पञ्चमाध्यायः
सामाजिकरूपेण उत्तरदायित्वहीनं
काव्यम् ’रामायणम्’ अस्ति इति चित्रितम्
वैदिककालिक-सामाजिकदमनस्य
प्रचाराय विद्यमाना योजना एव रामायणस्य रचना इति पोलाकस्य दृष्टिकोणः अस्ति ।
पोलाकः १९८४ तमे
इसवीये संवत्सरे वाल्मीकिरामायणस्य विषये एकम् महत्त्वपूर्णं कार्यं कृतवान्
यन्माध्यमेन संस्कृतग्रन्थानाम् अध्ययनविषये तदीयविचाराणाम् सौष्ठवं निरूपितं
स्यात् । रामायणम् ऐतिहासिकघटनाः आश्रित्य लिखितमिति सः न मन्यते, प्रत्युत
रामायणम् काल्पनिकम् इति । बौद्धानां जातककथाभ्यः पूर्णतः प्रेरिता कथा अस्ति
रामाख्यस्य जनस्य । एतादृशाय कल्पनाय पोलाकेन प्रदर्शितः एकः तर्कः कः इत्युक्ते –
जातककथासु उपयुक्तानां छन्दसाम् अनुकरणं वाल्मीकिः रामायणलेखनवेलायां कृतवान् इति
।
तथापि रामायणम् प्राचीनस्य
’बार्डरिक’सम्प्रादायस्य वीरगीतानां पराकाष्ठायाः प्रदर्शकं स्यात् । अपि च अयं
स्मरणीयः कविः वाल्मीकिः जानपदसाहित्यस्य/लोकसाहित्यस्य कानिचन लक्षणानि अवश्यम्
उपयुक्तवान् स्यात् । यथा बौद्धानां जातककथासु तत्पद्यं भारतीय-साहित्येतिहासस्य
प्रथमाध्यायत्वेन लीलया परिगृहीतम् न तु प्राचीनस्य अन्तिमाध्यायत्वेन ।
रामायणम्
वास्तविकानां घटनानां प्रतिबिम्बरूपम् अस्ति इति अस्माभिः मन्यमानं साम्प्रदायिकं
दृष्टिकोणं अत्र पोलाकः उपेक्षमाणो वर्तते । अत्र ऐतिहासिकानां प्रामाण्यानां
विषये सः चर्चां न करोति । सः रामायणविषये एवं वदति यत् – लोकसाहित्यस्य लक्षणानि
आश्रित्य प्राचीनस्य ’बार्डिक’सम्प्रदायस्य पद्यानि इव चतुरः वाल्मीकिः
रामायणाख्यां वीरगाथां निबद्धवान् । पोलाकः बलात् ऐरोप्यानां बार्ड इत्यभिधानां
कवीनाम् आदर्शं वाल्मीकौ आरोपयति । प्राचीनायां क्रैस्तपूर्वायाम् आङ्लसंस्कृतौ, बार्ड इत्युक्ते राजाश्रये विद्यमानः कविः, अथवा
प्रवासी गायकः यश्च केनापि धनिकेन राज्ञा वा नियुक्तः तदीयपूर्वजानां
स्मृतिगीतगायनाय इत्यर्थः । पश्चात् एषः बार्डिक-सम्प्रदायः लुप्तः अभवत् । किन्तु
तत् पदं तु महाकाव्यस्य लेखक/गायक/निरूपक इत्यर्थं प्राप्नोत् । ते लेखकाः गायकाः
वा पुराणानि/कथाः रचयन्ति इत्यतः तानि पुराणानि इतिहासस्य विश्वसितुम् अयोग्यम्
मूलम् इति मन्यन्ते ।
पोलाकस्य
अनुसारम्, वैदिकब्राह्मणाः बौद्धैः विकासितं साहित्यिकं संस्कृतं(लौकिकसंस्कृतम्)
तदीयस्य आदिकाव्यस्य रामायणस्य लेखनाय उपयुक्तवन्तः/चितवन्तः । एवं कृतम् इत्यतः ते वैदिकानि तत्त्वानि
प्रसारयितुं शक्ताः अभवन् । एतस्य कालस्य अनुसारं सर्वस्य समञ्जनं कर्तुं पोलाकः
वाल्मीकिरामायणस्य कालं १५० बि.सी.ई. (इसवीयपूर्वकालः) इति कल्पितवान् । अस्मिन्
एव काले बौद्धानां कृतयः सुष्ठु निबद्धाः इति सः कथयति । किन्तु अन्ये विद्वांसः
रामायणस्य कालः इतोऽपि प्राचीनः इति अभिप्रयन्ति । एवं चेदपि पोलाकस्य कृते,
रामायणस्य तेन कल्पितः एषः कालः प्रमुखः भवति,
यतो हि वेदानाम् उपरि बौद्धानाम् आक्रमणं विरुध्य रामायणम् लिखितम् अस्ति
इति निरूपयितुं शक्यते ।
सः एवं प्रतिपादयति यत् – रामायणे
राज्ञः शासनस्य प्रधानम् उद्देश्यम् इदम् अस्ति
- ब्राह्मणश्रेष्ठायाः सामाजिकव्यवस्थायाः संरक्षणम् इति । समाजस्य
संरक्षणेन सह राज्ञः प्रधानम् उत्तरदायित्वं/कर्तव्यम् इदम् अस्ति यत्
बाह्यप्रतिरोधानाम् मर्दनम् इति । एतदर्थं सामाजिकाः अवश्यं राजानं
दैवीशक्तिसम्पन्नम् इति शत्रून् च असुरशक्तिसम्पन्नान् मन्येरन् इति । अतः सः
पोलाकः एवं तार्किकरूपेण प्रतिपादयति यत् द्विपार्श्विकी दैवासुरसंरचना रामायणे
इत्थम् कृता अस्ति इति –
· राज्ञि दैविकतायाः आरोपः वैदिकचिन्तनप्रक्रियाकारणात्
भवति । अनेन मनुष्ये इन्द्रजालवत् दैवीगुणाः आरोप्यन्ते । इत्थं दैवीगुणानाम्
आरोपणात्परं राजा निरङ्कुशः भवति । वाल्मीकीये रामायणे, रामे दैवीगुणान्
आरोपयितुं दैवीकरणम् उपयुक्तम् अस्ति ।
अतः सः रामः विभिन्नदोषेभ्यः मुक्तः भवति, सामान्यजनैः साधयितुम् अशक्यं विजयं एषः
साधयितुं शक्नोति । एतादृशस्य दैवीकरणस्य सिद्धान्ताः वेदेषु एव उपलभ्यन्ते इति सः
कथयति ।
· केषाञ्चित् बाह्यानां समूहानां
राक्षसीकरणम्/आसुरीकरणम् एतस्य एव पूरकप्रतिक्रिया अस्ति । सामान्यैः मनुष्यैः
पराजेतुम् अशक्यान् बाह्यजनानाम् असाधारणशक्तिमतः समूहान् शत्रवः इति परिगणन्ति ।
केवलं दैवीशक्तिमतः राज्ञः कारणादेव सामाजिकाः रक्षिताः भवन्ति, राजा च
हिंसामार्गेण एव तादृशान् शत्रून् हन्यात् । रावणः अत्र राक्षसत्वेन आरोपितः अस्ति
। हैन्दवानां नृपाणाम् स्वाधिकारान् सुदृढीकर्तुं एषः वैदिकसिद्धान्तः अन्यान्
बाह्यान् जनान् असुरान् करोति इति पोलाकः अभिप्रैति ।
एतत् दैवासुरद्वैविध्यं
कथं कार्यं करोति इति विवरणस्य प्रदाता वाल्मीकिः अस्ति इति पोलाकः अभिप्रैति । रामायणकालादारभ्य
एतत् दैवासुरद्वैविध्यम् राजधर्मस्य आधारः
अभवत् । एषः राजधर्मः हैन्दवानाम् आदर्शप्रशानरीतिः अस्ति इति पोलाकः अभिप्रैति । सनातनधर्मः अविनाशी
अपरिवर्तनीयः च अस्ति इत्यतः राजधर्मः अपि निरन्तरं प्रवर्तेत इति भारतीयानां
विचारः अस्ति इति पोलाकः कथयति । अत एव सः कथयति – इदानीमपि हैन्दवसमाजः एवं
निर्वक्तुं शक्यः यत् प्रशासकः दैवीगुणानां
माध्यमेन बाह्यशत्रूणां निग्रहं करोति इति ।
पोलाकस्य अन्यः
प्रमुखः अभिप्रायः अयम् अस्ति यत् - रामायणस्य प्रधानपात्रेषु स्वतन्त्रेच्छायाः
अभावः अस्ति इति । अन्यैः शब्दैः एवं वक्तुं शक्यते यत् – तानि पात्राणि तथा
वर्तितुं विवशाः(वशीभूताः) सन्ति इति । सः पोलाकः आरोपयति यत् – हैन्दवाः राजानः
प्रजानां निग्रहार्थं, महिलाः च अधिकारात् दूरे स्थापयितुं रामायणस्य उपयोगं
कुर्वन्ति स्म इति । अस्मिन् विषये सः एवं कथयति यत् –
·
रामः सम्पूर्णरूपेण दशरथस्य विधेयः अधीनः इव चित्रितः । सः तु हैन्दवानां कृते
एतादृशम् उदाहरणम् अस्ति यत् वशीभूतजनस्य चिन्तनम् इव ।
·
स्वीयां मुक्ताम् इच्छां पूरयितुं स्वपत्या सह प्रवृत्ता कुटिला महिला इव
कैकेयी चित्रिता । कौसल्या सीता च
अन्याय्यं भवति चेदपि पत्युः विधेये इव
चित्रिते स्तः ।
सः एवं स्वपक्षमुपस्थापयति यत् –
हैन्दवान्
प्रचोदयितुं, १२ शताब्दात् षोडशशताब्दपर्यन्तम् आक्रमणं कृतवतः मुसलमानजनान्
राक्षसत्वेन निरूपयितुं रामायणस्य उपयोगः कृतः इति । हैन्दवाः राजानः आत्मानम् एवं
प्रदर्शयन्ति स्म यत् दैवांशसम्भूताः वयं स्मः,
वयं प्रजाः संरक्षामः, मुसल्मानाः राजानः राक्षसाः सन्ति, तेषां हननं कर्तव्यम्
चेति । सः अनन्तरम् एवं वदति यत् – आधुनिके काले भारतीयजनतापक्षेण/विश्वहिन्दूपरिषदा
च रामायणम् एम् उपयुक्तम् यत् – वयमपि प्राचीनाः हैन्दवराजाः इव स्मः । अतः
अस्माभिः मुसल्मानराजानां राक्षसत्वम् प्रतिपाद्य अवश्यं संहर्तव्याः इति । एतादृशकार्यार्थं रामायणम् आन्तरङ्गिकरूपेण
सहकरोति इति पोलाकः वदति । एषा पोलाकस्य रामायणनिन्दायाः रीतिः अस्ति ।
एतादृशाः
विचाराः वेदेषु कथम् आरब्धाः? अनन्तरं रामायणे कथं जनप्रियाः अभवन् ? अन्ते हैन्दवेषु
मतीयभावनाम् आक्रमणप्रवृत्तिं च कथम् उत्पादितवन्तः इति पोलाकः यत् वर्णयति तस्य
मूलं अहम्(लेखकः) सम्प्रति परीक्षिष्ये ।
दैवीकरणस्य कल्पनम्
पोलाकः वदति – वेदेषु
दैवीकरणस्य आसुरीकरणस्य च अनेकानि उदाहरणानि सन्ति । तत्र एकः सामाजिकः समूहः
उन्नतस्थानसम्मानादिना दैविकः इति
प्रदर्श्यते, अपरः सामाजिकसमूहः राक्षसः इति चित्रीक्रियते । विष्णुः कथं असुरेभ्यः जयं प्राप्तवान् ?
