध्यमेन वरदानस्य प्रतीकारार्थं बलं दीयते ।  एतत् सर्वदा वारं वारं प्रवर्तते  यच्च पूर्णरूपेण नैसर्गिकतया सम्भवनीयतायाः दूरे एव भवति१९ ।

अतः पोलाकः सम्प्रति विदुषां निकटे निवेदयति यत् – आर्याः यानि पुराणानि रचितवन्तः तत्र रावणस्य वरप्रदानप्रकरणं अपि च दैवीशक्तिसम्पन्नं राजानं च व्याख्यान्तु इति । दैवीशक्तिसम्पन्नस्य राज्ञः मूलं कल्पनामात्रम् अस्ति । स्वाभाविक्याः सम्भवनीयतायाः परिधेः बहिः अविद्यमानानां जीविनाम् मध्ये एषा कथा कल्पिता इति सः अभिप्रैति । अन्यशब्दैः वदामः चेत् -  रामायणस्य केन्द्रे विद्यमानाः  ईदृश्यः संरचनाः मनुष्यस्य कल्पनाप्रवृत्तेः आरम्भिककाले(इत्युक्ते अविकसितकल्पनाप्रवृत्तिकाले इति) उत्पन्नाः इति पोलाकः अभिप्रैति ।

 

रामायणस्य समाजशास्त्रीयः विमर्शः

रामायणं “राजनीतेः प्रतिक्रियात्मकप्रवृत्तेः निमित्तं सिद्धं साधनम्” इति पोलाकस्य वादं अहम् अत्र परिशीलयामि । “तदानीन्तनाः कवयः  राज्ञाम् आस्थाने आजीविकेच्छवः उद्योगिनः आसन् । अतः ते क्षत्रियप्रेक्षकाणां निमित्तं काव्यानि ते रचितवन्तः” इति सः पोलाकः प्रतिपादयति । सः स्पष्टरूपेण   सूचयति यत्  रामायणस्य मुख्यपात्राणि क्षत्रियाः एव आसन् । कथावस्तु क्षत्रियपात्राणि केन्द्रीकृत्य एव चलति । वसिष्ठसदृशाः ब्राह्मणाः लघुभूमिकां निर्वहन्ति । अन्यजातीयाः इतोऽपि लघुभूमिकां निर्वहन्ति ।

अनन्तरं पोलाकः आग्रहं करोति यत् – रामायणस्य केन्द्रे विद्यमानः सैद्धान्तिकं सम्भाषणम् एवम् अस्ति -  समाजिकम् आधीन्यं राजनैतिकं प्राबल्यं च साम्प्रतं “सदाचारस्य शास्वतिकः मार्गः” अभवत् । अन्यैः शब्दैः वदामः चेत् – सदाचारी सनातनधर्मः राज्ञः प्राबल्यस्य, सामाजिकानां निष्क्रियस्य आधीन्यस्य च रूपं प्राप्नोत् इति ।

पोलाकस्य एकः मौलिकः दृष्टिकोणः एषः अस्ति यत् -  अस्मत्सम्प्रदाये (रामायणादिषु) सर्वेऽपि प्रमुखाः जनाः वैयक्तिकैच्छान्विताः/स्वतन्त्रेच्छान्विताः न भवन्ति । रामस्य भावाः पद्यानाम् उद्देश्यानुगुणं न भवन्ति । निश्चयेन सः वदति – रामायणे  किमपि पात्रम् एवं न चिन्तयति यत् प्रत्येकं कार्यं किमर्थं मया क्रियमाणम् अस्ति ? इत्येतत् वयं ज्ञातुं न शक्नुमः । यतो हि रामायणे कोऽपि स्वयं किमपि कर्तुं स्वतन्त्रः नास्मि इत्येतत् न विश्वसिति । सामान्यतः पोलाकः रामायणस्य पात्राणां विषये एवं चिन्तयति यत् – कस्यापि कार्यस्य चयनं कर्तुं अस्वतन्त्राः इति । अतः ते तेषाम् उपरि किम् आपतिष्यति इति न जानन्ति । एतादृशीं दुस्स्थितिम् अङ्गीकुर्वन्ति इत्युक्ते तत्र न्याय्यं नास्ति इत्यर्थः इति च ।  सः पोलाकः लिखति -

”रामायणस्य पात्राणि एवं विश्वसन्ति यत्  स्वस्य सर्वेऽपि स्वतन्त्राः चयनावसराः निराकृताः इति ।  तेषां विषये किं जायमानं अस्ति इति तु तदीयकार्याणां परिणामः एव स्यात् । किन्तु तत् कथमिति ते न अवगच्छन्ति । परिणामतः ते स्वयम् आत्मानं नियन्त्रयितुं न शक्नुवन्ति ।... रामस्य अन्येषां च भविष्यं तेषां हस्तक्षेपेण विना एव सिद्धम् अस्ति । तस्य परिज्ञानम् अपि तेषां नास्ति । न्याय्यं कदापि व्यवहारपथे न प्रविशति ।’२२

प्राचीनायाः ग्रीकपद्धतेः विरुद्धतया एनं दृष्टिकोणं पोलाकः विरुणद्धि । वदति च –

प्राचीने ग्रीक(यवन)प्रपञ्चे - भाग्ये  प्रापञ्चिकः आयामः न्याय्यस्य अंशः च  वर्तते इत्यतः  देवाः सम्पूर्णप्रक्रियां न्यययुतां नैतिकक्रमानुसारिणीम् इति द्रढयितुं शक्नुयुः । प्राधान्येन  अयोध्यायां देवतानां किमपि पात्रं नास्ति । मानवव्यवहाराणां मार्गे यान्त्रिकगुणाः तत्र सन्ति २३।

“देवानां किमपि पात्रं नास्ति” इति पोलाकः यदा वदति तदा सः “राक्षसेभ्यः पीडिताः ऋषयः विष्णुं प्रार्थयन्ते” इति वाल्मीकेः वचनम् उपेक्षते । अनन्तरं पुनः इत्थम् अनुवर्तयति –

