राजनीतिशास्त्रम् (Political
Science)
उपोद्घातः
स्वस्थं
सामाजिकं जीवनं यापयितुं दण्डनीतिः अत्यन्तम् आवश्यकी । अत एव भारतीयाः
शास्त्रकाराः इत्थम् अभिप्रयन्ति –
दण्डः शास्ति प्रजाः सर्वाः दण्ड
एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं
विदुर्बुधाः ॥ महाभारतम् शान्तिपर्व १५/२
दण्डनीतिर्यदा सम्यङ् नेतारमधितिष्ठति ।
तदा विद्याविदः शेषाः विद्याः सम्यगुपासते ॥
कामन्दकीयनीतिसारः
जगतितले
अनादिकालादारभ्य राज्यशासनव्यवस्थायाः उत्तरदायित्वं राजवंशीयानाम् आसीत् । किन्तु
प्रायः उपद्विशताद् वर्षेभ्यः शासकस्थानं राजातिरिक्तेन जनेन
अलङ्कर्तुं शक्यते इति स्थितिः समुत्पन्ना । विशिष्य लोकतन्त्रं राजतन्त्रस्य
स्थाने समागतम् । लोकतन्त्रे अपि केषाञ्चिदेव उच्चवर्गीयाणां हस्ते अधिकारः भवति,
येन श्रमजीविनां श्रमस्य दुर्लाभं एते सम्प्राप्य श्रमजीविनः शोषयन्ति इति
मन्वानाः तदीयहस्ते राज्याधिकारः भवेत् इति चिन्तनस्य फलत्वेन साम्यवादिराजनीतिः
व्यवहारपथे आगता । क्रमेण सामाजिकासमतायाः निर्मूलनाय समाजवादिचिन्तनं क्वचित्
प्राधान्यम् अवाप्य समाजवादिराजनीतिः व्यवहारपथे आगता । क्वचित् केचन उत्साहिनः
जनानुरागितया नेतृत्वं सम्पाद्य क्रमशः स्वहस्ते अधिकारावाप्तेः परं तमेव अधिकारं
त्यक्तुम् अनिच्छुकाः अधिनायकवादिचिन्तनेन राज्यं शासितुम् आरभन्त । एतस्य
अधिनायकवादिराजनीतिरिति(Autocracy) नाम । जगतः केषुचित् देशेषु अधुनापि
राजवंशीयाः एव शासति । क्वचित् सैन्यशासनं प्रचलति । यथा
पाकिस्थानम्, ब्रह्मदेशः इत्यादिषु देशेषु वर्तते । इत्थं शासनं विभिन्नरूपेण क्रियमाणं
अन्यान्यनियमैः समाविष्टं वर्तते एव । तत्र केचन नियमाः सार्वकालिकाः,
सार्वभौमिकाश्च ये वर्तन्ते ते निष्पक्षपातं अनुपालनीयाः इति समेषां अपेक्षा भवति
। शासनस्य प्रकारः यः कोऽपि वा भवतु , सार्वकालिकाः सार्वभौमिकाश्च नियमाः निष्पक्षपातं
पाल्यन्ते चेत् समेषां हितं भवति इत्यत्र नास्ति सन्देहः, येन समाजः स्वस्थः
शान्तिपूर्णः समृद्धः च भवति । एतन्मनसि निधाय भारतीयाः मनीषिणः एतादृशान्
सार्वकालिकान् सार्वभौमिकान् च नियमान् समग्रराज्यस्य हिताय “दण्डनीतिः” इति
नाम्ना प्रत्यपीपदन् । एषा दण्डनीतिः
भारते विधिशास्त्ररूपेण राजनीतिशास्त्ररूपेण प्रशासनप्रबन्धनशास्त्ररूपेण च
साम्प्रतं आधुनिकरीत्या अध्याप्यते ।
प्रकृतं
राजनीतिशास्त्रम्(Political Science) इति नाम्ना
समग्रे देशे विश्वविद्यालयेषु अध्याप्यमानः विषयः विभिन्नानां
राजनीतिशास्त्रनिपुणानां चिन्तकानां चिन्तनैः प्रफुल्लितः अस्त्येव यत्र
प्राचीनभारतीयमनीषिणां चिन्तनं आदर्शरूपेण न स्वीकृतमिव दृश्यते । यद्यपि
एम्.डि.विश्वविद्यालयसदृशैः कैश्चित् विश्वविद्यालयैः स्वीयविश्वविद्यालयस्य
राजनीतिशास्त्रस्य पाठ्यक्रमे प्राचीनभारतीयमनीषिणां केषाञ्चित् विचाराः
स्वीकृताः, तथापि राज्यसमृद्धये स्वास्थ्याय जगद्धिताय च बहूनां
प्राचीनभारतीयमनीषिणां विचाराः इतोऽपि प्राचुर्येण स्वीकर्तुं शक्याः सन्ति इति
निरूपणाय अयं लेखः प्रवृत्तः ।
उद्देश्यानि
१. राजनीतिशास्त्रम्
आधुनिकविश्वविद्यालयेषु अध्याप्यमानं भारतीयवाङ्मयेन अनुक्तं नास्ति इति निरूपणम्
२. संस्कृतवाङ्मये
आधुनिकराजनीतिशास्त्रसम्बद्धतया किमुक्तमस्ति इत्यस्य प्रकाशनम् ।
३. संस्कृतवाङ्मये
राजनीतिविषये अत्यन्तम् उदात्तं चिन्तनं विहितमस्ति इति प्रतिपादनम् ।
४. आधुनिकराजनीतिः
संस्कृतवाङ्मयात् सत्पथविन्यासिनी भवितुमर्हतीति निरूपणम् ।
५. स्वस्थसमाजस्य
निर्माणाय समृद्धये संरक्षणाय, आत्यन्तिकाभ्युदयाय च आधुनिकराजनीतिशास्त्रस्य
आधारत्वेन संस्कृतवाङ्मये भूरिशः विचाराः प्राप्यन्ते इत्यस्य प्रमाणीकरणम्।
संस्कृतशिक्षायाः
उपरि अस्मदवधानक्षेत्रस्य प्रभावः –
अस्माकम्
अवधानक्षेत्रमिदमस्ति - समकालिकविषयाणाम्
आधारत्वेन संस्कृतम्(Basis of contemporary disciplines in Sanskrit).इति । अतः