(पोलाकः राक्षसेभ्यः इति अनूदितवान्) तदीयाः सम्पदः स्वायत्तीकृत्य देवताभ्यः कथं वितीर्णवान् इति वेदाः प्रतिपादयन्ति इति
सः वदति । पोलाकस्य दृष्ट्या विष्णुः अत्र दैविकशक्तेः प्रतिनिधिः भवति । राज्ञि
दैविकशक्तिम् आपादयितुं ब्राह्मणाः अयजन्त । ब्राह्मणैः कृतायाः एतस्याः
दैवीकरणस्य प्रक्रियायाः कारणतः राजा सामान्य मनुष्य एव न भवति, सः सर्वेषाम्
मनुष्याणाम् अपेक्षया श्रेष्ठः भवति । अतः
एतादृशपुराणानाम्/कथानाम् आधारेण राजा परिपूर्णाधिकारं प्राप्नोति इति पोलाकः
अभिप्रैति ।
दैवीकरणस्य स्रोतः वेदाः इति प्रतिपाद्य पुनः प्रत्यावृत्य पुराणानां कः
अर्थः इति पोलाकः विवृणोति –
पुराणानाम् अर्थकथनवेलायां अहं प्रपञ्चस्य
क्रमीकृतं(वर्णाश्रमभेदेन) व्यवस्थां उल्लिखामि । एषा व्यवस्था नैरन्तर्येण
व्यापकरूपेण च तत्रत्यसंस्कृत्या सह सम्बद्धा भवति । एषा व्यवस्था अपरिवर्तनीयं काल्पनिकं
सामाजिकजालम् अस्ति यस्मिन् बहुमुखी-अनुभवाः
द्रष्टुं शक्यन्ते । वास्तविकतां विवरीतुम् अपेक्षिता काल्पनिकी शक्तिः एषा अस्ति या अत्यन्तापेक्षिता वर्तते । पौराणिकदृष्ट्या रामायणम् याथार्थ्यस्य
अन्यान् अंशान् न पुरस्करोति ।
रामायणस्य सामाजिक-आयामस्य विषये स्पष्टं
वक्तव्यं चेत् तत् कस्यापि एकस्य जनस्य कल्पनाम् आधारीकृत्य प्रवर्तते यच्च
पोलाकस्य अनुसारं तु (वर्णव्यवस्थाख्यम्)काल्पनिकं सामाजिकजालम्(Conceptual Grid) अस्ति ।
पोलाकः रामायणादिग्रन्थविषये तस्य राजनैतिकतन्त्रम् अस्ति इति सङ्केतयति ।
अनन्तरं सः वदति – समाजस्य गभीरं संरचनास्वरूपम् आश्रित्य वेदाः प्रवर्तन्ते
। अत्र सामान्यमनुष्याः अत्यन्तं दुर्बलाः इति गण्यन्ते । मनुष्यस्य
स्वाभाविकदौर्बल्यस्य कारणतः समाजिकाः राजानम् आश्रित्य जीवन्ति इति सः वदति । सोऽपि राजा सामान्यः राजा न । सः अवश्यं विष्णोः
गुणान् धारयित्वा स्वप्रजाः संरक्षितुं समर्थः भवति । सः तादृशान् नृपान् भगवतः
अनन्तरवर्तिनः(Second order being) इति (भारतीयाः/वेदाः मन्यन्ते इति)कथयति
। रामायणम् एतस्य चिन्तनस्य प्रथमं वाहकम्
अस्ति । अस्य वाहकस्य माध्यमेन प्राचीनवैदिकरीतयः साम्प्रदायिकानां भारतीयानां
दैनन्दिनजीवनस्य भागाः एव सन्ति । पोलाकः एवं प्रतिपादयति –
रामायणस्य एताः प्राचीनरीतयः परामर्शरूपाः,
सङ्कीर्णाः, शक्तिशालिन्यश्च सन्ति । एते राजानः देवात् अनन्तरवर्तिनः इति
वस्तुस्थितिः अस्ति । एते राजानः
दैवीगुणयुक्ताः मानवाः सन्ति । एते नश्वरदेवताः सन्ति । एते साम्प्रदायिकभारते
प्रजानां सामाजिकराजनैतिकप्रतिनिधयः भवन्ति । सुरनरयोः मध्यवर्तिनः एते राजानः
मनुष्यरूपेण भुवि चरन्तः देवताः सन्ति ।
सः वदति यत् ब्राह्मणस्य प्राधान्येन सः यज्ञं
कृत्वा राजनि विष्णोः गुणान् सामर्थ्यानि च आपादयति । तस्य प्रतिफलत्वेन राजा
अवश्यं ब्राह्मणान् संरक्षेत् । अनेन
ब्राह्मणाः एतादृशम् अन्यैः निर्वोढुम् अशक्यं
निर्णायकपात्रम् अनुवर्तयितुं शक्नुवन्ति । अतः क्षत्रियः राजा, तस्य राज्ञः दैविकस्वरूपं
साधयितुं प्रवृत्ताः ब्राह्मणाश्च समाजस्य योगक्षेमाय अनिवार्याः सन्ति । पोलाकस्य
दृष्ट्या एष एव राजधर्मस्य सारः अस्ति
।
पोलाकः राजधर्मं महाभारतेन सह अपि बध्नाति –
अहं महाभारताख्यस्य महाकाव्यस्य एकं भागं साम्प्रदायिकं राजनैतिकं धर्मशास्त्रं
राजधर्माख्यं विभागं पृथक् कृत्वा
प्रदर्शयामि । सः तत्र एनं विषयं उल्लोखति –
राजानं विरुध्य कोऽपि मनुष्यः कार्यं करोति
चेत् सः सुखं न प्राप्नोति(रामायणम् III 38/20)। सः स्वयं अपि न
प्राप्नोति, तस्य निकटवर्तिनःभ्रातृपुत्रमित्रादयः... वा न प्राप्नुवन्ति । राज्ञः
याः सम्पदः भवन्ति ताः स्वीयाः इव रक्षणीयाः ।
ताभ्यः सम्पद्ब्यः अन्तरालः रक्षणीयः ।
ततः कस्यापि वस्तुनः स्वीकरणम् इत्युक्ते मरणवत् भयकारकम् इति मन्तव्यम् ।
कस्यापि वस्तुनः स्पर्शः क्रियते चेत् नाशः भवन्तः नश्यन्ति ... । राजा तस्य
प्रजानां हृदयानां हृदयम् भवति, आधारः भवति, आश्रयः भवति,आत्यन्तिकसन्तोषः च भवति
। प्रजाः तदीयस्य नृपस्य आश्रयणेन
इदानीन्तनस्य प्रपञ्चस्य विजेतारः निश्चयेन भवन्ति, भविष्यत्कालिकस्य प्रपञ्चस्यापि विजेतारः
भविष्यन्ति ।(म.भा.XII.68.37-59)
अनन्तरं पोलाकः एनं दृष्टिकोणं वाल्मीकिना सह
सम्बध्नाति । इत्थम् – वाल्मीकेः पद्यस्य पठनेन कोऽपि जनः विशिष्टं प्रभावं
प्राप्नोति यत् राजधर्मस्य सिद्धान्तः एक एव, तस्य राजधर्मस्य बलवर्धनं अस्य
पद्यस्य उद्देश्यम् अस्ति इति । अत्र अवधार्यताम् यत् – पोलाकः तस्य वादस्य
सहायकत्वेन केवलं महाभारतस्य एकं पद्यम् उल्लिखति । तच्च पद्यम् तस्मिन् महाभारते
विद्यमानानेषु बहुषु अभिप्रायेषु एकस्य अभिप्रायस्य द्योतकम् अस्ति । एतत् पद्यं कस्मिन्
सन्दर्भे प्रयुक्तम् इति सः न विवृणोति । सः एनं विषयं गाम्भीर्येण अविचिन्त्य
कथयति यत् रूढिगतस्य राजधर्मस्य
प्रतिपादकम् एतत् पद्यम् अस्ति, अपि च एषः दृष्टिकोणः वाल्मीकेः कृतेः पठनेन दृढः
अभवत् इति ।
कानिचन धर्मशास्त्राणि
ईदृशाणि आसन् यानि पूर्वोक्तरीत्या राजधर्मस्य व्याख्यानं विरुन्धन्ति स्म अथवा
मौनम् आवहन्ति स्म इति पोलाकः अङ्गीकरोति । स्वाभीष्टरीत्या प्रचारयितुं न शक्यते इत्यतः
एतादृशानि धर्मशास्त्राणि अप्रासङ्गिकाणि इति सः तानि तिरस्करोति । पोलाकः
अङ्गीकरोति यत् स्वयं दुर्बले आधारे स्थित्वा एवं कथयन् अस्ति इति । राज्ञः
भूमिकाविषये विदुषां मध्ये चर्चाः जायन्ते स्म, विरुद्धदृष्टिकोणाः च आसन् इति सः
अङ्गीकरोति । वाल्मीकिरामायणविषये तस्य यत् ज्ञानम् अस्ति तस्य उपोद्बलकतया
अपेक्षितान् विषयान् ततः चिनुयाम् इति तस्य आशयः इति सः प्रामाणिकरूपेण अङ्गीकरोति
।
पोलाकस्य कथनानुगुणं
दैवीशक्तिसम्पन्नः राजा धर्मशास्त्रस्य नियमान् पालयेत् इति नास्ति । यतो हि ते
नियमाः केवलं सामान्यशासकानां विषये अन्वियन्ति । दैवीगुणसम्पन्नस्य राज्ञः
प्रत्येकं प्रजाः राज्ञः अपेक्षाः आदेशान् च स्पष्टतया पालयेयुः । अतः
वैदिकसंस्कृतौ राज्ञः दैवीकरणं तं निरङ्कुशाधिकारिणं करोति । वाल्मीकीये रामायणे
रामेण उक्तम् एकं वाक्यं १० उद्धृत्य रामः स्पष्टरूपेण निरङ्कुशाधिकारी आसीत् इति पोलाकः निरूपयितुम् इच्छति ।
रामायणे आदौ दैवीगुणसम्पन्नः राजा इति विषये पोलाकः किमर्थं विशेषावधानं ददाति ?