अयोध्याकाण्डे मनुष्यः स्वीयं भविष्यं स्वयमेव निर्मातुं न शक्नोति इति निषेधः अस्ति । तस्य दुःखस्य कारणमपि निश्चयेन ज्ञातुं न शक्यते । भाग्यम् दैवायत्तम्, कालः, अदृष्टम्, कृतान्तः, इत्यादिकं कोऽपि अवगन्तुं न शक्नोति । तद्विरुध्य कोऽपि सङ्ग्रामं कर्तुं न शक्नोति । चयनाय रामस्य कोऽपि विकल्पः नासीत् । कोऽपि न करोति । विकल्पः अकस्मात् कल्प्यते । क्रिया प्रतिक्रियापेक्षया विशिष्टा नास्त्येव ।

सः कर्मविषये एवं वदति यत् कर्म इत्युक्ते भाग्यम् । पाश्चात्यानाम्  अत्यन्तम् अस्पष्टतायाः पराकाष्टां गतायाः“यान्त्रिकभाग्यम्” इति कर्मविषयक-परिकल्पनायाः अनुगुणम् अस्माकं कर्मणः तुलनां सः पोलाकः करोति । कस्यापि अन्येन सह कोऽपि सम्बन्धः नास्ति । कर्म पूर्वतनकार्याणां परिणामः अस्ति । तस्य भविष्यं नूतनक्रियाभिः परिवर्तयितुं शक्यते ।   एषा एका कारणपद्धतिः  यत्र परिणामस्य भागः विलम्बितः भवति इति अस्य विषये चिन्तनम् उत्तमं भवति ।

रामः तस्य संस्कृतेः शृङ्खलया बद्धः अस्ति इति पोलाकः कथयति । अतः तस्य विषये किं जायमानम् अस्ति इति जानाति चेदपि सः “अहं किमपि कर्तुं न शक्नोमि” इति दृढतां/निश्चयं प्राप्तवान्  । ग्रीकपुराणेषु वर्णितानां यवनवीराणां अपेक्षया रामस्य चरित्रं निम्नतरम् इति पोलाकः प्रतिपादयति –

रामायणस्य नायकं वयं नायकं मन्यामहे इत्येतत् केषुचित् विषयेषु दोषाय भवेत् ।  सम्यक् विचारयामः चेत् – अकिल्स्-सीग्फ़्रैड्-रोल्याण्ड्-कुचुलैन्-प्रभृतयः वस्तुतः शूराः सन्ति ये पराजये प्राप्ते अपि महत्कार्याणि कृतवन्तः । ते अस्मत्तः ऊर्ध्वं सन्ति । वयं तदनुकर्तुं योग्याः न स्मः । रामः वस्तुतः विभिन्नप्रकारकाणां पितृभक्तिः, विधेयता इत्यादिव्यवहाराणाम् उदाहरणम् अस्ति ।

अन्यशब्दैः सः वदति – रामस्य पितृभक्तिः तं स्वतन्त्रप्रवृत्तितः दूरम् अनयत् यच्च ग्रीकवीरेषु नासीत् ।

पोलाकः इतोऽपि उर्ध्वं गत्वा वक्तुम् इच्छति यत् रामायणम् लैङ्गिकविचारयुक्तम् अस्ति । तच्च अयोध्याकाण्डे सः महिलापात्राणां परीक्षणेन कथयति ।  सः एवं वदति यत् – “सम्पूर्णरामायणे अयोधाकाण्डः सामान्यतः सामाजिकराजनैतिजीवनमिव लैङ्गिकसम्बन्धेषु आसक्तिं वहति”२६ । पश्चात् सः वाल्मीकेः काले महिलानाम् असमानतायाः द्योतकान् श्लोकान् प्रस्तुतीकृतवान् । तस्मिन् एव काले तादृशी एव समस्या जगति सर्वत्र अन्यसंस्कृतिषु आसीत् चेदपि तदनुक्त्वा केवलम् एतन्मात्रं दोषत्वेन प्रतिपादितवान्२७ ।  सः एतानि सर्वाणि लिङ्गसम्बद्धानि उद्धरणानि मनुस्मृत्या सह सम्बद्धवान्२८ ।

स्त्री तावत्, बाल्ये तस्याः पितुः इच्छानुगुणम्, प्रौढावस्थायां वरयितुः पत्युः इच्छानुगुणम्, पत्युः मरणात्परं पुत्राणाम् इच्छानुगुणं व्यवहरेत् । तस्याः कदापि स्वातन्त्र्यं नास्ति२९ ।

पोलाकः कथयति यत् – स्त्रीणाम् अस्वातन्त्र्यस्य  एतादृशानां विचाराणाम् आधारः मनोः ग्रन्थः अस्ति, एतत् स्त्रीणां पराधीनतायाः कल्पनां पुनः प्रतिष्ठापयति, अपि च कदापि ताः स्वातन्त्र्यं न प्राप्नुयुः चेति तार्किकं निर्णयं प्रतिपादयति३० ।  श्रीनिवासतिलकवर्यः कथयति यत् पोलाकः मनोः विवरणात्मकानि उद्धरणानि (तदीयकाले विद्यमानपरिस्थित्यनुसारम्) नियमाधीनोद्धरणत्वेन परिवर्त्य मनोः सुरूपं विरूपं करोति इति३१ ।

आधुनिकान् मानदण्डान् आश्रित्य रामायणे कदाचित् प्रतिपादितः महिलाधिकारः लिङ्गसम्बन्धः वा अद्यत्वेऽपि अनुसर्तुं शक्यः इत्यत्र मम सन्देहः नास्ति । किन्तु एतादृशस्य निरूपणस्य निश्चयः पूर्णरूपेण कालबाह्यमानदण्डैः क्रियते चेत् कुमार्गे नयनमिव भवति । अपि च एतानि पद्यानि तेषां सन्दर्भम् अनुक्त्वा पृथक्कृत्य तानि एव रामायणस्य प्रतिनिधिभूतानि पद्यानि इति प्रदर्श्यन्ते चेत् तस्य महाकाव्यस्य  लिङ्गात्पराणां धार्मिकतत्त्वानां वास्तविकः अर्थः अस्पष्टः भविष्यति ।