संस्कृतवाङ्मये समकालिकविषयाणाम् आधारत्वेन भूरिशः विचाराः प्राप्यन्ते इति लोकः
अवगच्छति चेत् तदध्येतुं प्रवर्तते इति प्रधानं प्रयोजनम् अस्ति । तदा
संस्कृताध्येतॄणां संख्यावृद्ध्या नैकेषु आयामेषु संस्कृतशिक्षा प्रभाविता भवति ।
उद्योगावसराणां वर्धनेन सह बहोः कालात् उपेक्षितस्य ज्ञानराशेः कवाटः उद्घाट्यते
येन च असीमप्रयोजनं मानवसन्तत्या प्राप्स्यते ।
प्रतिज्ञाविधिः
अस्मिन्
लेखे आधुनिकस्य Political
Science इत्यस्य विषयस्य बोधनाय संस्कृतवाङ्मयं कथं
आधारत्वेन उपकुरुते इति निरूपणाय दिङ्मात्रेण अधोलिखितानां केषाञ्चित् ग्रन्थानां
केचन श्लोकाः अत्र विवरीताः ।
o
चाणक्यनीतिः
o
मनुस्मृतिः
o
अर्थशास्त्रम्
o
विदुरनीतिः
o
कामन्दकीयनीतिसारः
o
शुक्रनीतिः
o
रामायणम्
चाणक्यनीतिः
अरिमर्दनम्
देशस्य
शत्रवः राजनेतॄभिः सम्मुखीकर्तव्याः भवन्ति । एवमेव राजनीतौ अरयः सामान्यतः
विरुद्धदलीयाः अपि भवन्ति इत्यतः तैः सह अपि योद्धव्यं भवति । तदा कीदृशेन शत्रुणा
सह कथं योद्धव्यम् इति चाणक्यनीतिः इत्थम् उपदिशति -
अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् ।
आत्मतुल्यबलं शत्रुं विनयेन बलेन च ॥ ७/१०
शत्रुः बलवान् अस्ति चेत्
तदनुकूलव्यवहारं कृत्वा तस्य पराजयः साधनीयः । शत्रुः दुष्टः अस्ति चेत् प्रतिकूलव्यवहारेण
तस्य निग्रहः कर्तव्यः । तुल्यबलः अस्ति
चेत् विनयेन जेतुं यतनीयम् अथवा बलं प्रदर्श्य जेतव्यः ।
जघन्यो
यवनश्रेष्ठश्चाण्डालादपि दुर्मतिः
चाण्डालानां सहस्रे च सूरिभिस्तत्वदर्शिभिः
।
एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥८/५
तत्वदर्शिनः विद्वांसः वदन्ति यत्
सहस्रचाण्डालसमः भवति एकः यवनः । यवनात्
नीचः अन्यः नास्ति एव इति । इदं
याथार्थ्यं जगति सर्वत्र तदा तदा प्रमाणितं भवति । किन्तु सूक्ष्मदृक् चाणक्यः
आरम्भकाले एव एतद् अभिज्ञातवान् आसीत् इति विशेषः ।
असन्तुष्टा द्विजा नष्टा सन्तुष्टाश्च
महीभृतः ।
सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गनाः
॥ ८/१८
असन्तुष्टः
द्विजः कदापि न भवेत् । सः असन्तुष्टः भवति चेत् नश्यति । एवमेव राजा कदापि
सन्तुष्टः न भवेत् । सन्तुष्टः भवति चेत् राज्यरथः न चलति, राज्यविस्तारः च न भवति
। सन्तोषेण अक्रियत्वमापद्यते इत्यतः परैराक्रान्तं च भवति राज्यम् । गणिका
लज्जावती भवति चेत् तस्याः वाणिज्यं न चलति । कुलाङ्गनाः निर्लज्जाश्चेत्
परपुरुषभुक्ताः सत्यः कुलाङ्गनत्वात् भष्टाः भवन्ति ।
अत्र
वस्तुतः साम्राज्यस्य विस्ताराय यथा पूर्वं अश्वमेधादियागान् कुर्वन्ति स्म ।
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं
त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं
त्यजेत् ॥३/२०
राजनैतिकदलेषु दलस्य सिद्धान्तानुगुणं
विकासमवाप्तुं दलविरोधिनां अस्य सिद्धान्तस्य आधारेण निष्कासनं क्रियमाणं सर्वत्र
दृश्यते ।
विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः
।
भण्डारी प्रतिहारी च सप्त सुप्तान्
प्रबोधयेत् ॥ ९/६
अत्र सेवकः, भण्डारी, प्रतिहारी चेति
त्रयः दण्डनीत्यनुगुणं प्रशासकेन अवश्यं प्रबोधनीयाः इति स्पष्टम् । विद्यार्थी
पान्थः क्षुधार्तः भयकातरश्च आहत्य सामान्यतया राज्यस्य अभ्युदयाय वा शान्त्यै वा
पुण्याय वा प्रबोधनीयाः स्युः ।
अहिं नृपं च शार्दूलं किटिं बालकं तथा ।
परश्वानं च मूर्खञ्च सप्त सुप्तान् न
बोधयेत् ॥९/७
एवमेव
के न प्रबोधनीयाः इति अस्मिन् श्लोके वर्णितम् । प्रबोधनेन हानिः भवितुमर्हति
इत्यतः एवं प्रोक्तम् इति भासते ।
निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषमस्तु न चाप्यस्तु घटाटोपो भयङ्करः ॥
९/१०
मितभाषी
विवेकी प्रियभाषी शासकः मृदुभाषणं करोति चेत्
कार्यं न सिध्यति इत्यतः उत्तरदायित्वनिर्वहणाय
घटाटोपं/भीषणं कुर्यात् इति अत्र वर्णितम् ।
कौटिल्यस्य
अर्थशास्त्रम्
प्रजासुखे सुखं राज्ञः प्रजानां च हिते