पौर्वात्यनिरङ्कुशवादः सार्वभौमिकस्य
उत्तरदायित्वस्य न्यायिकविधानेन आबद्धः नास्ति, दैविकनिष्ठया आबद्धः अपि नास्ति
इति सः प्रतिपादयति । तस्य एतादृशी भूमिका
तस्मै ईदृशम् एकं द्वारम् उद्घाटयति यन्माध्यमेन सः इदं प्रदर्शयितुं शक्नोति यत् –
भारते केनापि उत्तरदायित्वेन विना, नियमस्य बन्धनेन विना च जनान् दमयितुम्
दैवीगुणयुक्तः राजा अधिकारं प्राप्नोति इति । ईदृशेन व्याख्यानेन ज्ञायते यत्
कोऽपि धार्मिकः निर्बन्धः दैविकराजं न अन्वेति/संबध्नाति । यतो हि दैविकः राजा
धर्माधारितसंस्थातः राजाधिकारं न प्राप्नोति । तत्र सामान्यानां राज्ञां केचन निर्बन्धाः
भवन्ति । दैविकराजाः साक्षात् विष्णोः सकाशात् शक्तिं प्राप्नुवन्ति । ताः शक्तयः
ब्राह्मणैः अनुष्ठीयमानानां यज्ञानां कारणतः भवन्ति ।
पोलाकः इदं लक्ष्यीकरोति यत् – राज्ञः
राजधर्मस्य च मध्ये अपेक्षितः भेदः अस्माकं महाकाव्येषु आदरं न प्राप्नोति इति ।
एषा भेदकल्पना मूलतः मध्ययुगीना अस्ति । एषा ऐरोप्या न्यायिककल्पना अस्ति । पाश्चात्यभारतीययोः
आदर्शभूतराजधर्मयोः मध्ये विद्यमाने भेदे संवेदनशीलता अस्ति इति नाङ्गीक्रियते चेदपि सः बलात् भारतीयपरिस्थितौ पाश्चात्यानाम् राजधर्मस्य आदर्शान्
आरोपयति । भारतस्य विषये ऋणात्मकम् अभिप्रायम् आकलयितुं सः पोलाकः तत्र भेदं दर्शयति । ऐरोप्यदेशानां
मध्यकालिके इतिहासे राज्ञः राजधर्मस्य च मध्ये औपचारिकः भेदः आधिक्येन दृश्यते ।
एषः भेदः wedge रूपेण कार्यं करोति यश्च राजधर्मस्य उपरि पन्थाह्वानानि निर्बन्धांश्च
अनुमन्यते । एषः कुप्रसिद्धस्य राज्ञः दैविकाधिकारस्य विनाशस्य आरम्भः अस्ति । एषः
उपक्रमः पाश्चात्यानां राजनैतिकविकासाय बाधकः भवति इति विद्वांसः अभिप्रयन्ति ।
एतद्विपरीतत्वेन भारते तादृशः भेदः एव नास्ति चेदपि प्राच्यनिरङ्कुशाधिपत्यं
प्रबलयति इति पोलाकः अभिप्रैति । अतः भारतं पाश्चात्यदेशाः च भिन्नाः इति सः वदति
। राज्ञः दैविकाधिकारस्य विषये पाश्चात्यानां कल्पनाकारणतः पाश्चात्याः विकासं
प्राप्तवन्तः, भारतीयाः तु तथा कर्तुं न पारितवन्तः ।
पोलाकस्य विश्लेषणं दोषपूर्णम् अस्ति । पाश्चात्येषु
राज्ञः दैवीगुणाः अब्रहामीयान् नियमान् आश्रित्य प्रवर्तन्ते । एतस्य अयमर्थः यत् – एतत् दैविकं चित्तम्
आश्रित्य चलति । एतत् पूर्वनिश्चितेन नियमेन बद्धं सत् स्वातन्त्र्येण
कुप्रसिद्ध्या च कार्यनिर्वहणं करोति । भारतीयपरिस्थितौ/परिप्रेक्ष्ये दैविकः राजधर्मः धार्मिकपद्धतिम् आश्रयते
। एतत् भगवन्तम् महाविष्णुम् अपि
अविहाय अन्तर्निर्मितेषु नियमेषु सर्वान् बद्धान् करोति । एतस्य परिणामतः संस्कृतकाव्येषु राज्ञः
राजधर्मस्य/राजाधिकारस्य च मध्ये भेदः न प्रदर्श्यते इत्यतः सः भेदाभावः राजानं तस्य परिमितिभ्यः न उन्नयति पोलाकस्य कथनस्य
विरुद्धतया ।
सनातनः दैवीगुणसम्पन्नः राजा तस्य
निरङ्कुशाधिकारं प्रतिष्ठापयति इति तदीयं कथनं प्रमाणीकर्तुं सः पोलाकः तैत्तिरीयब्राह्मणस्य उदाहरणं प्रयच्छति । तत्र एवं वर्णितमस्ति इति
सः ब्रवीति – राजवंशस्य परिशुद्धीकरणकार्यक्रमे (एतादृशः कार्यक्रमः यवनमते अस्ति
। सनातनधर्मानुगुणं तु पञ्चगव्यं निर्माय पुण्याहः इति सम्प्रदायः अस्ति यश्च
व्यक्तिविशेषस्य निमित्तमिति नास्ति, कस्यापि जननाद्यशौचनिवृत्तिसमये अथवा
वैदिककार्यक्रमस्य आरम्भे एतस्य विधेः अनुष्ठानं क्रियते, यजमानस्य, समेषां
परिवारजनानां च यागाद्यनुष्ठानाधिकारसिध्यर्थम्) राजा यदा विष्णोः/वामनस्य इव
त्रीणि पदानि विन्यस्यति तदा स्वयमेव विष्णुर्भवति येन त्रिभुवनस्य उपरि विजयं
साधयति इति । पोलाकस्य एतत् प्रमाणं/हेतुः
बलहीनम्(हेत्वाभासः) अस्ति । विष्णुत्वस्य प्राप्तिः वैयक्तिकसामर्थ्यस्य विषयः
इति एतादृशेन आचरणेन कथं वा प्रमाणीकृतं भवति ?
किमर्थम् एतत् परमात्मना निर्मितम् अथवा परमात्मना नियन्त्रितम् इति सिद्धान्तानुगुणं
साङ्केतिकम् आचारणम् इति नोच्यते ? पोलाकः तैत्तिरीयवाक्यस्य एतत् तात्पर्यं न
परिगणयति । एतद्विपरीततया सः एवं आग्रहेण परिगृह्णाति यत् –
इत्थं (तदीयमतीयकल्पनानुगुणम्) शुद्धीभूतस्य राज्ञः कर्तव्यं तु ब्राह्मणानाम् अधिकारस्य
रक्षणम् इति । सः एवं लिखति – एकवारम् एवं सृष्टः राजा सदाचारस्य प्रतिज्ञां
करोति, वचनं च ददाति यत् – अस्यां पृथिव्यां लब्धजन्मनां ब्राह्मणानां रक्षां
करोमि, ब्राह्मणीयसामाजिकसंरचनां संरक्षामि इति । अन्यैः शब्दैः एवं वक्तुं शक्यते
– पोलाकस्य दृष्ट्या राज्ञः आद्यं कर्तव्यं तु ब्राह्मणानां प्राबल्यस्य
संरक्षणमेव ।
एतत् कर्तव्यं एवञ्च एतदेकमेव कर्तव्यं
राजधर्मस्य मूलम् इति पोलाकः अभिप्रैति । धर्मः राजानम् एव आश्रित्य तिष्ठति इति
सः प्रमाणयितुं महाभारतस्य कानिचन चितानि अपूर्णानि पद्यानि उदाहरति –राज्ञः धर्मः
“रक्षणम्” अस्ति, एतद् रक्षणमेव प्रपञ्चं
परिपालयति । सर्वाः प्रजाः धर्मम् आश्रित्य जीवन्ति, धर्मश्च राजानं अवलम्ब्य
तिष्टति । किन्तु राजा कर्तव्यबुध्या किं
वस्तुतः रक्षेत् ? पोलाकः एवं कथयति –
राजा विशेषतः ब्राह्मणानां तपस्विनां रक्षणं
करोति । ... एतत् जीवनस्य सुरक्षायाः वरदानम्
अन्यैः ब्राह्मणभिन्नैः दुर्लभ्यम् अस्ति । किञ्च अनेनैव समग्रा
ब्राह्मणीयसामाजिकसंरचना यागादिसम्प्रदायः जीवति, प्रपञ्चः च रक्षितः भवति ।
सारतः वक्तव्यं चेत् – पोलाकः नैरन्तर्येण
राजधर्मस्य उपरि इतिहासे एवम् अधोलिखितान् आरोपान् करोति –
·
राज्ञः मौलिकं कार्यं तु
ब्राह्मणानां संरक्षणम् ।
· ब्रह्मणानां सुखमयजीवनम् अत्यावश्यकम् येन ते वैदिकान्
यागान् अनुष्ठाय ब्रह्माण्डस्य समतोलनं
कुर्वन्ति ।
· राज्ञः अपरिमिता शक्तिः कियद्वा
दमनात्मिका भवतु, तथापि तत् समर्थ्यते ।
पावित्र्यस्य (ब्राह्मणैः सम्बद्धम्)
प्रशासनस्य (क्षत्रियैः सम्बद्धम्) च विषययोः संरक्षणं कृत्वा कृते प्राधान्यं प्रादायि इति तस्य कथनं तु सत्यमेव
यद्यपि तथापि पोलाकः राज्ञः अन्यकर्तव्यानां विषये मौनम् आचरति । सः अन्यानि
शास्त्राणि नयेन उपेक्षते, यथा अर्थशास्त्रम् । अर्थशास्त्रे तु सर्वासां प्रजानां
योगक्षेमं रक्षितुं कारणानि स्पष्टतया विव्रियन्ते, किञ्च योगक्षेमयोः रक्षणं कथं
कर्तव्यमिति सूच्यते । समेषां आर्थिककल्याणस्य सुनिश्चयः , पर्यावरणस्य
समतोलनसम्पादनम् च राजधर्मस्य प्रधानं तत्त्वद्वयमिति अर्थशास्त्रं प्रतिपादयति ।
के.एस्.कण्णन्-वर्यः (वैयक्तिकसंवादवेलायाम्
उक्तवान्) अधोलिखितैः उदाहरणैः रामायणानुगुणं राज्ञः कर्तव्यानि कानि इति कथनमुखेन
पोलाकस्य आक्षेपानां समाधानं ददाति –
रामपट्टाभिषेकसमये दशरथः राजसभाम् आयोजितवान्
तत्र न केवलं ब्राह्मणाः आसन्, अपि तु
नगरप्रमुखाः, ग्रामप्रमुखाः च आसन् । एतत् निरङ्कुशशासनात् शासननिर्णये सामाजिकानां
समावेशस्य शासनरीतिः उत्तमा इति सूचयति ।(रामायणम्
२.२)
राजा कदापि अत्र स्वेच्छानुगुणं शासनं न
कृतवान् । सः धर्मशास्त्रैः बद्धः असीत् । सः परिषदः जनसभायाश्च मार्गदर्शनं प्राप्नोति स्म । पथभ्रष्टस्य
राज्ञः बहिष्कारः शक्य आसीत् ।
दुर्व्यवहारकारणात् सगरपुत्रस्य राज्ञः बहिष्करणस्य उदाहरणं रामायणे अस्ति
।(रामायणम् १.३८.२१)
रामायणे २.६७
इत्यत्र अराजकतायाः अपायाः वर्णिताः । तत्र