एकादशशताब्दात् आरभ्य मुसल्मानजनान् राक्षसान् कर्तुं रामायणं प्रसारितम्

पोलाकस्य निबन्धानुगुणम् – रामायणे स्वयंद्वन्द्वितया हैन्दवाः राजानः आत्मानं तदीयप्रजाश्च दैविकसदस्यत्वेन पश्यन्ति अन्यांश्च विरोधिनः राक्षत्वेन निन्दितवन्तः । मध्य-एशियातः आगतानां मुसलमान-आक्रामकाणां कारणतः एषः सिद्धान्तः अनुसरणीयः अभवत्  । हैन्दवः राजा आत्मानं पराक्रमिणः रामस्य प्रतिनिधिभूतः इति निरूपयितुं ब्राह्मणानां माध्यमेन काव्यानि रचितवान् येन च मुसलमानान् राक्षसान् इव प्रतिपादितवान् । राजा आक्रमणकर्तॄन् मुसल्मानजनान् विरुध्य युद्धं कृत्वा प्रजानां रक्षणं करोति इव, मुसल्मानजनाः राक्षसाः इव च चित्रिताः ।  पोलाकः एतस्य उदाहरणत्वेन पृथ्विराजं, विजयनगरस्य षष्ठम् विक्रमादित्यं च तदीयनिबन्धे प्रदर्शयति ।

सः पोलाकः एवं निरूपयति –  दैवासुरकल्पनया मुसल्मानतुरुकजनान् विरुध्य हिन्दूमुस्लिमसङ्घर्षं  प्रेरयितुं रामायणं शस्त्ररूपेण उपयुक्तम् इति विषयः प्रकाशपथमागतः ।  एकादशे शतके प्रारब्धं हिन्दूमुस्लिमसङ्घर्षं प्रेरयितुं रामायणस्य उपयोगः कृतः इति प्रमाणीकर्तुं सः  बहूनि प्रमाणानि प्रदर्शयति । वस्तुतः सः पोलाकः विद्यमानतथ्यानि यत् प्रदर्शयन्ति ततः बहुदूरं गत्वा विषयान् सामान्यीकरोति । सः एवं लिखति –

रामायणम् १००० वर्षेभ्यः मार्क्स-पूर्ववर्तिसाम्यवादिसम्बन्धान् सक्रियान् कर्तुम्, अपि च  देवप्रभुत्वस्य न्यायपरायणतां निरूपयितुं  संहितारूपेण सेवां अकार्षीत् । अस्य रामायणस्य श्रेष्ठताकारणतः अद्यत्वे भारते प्रतिक्रियात्मक-राजनीतिः अभिव्यक्तिं प्राप्नोति । देशस्य राजनीतौ दैवीशक्तिः आन्तरिकशत्रुं देशविरोधिनं करोति ।

मया पूर्वम् यथा सूचितम् तथैव हिंसायाः राजनीतिः रामायणे सुबद्धमूलमूला अस्ति इति पोलाकः वदति । तस्य दृष्ट्या रामायणम् राजभिः लेखापिता समाजे उन्नतस्थानीयानां जनानां पठ्यरूपेण विद्यमानाना कथा अस्ति । किन्तु किञ्चित् भिन्नमेव मुसल्मानजनानाम् आक्रमणवेलायां प्रवृत्तम् इति । सः वदति तस्मिन् समये – सा रामायणी कथा राजनैतिकवातावरणे प्रथमवारं जीवद्रूपं प्राप्नोत् । तदा राजानः रामाः भवन्ति । सः एवं प्रतिपादयति यत् आविष्करणस्य सम्प्रदायः/परम्परा आरब्धा । तदा राजा रामरूपेण आविष्कृतः ।  एतदाविष्करणम् एकादशे शताब्धे आरब्धम् । तदा आरभ्य रामायणं राजनैतिकस्य उत्साहस्य अभिव्यञ्जिका भाषा अभवत् इति ।

सः पोलाकः आग्रहेण एवं कथयति यत् – दक्षिण-एशियाभूभागे रामसम्प्रदायस्य अस्तित्वम् एकादशशताब्धम् अथवा द्वादशशताब्धं यावत् पूर्णरूपेण न आसीत् ।  अस्य सम्प्रदायस्य विकासः निश्चिताभिः ऐतिहासिकघटनाभिः सह समकालिकतया जातः । ततः पूर्वं रामसम्बद्धा आराधनपद्धतिः विरला आसीत्, अपि च रामः आराधनायाः वस्तु स्यादित्यस्य प्रामाण्यानि विरलानि सन्ति इति सः वदति३४ ।

रामः पुराकाले अपि प्रमुखपात्रं आवहति स्म इति विषयं लघुतमाः अपवादाः इति कथयित्वा तस्य प्रभावः नास्ति इति प्रतिपादयितुं पोलाकः प्रयतते । मध्य-एषियातः मुसलमानजनानाम् आगमनात्परं रामस्य जनप्रियतायाः वृद्धेः परीक्षणं, एवञ्च मुसलमानविरुद्धतया हिंसाचारस्य समर्थनोद्देश्यत्वेन रामायणस्य उपयोगः कृतः इति प्रतिपादनं पोलाकस्य उद्देश्यम् आसीत् । मुसलमानजनेभ्यः समग्रे भारते  देवालयेषु रामायणस्य भागाः कुत्र कुत्र प्रदर्शिताः इति सः आवलिं करोति । किन्तु कुत्रापि रामस्य साम्प्रादायिकं महत्वं नास्ति इति सः निर्णीतवान्३५ ।

हैन्दवाः राजानः राजनैतिकसङ्केतरूपेण रामायणम् उपयोक्तुम् आरब्धवन्तः इत्यस्य विषये अहं स्पष्टज्ञानवान् दृढज्ञानवान् च अस्मि इति सः पोलाकः प्रतिपादयति –

भारतस्य राजनैतिककल्पनायां केन्द्रीयसङ्घटनात्मकतत्त्वरूपेण रामायणम् उपयुक्तम् इति स्पष्टरूपेण निर्दिष्टरूपेण च ऐतिहासिकसंनिवेशे व्यक्तीकर्तुं शक्यते३६ ।