हितम् ।
नात्मप्रैयं हितं राज्ञः प्रजानां तु प्रियं
हितम् ॥ कौ.अर्थ. १/१८
राजा प्रजानां हितार्थं प्रजानां
सुखार्थञ्च प्रवर्तेत इति अनेन पद्येन ज्ञायते । तस्य वैयक्तिकं अन्यत् सुखं वा
हितं वा नास्त्येव इत्यभिप्रायः कौटिल्येन अत्र गृहीतः ।
साम्प्रतिकप्रधानमन्त्रीसदृशाः केचनैव शासकाः ईदृशाः अस्माभिः देशे साम्प्रतं
द्रष्टुं शक्यन्ते । अतः एतस्य पद्यस्य तात्पर्यं समेषां शासकानां जीवने अवतरति
चेत् अर्थशास्त्रस्य सार्थक्यं सम्पद्यते
।
योगक्षेमसाधनो दण्डः तस्य नीतिर्दण्डनीतिः ।
अलब्धलाभार्था लब्धपरिरक्षणी
रक्षितविवर्धनी,
वृद्धस्य तीर्थेषु प्रतिपादनी । कौ.अर्थ. १/४
श्रुतिस्मृत्यविरोधेन राजवृत्तिर्हि शासनम्
।
सुयुक्तयार्थार्जनं यत्र अर्थशास्त्रं
तदुच्यते ॥
लोकानां अभ्युदयनिश्रेयसयोरेव
श्रुतिस्मृतीनां प्रवृत्तिः । अतः तदविरोधेन एव राजा प्रजापालनं करोति चेत्
तत्सेत्स्यति ।
आराधिता हि शीलेन प्रयत्नैश्चोपलालिताः
राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये
॥
पद्येऽस्मिन् राज्ञां कर्तव्यमनुक्त्वा
प्रजानाम् आचरणं व्यवहारः कथं स्यादिति प्रोक्तम् । राजानः प्रजानां सदाचारं
आद्रियन्ते विपरीतं चेत् प्रकुप्यन्ति । यत्नशीलाः एव प्रजाः राज्ञः प्रसन्नतां
जनयितुमर्हन्ति इति इदं पद्यं वर्णयति ।
औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः ।
समर्थान् सम्प्रगृह्यन्ति परानपि नराधिपाः ॥
(II – 26-35,36)
अहितं जनयन्ति चेत् स्वपुत्राश्चेदपि
राजानः त्यजन्ति । समर्थाः सन्ति चेत् राजानः तान् मानयन्ति, उच्चपदं प्रच्छन्ति
इति इदं पद्यं वर्णयन्ति । अधुनातनराजनीतौ असमर्थाश्चेदपि आत्मजानेव उन्नतपदे
प्रतिष्ठापयन्ति इति तु अनेन पद्येन निन्द्यते इति ज्ञायते ।
शुक्रनीतिः
राज्यवृक्षस्य नृपतिर्मूलं स्कन्धाश्च
मन्त्रिणः ।
शाखाः सेनाधिपाः सेनाः पल्लवाः कुसुमानि च ॥
प्रजाः फलानि भूभागा बीजं भूमिः प्रकल्पिता
। शु.नी. सा. ५/१२-१३
राज्यस्य
घटाकानि कथं परस्परं अविनाभावेन सम्बद्धानि इति पूर्वतने पद्ये समुपवर्णितम् ।
अत्र उच्चनीचभावः नास्ति । मिथः अन्योन्यसम्बन्धः वर्वर्ति । अयमेव
भारतीयदण्डनीतिशास्त्रस्य महिमा वर्तते ।
अधर्मशीलो नृपतिर्यदा तं भीषयेज्जनः ।
धर्मशीलातिबलवद्रिपोराश्रयतः सदा ॥
गुणनीतिबलद्वेषी कुलभूतोऽप्यधार्मिकः ।
नृपो यदि भवेत्तं तु त्यजेद्राष्ट्रविनाशकम्
॥
राजशासनं भारते कदापि
प्रभुत्ववादिशासनमिव(Autocratic) नासीदेव । प्रजाः तादृशं अधार्मिकं नीतिविरुद्धं
राजानं तत्पदात् अवतारयन्ति इति पूर्वतनपद्याभ्याम् उपवर्णितम् ।
तत्पदे तस्य कुलजं गुणयुक्तं पुरोहितः ।
प्रकृत्यनुमतिं कृत्वा स्थापयेद्राजगुप्तये
॥ शुक्रनी. २/२७४,७५
राजपदे कीदृशः नियुज्येत इति इदं पद्यं
वर्णयति । कुलजश्चेदपि गुणयुक्तः भवेदिति स्पष्टम् । तद्वंशीयः चेत् यः कोऽपि राजा
भवितुं नार्हति इत्यपि अस्य अभिप्रायो भवति ।
विदुरनीतिः
यत्नेन
स्वराष्ट्रं रक्षेत्
य एव यत्नः क्रियते परराष्ट्रविमर्दने ।
स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ॥
७०॥
अस्माकं
प्रतिवेशीराष्ट्रस्य स्थितिम् अवलोक्य अयं श्लोकः स्मर्यते । पाकिस्तानेन भारतस्य
नाशाय विमर्दनाय सर्वविधः श्रमः क्रियमाणः अस्ति । किन्तु स्वस्य अभ्युदयाय किमपि
न चिन्त्यते । राष्ट्रनेतृषु अस्य श्लोकस्य तात्पर्यानुगुणं प्रवृत्तिः भवति चेत्
राजनीतिः/दण्डनीतिः सार्थिका भवति । एषा विदुरनीतिः न केवलं पाकिस्तानाय
उपदेशात्मको वर्तते, अपि तु पाकिस्तानसदृशानां उत्तरकोरिया, टर्क, उक्रैन्,
पालेस्टैन्, जोर्डान् इत्यादिदेशानां कृते अपि उपयोगाय भवति ।
अनीत्या
राज्यनाशः
पितृपैतामहं राज्यं प्राप्तवान् स्वेन
कर्मणा ।
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥७१॥
प्रशासकः अनीतिमान् चेत् राज्यनाशः कथं
भवति इति पद्येऽस्मिन् वर्णितम् ।
चारचक्षुः
भवेत् नृपः
