श्री गुरुभ्यो नमः
साम्यघ्नो जगद्धन्ता साम्यवादः
प्रवर्तते
निश्चयेन
समग्रे जगति उच्चनीचभावः आसीत् वर्वर्ति भविष्यति च । पूर्वं येन रूपेण आसीत् तथा
इदानीं न स्यात् । इदानीं यथा अस्ति तथा भाविनिकाले न भविष्यति च । महाराष्ट्रे
कश्चन महात्मा उच्चनीचभेदः समाजे न भवेत् इति आन्दोलनमेकं गते शतके आरब्धवान् इति
। एवं तस्य आन्दोलनस्य नामकरणं “अजात” इति कृतवान् । आन्दोलनस्य आरम्भिकेषु
दिवसेषु बहवः जनाः तत् समर्थयन्तः तस्य आन्दोलनस्य भागग्राहिणो भूत्वा स्वीयां
जातिं त्यक्तवन्तः । तस्य विडाम्बनं इदमस्ति यत् महाराष्ट्रे २०१० तमे वर्षे
प्रवृत्तगनगणनानुसारं १५० अजातजातीयाः सम्प्रति सन्ति इति । जातिव्यवस्थां
निर्मूलयितुं प्रवृत्तं अजात इत्याख्यं आन्दोलनं एकां नूतनाम् अतिरिक्तां जातिम्
असृजत्, पुर्वतनाः जातयः तु न नष्टाः । इत्थं
सर्वत्र केषाञ्चित् समाजसुधारकाणाम् अन्दोलनकारणतः समाजे नूतनाः जातयः समुत्पन्नाः
। पुर्वं वर्णसङ्करेण जातिः उत्पद्यते स्म । यथा गीतायां अर्जुनः शङ्कते –
“स्त्रीषु
दुष्टासु वार्ष्णेय जायते वर्णसङ्करः” भगवद्गीता १-१८
किन्तु अद्यत्वे
साङ्कर्यं स्वाभाविकं जातमस्ति । अतः साङ्कर्याधारेण जातयः न भवन्ति । बहूनां
अभिनवसमाजसुधारकाणां (साम्यवादिनाम्) इदमपि मतमस्ति यत् साङ्कर्यं भवेत् येन
जातीयः भेदः निर्गच्छति इति ।
जन्माधारितं भेदं मानवसामान्यः नाङ्गीकुर्यात्
इति उदात्तम् आदर्शपूर्णं वाक्यं बहवः आधुनिकाः विवेकिनः वदन्ति । तदर्थमेव
सर्वकाराः विधीन् निर्मान्ति येषां कारणतः अयं भेदः इतोऽपि बलवत्तरः भवति । भारतीयं चिन्तनं तु इत्थमस्ति -
“विद्याविनयसम्पन्ने ब्राह्मणे गवि
हस्तिनि।
शुनि चैव श्वपाके च
पण्डिताः समदर्शिनः” ॥ भगवद्गीता ५-१८
किन्तु
एषः विधिः नास्ति । अत्र मनुष्यस्य स्वातन्त्र्यम् अस्ति । श्रेष्ठः यः भवितुं
इच्छति सः ज्ञानी भवेत् (पण्डितः), स एव ज्ञानी यः समदर्शी भवति । स च समदर्शी गीतोक्तरीत्या भवेत् । अत एव अत्र
समदर्शी इति पदं भगवता व्यासेन प्रयुक्तम्, साम्यवादी इति न । समदर्शी भेदं न
पश्यति । साम्यवादी साम्यं सम्पादयाम इति प्रतिज्ञाय शोषकशोषितरूपेण समाजं द्विधा
विभज्य शोषकत्वेन कल्पितानां प्रतिशोधाय शोषकाणां शोषणं कर्तव्यम् इत्यभिप्रैति ।
अस्मिन्
लेखे साम्यवादिचिन्तनं असमतायाः निवारणार्थं प्रवृत्तं कुटिलैः उपायैः तदीयमेव चिन्तनं
कार्यप्रणाली च अनुसर्तुं योग्यम्, अन्यत्सर्वं नाशयितुम् योग्यञ्चेति प्रतिपादयत्
तदनुष्ठातुं केन मार्गेण प्रवर्तमानम्