अहं वदामि.... एकादशचतुर्दशशताब्दयोः मध्ये पश्चिमभारते मध्यभारते च सामाजिकानां राजनैतिकसम्भाषणसमये  असदृशतया नाटकीयरूपेण रामयणं सजीवतां प्राप्नोत् ३७ ।

 एकादशशतकस्य मध्यभागतः द्वादशशतकस्य अन्तिमभागपर्यन्तं स्थानीयाः राजानः अयोध्यां प्रधानवैष्णवकेन्द्रत्वेन विकासयितुं महत्त्वपूर्णान् मन्दिरनिर्माणकार्यक्रमान् आरब्धवन्तः इति प्रमाणीकर्तुं सः पोलाकः  दतांशान् प्रदर्शयति । त्रयोदशशताब्धस्य अन्तिमसमये चतुर्दशशताब्दस्य आरम्भसमये च रामसम्बद्धानि बहूनि आराधनाकेन्द्राणि प्रतिष्ठापितानि अथवा नवीकृतानि । चतुर्दशशतकस्य आरम्भे श्रीरामचन्द्रस्य आराधनास्थलानि उत्तुङ्गस्थितिम् अवाप्नुवन्, यदा विजयनगरसाम्राज्यस्य अपि स्थापनमभवत् । अस्य पोलाकस्य कथनानुगुणम् –

आदौ देशकालदृष्ट्या विशेषतः निर्बन्धः आसीत् । एतत् (रामस्य आराधनम्) अद्भुतं चमत्कारं प्रदर्शयति । एवञ्च द्वादशशताब्धस्य अन्ततः राजनैतिकधर्मशास्त्रस्य सन्दर्भे एकं प्रमुखं स्थानमपि प्राप्नोति । एतत् रामाराधनम् कासुचित् घटनासु तु केन्द्रीयं स्थानम् अपि चतुर्दशे शतके प्राप्नोति३८ ।

मुस्लिम-आक्रमणकर्तॄन् राक्षसशक्तिरिति प्रतिपादयन्तीं द्वादशशतकस्य एकां कवितां व्याख्यातुं सः पोलाकः बहूनि पृष्ठानि आरक्षितवान् । अपि च अस्य एकस्य पद्यस्य आधारेण सः तदीयवक्तव्यम् उपस्थापितवान् ।  महम्मद-गज़नवी  भारते मन्दिराणि आक्रम्य यदा ध्वंसीकृतवान्  ततः परमेव अयोध्यां निर्मातुम् आरब्धवन्तः इति पोलाकः कथयति३९ ।

तथापि तस्य प्रतिपादनविरुद्धतया वर्षाणां शतानि यावत् अयोध्या मौर्येभ्यः अपि पूर्वतने युगे अत्रत्यानां राज्ञां राजधानिरासीत् इत्यंशः परिशीलनीयः४० ।

यद्यपि पोलाकः तस्य प्रतिपाद्यविषयं समर्थयितुं कानिचन प्रक्षिप्तानि प्रमाणानि प्रादर्शयत्, तथापि एकादशशताब्दात् पूर्वं भारते एशियाभूखण्डस्य आग्नेयदिशः देशेषु च रामस्य आराधनायाः विषये व्यापकरूपेण ऐतिहासिकानि प्रबलप्रमाणानि प्राप्यन्ते । परिशिष्टम्-B एतद्विषये कानिचन प्रमाणानि प्रदर्शयति । रामायणस्य इतिहासविषये  दलद्वयस्यापि जनानां मध्ये जायमाना प्रामाण्यविषयिणी चर्चा आसक्तिप्रदा अस्ति ।

अस्माकम् अवलोकनानुगुणं वदामः चेत् – पोलाकः रामायणविषये एवं चित्रितवान् यत् मुसल्मानजनानां राक्षसीकरणाय रामायणस्य स्वरूपम् अस्माभिः उपयुक्तम् अस्ति इति । सः वदति – बहुषु प्रकारेषु परकीयाः पथभ्रष्टाः इति भावस्य प्रतिपादकम् अस्ति इति ।

सः इतोऽपि एकं पदम् अग्रे विन्यस्य स्थूलरूपेण रामायणस्य विषये सिग्मण्ड-फ़्राईडवर्यस्य चिन्तनं आरोपयति । एतस्य रामायणस्य पठनम् इत्युक्ते पाश्चात्यानां सांस्कृतिकविमर्शानुगुणं कालबाह्यम् अविवेकपूर्णं च कार्यं अस्ति इति । सः वदति - रामायणे “विषयान्तरस्य वर्णनम्” इत्युक्ते श्रद्धावतां भारतीयानाम् अपरिपूरितानां लैङ्गिकेच्छानां प्रक्षेपणम्/प्रकाशनम् एव इति –

तेषां(पारम्परिकाणां भारतीयानां) विषये चिन्तयितुं विद्यमानः एकः सफलः मार्गः इत्युक्ते – मनोलैङ्गिकः दृष्टिकोणः, यश्च दृष्टिकोणः प्रतिनिधिरूपेण सर्वेषु पारम्परिकेषु भारतीयेषु वर्तते । तच्च संस्कृत-संस्कृतिरूपेण वर्तते । तत्र बलवती आशा वर्तते । बलवती भीतिश्च अस्ति । (संस्कृतं संस्कृतिः चेति) द्वयमपि मिलित्वा एकसङ्केतरूपेण संयोजितम् अस्ति४१ ।

अन्यैः शब्दैः एवं वक्तुं शक्यते -  राक्षसरूपेण चित्रयित्वा प्रतिपादितम् अन्यत् सर्वं हैन्दवानाम् एव प्रगाढायाः मनोलैङ्गिकतायाः प्रक्षेपकम् अस्ति । तैः निग्रहीताः आशाः, निग्रहीतानि भयानि च  एवं (राक्षसरूपेण) चित्रितानि इति पोलाकः कथयति ।