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति
ब्राह्मणाः ।
चारैः पश्यन्ति राजानः चक्षुभ्याम् इतरे
जनाः ॥७२॥
राज्ञः पुरस्तात् बहवो हि भृत्यादयः
विनीताः इव आत्मानं प्रदर्शयन्ति । तावता ते सर्वेऽपि विनीताः भवन्ति, श्रद्धधानाः
भवन्ति इति वा न तात्पर्यम् । अतः राजा वस्तुतः सर्वेषां परिजनानां विषये
चारचक्षुः सन् अवगच्छेत् । तदानीमेव याथार्थ्यं ज्ञायते इति पद्यमिदम् आख्याति ।
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं
परे ।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥७६॥
राज्ञा करिष्यमाणकर्मणः योजनां
कोऽपि पूर्वमेव न जानीयात् । येन हानिः
भवितुमर्हति । कार्यसम्पादनात्परमेव ज्ञायेत ।
गूढमन्त्रः
विजयते
यस्य मन्त्रं न जानन्ति बाह्याभ्यन्तराश्च
ये ।
स राजा सर्वतश्चक्षुः चिरमैश्वर्यमश्नुते ॥
७७॥
शासकस्य
विचारं आन्तरङ्गिकाः वा बाह्याः वा यथा न जानीयुः तथा सः मन्त्रणां करोति चेत् तस्य
सम्पदः वृद्धिः जायते ।
मन्त्रविप्लवः
एकं विषरसो
हन्ति शस्त्रेणैकश्च बध्यते ।
सराष्ट्रं
सप्रजं हन्ति राजानं मन्त्रविप्लवः ॥७८॥
मन्त्रणा
या शासकेन क्रियते सा राज्यहिताय न भवति चेत् तया सा मन्त्रणा समग्रं राज्यमेव
नाशयति इति इदं पद्यं वर्णयति ।
अविरोद्धा नश्यति
द्वाविमौ
ग्रसते भूमिः सर्पो बिलेशयानिव ।
राजानं चाविरोद्धारं
ब्राह्मणं चाप्रवासिनम् ॥८०॥
राज्ञः
विरोधिनः अवश्यं भवेयुः । ते बाह्याः वा भवन्तु आन्तरङ्गिकाः वा भवन्तु । विरोधिनः भवन्ति चेदेव राजा शासकः सक्रियः सन्
शासनकार्यं करोति । नो चेत् शयिताश्ववत् नश्यति
इति अयं श्लोकः आख्याति ।
भृत्यवात्सल्यम्
यस्मात्
न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य ।
तस्मिन्
भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति ॥८४॥
अभिप्रायं
यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः ।
वक्ता हितानामनुरक्त
आर्यः शक्तिज्ञ आत्मैव हि सोनुकम्पः ॥८५॥
मितं भुङ्क्ते
संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा ।
ददात्यमित्रेष्वपि
याचितः सन् तमात्मवन्तं प्रजहत्यनर्थाः ॥८६॥
भृत्यैः सह कथं वर्तितव्यम् ? इति शासकः जानीयात्,
येन शासकस्य श्रेयः भवति इत्यादिविचाराः पूर्वोक्तेषु पद्येषु वर्तन्ते
।
दीनसेवया श्रेयः अश्नुते
यो ज्ञातिमनुगृह्णाति
दरिद्रं दीनमातुरम् ।
स पुत्रपशुभिर्वृद्धिं
श्रेयश्चानन्त्यमश्नुते ॥
राजा दीनसेवाम् अवश्यं कुर्यात्, तेनैव राज्ञः आनन्त्यं
श्रेयः भवति ।
करग्रहणम्
यथा मधु
समादत्ते रक्षन् पुष्पाणि षट्पदः ।
तद्वदर्थान्
मनुष्येभ्यः आदद्यादविहिंसया ॥८८॥
करग्रहणस्य पद्धतिविषये इतोऽपि उत्तमम् उदाहरणम् अन्यत् भवितुं नार्हति एव
। अत्र वर्णिता पद्धतिः करदातुः क्लेषं
न जनयति, करग्राहकस्य लक्ष्यं न न्यूनीकरोति ।
लोकरञ्जनम्
चक्षुषा
मनसा वाचा कर्मणा च चतुर्विधम् ।
प्रसादयति
यो लोकं तं लोकोऽनुप्रसीदति ॥८९॥
एतत् पद्यं उत्तररामचिरितस्य प्रथमाङ्के विद्यमानः वसिष्ठसन्देशः समर्थयति । स च “युक्तः प्रजानाम्
अनुरञ्जने स्याः, तस्माद्यशो यत्परमं धनं वः” इत्यस्ति । चक्षुषा मनसा वाचा कर्मणा च प्रजारञ्जनं राज्ञा कर्तव्यं इति अस्य
सारः ।
शठे शाठ्यं समाचरेत्
यस्मिन्
यथा वर्तते यो मनुष्यः तस्मिन् तथा वर्तितव्यं स धर्मः ।
मायाचारो
मायया वर्तितव्यः साध्वाचारो साधुना प्रत्युपेयः ॥९२॥
देशानां
मध्ये विभिन्नाः सम्बन्धाः भवन्ति । सर्वेऽपि देशाः स्वीयलाभार्थमेव अन्यैः देशैः
सह सम्बन्धं स्थापयन्ति । अतः तदर्थं कदाचित्
दुर्मार्गान् अपि आश्रयन्ते । एतद्विज्ञाय तेन तेन देशेन सह वर्तितव्यम् ।
समीपकाले चीनदेशः भारतेन सह मैत्रीं कुर्वन्नेव गल्वान्-घाटी इत्यत्र
अस्मत्सैन्यस्य हानिमुत्पाद्य अस्मद्भूभागं आक्रान्तुं यत्नमरोत् तदा भारतेन कथं
व्यवहृतम् इति सर्वे जानन्ति । एवमेव
विश्वस्तोऽपि न विश्वसेत्
न विश्वसेदविश्वस्ते
विश्वस्ते नातिविश्वसेत् ।