ब्राह्मणानाम् अपेक्षाणां सम्पूर्तिं अतिरिच्य
राज्ञः प्रमुखम् उत्तरदायित्वम् अन्येषां जनानां हिताय कार्यकरणम् इति
वर्णितम् ।१६
यथा राजा तथा प्रजाः ।
अतः राजा प्रजानाम् आदर्शरूपेण आचरणं कुर्वन् भरणं कुर्यात् । (रामायणम् २.१०९.९)
शत्रूणाम् उपरि
आक्रमणसमये अपि राज्ञा केचन नियमाः पालनीयाः आसन् । यथा – शयानानां, निरायुधानां,
स्त्रीसङ्गे विद्यमानानां, मधुमत्तानाञ्च उपरि आक्रमणं न कर्तव्यम् ।(रामायणम्
४.११.३६)
रामः नियमिततया मन्त्रिभिः सह मन्त्रणां कृत्वा पश्चादेव
निर्णयं करोति स्म । (रामायणम् ६.४१.५८ )
सर्वाः प्रजाः धर्मानुगुणं
जीवनं कुर्वाणाः रामम् आदर्शं मन्यन्ते स्म । (रामायणम् – ६.१३१.९८)
दैविकः राजा
निर्बन्धरहितः सन् निरङ्कुशः इव प्रवर्तते इति पोलाकस्य दृष्टिकोणस्य
विरुद्धतया एते विषयाः सन्ति ।
आसुरीकरणम्
दैवीकरणम्-आसुरीकरणम्
चेति द्विपार्श्विकसंरचनायां दैवीकरणं पोलाकः कथं प्रतिपादयति, तच्च राजधर्मस्य
आधारत्वेन कथमस्ति इति अहं दर्शितवान् । पश्चात् सः एतादृशस्य द्वैविध्यस्य अपरं
ध्रुवं गृहीत्वा आसुरीकरणस्य पृष्ठतः का राजनीतिः अस्ति इति कल्पयति । रामः दैविकं
मानुषञ्च स्वरूपं धृतवान् इति विषये पश्चिमदेशीयाः संस्कृतज्ञाः सन्दिग्धमानसाः
सन्ति । एनां सन्दिग्धतां वयं रावणस्य आसुरप्रवृत्तेः अवगमनेन निवारयितुं
शक्नुमः । सः पोलाकः एवं लिखति –
रामायणस्य नायकस्य
दैविकस्थानगता समस्या मौलिकरूपेण अस्माकं एतद्विषयिणीं धारणां नियन्त्रयति । सा च
निश्चयेन पाश्चात्यानां पाण्डित्यम् अनिश्चिततया व्याप्नोत् । तत्रत्यानां
केषाञ्चित् विस्तृतविवरणात्मकानां पद्यानां विमर्शात्मकस्य प्रभावोत्पादकस्य च
अध्ययनस्य निराकरणं सूक्ष्मविश्लेषणेन
कर्तुं शक्यते । तत्र एकम्
उदाहरणम् रामयणस्य अविभाज्य-अङ्गत्वेन
विद्यमाना रावणस्य वरस्य कथा ।१७
पोलाकः वदति – रावणस्य
आसुरीकरणस्य आरम्भः तस्य वरप्रदानेन भवति, येन दैविकत्वापादितस्य राज्ञः अपेक्षया
अधिकशक्तिशाली सः भवति । सः लिखति –
सहस्रवर्षाणां
उग्रतपस्यायाः निमित्तं ब्रह्मणा रावणाय प्रदत्तः सः वरः एवंगुणविशिष्टः आसीत् –
सः रावणः केनापि देवेन, दानवेन, गन्धर्वेण, पिशाचेन, पक्षिणा, सर्पेण वा कदापि हतः
न भवेत् इति । एतत् सामान्यतः
इतिहासपुराणादिषु नैजरूपेण चित्र्यते यत्
तपसः आचरणेन प्रपञ्चस्य परिपालकाः
देवताः/देवाः(ब्रह्मविष्णुमहेश्वराः) आगृहीताः/वशीभूताः भवन्ति येन ते वरं दातुं न इच्छन्ति चेदपि दुष्टशक्तिभ्यः वरं
प्रयच्छन्ति । यान्त्रिकरूपेण राक्षसानां स्वमरणाय कियमाणं तपः देवतानां प्राबल्यं
विच्छिद्यात् । तच्च प्राबल्यं देवताभिः
सागरमथनवेलायां महता श्रमेण अमरत्वप्राप्त्या सम्पादितम् त्रिविष्टपम् अस्ति ।
किन्तु एतादृशं वरप्रदानं तस्य एव त्रिविष्टपस्य नाशार्थं प्रवर्तते । १८
उपरितने उल्लेखे
पोलाकः तपस्यायाः त्याग्स्य च दोषपूर्णं अनुवादं एवं करोति यत् Self Mortification इति । एतत् जूडॊ
क्रिश्चियन् सन्यासत्वस्य प्रक्षेपणम् अस्ति ।
एतदतिरिच्य - १. वरप्राप्तेः परं
दुर्व्यवहारस्य प्रदर्शनेन रावणः शत्रुः अभवत् नान्यथा, २. सः ब्राह्मणश्चेदपि
महामुनेः पुत्रः चेदपि सः दुष्टः इत्येव गृह्यते इति हैन्दवान् अत्र बोधयन्ति ।
पोलाकः रामायणस्य एतादृशं महत्वं उपेक्षते । ब्राह्मणाः सदा उत्तमाः भवन्ति इति
रामायणादिषु प्रतिपादितम् इति कथयितुं (केनापि उद्देशेन) प्रवृत्तस्य तस्य
पोलाकस्य विचारं प्रायः एषः अभिप्रायः(ब्राह्मणश्चेदपि ....) भञ्जयति ।
रावणः
असामान्यशक्तिसम्पन्नः मानवः अस्ति ।
केवलं दैवीगुणसम्पन्नः रामः तं संहर्तुं शक्नोति, अपि च अनया रीत्या
प्रजानां संरक्षणं कर्तुम् अर्हति । पोलाकः कथयति यत् एषः सम्बन्धः वेदेषु
विद्यमानम् एकं प्रमापितं सूत्रम् अस्ति । एतत् मान्त्रिकं रूपविज्ञानम् अस्ति,
यच्च पुराणानाम् आरम्भाकालात् अपि पूर्वतनम् अस्ति, पोलाकस्य दृष्ट्या वैदेशिकैः
इण्डो-आर्यजनैः निर्मितम् इति –
वरप्रदानम् भारतस्य
पुराणानां एकं “मार्फीम्” अस्ति ।
एतत् आर्यभारतीयजनानां आरम्भिकं
स्तरं प्रति प्रत्यावृत्तम् इति भासते । स्वाभाविकरूपेण आरम्भतः अस्तित्वहीनस्य जन्तोः
अथवा घटनायाः माध्यमेन वरदानस्य प्रतीकारार्थं बलं दीयते । एतत् सर्वदा वारं वारं प्रवर्तते यच्च पूर्णरूपेण नैसर्गिकतया सम्भवनीयतायाः दूरे
एव भवति१९ ।
अतः पोलाकः सम्प्रति
विदुषां निकटे निवेदयति यत् – आर्याः यानि पुराणानि रचितवन्तः तत्र रावणस्य
वरप्रदानप्रकरणं अपि च दैवीशक्तिसम्पन्नं राजानं च व्याख्यान्तु इति ।
दैवीशक्तिसम्पन्नस्य राज्ञः मूलं कल्पनामात्रम् अस्ति । स्वाभाविक्याः
सम्भवनीयतायाः परिधेः बहिः अविद्यमानानां जीविनाम् मध्ये एषा कथा कल्पिता इति सः
अभिप्रैति । अन्यशब्दैः वदामः चेत् -
रामायणस्य केन्द्रे विद्यमानाः
ईदृश्यः संरचनाः मनुष्यस्य कल्पनाप्रवृत्तेः आरम्भिककाले(इत्युक्ते
अविकसितकल्पनाप्रवृत्तिकाले इति) उत्पन्नाः इति पोलाकः अभिप्रैति ।
रामायणस्य
समाजशास्त्रीयः विमर्शः
रामायणं “राजनीतेः
प्रतिक्रियात्मकप्रवृत्तेः निमित्तं सिद्धं साधनम्” इति पोलाकस्य वादं अहम् अत्र
परिशीलयामि । “तदानीन्तनाः कवयः राज्ञाम्
आस्थाने आजीविकेच्छवः उद्योगिनः आसन् । अतः ते क्षत्रियप्रेक्षकाणां निमित्तं
काव्यानि ते रचितवन्तः” इति सः पोलाकः प्रतिपादयति । सः स्पष्टरूपेण सूचयति यत्
रामायणस्य मुख्यपात्राणि क्षत्रियाः एव आसन् । कथावस्तु क्षत्रियपात्राणि
केन्द्रीकृत्य एव चलति । वसिष्ठसदृशाः ब्राह्मणाः लघुभूमिकां निर्वहन्ति ।
अन्यजातीयाः इतोऽपि लघुभूमिकां निर्वहन्ति ।
अनन्तरं पोलाकः आग्रहं
करोति यत् – रामायणस्य केन्द्रे विद्यमानः सैद्धान्तिकं सम्भाषणम् एवम् अस्ति
- समाजिकम् आधीन्यं राजनैतिकं प्राबल्यं च
साम्प्रतं “सदाचारस्य शास्वतिकः मार्गः” अभवत् । अन्यैः शब्दैः वदामः चेत् –
सदाचारी सनातनधर्मः राज्ञः प्राबल्यस्य, सामाजिकानां निष्क्रियस्य आधीन्यस्य च
रूपं प्राप्नोत् इति ।
पोलाकस्य एकः मौलिकः
दृष्टिकोणः एषः अस्ति यत् -
अस्मत्सम्प्रदाये (रामायणादिषु) सर्वेऽपि प्रमुखाः जनाः
वैयक्तिकैच्छान्विताः/स्वतन्त्रेच्छान्विताः न भवन्ति । रामस्य भावाः पद्यानाम्
उद्देश्यानुगुणं न भवन्ति । निश्चयेन सः वदति – रामायणे किमपि पात्रम् एवं न चिन्तयति यत् प्रत्येकं
कार्यं किमर्थं मया क्रियमाणम् अस्ति ? इत्येतत् वयं ज्ञातुं न शक्नुमः । यतो हि
रामायणे कोऽपि स्वयं किमपि कर्तुं स्वतन्त्रः नास्मि इत्येतत् न विश्वसिति ।
सामान्यतः पोलाकः रामायणस्य पात्राणां विषये एवं चिन्तयति यत् – कस्यापि कार्यस्य
चयनं कर्तुं अस्वतन्त्राः इति । अतः ते तेषाम् उपरि किम् आपतिष्यति इति न जानन्ति
। एतादृशीं दुस्स्थितिम् अङ्गीकुर्वन्ति इत्युक्ते तत्र न्याय्यं नास्ति इत्यर्थः
इति च । सः पोलाकः लिखति -
”रामायणस्य पात्राणि एवं विश्वसन्ति
यत् स्वस्य सर्वेऽपि स्वतन्त्राः
चयनावसराः निराकृताः इति । तेषां विषये
किं जायमानं अस्ति इति तु तदीयकार्याणां परिणामः एव स्यात् । किन्तु तत् कथमिति ते
न अवगच्छन्ति । परिणामतः ते स्वयम् आत्मानं नियन्त्रयितुं न शक्नुवन्ति ।...