पोलाकः निरूपयति – भारते पूर्वकाले ये ये बाह्याः समागताः ते अत्यल्पकाले एव भारतीयत्वेन समेकीकृताः ।  किन्तु मध्य-एशियातः मध्यकाले आगतानां(मुसलमानजनानाम्) दृढं सुरक्षितम् अभिज्ञानम्, आसीत् येन ते भारते धार्मिकरूपेण भाषारूपेण च समेकीकर्तुं न शक्याः अभवन् । एतादृशं भयं निवारयितुं  रामायणं निरन्तरं  साधनत्वेन अत्रत्यैः नेतृभिः उपयुक्तम् ।  रामायणं राजनीतेः आधारत्वेन उपयुक्तम्, बाह्यान् परकीयाः इति सङ्केतयितुम् च उपयुक्तम् ४२ इति ।

द्वितीयसहस्रमानस्य अन्ते  हैन्दवानां विषये पोलाकस्य कल्पना न्यूनाधिकभावेन एवं सम्पन्ना- अधिकारे विद्यमानाः हैन्दवपुरुषाः निपुणाः, कामप्रवृत्तयः आसन् इति । ते पौराणिकाः कथाः उपयुज्य सामाजिकानां अवधानं स्वीयनिरङ्कुशाधिकारात् दूरीकृतवन्तः इति । येषाम् अधिकारः नासीत् ते  तार्किकं चिन्तनं कर्तुं असमर्थाः वादादिकम् अकुर्वाणाः असह्यरूपेण विधेयाः आसन् इति ।  महिलाः तु तेषां दमनस्य बलिरूपेण अभवन् न तु अन्यथा इति । एवञ्च ये बाह्याः इति परिगणिताः ते राक्षत्वेन चित्रिताः इति । तच्च हैन्दवानां मनसि निगृहीतायाः लैङ्गिकमानसिकतायाः प्रक्षेपणवत् कृतम् चेति पोलाकः कथयति ।

सः पोलाकः एतत् सर्वम् साररूपेण सम्पूर्णरामायणेन सह सम्बन्धं कल्पयन् सम्बध्नाति :

रामायणम् गभीररूपेण मौलिकरूपेण च विभेदनस्य ग्रन्थः अस्ति .....बाह्याः जनाः तावत् विकृतलैङ्गिकतया, आहारक्रमेण, राजनैतिकरूपेण च अन्याः इव चित्रिताः... । रामायणम् तदीय-राक्षसीयकल्पनया शत्रूणां द्विगुणीकरणकल्पनायाः साधनत्वेन उपयुक्तम्, इत्थं नान्यः ग्रन्थः उपयुक्तः४३ ।

पूर्वोक्तरीत्या अस्य कालखण्डस्य अन्यसंस्कृतीनां स्थितिं वा स्वरूपं वा अनुक्त्वा हैन्दवसमाजं पृथक्कृत्य परिशीलनं विधाय एकं तत्सम्बद्धम् अव्यवस्थितं चित्रं  अत्र पोलाकेन प्रस्तुतीकृतम् ।  सिग्मण्डफ़्राईडवर्यस्य चिन्तनप्रारूपं रामायणेन सह तोलयित्वा यत् कथितं तत् पुनः विम्रष्टुं योग्यम् अस्ति । एवं ग्रन्थस्यास्य अन्येषु स्थानेषु अपि मया प्रतिपादितम् । पोलाकस्य एतादृशं प्रतिपादनं मया यावत् अत्र खण्डितं ततोऽपि अधिकविस्तरेण विद्वद्भिः खण्डनीयम्, एतद्विषये चर्चनीयम् च ।

रामायणं जात्यतीतमिति परिगणितम् अस्ति ।

रामायणम् निश्चयेन लौकिकग्रन्थः अस्ति । यतो हि वैदिकयज्ञानाम् अनुष्ठानाय एतत् न उपयुक्तम् इति पोलाकः अभिप्रैति । तथापि यागानाम् अनुष्ठानं केवलं पारमार्थिकताम् उत्पादयति । अतः तद्भिन्नप्रतिपादकः ग्रन्थः सर्वोऽपि लौकिकः  इति पोलाकस्य अभिप्रायः दोषपूर्णः अस्ति । एषः दोषः एव इतिहासविषये तदीयचिन्तनस्य कारणम् अस्ति विशिष्य राजनीत्युद्देशेन रामायणम् लौकिकमिति सः वदति ।

हैन्दवाः विभिन्नरूपेण कथयन्ति यत् –ब्रह्मणः वा, परमशिवस्य वा, मोक्षस्य वा परमपुरुषस्य वा प्राप्त्यर्थम् भक्तिः, तन्त्रम्, कथा, ध्यानम् इत्यादिकं विभिन्नः मार्गः अस्ति इति ।  अतः  वेदज्ञानाधारितः इतिहासः पारमार्थिकतायाः कारणं भवितुम् अर्हति ।  रामायणं लौकिकः ग्रन्थः अस्ति यश्च पारमार्थिकतायाः सेतुरूपेण कार्यं करोति ।  रामायणविषये श्रद्धालवः तं ग्रन्थम् इतिहासग्रन्थत्वेन मन्यन्ते ।  ज्ञानार्थम् अपेक्षितायै आत्मावलोकनप्रवृत्त्यै यावान् उपयोगः रामायणस्य करणीयः तदपेक्षया अधिकतया वेदप्रतिपादिततत्वानां आनन्देन क्रीडया इव बहूनां जनानाम् अवगमनाय रामायणम् उपयुज्यते । एतद्विरुद्धतया  पोलाकः वदति यत् – काव्यानि लौकिकानि भवन्ति, मूलतः सामाजिक-राजनैतिक-शक्तेः  सौन्दर्यात्मकाभिव्यक्तिसम्बद्धानि  भवन्ति चेति ।