विश्वासात्
भयमुत्पन्नं मूलान्यपि निकृन्तति ॥९३॥
शासकः
विश्वासायोग्यान् तु न विश्वसेत्, एवमेव विश्वासयोग्याः सन्ति इति मत्वा
अतिविश्वासेनापि तैः सह न व्यवहरेत् । यतो
हि अतिविश्वासात् कदाचित् भयमुत्पद्यते यच्च भयं मूलानि अपि नाशयति ।
शत्रुनिग्रहः
न
शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः ।
न्यग्भूत्वा
पर्युपासीत वध्यं हन्यात् बले सति ॥
अहताद्धि
भयं तस्मात् जायते न चिरादिव ॥
जगमोहनाख्यः
वरिष्ठः अधिकारी राज्यपालत्वेन काश्मीरे द्विवारं सेवामकार्षीत् तेन स्वलिखिते “My
frozen Turbulence in Kashmir” इत्याख्ये पुस्तके पूर्वतनैः राजनेतृभिः शत्रुविषये
स्वीकृतः अनुचितः निर्णयः वर्णितः ।
एकवारं तत्रत्यः मुख्यमन्त्री कारागारे बद्धान् सार्धैकशतं आतङ्ककारिणः
कापट्येन अमोचयत् । एवमेव यदा भारतस्य गृहमन्त्रित्वेन मुफ्ति महम्मद सयीद् आसीत्
तदा तत्पुत्रीं आतङ्ककारिणः अपाहरन् इत्यतः तदीयापेक्षानुसारं केचन उग्राः
आततायिनः उन्मोचिताः । यस्य च परिणामः पश्चात् काश्मीरे, समग्रे भारते च अत्यन्तं
दुःसहः आसीत् । एवमेव मौलाना मसूद अजर प्रभृतयः पञ्च आतङ्ककारिणः भारतस्य कारागारे
विद्यमानाः अटलसर्वकारेण अगतिकगत्या वा मोचिताः यस्य च परिणामः उत्तरवर्तिकाले
भारते कथमासीदिति इतिहासः प्रमाणम् ।
अतः राजनेता पूर्वोक्तं पद्यं जानाति चेत्
तादृशम् अनुचितं निर्णयं कदापि न स्वीकरोति । योगी आदित्यनाथः आततायिनां
निग्रहविषये अस्य पद्यस्य सारमवगत्य प्रवर्तमानो वर्तते इति तदीयकर्मणा प्रतीयते ।
कामन्दकीयनीतिसारः
कामन्दकीयनीतिसारे शासकस्य गुणाः
कर्तव्यानि च यानि वर्णितानि तनि दिङ्मात्रेण अत्र सङ्गृह्य प्रदत्तानि सन्ति ।
न्यायप्रवृत्तो नृपतिरात्मानमथ च प्रजाम् ।
त्रिवर्गेणोपसन्धत्ते निहन्ति ध्रुवमन्यथा ॥
१/१५
न्याय्येन शासनं कुर्वाणः राजा स्वस्य
प्रजानां धर्मार्थकामान् उत्पादयति । नो
चेत् इत्युक्ते अन्याय्येन रतः राजा सर्वस्यापि नाशाय कल्पते । अतः राज्ञि अयं
गुणः भवेत् । राजा न्याय्यं आचरति चेदेव प्रजाः धर्मार्थकामान् प्राप्तुमर्हन्ति ।
नो चेत् अधर्ममार्गे प्रवृत्ताः अनर्थं साधयन्तः निराशाः भवन्ति इति ज्ञायते ।
धर्माद् वैजवनो राजा चिराय बुभुजे महीम् ।
अधर्माच्चैव नहुषः प्रतिपेदे रसातलम् ॥ १/१६
धर्ममार्गप्रवृत्तः शासकः चिरकालं यावत्
राज्यश्रियं अनुभवति । अधर्मगार्गी अस्ति चेत् अधोगतिं प्राप्नोति इति पद्यमिदं
वर्णयति । अतः अस्मिन् अपि काले इदं पद्यं राजनीतौ सुष्ठु समन्वेति ।
धर्मनिरपेक्षता इत्यनेन वस्तुतः अधर्ममार्गपरता इत्यर्थः अनुभवेन भारतीयैः
आत्मसात्कृतम् अस्ति । अतः तस्य शब्दस्य संविधाने योजनात्परम् अत्र
राजनैतिक-अस्थिरता सदा दरीदृश्यते । किन्तु धर्ममार्गे प्रवृत्तस्य राजनेतुः पदात्
च्युतिः प्रायः दुश्शकम् इति अस्मत्प्रधानमन्त्रिणः द्वाविंशतेः वर्षाणाम्
आधिकारिकपदे स्थितिः द्योतयति ।
तस्मात् धर्मं पुरस्कृत्य यतेतार्थाय भूपतिः
।
धर्मेण वर्धते राज्यं तस्य स्वादु फलं
श्रियः ॥ १/१७
अत एव धर्ममार्गेण शासनं कर्तव्यम्, येन
राज्यं वर्धते । तस्य स्वादु फलं भवति सम्पदः इति अत्र प्रोक्तम् । इदमपि जगतः विकटपरिस्थितावपि भारतेन
अद्यत्वे देशस्य GDP(7.2%) यत् सर्वाधिकं साधितं तेन
प्रमाणितं भवति ।
न्यायेनार्जनमर्थस्य रक्षणं वर्धनं तथा ।
सत्पात्रप्रतिपत्तिश्च राजवृत्तं चतुर्विधम्
॥ १/२०
शासकस्य चतुर्विधं कार्यं अत्र
उपवर्णितम् । सम्पदः अर्जनं, रक्षणं, वर्धनं, सत्पात्रेभ्यः दानं च । एतत सर्वमपि चतुर्विधं राजवृत्तं
न्यायेन एव सम्पादनीयम् ।
सदानुरक्तप्रकृतिः प्रजापालनतत्परः ।
विनीतात्मा हि नृपतिः भूयसीं श्रियमश्नुते ॥
१/२६
जितेन्द्रियस्य नृपतेः नीतिमार्गानुसारिणः ।
भवन्ति ज्वालिताः लक्ष्म्यः कीर्तयश्च
नभस्पृशः ॥ १/६५
पूर्वोक्तपद्यद्वयमपि प्राक्तनपद्यानि
इव राज्ञः/शास्कस्य श्रेयसे सः