अस्ति इति विम्रष्टुम् राजीव मल्होत्रा इत्याख्यस्य लेखकस्य “Snakes in the Ganga” इति ग्रन्थस्य
केचन भागाः परिशील्यन्ते ।
साम्यवादः
कार्ल् मार्क्स् इत्यनेन प्रतिपादितः पश्चात् विकासमवाप्य समग्रे जगति
व्याप्नोत् विभिन्नाभिः शाखाभिः ।
ऐरोप्यदेशेषु नवदशे शताब्दे उत्पन्नायाः यान्त्रिकक्रान्तेः कारणात् यन्त्रागाराणि
महान्ति निर्मितानि यत्र कार्यं कर्तुं महत्या संख्यया कर्मकराः नियुक्ताः । तेषु
देशेषु नियतरूपेण कृष्यादिकर्मणा जीवितुम् अवसरः न्यूनः इत्यतः यन्त्रागारेषु
कर्मकराः अपि अत्यधिकसंख्यया प्रविष्टाः । जगतः बहुषु देशेषु स्वाधिकारं
प्रतिष्ठाप्य तत्तदेशीयान् दासान् कृत्वा वेतनेन विना दमनात्मकनीत्या स्वकार्यं
साधयितुं प्रवृत्तानां ऐरोप्यानां एषः स्वभावः अत्रापि प्रदर्शितः इत्यतः कर्मकराणां जनानां पीडनं अपि स्वाभाविकमासीत् ।
एषा परिस्थितिः कार्ल् मार्क्स् इत्यस्य जन्मने कारणमभवत् । तेन स्पष्टतया
एतद्विषये सिद्धान्तितं यत् समाजे द्विप्रकारकाः जनाः भवन्ति –प्रथमप्रकारकाः
शोषकाः, द्वितीयप्रकारकाः शोषिताः इति । अस्य अभिनवस्य साम्यवादस्य बहूनि रूपाणि
सन्ति – Marxism,
Leninism, Maoism Postmodernism, Critical
Race Theory, Queer Theory, LGBTQ+ इत्यादि ।
एतेषाम् अनुसारं के शोषकाः भवन्ति ? – श्वेतचर्माणः(विदेशेषु), ब्राह्मणाः, तैः निर्मिताः सर्वाः संस्थाः यथा
मन्दिराणि, शैक्षिकादिसंस्थाः, भाषाः, साहित्यानि,
गुरवः, देवताः, पर्वाणि, तीर्थस्थलानि,
संस्काराः, पारिवारिकजीवनपद्धतिः .... इत्यादयः.
शोषिताः के – म्लेच्छाः, शूद्राः, LGBTQ+
… इत्यादयः ।
अत्र शोषकाः के इति निर्णयं साम्यवादिनेतारः कुर्वन्ति ।
शोषिताः के इत्यपि ते एव निर्णयं कुर्वन्ति । कः शोषणं कृतवान् इति वैयक्तिकं
न्यायिकं विश्लेषणं वा विचारणं वा न क्रियते । एवमेव कः शोषितः इत्यपि वैयक्तिकं
न्यायिकं विश्लेषणं वा विचारणं वा न क्रियते । यः शोषितः सः
कृष्णवर्णीयः/म्लेच्छः/निम्नजातीयः चेत् सर्वेऽपि
कृष्णवर्णीयाः/म्लेच्छाः/निम्नजातीयाः शोषिताः इति परिगण्यन्ते । एवमेव एकः शोषकः
श्वेतचर्मा/म्लेच्छेतरः/उच्चावर्गीयः चेत्
सर्वेऽपि श्वेतचर्माणः/म्लेच्छेतराः/उच्चावर्गीयाः शोषकाः इति परिगण्यन्ते
। एवं च एकेन कृतस्य कर्मणः आरोपणं तज्जातीयस्य समूहस्य उपरि क्रियते । एवमेव एकः
शोषितः चेत् तदीयसमूहः समुदायो वा जातिः वा तदीयमतं वा एव शोषितम् इति परिगण्यते ।
किन्तु एतद्विपरीततया शोषकजातीयत्वेन गृहीतस्य