वाल्मीकिरामायणम् बौद्धानां प्रभावात् अनन्तरम् आरचितम् इति पोलाकः प्रतिपादयति

पोलाकः आधारान्/प्रामाण्यानि परिवर्त्य वाल्मीकेः रामायणस्य ऐतिहासिकीं कालगणनां  परिवर्तितवान् । पोलाकेन राजनैतिकप्रेरणया प्रतिपादितस्य बिन्दोः, पारम्परिकदृष्टिकोणस्य च मध्ये तुलनां कृत्वा वैरुध्यं प्रदर्शयितुम्, अस्माकं सम्प्रदायान् आश्रित्य, राबर्ट-गोल्डमेन-सदृशानां पाश्चात्यशिक्षावेतॄणां पुस्तकानि च आश्रित्य, अहम् तर्कान् उपस्थापयिष्यामि४४ ।

800 BCE अथवा ततः पूर्वं रामायणं रचितम् इति बहवः भारतीयाः पाश्चात्याश्च विद्वांसः यदुक्तवन्तः तत् अस्वीकृत्य, 150 BCE समये रचितम् इति पोलाकः प्रतिपादयति४५ । एवं दिनाङ्कनिश्चयेन बौद्धानां जातककथाभ्यः वाल्मीकिः रामकथां पठितवान् इति वक्तुं पोलाकः शक्नोति४६ । राबर्ट-गोल्डमेन पोलाकस्य प्रतिपादनं निराकरोति । बौद्धजातककथाभ्यः रामायणं प्रेरितम् इति म्याक्स वेबर इत्याख्येन नवदशे शताब्धे यदुक्तं तत् गोल्डमेन-महोदयः एवं निराकरोति –

बौद्धानां जातककथासु रामायणस्य मूलं अन्वेष्टुं शक्नुमः इति परामर्शं  म्याक्स वेबर प्रदत्तवान् । ग्रीकमहाकाव्यानां प्रभावेण बौद्धानां जातककथासु विद्यमानः राजकुमारः रामः इदानीन्तनरूपेषु विकसितः इति सः वदति । एषः  विषयः वास्तविकप्रपञ्चस्य  घटनाभिः सह साम्यं भजतां सद्गुणानां वैभवीकरणम् अस्ति । तदानीं वेबरः चिन्तितवान् यत् दशरथजातकम् रामायणस्य मूलम् इति तच्च ब्राह्मणानां बौद्धद्वेषस्य इतरविषयैः सह काव्यात्मिका अभिव्यक्तिः  इति । एतस्य सिद्धान्तस्य घोषणात् अनन्तरं स्वल्पे समये  समर्थरीत्या निराकरणमपि कृतम् अभवत् । तथापि उपलभ्यमानस्य अत्युत्तमस्य ऐतिहासिकस्य साहित्यिकस्य आधारस्य अनुसारेण दशरथस्य जातककथा वाल्मीकिरामायणात् बह्वेव अनन्तरकालिकी इति४७ ।

अस्मिन् विषये पोलाकस्य वैदुष्यं उन्मुक्तरूपेण आक्षिप्तवत्सु अङ्गुलिगणनीयेषु विद्वत्सु गोल्डमन अन्यतमः विद्वान्  अस्ति ।

सारः : “रामायणम्” दौर्जन्यस्य साहित्यमिति व्याख्यातम् ।

दैवासुरकल्पनम् सनातनधर्मस्य भागः एव अस्ति इत्यतः एतत् शाश्वतम् अपरिवर्तनीयं च अस्ति इति पोलाकः प्रतिपादयति । अतः सः निर्धारयति यत् हैन्दवाः राज्यशासनस्य मूलतत्वानि एव राजधर्मः इति मन्यन्ते इति । पोलाकस्य अनुसारेण दैविकराजत्वेन तच्छत्रूणां राक्षसत्वेन च कल्पनस्य परिणामाः एवं साररूपेण उच्यन्ते –

१.    कमपि जनम् अथवा जनानां समूहम् असुराः इति शत्रवः इति वा राजा ब्राह्मणानां साहाय्येन उद्घोषयितुम् अर्हति । राज्ञः सिंहासनस्य वशीकर्तारः सम्भाव्यशत्रवः इति तेषां नामकरणं क्रियते । प्रजाः रामायणकथाम् आश्रित्य एतान् शत्रून् युद्धार्थम् आह्वातुं, तान् हन्तुं च प्रवर्तन्ते ।

२.    राजा प्रजानां सकाशात् सम्पूर्णां विधेयताम् अपेक्षेत ।  एतादृशीं शासनरीतिम् औपनिवेशिकभारतशास्त्रवादिनः प्राच्यनिरङ्कुशाधिकारः इति वदन्ति । एतत् हैन्दवराजान् भयजनकान् निन्दनीयान् इव निरूपयति । प्रजाः तदीयवचनानुगुणं प्रवृत्ताः उन्मत्ताः जनाः इति निरूपयति ।

३.    एतादृशीम् अन्धत्वयुक्तां विधेयतां/आज्ञाकारिताम् आदाय निर्मिता सामाजिकी व्यवस्था भारतीयान् स्वातन्त्र्येण चिन्तयितुम् असमर्थान्, प्रश्नं च कर्तुम् असमर्थान् करोति । अतः हैन्दवेषु स्वस्य विषये चिन्तयितुम् अथवा शासनं विरुध्य प्रश्नं कर्तुं सामर्थ्यं नास्ति ।

४.    राजधर्मस्य एतादृशस्य स्वरूपस्य कारणात् राज्ञः समीपे अप्रतिबद्धं दैविकं सामर्थ्यं भवति ।  तच्च निर्बाधं लैङ्गिकविचलनयुक्तं, महिलानां विषये अपमानजनकं च भवितुम् अर्हति । पोलाकः आरोपयति यत् दशरथः एतादृशप्रवृत्तेः एकम् उदाहरणम् अस्ति इति ।

५.    भा.ज.पा/वि.हि.प. साम्प्रतम् एतादृशरीतिम् मुसल्मानजनान् अन्यान् अल्पसंख्यकजनान् च विरुध्य अनुसरति । यतो हि एतत् सहजतया तान् विरुध्य हिंसां कर्तुं  हैन्दवान् अधिकृतान् करोति ।

 