कीदृङ्गुणान्वितः स्यादिति प्रतिपादयति, अपि च तादृशगुणोपेतेन किं फलं प्राप्यते
चेति ।
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च
शाश्चती ।
विद्याश्चतस्र एवैता लोकस्स्थितिहेतवः ॥ २/२
दण्डनीतिर्यदा सम्यङ् नेतारमधितिष्ठति ।
तदा विद्याविदः शेषाः विद्याः सम्यगुपासते ॥
यो
नेता सम्यक् दण्डनीतिम् अनुसरति सर्वेऽपि आन्वीक्षिक्याद्याः सर्वाः विद्याः
उपार्जयन्ति, उपासते च इत्युक्ते शास्त्रोक्तम् अनुतिष्ठन्ति इति ।
रामायणम्
वाल्मीकिरामायणे
अयोध्याकाण्डे शततमः सर्गः दण्डनीति दृष्ट्या अत्यन्तं महत्वपूर्णः । वनवासार्थं
निर्गतं रामं पुनः सिंहासने अभिषेक्तुम् इच्चुकः भरतः चित्रकूटं प्रति सामात्यः सप्रजः
यदा अगच्छत् तदा श्रीरामचन्द्रः राज्यशासनं कथं कुर्वन्नस्ति
? कथं वा कर्तव्यम् अस्तीति प्रेम्णा भरतं यदबोधयत्
तत् वस्तुतः आधुनिकराजनीतिशास्त्रे अपि बोधयितुं योग्यः विषयः अस्ति । अतः ततः कांश्चन
श्लोकान् चित्वा अत्र प्रदर्शयन् अस्मि ।
मन्त्रिणः
कीदृशाः स्युः ?
कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः
।
कुलीनश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥
हे
भरत, भवतः आस्थाने कीदृशाः मन्त्रिणः भवता नियोजिताः ? ते मन्त्रिणः भवत्सदृशाः एव
सन्ति किल ? शूराः ज्ञानिनः जितेन्द्रियाः उत्तमकुले जाताः, तीक्ष्णमतयः मन्त्रिणः
एव भवता नियोजिताः किल ? इति रामस्य प्रश्ने राज्यस्य सुशासनार्थं पूर्वोक्तविशेषणविशिष्टाः
मन्त्रिणः आवश्यका इति अभिप्रायोऽस्ति । अतः एतादृशैः मन्त्रिभिः सह मन्त्रणां
कृत्वा राजा शास्ति चेत् साफल्यमवाप्तुम्(विजयम्) अर्हति इति अग्रिमश्लोके कथयति ।
मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।
सुसंवृत्तो मन्त्रिधुरैरमात्यैः शास्त्रकोविदैः
॥
राज्यस्य
समृद्धये अहर्निशं एभिः मन्त्रिभिः सह मन्त्रणां कृत्वा राजा निर्णयं
स्वीकुर्यात्, निद्रादिविषयमोहगर्ते निमग्नो न भवेत् इति अनेन श्लोकेन उपदिशति-
कच्चिन्निद्रावशं नैषीः कच्चित्कालेऽवबुद्ध्यसे
।
कच्चिच्चापररात्रेषु चिन्तस्यस्यर्थनैपुणम् ॥
शत्रुतः
गुप्तस्य गोपनम्
इत्थम्
मन्त्रणासमयेऽपि गोप्यता संरक्षणीया । मन्त्रणार्थमपि अधिकाः न भवेयुः । गुप्ताः
विषयाः अधिकेषु मन्त्रयितृषु सत्सु बहिः प्रकाशिताः भवन्ति । भवता अधिकजनानां
मध्ये सुचिन्तिताः गुप्तविषयाः शत्रूणां निकटे न गच्छन्ति किल ? इति रामः
अग्रिमश्लोके भरतं मन्त्रणाविषयसंरक्षणजागृतिम् उपदिशति -
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।
कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न
परिधावति ॥ इति ।
समये
सुकार्यसाधनम्
अल्पश्रमेण
साधयितुं योग्यं, किञ्चन महत्प्रयोजनं मनसि निधाय सुचिन्तितं कार्यं विलम्बेन न
आरभसे किल ? तादृशाणि कार्याणि तूर्णं साधनीयानि इति रामस्य अभिप्रायः अस्मिन्
श्लोक्के उपदिष्टो वर्तते -
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।
क्षिप्रमारभसे कर्म न दीर्घयसि राघव ॥ इति ।
शत्रुभ्यः
कार्यरक्षणम्
शत्रवः
अस्माभिः करिष्यमाणानि कार्याणि आदावेव न जानीयुः । कार्यं यदा सिद्ध्यति ततः परं
ज्ञास्यन्ति चेत् चिन्ता नास्ति । पूर्वमेव ज्ञास्यन्ति चेत् कार्ये बाधं जनयेयुः
। अथवा अस्मदपेक्षया पूर्वमेव ते तत् कार्यं साधयित्वा अस्माभिः प्राप्तव्यं
प्रयोजनं ते अपहरेयुः । तदर्थं रामः भरतं अग्रिमे श्लोके जागरयति-
कच्चिन्नु सुकृतान्येव कृतरूपाणि वा पुनः ।
विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥
इति ।
स्वीयस्य
गोप्यस्य परानवगतिः, परेषां तु गोप्यस्य अवगतिः
अमात्यैः
सह मन्त्रितः विचारः बहिः न प्रकटितः चेदपि
इतरैः(शत्रुभिः) तर्केण युक्त्या वा न ज्ञायेत । प्रत्युत इतरैः (शत्रुभिः)
मन्त्रितः विचारः प्रकटनात्प्रागेव ज्ञातव्यः । अतः ईदृशं कार्यं भवान् भरतः
साधयति किल इति रामः पृच्छति -
कच्चिन्न तर्कैर्युक्त्या वा ये