शोषणं शोषितेन क्रियते चेत् एषः पूर्वोक्तः नियमः तत्र न अन्वेति । यथा भारते
काश्मीरं विहाय अन्यत्र मुसल्मानजनाः अल्पसंख्याकाः (सत्स्वपि उपत्रिंशत्कोटिसंख्याकेषु)
इति कृत्वा तेषां रक्षणाय पूर्वतनेन यु.पि.ए.सर्वकारेण Communal
Violence Bill संसदि
पारयितुं यत्नः विहितः, यस्य आधारेण
हिन्दुमुस्लिम्-कलहे जाते सति, कलहस्य कारणीभूताः अधिकसंख्याकाः यवनाः भवन्ति
चेदपि एकाकिनः हैन्दवस्य एव दण्डविधानं करणीयमिति नियमः योजितः आसीत् । यतो हि
पीडां प्राप्तवान् हैन्दवः एकाकी चेदपि, सः
बहुसंख्याकसमूहस्य सदस्यः अस्ति । एवमेव कलहकारणीभूताः यवनाः बहवः भवन्ति
चेदपि ते अल्पसंख्याकमतस्य सदस्याः । अपि च ते दोषं कृतवन्तः चेदपि ते
शोषितवर्गीयाः इत्यतः शोषकाः न । एवमेव हैन्दवः पीडितः जातः चेदपि न पीडितः इत्येव
अङ्गीकर्तव्यम्, यतः सः शोषकसमूहत्वेन साम्यवादिभिः निर्णीतहैन्दवधर्मीयः अस्ति
। अत एव काश्मीरे तत्रत्यानां हैन्दवानां
पण्डितप्रभृतीनां नृशंसं सामूहिकं हननं जातम् आसीत् । तद्विषये भारतस्य तदानीन्तनः
सर्वकारो वा देशविदेशेषु विद्यमानाः साम्यवादिनः वा दुःखं न अनुभूतवन्तः । यतो हि
काश्मीरे मृताः पण्डितजातीयाः शोषकत्वेन(???) परिगणितस्य समूहस्य/धर्मस्य सदस्याः ।
मारितवन्तः यवनाः अल्पस्ख्याकसमूहस्य(???) सदस्याः ।
एवमेव साम्यवादिनः निश्चिन्वन्ति यत् के शोषकाः
के च शोषिताः इति । एते शोषिताः वस्तुतः शोषिताः एव भवन्ति इति निश्चयः नास्ति,
शोषकाश्च शोषकाः इति । साम्यवादिनेतारः यान् शोषकाः इति गृह्णन्ति ते शोषकाः
इत्यर्थः । यान् च शोषिताः इति कल्पयन्ति ते शोषिताः इत्यर्थः । अमेरिकादेशे यथा कृष्णवर्णीयाः शोषिताः इति
गृह्यन्ते तथैव यवनाः अपि ग्रहीतव्याः इति साम्यवादिमतम् । अत एव इस्लामोफोबिया
अस्ति इति लोके कोऽपि वदति चेत् सः दण्डनीयः इति अमेरिकादेशस्य संसदि विधिः पारितः
एतेषां साम्यवादिनां कुटिलोपायकारणात् । वस्तुतः जिहाद् इत्यस्य कारणतः एव
इस्लामोफोबिया उत्पद्यते किल । किन्तु आतङ्ककारिणि कार्ये यवनाः गृह्यन्ते चेदपि यवनाः आतङ्कम्
उत्पादयन्ति इति कथनं असाधु इति साम्यवादिनां निर्णयः । अत एव यः इस्लाम् आतङ्कम्
उत्पादयति इति वदति सः तन्मतस्य निन्दां करोति इति गृह्यते । अतः सः जनः दण्डनीयः इति
विधिं पारयितुम् अमेरिकादेशस्य संसदि(अमेरिकादेशस्य संसत् Congress
इत्युच्यते) यत्नः विहितः, पारितश्च । किन्तु Senate
(Upper House/Assembly of US ) मध्ये सः विधिः यथा पारितः न भवेत् तथा लेखकगणेन परिश्रमः कृतः ।
परिहारोपयः कः ?