पोलाकस्य अनुसारं १९८० तमात् इसवीयवर्षात् आरभ्य भारते राजनैतिकघटनाः  मुसल्मानजनानां दानवीकरणस्य अनुरूपमेव आसन् । सः पोलाकः एवं प्रतिपादयति यत् – १९९२ तमे वर्षे अयोध्यायां बाबरीमसजीद इत्यस्य ध्वंसीकरणाय भाजपादलस्य नेतारः मुसल्मानजनान् राक्षसरूपेण, हैन्दवान् च रामरूपेण चित्रितवन्तः ।  राम(कथा)सम्प्रदायः बहोः कालात् एतदर्थमेव संयोजितः इति सः तदीयं वक्तव्यम् उपस्थापयति । सङ्घपरिवारः इदानीमपि आन्दोलनम् इदमेव करोति यत् रामायणम् उपयुज्य हैन्दवानां मुसल्मानजनान् विरुध्य उद्वेजनम् कृत्वा तान् राक्षसान् करोति इति सः वदति । एवं तस्य पोलाकस्य अनुसारेण रामायणम् सामूहिकविनाशस्य एकं सांस्कृतिकम् अस्त्रम् अस्ति ।

अमेरिकादेशस्य प्राच्यविद्भिः पारम्परिकरीत्या अवगमस्य पद्धतिं विरुध्य परामृष्टः एक एव ग्रन्थः रामायणम् अस्ति । भारतस्य सामान्यजनानां जीवनानुभवं विरुध्य एतत् तार्किकं चिन्तनं नूतनम् इतिहासं निर्माति ।  अस्माकं पूर्वचिन्तनानुगुणं पोलाकस्य धारणायाः, चिन्तनस्य, पद्धतेश्च विमर्शः पारम्परिकदृष्ट्या अवश्यं कर्तव्यः । केवलम् अहम् अत्रत्यानां विदुषां न्यायिकविचारणाय रक्तपताकाम् उन्नयन् अस्मि ।

 

भारतस्य राजनीतौ हस्तक्षेपं कर्तुं रामायाणाधारिता राजनैतिककार्ययोजना

 

संस्कृतग्रन्थानां राजनैतिकदृष्ट्या पुनः भिन्नरूपेण व्याख्यानं कृत्वा, रामायणात् सम्भाव्यमानानाम् अपायानां निरासाय पोलाकः भारते विद्यमानानाम् तदनुयायिनाम् आङ्ग्लभाषया व्यवहारं कुर्वाणानां गण्यजनानाम् आह्वानं करोति । तस्य निर्णयः एवम् अस्ति –

भारते साम्प्रदायिकप्रवृत्तिः सहस्रशः वर्षेभ्यः अस्ति । अस्य कारणम् बाह्यजनानां धार्मिकरूपेण अपमाननम् कर्तुं वाल्मीकिरामायणस्य उपयोगः अस्ति ।

अस्याः मतीयप्रवृत्तेः आङ्लेयानां “विभज्य शासनस्य रीत्या” सह कोऽपि सम्बन्धः नास्ति ।

एवमेव मुसल्मानजनानाम् आक्रमणस्य अत्र किमपि पात्रम् अस्ति इति द्रष्टुं न शक्यते ।

सङ्घपरिवारस्य कार्याणां मूलं संस्कृतग्रन्थाः भवन्ति । अतः एतेषां ग्रन्थानां राजनैतिकदृष्ट्या पुनर्व्याख्यानं कृत्वा तज्जन्यभयं निवारणीयम् ।

अद्यत्वे भारते राजनैतिकः हस्तक्षेपः इति पोलाकस्य कथनस्य लक्ष्यं स्पष्टम् अस्ति । बाबरीमस्जिद इत्यस्य १९९२ तमे वर्षे प्रध्वंसीकरणात् अनुक्षणं लिखितं पुस्तकं “Ramayana and Political Imagination in India” इत्यस्ति ।  द्वादशवर्षेभ्यः परमपि तस्य अस्मिन् विषये संलग्नतायाः तीव्रता महती एव अस्ति । पूर्वतनस्य पुस्तकस्य लेखनकारणं विवरीतुं सः एकं साक्षात्कारं २००५ तमे वर्षे ददाति - 

१९९२ तमे वर्षे भारते यात्रायाः वेलायां अहं हैदराबादनगरं प्राप्तवान् ।  तदा तत्र मुसल्मानजनानाम् उपरि दौर्जन्यं चलति स्म ।  रामायणं तत्र सर्वत्र आसीत् । अहं चिन्तितवान् – अहं रामायणस्य विषये बहोः कालात् कार्यं कुर्वन् अस्मि । अत्र अहं भारतीय-राजनैतिक-जीवनस्य विषये एतस्य ग्रन्थस्य का भूमिका इति वक्तुं विषयं प्राप्तवान् ।  कस्मात् कारणात् हिंसायाः साधनत्वेन रामायणम् उपयुक्तम् अभवत् इति अत्र मया अवगन्तव्यम् इति आशा या मम आसीत् तत्र अहं निराशः एव अभवम् । यतः बाबरिमसजीद् इतः द्वादशवर्षेभ्यः पूर्वं ध्वंसीकृतम् अभवत् । अतः अहं रामायणप्रवचनस्यस्य प्राचीनम् इतिहासम् अवलोकयितुं निर्धारितवान् । तत्र अहं किं दृष्टवान् इत्युक्ते – यत् बह्वेव मां विमनस्कम् अकरोत् ।  तादृशं विवरणं कथं वा भवन्तः गोपयितुम् अर्हन्ति । तदा अहं भावितवान् यत् – तत् विवरणं बहिरानीय तस्य विमर्शं करवाणि, निन्दां च करवाणि इति । यदि भवन्तः सङ्घर्षस्य अग्रपङ्क्तौ भवन्ति तर्हि भवन्तः विश्वहिन्दूपरिषदः  राजनैतिककार्यस्य निन्दासदृशाणि कानिचन कार्याणि अवश्यमेव कुर्युः इति अहम् अवगच्छामि । 