रामस्य अन्येषां च भविष्यं तेषां हस्तक्षेपेण विना एव सिद्धम् अस्ति । तस्य
परिज्ञानम् अपि तेषां नास्ति । न्याय्यं कदापि व्यवहारपथे न प्रविशति ।’२२
प्राचीनायाः
ग्रीकपद्धतेः विरुद्धतया एनं दृष्टिकोणं पोलाकः विरुणद्धि । वदति च –
प्राचीने
ग्रीक(यवन)प्रपञ्चे - भाग्ये प्रापञ्चिकः
आयामः न्याय्यस्य अंशः च वर्तते
इत्यतः देवाः सम्पूर्णप्रक्रियां
न्यययुतां नैतिकक्रमानुसारिणीम् इति द्रढयितुं शक्नुयुः । प्राधान्येन अयोध्यायां देवतानां किमपि पात्रं नास्ति ।
मानवव्यवहाराणां मार्गे यान्त्रिकगुणाः तत्र सन्ति २३।
“देवानां
किमपि पात्रं नास्ति” इति पोलाकः यदा वदति तदा सः “राक्षसेभ्यः पीडिताः ऋषयः
विष्णुं प्रार्थयन्ते” इति वाल्मीकेः वचनम् उपेक्षते । अनन्तरं पुनः इत्थम्
अनुवर्तयति –
अयोध्याकाण्डे मनुष्यः
स्वीयं भविष्यं स्वयमेव निर्मातुं न शक्नोति इति निषेधः अस्ति । तस्य दुःखस्य
कारणमपि निश्चयेन ज्ञातुं न शक्यते । भाग्यम् दैवायत्तम्, कालः, अदृष्टम्,
कृतान्तः, इत्यादिकं कोऽपि अवगन्तुं न शक्नोति । तद्विरुध्य कोऽपि सङ्ग्रामं
कर्तुं न शक्नोति । चयनाय रामस्य कोऽपि विकल्पः नासीत् । कोऽपि न करोति । विकल्पः
अकस्मात् कल्प्यते । क्रिया प्रतिक्रियापेक्षया विशिष्टा नास्त्येव ।
सः कर्मविषये एवं वदति
यत् कर्म इत्युक्ते भाग्यम् । पाश्चात्यानाम् अत्यन्तम् अस्पष्टतायाः पराकाष्टां गतायाः“यान्त्रिकभाग्यम्”
इति कर्मविषयक-परिकल्पनायाः अनुगुणम् अस्माकं कर्मणः तुलनां सः पोलाकः करोति ।
कस्यापि अन्येन सह कोऽपि सम्बन्धः नास्ति । कर्म पूर्वतनकार्याणां परिणामः अस्ति ।
तस्य भविष्यं नूतनक्रियाभिः परिवर्तयितुं शक्यते । एषा एका कारणपद्धतिः यत्र परिणामस्य भागः विलम्बितः भवति इति अस्य
विषये चिन्तनम् उत्तमं भवति ।
रामः तस्य संस्कृतेः
शृङ्खलया बद्धः अस्ति इति पोलाकः कथयति । अतः तस्य विषये किं जायमानम् अस्ति इति
जानाति चेदपि सः “अहं किमपि कर्तुं न शक्नोमि” इति दृढतां/निश्चयं प्राप्तवान् । ग्रीकपुराणेषु वर्णितानां यवनवीराणां अपेक्षया
रामस्य चरित्रं निम्नतरम् इति पोलाकः प्रतिपादयति –
रामायणस्य नायकं वयं
नायकं मन्यामहे इत्येतत् केषुचित् विषयेषु दोषाय भवेत् । सम्यक् विचारयामः चेत् –
अकिल्स्-सीग्फ़्रैड्-रोल्याण्ड्-कुचुलैन्-प्रभृतयः वस्तुतः शूराः सन्ति ये पराजये
प्राप्ते अपि महत्कार्याणि कृतवन्तः । ते अस्मत्तः ऊर्ध्वं सन्ति । वयं तदनुकर्तुं
योग्याः न स्मः । रामः वस्तुतः विभिन्नप्रकारकाणां पितृभक्तिः, विधेयता इत्यादिव्यवहाराणाम्
उदाहरणम् अस्ति ।
अन्यशब्दैः सः वदति –
रामस्य पितृभक्तिः तं स्वतन्त्रप्रवृत्तितः दूरम् अनयत् यच्च ग्रीकवीरेषु नासीत् ।
पोलाकः इतोऽपि उर्ध्वं
गत्वा वक्तुम् इच्छति यत् रामायणम् लैङ्गिकविचारयुक्तम् अस्ति । तच्च
अयोध्याकाण्डे सः महिलापात्राणां परीक्षणेन कथयति । सः एवं वदति यत् – “सम्पूर्णरामायणे
अयोधाकाण्डः सामान्यतः सामाजिकराजनैतिजीवनमिव लैङ्गिकसम्बन्धेषु आसक्तिं वहति”२६
। पश्चात् सः वाल्मीकेः काले महिलानाम् असमानतायाः द्योतकान् श्लोकान्
प्रस्तुतीकृतवान् । तस्मिन् एव काले तादृशी एव समस्या जगति सर्वत्र अन्यसंस्कृतिषु
आसीत् चेदपि तदनुक्त्वा केवलम् एतन्मात्रं दोषत्वेन प्रतिपादितवान्२७
। सः एतानि सर्वाणि लिङ्गसम्बद्धानि
उद्धरणानि मनुस्मृत्या सह सम्बद्धवान्२८ ।
स्त्री तावत्, बाल्ये
तस्याः पितुः इच्छानुगुणम्, प्रौढावस्थायां वरयितुः पत्युः इच्छानुगुणम्, पत्युः
मरणात्परं पुत्राणाम् इच्छानुगुणं व्यवहरेत् । तस्याः कदापि स्वातन्त्र्यं नास्ति२९
।
पोलाकः कथयति यत् –
स्त्रीणाम् अस्वातन्त्र्यस्य एतादृशानां
विचाराणाम् आधारः मनोः ग्रन्थः अस्ति, एतत् स्त्रीणां पराधीनतायाः कल्पनां पुनः
प्रतिष्ठापयति, अपि च कदापि ताः स्वातन्त्र्यं न प्राप्नुयुः चेति तार्किकं
निर्णयं प्रतिपादयति३० ।
श्रीनिवासतिलकवर्यः कथयति यत् पोलाकः मनोः विवरणात्मकानि उद्धरणानि (तदीयकाले
विद्यमानपरिस्थित्यनुसारम्) नियमाधीनोद्धरणत्वेन परिवर्त्य मनोः सुरूपं विरूपं
करोति इति३१ ।
आधुनिकान् मानदण्डान्
आश्रित्य रामायणे कदाचित् प्रतिपादितः महिलाधिकारः लिङ्गसम्बन्धः वा अद्यत्वेऽपि
अनुसर्तुं शक्यः इत्यत्र मम सन्देहः नास्ति । किन्तु एतादृशस्य निरूपणस्य निश्चयः
पूर्णरूपेण कालबाह्यमानदण्डैः क्रियते चेत् कुमार्गे नयनमिव भवति । अपि च एतानि पद्यानि
तेषां सन्दर्भम् अनुक्त्वा पृथक्कृत्य तानि एव रामायणस्य प्रतिनिधिभूतानि पद्यानि
इति प्रदर्श्यन्ते चेत् तस्य महाकाव्यस्य लिङ्गात्पराणां
धार्मिकतत्त्वानां वास्तविकः अर्थः अस्पष्टः भविष्यति ।
एकादशशताब्दात् आरभ्य
मुसल्मानजनान् राक्षसान् कर्तुं रामायणं प्रसारितम्
पोलाकस्य
निबन्धानुगुणम् – रामायणे स्वयंद्वन्द्वितया हैन्दवाः राजानः आत्मानं तदीयप्रजाश्च
दैविकसदस्यत्वेन पश्यन्ति अन्यांश्च विरोधिनः राक्षत्वेन निन्दितवन्तः ।
मध्य-एशियातः आगतानां मुसलमान-आक्रामकाणां कारणतः एषः सिद्धान्तः अनुसरणीयः
अभवत् । हैन्दवः राजा आत्मानं पराक्रमिणः
रामस्य प्रतिनिधिभूतः इति निरूपयितुं ब्राह्मणानां माध्यमेन काव्यानि रचितवान् येन
च मुसलमानान् राक्षसान् इव प्रतिपादितवान् । राजा आक्रमणकर्तॄन् मुसल्मानजनान्
विरुध्य युद्धं कृत्वा प्रजानां रक्षणं करोति इव, मुसल्मानजनाः राक्षसाः इव च
चित्रिताः । पोलाकः एतस्य उदाहरणत्वेन
पृथ्विराजं, विजयनगरस्य षष्ठम् विक्रमादित्यं च तदीयनिबन्धे प्रदर्शयति ।
सः पोलाकः एवं
निरूपयति – दैवासुरकल्पनया
मुसल्मानतुरुकजनान् विरुध्य हिन्दूमुस्लिमसङ्घर्षं प्रेरयितुं रामायणं शस्त्ररूपेण उपयुक्तम् इति
विषयः प्रकाशपथमागतः । एकादशे शतके
प्रारब्धं हिन्दूमुस्लिमसङ्घर्षं प्रेरयितुं रामायणस्य उपयोगः कृतः इति
प्रमाणीकर्तुं सः बहूनि प्रमाणानि
प्रदर्शयति । वस्तुतः सः पोलाकः विद्यमानतथ्यानि यत् प्रदर्शयन्ति ततः बहुदूरं
गत्वा विषयान् सामान्यीकरोति । सः एवं लिखति –
रामायणम् १००० वर्षेभ्यः
मार्क्स-पूर्ववर्तिसाम्यवादिसम्बन्धान् सक्रियान् कर्तुम्, अपि च देवप्रभुत्वस्य न्यायपरायणतां निरूपयितुं संहितारूपेण सेवां अकार्षीत् । अस्य रामायणस्य
श्रेष्ठताकारणतः अद्यत्वे भारते प्रतिक्रियात्मक-राजनीतिः अभिव्यक्तिं प्राप्नोति
। देशस्य राजनीतौ दैवीशक्तिः आन्तरिकशत्रुं देशविरोधिनं करोति ।
मया पूर्वम् यथा सूचितम्
तथैव हिंसायाः राजनीतिः रामायणे सुबद्धमूलमूला अस्ति इति पोलाकः वदति । तस्य
दृष्ट्या रामायणम् राजभिः लेखापिता समाजे उन्नतस्थानीयानां जनानां पठ्यरूपेण
विद्यमानाना कथा अस्ति । किन्तु किञ्चित् भिन्नमेव मुसल्मानजनानाम् आक्रमणवेलायां
प्रवृत्तम् इति । सः वदति तस्मिन् समये – सा रामायणी कथा राजनैतिकवातावरणे
प्रथमवारं जीवद्रूपं प्राप्नोत् । तदा राजानः रामाः भवन्ति । सः एवं प्रतिपादयति
यत् आविष्करणस्य सम्प्रदायः/परम्परा आरब्धा । तदा राजा रामरूपेण आविष्कृतः । एतदाविष्करणम् एकादशे शताब्धे आरब्धम् । तदा
आरभ्य रामायणं राजनैतिकस्य उत्साहस्य अभिव्यञ्जिका भाषा अभवत् इति ।
सः पोलाकः आग्रहेण एवं
कथयति यत् – दक्षिण-एशियाभूभागे रामसम्प्रदायस्य अस्तित्वम् एकादशशताब्धम् अथवा
द्वादशशताब्धं यावत् पूर्णरूपेण न आसीत् ।
अस्य सम्प्रदायस्य विकासः निश्चिताभिः ऐतिहासिकघटनाभिः सह समकालिकतया जातः
। ततः पूर्वं रामसम्बद्धा आराधनपद्धतिः विरला आसीत्, अपि च रामः आराधनायाः वस्तु
स्यादित्यस्य प्रामाण्यानि विरलानि सन्ति इति सः वदति३४ ।
रामः पुराकाले अपि
प्रमुखपात्रं आवहति स्म इति विषयं लघुतमाः अपवादाः इति कथयित्वा तस्य प्रभावः
नास्ति इति प्रतिपादयितुं पोलाकः प्रयतते । मध्य-एषियातः मुसलमानजनानाम्
आगमनात्परं रामस्य जनप्रियतायाः वृद्धेः परीक्षणं, एवञ्च मुसलमानविरुद्धतया
हिंसाचारस्य समर्थनोद्देश्यत्वेन रामायणस्य उपयोगः कृतः इति प्रतिपादनं पोलाकस्य
उद्देश्यम् आसीत् । मुसलमानजनेभ्यः समग्रे भारते
देवालयेषु रामायणस्य भागाः कुत्र कुत्र प्रदर्शिताः इति सः आवलिं करोति ।
किन्तु कुत्रापि रामस्य साम्प्रादायिकं महत्वं नास्ति इति सः निर्णीतवान्३५
।
हैन्दवाः राजानः
राजनैतिकसङ्केतरूपेण रामायणम् उपयोक्तुम् आरब्धवन्तः इत्यस्य विषये अहं
स्पष्टज्ञानवान् दृढज्ञानवान् च अस्मि इति सः पोलाकः प्रतिपादयति –
भारतस्य
राजनैतिककल्पनायां केन्द्रीयसङ्घटनात्मकतत्त्वरूपेण रामायणम् उपयुक्तम् इति
स्पष्टरूपेण निर्दिष्टरूपेण च ऐतिहासिकसंनिवेशे व्यक्तीकर्तुं शक्यते३६
।
अहं वदामि....