चाप्यपरिकीर्तिताः ।
त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम् ॥
इति ।
सुयोग्यानां
श्रेष्ठानां नियोजनम्
एवम्
मन्त्रणां कृत्वा समस्यापरिहाराय सम्पदभिवृद्धये च अल्पसंख्याकाश्चेदपि सुयोग्यानामेव मन्त्रिणां
राजा नियोजनं कुर्यात् न तु अधिकसंख्याकानां अयोग्यानाम् इति सकारणं प्रतिपाद्य भरतम् इत्थम् उपदिशति रामः -
कच्चित्
सहस्रैर्मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु
कुर्यान्निश्रेयसं महत् ॥
सहस्राण्यपि
मूर्खाणां यद्युपास्ते महीपतिः ।
अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥
एकोऽप्यमात्यो
मेधावी शूरो दक्षो विचक्षणः । राजानं
राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥
योग्यतानुसारं
भृत्यानां नियोजनम्
जनानां
योग्यतां सम्यक् विज्ञाय तदनुगुणं तेषां कृते विविधानि पदानि दातव्यानि भवन्ति ।
साम्प्रतिकप्राशासनिकव्यवस्थायां वयं एतद्विपरीतं पश्यामः । किञ्च श्रेष्ठानां नियोजनवेलायां तेषां
श्रेष्ठतायाः मूल्याङ्कनार्थं तेषां पितृपितामहादयः शुचयः आसन् वा न वेत्यपि
परीक्षणीयमिति रामः वदति । सम्प्रति नेतॄणाम् अधिकारिणां च भ्रष्टाचारं पश्यामः
चेत् रामस्य चिन्तनं रामराज्यस्य निर्माणे कियत् श्रेष्ठमासीदिति पद्यद्वयेन
ज्ञायते -
कच्चिन्मुख्या
महत्स्वेव मध्यमेषु च मध्यमाः । जघन्याश्च
जघन्येषु भृत्यास्ते तात योजिताः ॥
अमात्यानुपधातीतान्
पितृपैतामहान् शुचीन् । श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥
उग्रकरविधानस्य
परिणामः
द्विरेफवत्
राज्ञा करग्रहणं कर्तव्यं येन राज्ञः अपि लाभः भवेत् प्रजानामपि हानिः न स्यात् इति
चाणक्यः अर्थशास्त्रे वदति । द्विरेफः मकरन्दं पिबति चेत् द्विरेफस्य तु लाभः
भवत्येव । किन्तु पुष्पस्य कापि हानिर्न भवति प्रत्युत परागस्पर्शेन
वृक्षसन्ततिरेव वर्धते । किन्तु राजा बलात् उग्ररूपेण करं विधत्ते चेत् कामचारिणं
पुरुषं स्त्रियः यथा अवजानन्ति तथा राजानमपि प्रजाः अवजानन्ति । भवान् तु तथा न
करोति किल ? इति रामः अनेन श्लोकेन पृच्छति -
कच्चित् त्त्वां नावजानन्ति याजकाः पतितं यथा ।
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ इति ।
उपायादिकुशलस्य
शत्रोः अहननस्य परिणामः
राजा
कुशलं शत्रुं न हन्ति चेत् सः शत्रुः स्वयं राजानमेव हन्ति । अतः तादृशस्य शत्रोः
हननम् अवश्यमेव कर्तव्यम् इति रामः इत्थम् उपदिशति -
उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् ।
शूरम् ऐश्वर्यकामं च यो हन्ति न स हन्यते ॥ इति
।
कीदृशस्य
सेनापतेः नियोजनं कर्तव्यम् ?
एकस्य
राज्यस्य संरक्षणार्थं सेनापतिः कथं भवेत् ? कीदृशस्य सेनापतेः नियोजनं
कर्तव्यमिति भरतमुपदिशति रामः -
कच्चित् धृष्टश्च शूरश्च धृतिमान् मतिमान् शुचिः
।
कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ इति ।
कर्मचारिणां
वेतनस्य भक्तस्य च समये प्रदानस्य महत्वम्
प्रशासकस्य
इयं तु चातुरी भवति यत् काले काले कर्मकरेभ्यः वेतनस्य भक्तस्य च दानेन तत्सकाशात्
अधिकसेवायाः स्वीकारः इति । तदभावे महाननर्थश्च भवतीति राजा जानीयात् । भवान् तु
इत्थमेव काले तेभ्यः वेतनं भक्तञ्च सर्वेभ्यः कर्मकरेभ्यः प्रयच्छति किल ? विलम्बं
तु न करोति किल ? इति रामः भरतं पृच्छति -
कच्चिद्बलस्य
भक्तञ्च वेतनं च यथोचितम् । सम्प्राप्तकाले दातव्यं ददासि न विलम्बसे ॥
कालातिक्रमणे
ह्येव भक्तवेतनयोर्भृताः । भर्तुरप्यतिकुप्यन्ति सोऽनर्थः सुमहान् कृतः ॥ इति ।
स्वबलस्य
शत्रुसामर्थ्यस्य च नियतपरीक्षा
त्रयाणां
त्रयाणां गुप्तचराणां माध्यमेन शत्रुपक्षस्य अष्टादशव्यक्तीनां स्वपक्षस्य
पञ्चदशव्यक्तीनाञ्च व्यवहारस्य विषये राज्ञा अवधानं दातव्यमिति मनुना यदुक्तं
तदत्र दण्डनीतिशास्त्रानुगुणं रामः भरतमुपदिशति । शत्रुपक्षस्य आष्टादश जनाः इमे
भवन्ति येषां व्यवहारः सूक्ष्मेक्षिकया अवलोकनीयः – मन्त्री, पुरोहितः, युवराजः,