वस्तुतः साम्यवादी कथं भवेत् इति गीता अस्मान् इत्थम् उपदिशति -
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ गीता
१२/१३,१८
किन्तु
अभिनवः साम्यवादः ईदृशं तत्वं नाङ्गीकरोति । गीतासदृशं प्राचीनं कमपि ग्रन्थं,
ग्रन्थप्रतिपादितं सर्वहितकारितत्वं वा नाङ्गीकरोति । तत्रत्यां भाषामपि शोषकभाषां
मन्यते । सा भाषा निम्नजातीयानां शोषणमुखेन उच्चवर्गीयाणाम्/ब्राह्मणानां
आत्मलाभाय प्रवृत्ता इत्यभिप्रैति[1]
अतः एतादृश्यः भाषाः नाशनीयाः इत्येतादृशानि तदीयानि उद्देश्यानि भवन्ति । वस्तुतः भाषा एतादृशोद्देशेन
प्रवर्तते किम् इति अग्रे विव्रियते ।
साम्यवादिनः अभिप्रयन्ति यत् –’विधीन्(शासननियमान्)
ये निर्मान्ति ते तदीयापेक्षानुगुणं निर्मान्ति न तु शोषितानां कल्याणाय, शोषकाणां
मर्दनाय वा । परम्परया ये समाजे प्राप्तादराः(privilaged) तेषामेव निकटे अधिकाराः भवन्ति । असौविध्यानि
सर्वाण्यपि उपेक्षितवर्गाणामेव भवन्ति । धनिकाः प्राप्तशासनाधिकाराः
उच्चवर्गीयाः तदीयानि
उन्नतसामाजिकस्थानानि रक्षितुं निम्नवर्गीयाणां दमनाय शासननियमान् उपयुञ्जते’ इति
।
“The law supports the interests of those who create the law.
a power dynamic which favours the historically privileged and disadvantages the
historically underprivileged.... The wealthy and the powerful use the law as an
instrument for oppression in order to maintain their place in hierarchy.”[2]
साम्यवादिनां(Postmodernist) इदं मतम् अस्ति यत् – सामाजिकं याथार्थ्यं शक्तिशालिसंवादेन
भवति, यच्च सामाजिकं याथार्थ्यं इदं अपेक्षेत यत् शोषितानां अभिप्रायः शोषकाणां
वचनस्य उपरि विजयं प्राप्नुयात् (प्राधान्यं प्राप्नुयात्) ।
साम्यवादिनां अनेन मतेन पूर्वतनी उदारदृष्टिः
ध्वंसीभूता । सा उदारदॄष्टिः इयमासीत् यत् विचाराणां विपण्यां कुत्सिताः विचाराः
सहजतया उत्तमविचारेभ्यः पराजिताः भवन्ति इति । अपि च अनेन उदारवादे एकं महत्परिवर्तनं
इदमागतम् यत् स्वतन्त्रचिन्तनस्य स्थाने
प्रबद्धचिन्तनं आवृणोत् इति । प्रबद्धचिन्तनं इत्युक्ते कश्चन सिद्धान्तः एव
स्वीकार्यः, यश्च सिद्धान्तः साम्यवादिराजनीतेः सिद्धान्तः भवति ।
“The
Postmodernist view that social reality is constructed by dominant discourses
has been turned into the demand that the speech of the oppressed must prevail
over that of the oppressor. This has toppled the previous liberal view that in
the 'marketplace of ideas' the bad ideas will automatically get defeated by the
better ones. A big shift in Liberalism is that free thinking is being replaced
by the dogma that only one particular ideology is acceptable, and this is the
ideology of identity politics.”(Page no. 43)
साम्यवादिभिः तेषां पक्षस्य दृढीकरणाय
प्रतिष्ठापनाय अथवा तद्विरोधिनां आक्षेपेभ्यः आत्मानं रक्षितुं एवं उच्यते यत् –
अस्माभिः सिद्धान्ताः इत्थं प्रतिपाद्यन्ते यत् विश्वासयोग्यं ज्ञानं तर्केण वा
प्रमाणेन वा परिप्रश्नेन/वादेन वा न जायते । तत् ज्ञानं शोषितानां/दूरीकृतानां
जीवनानुभवस्य श्रवणात् प्राप्यते । दूरीकृताः के इति निर्णयं साम्यवादिनेतारः
कुर्वन्ति । पुनश्व एते कथं दूरीकृताः इति निर्णीतं इति प्रष्टुं कस्यापि अधिकारो
नास्ति । तेषां सिद्धान्तानुसारं केवलं शोषितानां(इति कैश्चिदेव मन्यमानानाम्)
जीवनानुभवः एव मान्यः भवति, न तु अन्यत् किमपि । अतः सर्वाणि अपि पारम्परिकाणि
शास्त्राणि, आधिकारिकाश्च ग्रन्थाः तिरस्कर्तव्याः । यतो हि तेषु
ग्रन्थेषु दमनशीला भाषा अस्ति ।
“The
assumption being made is that reliable knowledge can be obtained without
evidence, reasoning or cross
examination. It can be obtained simply by listening to the
lived experiences of those who have been designated as marginalised groups, and
this designation is fixed by the authorities of this Church and can not be
questioned. Because only lived experience are valid, all traditional and authoritative
texts must be discarded because they contain language that is oppressive.”(Page no. 43)
दीप्ति राव इत्याख्या भारतीया महिला सङ्गणक्षेत्रे अभियान्त्रिकीं
अधीत्य अमेरिकादेशस्य silicon valley इत्यत्र कार्यरता अस्ति । सा अस्वाभाविक्या
इच्छया अमेरिकादेशीयस्य LGBTQ+ इत्याख्यस्य आन्दोलनस्य(सङ्घटनस्य) सदस्या
अभवत् । तत्र प्रवेशात्परं तस्याः ये अनुभवाः तत्र सङ्घटने जाताः तान् सा इत्थं
विवृणोति –
“यदा अहं LGBTQ+ समूहे पूर्णतः प्रविष्टा तदा तत्रत्यानां
सुहृदां भारतविषये सनातनधर्मविषये सुमहान् विरोधः अस्ति इति ज्ञातवती । सनातनधर्मः दमनकारी अस्ति, उच्चनीचजातिभिः