एकादशचतुर्दशशताब्दयोः मध्ये पश्चिमभारते मध्यभारते च सामाजिकानां
राजनैतिकसम्भाषणसमये असदृशतया नाटकीयरूपेण
रामयणं सजीवतां प्राप्नोत् ३७ ।
एकादशशतकस्य मध्यभागतः द्वादशशतकस्य
अन्तिमभागपर्यन्तं स्थानीयाः राजानः अयोध्यां प्रधानवैष्णवकेन्द्रत्वेन विकासयितुं
महत्त्वपूर्णान् मन्दिरनिर्माणकार्यक्रमान् आरब्धवन्तः इति प्रमाणीकर्तुं सः
पोलाकः दतांशान् प्रदर्शयति ।
त्रयोदशशताब्धस्य अन्तिमसमये चतुर्दशशताब्दस्य आरम्भसमये च रामसम्बद्धानि बहूनि
आराधनाकेन्द्राणि प्रतिष्ठापितानि अथवा नवीकृतानि । चतुर्दशशतकस्य आरम्भे
श्रीरामचन्द्रस्य आराधनास्थलानि उत्तुङ्गस्थितिम् अवाप्नुवन्, यदा
विजयनगरसाम्राज्यस्य अपि स्थापनमभवत् । अस्य पोलाकस्य कथनानुगुणम् –
आदौ देशकालदृष्ट्या
विशेषतः निर्बन्धः आसीत् । एतत् (रामस्य आराधनम्) अद्भुतं चमत्कारं प्रदर्शयति ।
एवञ्च द्वादशशताब्धस्य अन्ततः राजनैतिकधर्मशास्त्रस्य सन्दर्भे एकं प्रमुखं
स्थानमपि प्राप्नोति । एतत् रामाराधनम् कासुचित् घटनासु तु केन्द्रीयं स्थानम् अपि
चतुर्दशे शतके प्राप्नोति३८ ।
मुस्लिम-आक्रमणकर्तॄन्
राक्षसशक्तिरिति प्रतिपादयन्तीं द्वादशशतकस्य एकां कवितां व्याख्यातुं सः पोलाकः
बहूनि पृष्ठानि आरक्षितवान् । अपि च अस्य एकस्य पद्यस्य आधारेण सः तदीयवक्तव्यम्
उपस्थापितवान् । महम्मद-गज़नवी भारते मन्दिराणि आक्रम्य यदा ध्वंसीकृतवान् ततः परमेव अयोध्यां निर्मातुम् आरब्धवन्तः इति
पोलाकः कथयति३९ ।
तथापि तस्य प्रतिपादनविरुद्धतया
वर्षाणां शतानि यावत् अयोध्या मौर्येभ्यः अपि पूर्वतने युगे अत्रत्यानां राज्ञां
राजधानिरासीत् इत्यंशः परिशीलनीयः४० ।
यद्यपि पोलाकः तस्य
प्रतिपाद्यविषयं समर्थयितुं कानिचन प्रक्षिप्तानि प्रमाणानि प्रादर्शयत्, तथापि
एकादशशताब्दात् पूर्वं भारते एशियाभूखण्डस्य आग्नेयदिशः देशेषु च रामस्य आराधनायाः
विषये व्यापकरूपेण ऐतिहासिकानि प्रबलप्रमाणानि प्राप्यन्ते । परिशिष्टम्-B एतद्विषये कानिचन प्रमाणानि
प्रदर्शयति । रामायणस्य इतिहासविषये दलद्वयस्यापि
जनानां मध्ये जायमाना प्रामाण्यविषयिणी चर्चा आसक्तिप्रदा अस्ति ।
अस्माकम्
अवलोकनानुगुणं वदामः चेत् – पोलाकः रामायणविषये एवं चित्रितवान् यत्
मुसल्मानजनानां राक्षसीकरणाय रामायणस्य स्वरूपम् अस्माभिः उपयुक्तम् अस्ति इति ।
सः वदति – बहुषु प्रकारेषु परकीयाः पथभ्रष्टाः इति भावस्य प्रतिपादकम् अस्ति इति ।
सः इतोऽपि एकं पदम्
अग्रे विन्यस्य स्थूलरूपेण रामायणस्य विषये सिग्मण्ड-फ़्राईडवर्यस्य चिन्तनं
आरोपयति । एतस्य रामायणस्य पठनम् इत्युक्ते पाश्चात्यानां सांस्कृतिकविमर्शानुगुणं
कालबाह्यम् अविवेकपूर्णं च कार्यं अस्ति इति । सः वदति - रामायणे “विषयान्तरस्य
वर्णनम्” इत्युक्ते श्रद्धावतां भारतीयानाम् अपरिपूरितानां लैङ्गिकेच्छानां
प्रक्षेपणम्/प्रकाशनम् एव इति –
तेषां(पारम्परिकाणां भारतीयानां)
विषये चिन्तयितुं विद्यमानः एकः सफलः मार्गः इत्युक्ते – मनोलैङ्गिकः दृष्टिकोणः,
यश्च दृष्टिकोणः प्रतिनिधिरूपेण सर्वेषु पारम्परिकेषु भारतीयेषु वर्तते । तच्च
संस्कृत-संस्कृतिरूपेण वर्तते । तत्र बलवती आशा वर्तते । बलवती भीतिश्च अस्ति ।
(संस्कृतं संस्कृतिः चेति) द्वयमपि मिलित्वा एकसङ्केतरूपेण संयोजितम् अस्ति४१
।
अन्यैः शब्दैः एवं
वक्तुं शक्यते - राक्षसरूपेण चित्रयित्वा
प्रतिपादितम् अन्यत् सर्वं हैन्दवानाम् एव प्रगाढायाः मनोलैङ्गिकतायाः प्रक्षेपकम्
अस्ति । तैः निग्रहीताः आशाः, निग्रहीतानि भयानि च एवं (राक्षसरूपेण) चित्रितानि इति पोलाकः कथयति
।
पोलाकः निरूपयति –
भारते पूर्वकाले ये ये बाह्याः समागताः ते अत्यल्पकाले एव भारतीयत्वेन समेकीकृताः
। किन्तु मध्य-एशियातः मध्यकाले
आगतानां(मुसलमानजनानाम्) दृढं सुरक्षितम् अभिज्ञानम्, आसीत् येन ते भारते
धार्मिकरूपेण भाषारूपेण च समेकीकर्तुं न शक्याः अभवन् । एतादृशं भयं निवारयितुं रामायणं निरन्तरं साधनत्वेन अत्रत्यैः नेतृभिः उपयुक्तम् । रामायणं राजनीतेः आधारत्वेन उपयुक्तम्,
बाह्यान् परकीयाः इति सङ्केतयितुम् च उपयुक्तम् ४२ इति ।
द्वितीयसहस्रमानस्य
अन्ते हैन्दवानां विषये पोलाकस्य कल्पना
न्यूनाधिकभावेन एवं सम्पन्ना- अधिकारे विद्यमानाः हैन्दवपुरुषाः निपुणाः, कामप्रवृत्तयः
आसन् इति । ते पौराणिकाः कथाः उपयुज्य सामाजिकानां अवधानं स्वीयनिरङ्कुशाधिकारात्
दूरीकृतवन्तः इति । येषाम् अधिकारः नासीत् ते तार्किकं चिन्तनं कर्तुं असमर्थाः वादादिकम्
अकुर्वाणाः असह्यरूपेण विधेयाः आसन् इति ।
महिलाः तु तेषां दमनस्य बलिरूपेण अभवन् न तु अन्यथा इति । एवञ्च ये बाह्याः
इति परिगणिताः ते राक्षत्वेन चित्रिताः इति । तच्च हैन्दवानां मनसि निगृहीतायाः
लैङ्गिकमानसिकतायाः प्रक्षेपणवत् कृतम् चेति पोलाकः कथयति ।
सः पोलाकः एतत् सर्वम्
साररूपेण सम्पूर्णरामायणेन सह सम्बन्धं कल्पयन् सम्बध्नाति :
रामायणम् गभीररूपेण
मौलिकरूपेण च विभेदनस्य ग्रन्थः अस्ति .....बाह्याः जनाः तावत् विकृतलैङ्गिकतया,
आहारक्रमेण, राजनैतिकरूपेण च अन्याः इव चित्रिताः... । रामायणम्
तदीय-राक्षसीयकल्पनया शत्रूणां द्विगुणीकरणकल्पनायाः साधनत्वेन उपयुक्तम्, इत्थं
नान्यः ग्रन्थः उपयुक्तः४३ ।
पूर्वोक्तरीत्या अस्य
कालखण्डस्य अन्यसंस्कृतीनां स्थितिं वा स्वरूपं वा अनुक्त्वा हैन्दवसमाजं