रामायणविषयकः लेखः हिन्दुत्वस्य विमर्शनाय/निन्दायै कृतं योगदानम् अस्ति । सः लेखः राजनैतिकवैरुध्यस्य  साधनत्वेन रामयणम् उपयुक्तम् इत्यस्य  विमर्शनाय/निन्दायै योगदानं करोति । अन्येषाम् उपरि आधिपत्यस्य विमर्शनं/निन्दां करोति । यदि ऐतिहासिकानि तथ्यानि केषाञ्चित् जनानां दृष्ट्या असमीचीनानि चेत्  दौर्भाग्यपूर्णम् अस्ति । आङ्लेयेभ्यः पूर्वतने काले पूर्णरूपेण रामराज्यं नासीत् चेत् तत् दौर्भाग्यपूर्णम् अस्ति । किन्तु भूतकालात् बहिरागमनाय विद्यमानः एकैकः मार्गः कः इत्युक्ते तस्य सम्मुखीकरणम्४९ ।

 

रामायाणं राजनैतिकवैरुध्यस्य साधनत्वेन उपयुक्तमस्ति इति निन्दितुं सः पोलाकः स्वयं सङ्घर्षस्य अग्रपङ्क्तौ अस्मीति आत्मानं भावयति । तदीयः लेखः एवम् आरब्धः अस्ति ।

१९९२ तमे वर्षे दिसेम्बरमासतः  १९९३ तमस्य वर्षस्य जनवरीमासपर्यन्तं त्रिसहस्रात् अपि अधिकसंख्याकाः जनाः सूरतनगरात् कलकत्तानगरपर्यन्तम्, कानपुरतः बेङ्गळूरुपर्यन्तं समग्रे भारते मतीयसङ्घर्षकारणात् मृताः ।  एतादृशाः सङ्घर्षाः सुदीर्घकालात् न प्रवृत्ताः आसन् ।  उदाहरणार्थं मुम्बईनगरे षट्शतात् अपि अधिकाः जनाः मृताः,  सम्पूर्णं नगरं सार्धैकसप्ताहं यावत् स्तब्धम् आसीत्५० ।

सः अग्रे विवृणोति – हैन्दवानां मुसलमानजनानां च मध्ये शत्रुतायाः सम्बन्धस्य वर्णनम् तदीयं लक्ष्यम् इति ।   सोमनाथात् अयोध्यापर्यन्तं रथयात्रां कर्तुं भाजपादलेन यदा निश्चितं तदा एषः सम्बन्धः(शत्रुता) तदीयानि उद्देश्यानि  पूर्वमेव अघोषयत् इति पोलाकः कथनम् आरब्धवान् आसीत् । सः लिखति –

१९९२ तमे वर्षे दिसम्बरमासस्य षष्ठे दिनाङ्के बाबरीमसजीद इत्यस्य भञ्जनम् केवलं केनापि समूहेन अकस्मात् कृतं कार्यं न, प्रत्युत प्रशिक्षितानां हैन्दव-उग्रगामिनां समूहेन कृतं कार्यम् अस्ति, यस्य च आरम्भः सुनियोजितायाः रथयात्रायाः उद्घाटनेन प्रवृत्तानां संघर्षाणां कारणतः अभवत्५१ ।

मुसलमानजनान् विरुध्य हैन्दवानां धर्माधारितराजनीतेः परीक्षणमेव तदीयं लक्ष्यम् इति सः कथयति । तस्य लेखे सः तत्  विशिष्टानां चिह्नानां माध्यमेन सङ्ग्रहेण साधयति । तानि चिह्नानि कानि इत्युक्ते – रामः देवयोधः इति, तस्य जन्मस्थानम् अयोध्या इति, पवित्ररामजन्मभूम्याः विमुक्तिः चेति ।

अनन्तरं सः पुनरेकवारं तस्य उद्देश्यम् अग्रे स्पष्टीकरोति -  तासां शक्तीनां प्रभावं निस्तेजयितुं एकं उपायः एषः अस्ति यत् – एतादृशीनाम् अर्थप्रणालीनां निर्माणम् अनुष्ठानञ्च, समकालिकानां विश्लेषणञ्च । सः तत्र इतोऽपि एकम् अंशं योजयति यत् – तादृशी योजना माम् आग्रहेण आकर्षति इति ।

यथा मया पूर्वम् उक्तम् – सम्पूर्णायाः परम्परायाः स्वरूपवर्णनविषये भाजपादलस्य विश्वहिन्दूपरिषदः च चर्चार्थम् आह्वानेन, अस्माकम् अवधानम्  मूललक्ष्येभ्यः सुदूरं गच्छेत् । एतादृश्यः विपदः हिंसां दमनं च विरोद्धुम् आभ्यन्तरात् एव प्रामाणिकरीत्या परिणामात्मक-राजनैतिक-प्रतिक्रियायाः सम्पादने बाधां जनयन्ति । एषः मम दृष्टिकोणः अस्ति, अपि च अन्येषां बहूनां दृष्टिकोणः अस्ति ये स्तानीयेषु शब्देषु संस्कृतिं समर्थयन्ति । समर्थनं कथम् इत्युक्ते – मुक्तसमाजस्य अवगमनाय मार्गः सनातनधर्मस्य पूर्णतः अवगमनम् एव इति ।  एतदर्थं अस्माभिः पवित्रे पारमार्थिके, तथैव व्यावहारिके धर्मनिरपेक्षे  अधिष्ठाने, स्थातव्यम् ।

मतीयवादस्य, फ़ासिस्टवादस्य, हिंसामार्गस्य च भूतम् अवलम्ब्य सम्प्रदायस्य मार्गाणां भविष्यत्कालिकसम्भावनानाम् अन्वेषणे बाधायाः उत्पादनं, धनिकदरिद्राणां, स्त्रीपुरुषाणां, सामान्यजनानां गण्यानां जनानां च समानरूपेण अपायं जनयति ।

परिणामतः पोलाकः तदीयविचारान् समर्थयितुं तस्य विरोधिनां राक्षसीकरणस्य प्रकारान् संवर्धयन् अस्ति ।  किन्तु तदीयानाम् अनुयायिनाञ्च कृते तदीयचार्वाकसिद्धान्तस्य प्रचाराय दैविकम् अधिकारं ददाति ।

 

इति

प्रो.हरिप्रसादः के.

२६/०८/२०२३(Updated)