संवलितः अस्ति, अतः सः धर्मः नाशनीयः” इति ते संलपन्ति । भारते सर्वविधसमस्यानां
मूलं ब्राह्मणवादः अस्ति इति ते आरोपं कुर्वन्ति । भारतसर्वकारस्य धनात्मकाः नीतयः
विकासपराः सन्ति इति उच्यते चेत् तत्
दमनात्मकराजनीतेः प्राचारतन्त्रमात्रम् इति ते कथयन्ति । अहं यत्किमपि सकारात्मकं (भारतसर्वकारस्य नीतिः उचिता अस्ति)
अभिप्रायं प्रकटयामि चेत् अत्यन्तम् असभ्यरीत्या ते तत् निराकुर्वन्ति । ते
यवनसंस्कृतेः समर्थनं कुर्वन्ति । यवनमतस्य दमनात्मिका संरचना अस्ति चेदपि, तदीयः
इतिहासः च LGBTQ+विरुद्धतया अस्ति चेदपि तद्विम्रष्टुं ते न
इच्छन्ति । एषा अप्रामाणिकता अस्ति, एषा मतान्धता अस्ति ।“
Lived
experience of Deepti Rao an Indian American software professional in silicon valley
is insightful-----
“As I got deeper into the American LGBTQ+
movement, I noticed that this new group of friends had antagonistic views about
Hinduism and India. They were vocal about Hinduism being oppressive and
casteist and in need of being dismantled. They attributed all the problems in
India to ‘Brahminical Petriarchy’ and called any positive policies and progress
of India as fascist and nationalistic propaganda…. Any alternative view I
presented was rudely dismissed. These individuals supported Muslim culture,
never once wanting to discuss Islam’s anti-LGBTQ+ history and structural oppression.
This is dishonest and bigoted” (Page no. xxxix)
हार्वर्डविश्वविद्यालयस्य राजनैतिकसाहाय्येन
अमेरिकादेशस्य संसदि एकः विधिः पारितः/अङ्गीकृतः । कः सः विधिः ? Islamophobia इत्यस्य उत्पादनं अपराधाय भवति इति । समग्रे
जगति एषः विधिः अन्वेति, न केवलं अमेरिकादेशे । Islamophobia इत्यस्य उत्पादनं कुर्वतां दण्डविधानाय एका
संस्था अमेरिकादेशेन प्रतिष्ठापिता ।
यस्मिन् कस्मिन् अपि देशे केनापि Islam भयमुत्पादयति इति वदति चेत् तत्तद्देशम् अमेरिका दण्डयति । एतत् विडम्बनम्
अस्ति यत् – एतादृशः विधिः अन्यधर्माणां विषये न कृतः । अने
With
the political support of Harvard (University) the US Congress passed a bill
making Islamophobia a crime worldwide and requiring the government to create a special organisation prosecuting
Islamophobia everywhere and to apply US sanctions against countries found
guilty. The irony is that no such protection was offered to other
religions. In parallel, Pakistan
introduced a resolution in the United Nations General Assembly on
‘International Day to Combat Islamophobia’
It stated that ‘Hate speech, discrimination and violence are
proliferating in several parts of world, causing great anguish in the Islamic
world’. Though France desired any such resolution to be inclusive of all
religions and not just for Islam, and India had similar views as well, there
were many Muslim countries supporting the resolution. It was passed with the
decision ‘to proclaim15 March the International Day to Combat Islamophobia’ (Page No xliii)
Harvard
University
Our
research suggests that Harvard University is the epicenter for developing the
discourse and weaponizing it into activism, as well as training thousands of
fighters in this warefare Harward is developed its own community with a vast
network of branches. (Page no. xiviii)
China
is playing a double role: Opposing this idealogy(CRT and etc) at home but
helping those bring to its enemies like US and India. (Page no. xiviii)
Indian
billionaires are supporting this breaking India work at Harvard by actively
funding it and giving it legitimacy knowingly or unknowingly. (Page no. xiviii)
A
large number of Indians are employed by the global left at all levels from the
highest to lowest. They are a key part of this latest incarnation of the
Marxist revolution. The global left operates across national boundaries. (Page
no. xlix)
The
French Marxist, Pierre Bourdieu, further developed the theory that culture is a
form of capital. His contribution to Marxism was to formulate the relationship
between culture and power. He stated that people in power use culture as an
emotional tool to exploit the public and protect the status quo of their power.