पृथक्कृत्य परिशीलनं विधाय एकं तत्सम्बद्धम् अव्यवस्थितं चित्रं अत्र पोलाकेन प्रस्तुतीकृतम् । सिग्मण्डफ़्राईडवर्यस्य चिन्तनप्रारूपं रामायणेन
सह तोलयित्वा यत् कथितं तत् पुनः विम्रष्टुं योग्यम् अस्ति । एवं ग्रन्थस्यास्य
अन्येषु स्थानेषु अपि मया प्रतिपादितम् । पोलाकस्य एतादृशं प्रतिपादनं मया यावत्
अत्र खण्डितं ततोऽपि अधिकविस्तरेण विद्वद्भिः खण्डनीयम्, एतद्विषये चर्चनीयम् च ।
रामायणं जात्यतीतमिति
परिगणितम् अस्ति ।
रामायणम् निश्चयेन
लौकिकग्रन्थः अस्ति । यतो हि वैदिकयज्ञानाम् अनुष्ठानाय एतत् न उपयुक्तम् इति
पोलाकः अभिप्रैति । तथापि यागानाम् अनुष्ठानं केवलं पारमार्थिकताम् उत्पादयति ।
अतः तद्भिन्नप्रतिपादकः ग्रन्थः सर्वोऽपि लौकिकः
इति पोलाकस्य अभिप्रायः दोषपूर्णः अस्ति । एषः दोषः एव इतिहासविषये
तदीयचिन्तनस्य कारणम् अस्ति विशिष्य राजनीत्युद्देशेन रामायणम् लौकिकमिति सः वदति
।
हैन्दवाः विभिन्नरूपेण
कथयन्ति यत् –ब्रह्मणः वा, परमशिवस्य वा, मोक्षस्य वा परमपुरुषस्य वा
प्राप्त्यर्थम् भक्तिः, तन्त्रम्, कथा, ध्यानम् इत्यादिकं विभिन्नः मार्गः अस्ति
इति । अतः वेदज्ञानाधारितः इतिहासः पारमार्थिकतायाः कारणं
भवितुम् अर्हति । रामायणं लौकिकः ग्रन्थः
अस्ति यश्च पारमार्थिकतायाः सेतुरूपेण कार्यं करोति । रामायणविषये श्रद्धालवः तं ग्रन्थम् इतिहासग्रन्थत्वेन
मन्यन्ते । ज्ञानार्थम् अपेक्षितायै
आत्मावलोकनप्रवृत्त्यै यावान् उपयोगः रामायणस्य करणीयः तदपेक्षया अधिकतया
वेदप्रतिपादिततत्वानां आनन्देन क्रीडया इव बहूनां जनानाम् अवगमनाय रामायणम्
उपयुज्यते । एतद्विरुद्धतया पोलाकः वदति
यत् – काव्यानि लौकिकानि भवन्ति, मूलतः सामाजिक-राजनैतिक-शक्तेः सौन्दर्यात्मकाभिव्यक्तिसम्बद्धानि भवन्ति चेति ।
वाल्मीकिरामायणम्
बौद्धानां प्रभावात् अनन्तरम् आरचितम् इति पोलाकः प्रतिपादयति
पोलाकः आधारान्/प्रामाण्यानि परिवर्त्य वाल्मीकेः रामायणस्य ऐतिहासिकीं
कालगणनां परिवर्तितवान् । पोलाकेन
राजनैतिकप्रेरणया प्रतिपादितस्य बिन्दोः, पारम्परिकदृष्टिकोणस्य च मध्ये तुलनां
कृत्वा वैरुध्यं प्रदर्शयितुम्, अस्माकं सम्प्रदायान् आश्रित्य, राबर्ट-गोल्डमेन-सदृशानां
पाश्चात्यशिक्षावेतॄणां पुस्तकानि च आश्रित्य, अहम् तर्कान् उपस्थापयिष्यामि४४
।
800 BCE अथवा ततः पूर्वं रामायणं रचितम् इति बहवः भारतीयाः पाश्चात्याश्च विद्वांसः
यदुक्तवन्तः तत् अस्वीकृत्य, 150 BCE समये रचितम् इति पोलाकः प्रतिपादयति४५ । एवं दिनाङ्कनिश्चयेन
बौद्धानां जातककथाभ्यः वाल्मीकिः रामकथां पठितवान् इति वक्तुं पोलाकः शक्नोति४६
। राबर्ट-गोल्डमेन पोलाकस्य प्रतिपादनं निराकरोति । बौद्धजातककथाभ्यः रामायणं
प्रेरितम् इति म्याक्स वेबर इत्याख्येन नवदशे शताब्धे यदुक्तं तत् गोल्डमेन-महोदयः
एवं निराकरोति –
बौद्धानां जातककथासु रामायणस्य
मूलं अन्वेष्टुं शक्नुमः इति परामर्शं
म्याक्स वेबर प्रदत्तवान् । ग्रीकमहाकाव्यानां प्रभावेण बौद्धानां जातककथासु
विद्यमानः राजकुमारः रामः इदानीन्तनरूपेषु विकसितः इति सः वदति । एषः विषयः वास्तविकप्रपञ्चस्य घटनाभिः सह साम्यं भजतां सद्गुणानां वैभवीकरणम्
अस्ति । तदानीं वेबरः चिन्तितवान् यत् दशरथजातकम् रामायणस्य मूलम् इति तच्च
ब्राह्मणानां बौद्धद्वेषस्य इतरविषयैः सह काव्यात्मिका अभिव्यक्तिः इति । एतस्य सिद्धान्तस्य घोषणात् अनन्तरं
स्वल्पे समये समर्थरीत्या निराकरणमपि
कृतम् अभवत् । तथापि उपलभ्यमानस्य अत्युत्तमस्य ऐतिहासिकस्य साहित्यिकस्य आधारस्य
अनुसारेण दशरथस्य जातककथा वाल्मीकिरामायणात् बह्वेव अनन्तरकालिकी इति४७
।
अस्मिन् विषये पोलाकस्य वैदुष्यं उन्मुक्तरूपेण आक्षिप्तवत्सु अङ्गुलिगणनीयेषु
विद्वत्सु गोल्डमन अन्यतमः विद्वान् अस्ति
।
सारः : “रामायणम्” दौर्जन्यस्य
साहित्यमिति व्याख्यातम् ।
दैवासुरकल्पनम्
सनातनधर्मस्य भागः एव अस्ति इत्यतः एतत् शाश्वतम् अपरिवर्तनीयं च अस्ति इति पोलाकः
प्रतिपादयति । अतः सः निर्धारयति यत् हैन्दवाः राज्यशासनस्य मूलतत्वानि एव
राजधर्मः इति मन्यन्ते इति । पोलाकस्य अनुसारेण दैविकराजत्वेन तच्छत्रूणां
राक्षसत्वेन च कल्पनस्य परिणामाः एवं साररूपेण उच्यन्ते –
१.
कमपि जनम् अथवा जनानां समूहम् असुराः इति शत्रवः इति वा राजा ब्राह्मणानां साहाय्येन उद्घोषयितुम् अर्हति । राज्ञः सिंहासनस्य वशीकर्तारः
सम्भाव्यशत्रवः इति तेषां नामकरणं क्रियते । प्रजाः रामायणकथाम् आश्रित्य एतान्
शत्रून् युद्धार्थम् आह्वातुं, तान् हन्तुं च प्रवर्तन्ते ।
२.
राजा प्रजानां सकाशात् सम्पूर्णां विधेयताम् अपेक्षेत । एतादृशीं शासनरीतिम्
औपनिवेशिकभारतशास्त्रवादिनः प्राच्यनिरङ्कुशाधिकारः इति वदन्ति । एतत्
हैन्दवराजान् भयजनकान् निन्दनीयान् इव निरूपयति । प्रजाः तदीयवचनानुगुणं प्रवृत्ताः
उन्मत्ताः जनाः इति निरूपयति ।
३.
एतादृशीम् अन्धत्वयुक्तां विधेयतां/आज्ञाकारिताम् आदाय निर्मिता सामाजिकी
व्यवस्था भारतीयान् स्वातन्त्र्येण चिन्तयितुम् असमर्थान्, प्रश्नं च कर्तुम्
असमर्थान् करोति । अतः हैन्दवेषु स्वस्य विषये चिन्तयितुम् अथवा शासनं विरुध्य
प्रश्नं कर्तुं सामर्थ्यं नास्ति ।
४.
राजधर्मस्य एतादृशस्य स्वरूपस्य कारणात् राज्ञः समीपे अप्रतिबद्धं दैविकं
सामर्थ्यं भवति । तच्च निर्बाधं लैङ्गिकविचलनयुक्तं,
महिलानां विषये अपमानजनकं च भवितुम् अर्हति । पोलाकः आरोपयति यत् दशरथः
एतादृशप्रवृत्तेः एकम् उदाहरणम् अस्ति इति ।
५.
भा.ज.पा/वि.हि.प. साम्प्रतम् एतादृशरीतिम् मुसल्मानजनान् अन्यान्
अल्पसंख्यकजनान् च विरुध्य अनुसरति । यतो हि एतत् सहजतया तान् विरुध्य हिंसां
कर्तुं हैन्दवान् अधिकृतान् करोति ।
पोलाकस्य अनुसारं १९८० तमात् इसवीयवर्षात् आरभ्य
भारते राजनैतिकघटनाः मुसल्मानजनानां
दानवीकरणस्य अनुरूपमेव आसन् । सः पोलाकः एवं प्रतिपादयति यत् – १९९२ तमे वर्षे
अयोध्यायां बाबरीमसजीद इत्यस्य ध्वंसीकरणाय भाजपादलस्य नेतारः मुसल्मानजनान्
राक्षसरूपेण, हैन्दवान् च रामरूपेण चित्रितवन्तः । राम(कथा)सम्प्रदायः बहोः कालात् एतदर्थमेव
संयोजितः इति सः तदीयं वक्तव्यम् उपस्थापयति । सङ्घपरिवारः इदानीमपि आन्दोलनम्
इदमेव करोति यत् रामायणम् उपयुज्य हैन्दवानां मुसल्मानजनान् विरुध्य उद्वेजनम्
कृत्वा तान् राक्षसान् करोति इति सः वदति । एवं तस्य पोलाकस्य अनुसारेण रामायणम्
सामूहिकविनाशस्य एकं सांस्कृतिकम् अस्त्रम् अस्ति ।
अमेरिकादेशस्य प्राच्यविद्भिः पारम्परिकरीत्या
अवगमस्य पद्धतिं विरुध्य परामृष्टः एक एव ग्रन्थः रामायणम् अस्ति । भारतस्य
सामान्यजनानां जीवनानुभवं विरुध्य एतत् तार्किकं चिन्तनं नूतनम् इतिहासं निर्माति
। अस्माकं पूर्वचिन्तनानुगुणं पोलाकस्य
धारणायाः, चिन्तनस्य, पद्धतेश्च विमर्शः पारम्परिकदृष्ट्या अवश्यं कर्तव्यः । केवलम्
अहम् अत्रत्यानां विदुषां न्यायिकविचारणाय रक्तपताकाम् उन्नयन् अस्मि ।
भारतस्य राजनीतौ हस्तक्षेपं कर्तुं
रामायाणाधारिता राजनैतिककार्ययोजना
संस्कृतग्रन्थानां राजनैतिकदृष्ट्या पुनः भिन्नरूपेण
व्याख्यानं कृत्वा, रामायणात् सम्भाव्यमानानाम् अपायानां निरासाय पोलाकः भारते
विद्यमानानाम् तदनुयायिनाम् आङ्ग्लभाषया व्यवहारं कुर्वाणानां गण्यजनानाम् आह्वानं
करोति । तस्य निर्णयः एवम् अस्ति –
भारते साम्प्रदायिकप्रवृत्तिः सहस्रशः वर्षेभ्यः
अस्ति । अस्य कारणम् बाह्यजनानां धार्मिकरूपेण अपमाननम् कर्तुं वाल्मीकिरामायणस्य
उपयोगः अस्ति ।
अस्याः मतीयप्रवृत्तेः आङ्लेयानां “विभज्य शासनस्य
रीत्या” सह कोऽपि सम्बन्धः नास्ति ।
एवमेव मुसल्मानजनानाम् आक्रमणस्य अत्र किमपि पात्रम्
अस्ति इति द्रष्टुं न शक्यते ।
सङ्घपरिवारस्य कार्याणां मूलं संस्कृतग्रन्थाः भवन्ति
। अतः एतेषां ग्रन्थानां राजनैतिकदृष्ट्या पुनर्व्याख्यानं कृत्वा तज्जन्यभयं
निवारणीयम् ।
अद्यत्वे भारते राजनैतिकः हस्तक्षेपः इति पोलाकस्य
कथनस्य लक्ष्यं स्पष्टम् अस्ति । बाबरीमस्जिद इत्यस्य १९९२ तमे वर्षे
प्रध्वंसीकरणात् अनुक्षणं लिखितं पुस्तकं “Ramayana and
Political Imagination in India” इत्यस्ति । द्वादशवर्षेभ्यः परमपि
तस्य अस्मिन् विषये संलग्नतायाः तीव्रता महती एव अस्ति । पूर्वतनस्य पुस्तकस्य
लेखनकारणं विवरीतुं सः एकं साक्षात्कारं २००५ तमे वर्षे ददाति -
१९९२ तमे वर्षे भारते यात्रायाः
वेलायां अहं हैदराबादनगरं प्राप्तवान् ।
तदा तत्र मुसल्मानजनानाम् उपरि दौर्जन्यं चलति स्म । रामायणं तत्र सर्वत्र आसीत् । अहं चिन्तितवान् –
अहं रामायणस्य विषये बहोः कालात् कार्यं कुर्वन् अस्मि । अत्र अहं
भारतीय-राजनैतिक-जीवनस्य विषये एतस्य ग्रन्थस्य का भूमिका इति वक्तुं विषयं
प्राप्तवान् । कस्मात् कारणात् हिंसायाः
साधनत्वेन रामायणम् उपयुक्तम् अभवत् इति अत्र मया अवगन्तव्यम् इति आशा या मम आसीत्
तत्र अहं निराशः एव अभवम् । यतः बाबरिमसजीद् इतः द्वादशवर्षेभ्यः पूर्वं
ध्वंसीकृतम् अभवत् । अतः अहं रामायणप्रवचनस्यस्य प्राचीनम् इतिहासम् अवलोकयितुं
निर्धारितवान् । तत्र अहं किं दृष्टवान् इत्युक्ते – यत् बह्वेव मां विमनस्कम्
अकरोत् । तादृशं विवरणं कथं वा भवन्तः
गोपयितुम् अर्हन्ति । तदा अहं भावितवान् यत् – तत् विवरणं बहिरानीय तस्य विमर्शं
करवाणि, निन्दां च करवाणि इति । यदि भवन्तः सङ्घर्षस्य अग्रपङ्क्तौ भवन्ति तर्हि
भवन्तः विश्वहिन्दूपरिषदः
राजनैतिककार्यस्य निन्दासदृशाणि कानिचन कार्याणि अवश्यमेव कुर्युः इति अहम्
अवगच्छामि ।
रामायणविषयकः लेखः हिन्दुत्वस्य
विमर्शनाय/निन्दायै कृतं योगदानम् अस्ति । सः लेखः राजनैतिकवैरुध्यस्य साधनत्वेन रामयणम् उपयुक्तम् इत्यस्य विमर्शनाय/निन्दायै योगदानं करोति । अन्येषाम्
उपरि आधिपत्यस्य विमर्शनं/निन्दां करोति । यदि ऐतिहासिकानि तथ्यानि केषाञ्चित्
जनानां दृष्ट्या असमीचीनानि चेत् दौर्भाग्यपूर्णम्
अस्ति । आङ्लेयेभ्यः पूर्वतने काले पूर्णरूपेण रामराज्यं नासीत् चेत् तत्
दौर्भाग्यपूर्णम् अस्ति । किन्तु भूतकालात् बहिरागमनाय विद्यमानः एकैकः मार्गः कः
इत्युक्ते तस्य सम्मुखीकरणम्४९ ।
रामायाणं राजनैतिकवैरुध्यस्य साधनत्वेन उपयुक्तमस्ति
इति निन्दितुं सः पोलाकः स्वयं सङ्घर्षस्य अग्रपङ्क्तौ अस्मीति आत्मानं भावयति ।
तदीयः लेखः एवम् आरब्धः अस्ति ।
१९९२ तमे वर्षे दिसेम्बरमासतः १९९३ तमस्य वर्षस्य जनवरीमासपर्यन्तं
त्रिसहस्रात् अपि अधिकसंख्याकाः जनाः सूरतनगरात् कलकत्तानगरपर्यन्तम्, कानपुरतः
बेङ्गळूरुपर्यन्तं समग्रे भारते मतीयसङ्घर्षकारणात् मृताः । एतादृशाः सङ्घर्षाः सुदीर्घकालात्
न प्रवृत्ताः आसन् । उदाहरणार्थं
मुम्बईनगरे षट्शतात् अपि अधिकाः जनाः मृताः,
सम्पूर्णं नगरं सार्धैकसप्ताहं यावत् स्तब्धम् आसीत्५० ।
सः अग्रे विवृणोति – हैन्दवानां मुसलमानजनानां च
मध्ये शत्रुतायाः सम्बन्धस्य वर्णनम् तदीयं लक्ष्यम् इति । सोमनाथात् अयोध्यापर्यन्तं रथयात्रां कर्तुं
भाजपादलेन यदा निश्चितं तदा एषः सम्बन्धः(शत्रुता) तदीयानि उद्देश्यानि पूर्वमेव अघोषयत् इति पोलाकः कथनम् आरब्धवान्
आसीत् । सः लिखति –
१९९२ तमे वर्षे दिसम्बरमासस्य
षष्ठे दिनाङ्के बाबरीमसजीद इत्यस्य भञ्जनम् केवलं केनापि समूहेन अकस्मात् कृतं
कार्यं न, प्रत्युत प्रशिक्षितानां हैन्दव-उग्रगामिनां समूहेन कृतं कार्यम् अस्ति,
यस्य च आरम्भः सुनियोजितायाः रथयात्रायाः उद्घाटनेन प्रवृत्तानां संघर्षाणां
कारणतः अभवत्५१ ।
मुसलमानजनान् विरुध्य हैन्दवानां धर्माधारितराजनीतेः
परीक्षणमेव तदीयं लक्ष्यम् इति सः कथयति । तस्य लेखे सः तत् विशिष्टानां चिह्नानां माध्यमेन सङ्ग्रहेण
साधयति । तानि चिह्नानि कानि इत्युक्ते – रामः देवयोधः इति, तस्य जन्मस्थानम् अयोध्या
इति, पवित्ररामजन्मभूम्याः विमुक्तिः चेति ।
अनन्तरं सः पुनरेकवारं तस्य उद्देश्यम् अग्रे
स्पष्टीकरोति - तासां शक्तीनां प्रभावं
निस्तेजयितुं एकं उपायः एषः अस्ति यत् – एतादृशीनाम् अर्थप्रणालीनां निर्माणम्
अनुष्ठानञ्च, समकालिकानां विश्लेषणञ्च । सः तत्र इतोऽपि एकम् अंशं योजयति यत् –
तादृशी योजना माम् आग्रहेण आकर्षति इति ।
यथा मया पूर्वम् उक्तम् – सम्पूर्णायाः परम्परायाः
स्वरूपवर्णनविषये भाजपादलस्य विश्वहिन्दूपरिषदः च चर्चार्थम् आह्वानेन, अस्माकम्
अवधानम् मूललक्ष्येभ्यः सुदूरं गच्छेत् । एतादृश्यः
विपदः हिंसां दमनं च विरोद्धुम् आभ्यन्तरात् एव प्रामाणिकरीत्या परिणामात्मक-राजनैतिक-प्रतिक्रियायाः
सम्पादने बाधां जनयन्ति । एषः मम दृष्टिकोणः अस्ति, अपि च अन्येषां बहूनां
दृष्टिकोणः अस्ति ये स्तानीयेषु शब्देषु संस्कृतिं समर्थयन्ति । समर्थनं कथम्
इत्युक्ते – मुक्तसमाजस्य अवगमनाय मार्गः सनातनधर्मस्य पूर्णतः अवगमनम् एव इति
। एतदर्थं अस्माभिः पवित्रे पारमार्थिके, तथैव
व्यावहारिके धर्मनिरपेक्षे अधिष्ठाने,
स्थातव्यम् ।
मतीयवादस्य, फ़ासिस्टवादस्य, हिंसामार्गस्य च भूतम्
अवलम्ब्य सम्प्रदायस्य मार्गाणां भविष्यत्कालिकसम्भावनानाम् अन्वेषणे बाधायाः
उत्पादनं, धनिकदरिद्राणां, स्त्रीपुरुषाणां, सामान्यजनानां गण्यानां जनानां च
समानरूपेण अपायं जनयति ।
परिणामतः पोलाकः तदीयविचारान् समर्थयितुं तस्य
विरोधिनां राक्षसीकरणस्य प्रकारान् संवर्धयन् अस्ति । किन्तु तदीयानाम् अनुयायिनाञ्च कृते
तदीयचार्वाकसिद्धान्तस्य प्रचाराय दैविकम् अधिकारं ददाति ।
इति
प्रो.हरिप्रसादः के.
२६/०८/२०२३(Updated)
No comments:
Post a Comment