Culture contains deep, and invisible, safety nets, and emotional shock
absorbers. People exist with their economic miseries without revolting because
the cultural structures protect the power structure. In this way, culture has
hidden structures that enable the elites to assert power over the masses.
Critical
theorists feel that capitalism is subverting the materialistic revolution by
diverting the masses away from such a revolution. Capitalists are promoting
emotional 'good feelings' among the working class that deflects their attention
away from real-world physical experiences. Culture has been co-opted by
capitalism, and the advertising industry is one of its devices. Popular culture
and advertising serve as a soothing Do balm that the ruling elites use to
brainwash the masses and placate them. The goal is to channel their energies
away from any social and political activism. Consumerism thus, is the enemy of
social and political activism.
Herbert
Marcuse, the young follower of Horkheimer, famously explained how capitalism
had won over the oppressed masses psychologically: (Page No. 09)
It
is important to note that Marxism had only two classes: bourgeoisie and
proletariat. The bourgeoisie was one single class and there were no separate
minority groups or identities each vying for victimhood status and power. The
replacement of one single victim class with several is a major recent
adaptation of Marxism.
The
focus of Critical Theory and all its offshoots and variations was to attack
Western institutions and norms in order to tear them down. It was to disrupt
traditional thinking that schools imparted and what the masses believed. (Page
No. 10)
In other words, all claims to truth are culturally biased and
are constructed by the social power of the elites. One consequence of such a
theory is that a critic cannot offer counter aurguements against any
Postmodernist statement using scaintific evedence and methedology, because the critisism would
itself be rejected as a product of elitism.(Page-12)
New York
Times इत्यस्याः पत्रिकायाः प्रथमस्थाने विक्रीयमाणस्य पुस्तकस्य लेखकः,
National Book Award इत्यस्य भाजनः Ibram X Kendi इत्याख्यः कथयति यत् पूर्वं कृतस्य तारतम्यस्य
निर्मूलनं वर्तमाने तारतम्येन एव निवारणीयम् । वर्तमाने क्रियमाणस्य तारतम्यस्य
निर्मूलनं भविष्यदि तारतम्येन एव कर्तव्यम् ।
The number one New York Times best selling author and
National Book Award winner Ibram X Kendi, has famously said –
The only remidy to past discrimination is present
discrimination. The only remidy to present discrimination is future
discrimination.
See:
Ibram X. Kendi Defines What to mean to be an antiracist '. Penguin RERRI on
April 30, 2022
(https://www.penguin.co.uk/articles/2020/june/ibram-Definition-of-antiracist.htm)
[1] Sanskrit is being declared an
oppressive language. Critical Race Theory argues that languages contain
structures of “White Privilege” in the case of the west, and by extension,
Sanskrit perpetuates Brahmin privilege as a tool for exploiting the lower
castes and Dalits. (Snakes in
Ganga Page no. XXXVII)
[2] 'Critical Legal Theory'. Cornell Law School. Retrieved on April 30,
2022 (https://www.law.cornell.edu/wex/critical_legal_theory); (Kennedy and
Klare 1984)
No comments:
Post a Comment