सेनापतिः, द्वारपालः, अन्तःपुराध्यक्षः, कारागाराध्यक्षः, कोशाध्यक्षः,
यथायोग्यकार्येषु धनव्ययकर्ता सचिवः, सुरक्षासचिवः(Security Chief), नगराध्यक्षः,
कार्यनिर्माणकर्ता(अभियन्ता), धर्माध्यक्षः, सभाध्यक्षः, दण्डपालः, दुर्गपालः,
राष्ट्रसीमापालः, वनरक्षकश्च । स्वपक्षे तु पूर्वोक्तेषु आदिमान् त्रीन् विहाय
अवशिष्टानां विषये राजा दृष्टिं निदधीत ।
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि
चारकैः ॥ इति ।
दण्डितशत्रोर्विषये
जागरूकता
कच्चित्
व्यपास्तान् अहितान् प्रतियातांश्च सर्वदा । दुर्बलाननवज्ञाय वर्तसे रिपुसूदन ॥
शत्रवः
व्यपास्ताः दुर्बलाश्चेदपि तेषु अवज्ञा कदापि न कर्तव्या । यतो हि
ते पुनः बलं वर्धयित्वा नातिक्राम्यन्ति इति वक्तुं न शक्यते ।
नास्तिकबुद्धीनां
(बुद्धिजीविनः) निन्दा
सम्प्रति
यथा बुद्धिजीविनः इति यान् वयं ब्रूमः तादृशाः जनाः रामायणकालेऽपि आसन् ।
नास्तिकाः ते आत्मानं पण्डितं मन्यमानाः दुर्बुधाः अनर्थकुशलाः भवन्ति । ते सर्वदा
निरर्थकतर्कमुपयुज्य वृथा अपलापं
कुर्वन्तः समाजस्य शान्तिं नाशयन्ति । काङ्ग्रेस्-प्रभृतीनि दलानि यथा सम्प्रति
तान् सम्पोष्य स्वानुकूलतया उपयुञ्जते न तथा कर्तव्यमिति रामः तदानीमेव
भरतमुपादिशत् -
कच्चिन्न
लोकायतिकान् ब्राह्मणांस्तात सेवसे । अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥
धर्मशास्त्रेषु
मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति
ते ॥ इति ।
इत्थं
स्त्रीसंरक्षणविषये, दुर्गसमृद्धिविषये, आर्याणाम् अविचार्य दण्डदानविषये, चोराणां
उन्मोचनहानिविषये चेति बहुषु विषयेषु भरतम् उपदिश्य राजधर्मं बोधितवान् ।
रामायणस्य अयोध्याकाण्डे विद्यमाने अस्मिन् शततमे सर्गे अत्यन्तं प्रासङिकाः
सार्वकालिकाः राजधर्मसम्बद्धाः विषयाः सप्तदशलक्षवर्षेभ्यः प्रागेव रामेण
उपदिष्टाः इति अत्यन्तं गर्वेण भक्त्या च अस्माभिः परिगृह्यन्ते ।
मनुस्मृतिः
स्मृतयः
वस्तुतः मनुष्यकल्याणकारिण्यः पुरुषार्थसाधनाय
प्रवृत्ताः सुहृत्संहितानाम्ना अभिधीयन्ते
। अस्मद्देशे यद्यपि मन्वाद्याः बह्व्यः स्मृतयः सन्ति, तथापि तासु “कलौ पाराशरं
स्मृतम्” इति पराशरस्मृतेः कालोचितत्वम् प्रतिपादितम् । तावता मन्वादिस्मृतयः
त्याज्याः इति न तात्पर्यम् । अतः मनुस्मृतौ राजनीति सम्बद्धतया प्रोक्तान् कांश्चन
अंशान् अत्र दिङ्मात्रेण प्रतिपादयामः ।
अराजके
हि लोकेऽस्मिन् सर्वतो विद्रुते भयात् ।
रक्षार्थस्य
सर्वस्य राजानमसृजत्प्रभुः ॥ ७/३
सर्वेषां
लोकानां रक्षार्थं राज्ञः इत्युक्ते शासकस्य आवश्यकता अस्ति । अतः भगवान् राजानं
सृष्टवान् ।
बालोऽपि
नावमन्तव्यो मनुष्य इति भूमिपः ।
महती
देवता ह्येषा नररूपेण तिष्ठति ॥ ७/८
“युक्तियुक्तं
वचो ग्राह्यं बालादपि शुकादपि” इतीदं वचनं अनुवदतीव इदं पद्यमस्ति ।
कार्यं
सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।
कुरुते
धर्मसिद्ध्यर्थं विश्वरूपे पुनः पुनः ॥ ७/१०
कार्यस्य
स्वरूपम् अवलोक्य, साधयितुमपेक्षितां शक्तिं च परीक्ष्य देशकालयोः औचित्यं निर्णीय
राजा धर्माचरणम् इत्युक्ते प्रजापालनकार्यं सम्पादयेत् येन समेषां हितं भवति ।
अन्यानपि
प्रकुर्वीत शुचीन् प्राज्ञान् अवस्थितान् ।
सम्यगर्थसमाहर्तॄन्
अमात्यान् सुपरीक्षितान् ॥ ७/६०
प्रजापालनकर्मणि
अपेक्षितान् अमात्यान् कीदृशान् शासकः
नियोजयेत् इति पद्यमिदं वर्णयति । रामायणे रामोऽपि एतदनुसारेणैव भरतस्य निकटे
कीदृशान् अमात्यान् नियोजितवान् इति पृच्छति ।
स्यन्दनाश्वैः
समे युध्येत् अनूपे नौद्विपैस्तथा ।
वृक्षगुल्मावृते
चापैरसिचर्मायुधैः स्थले ॥ ७/१९२
दूतं
चैव प्रकुर्वीत सर्वशास्त्रविशारदम् ।
इङ्गिताकारचेष्टज्ञं
शुचिर्दक्षं कुलोद्गतम् ॥
सन्धिविग्रहकालज्ञान्
समर्थान् आयतिक्षमान् ।
परैरहार्यान्
शुद्धांश्च धर्मतः कामतोर्थतः ॥
समाहर्तुं
प्रकुर्वीत सर्वशास्त्रविपश्चितः ।
कुलीनान्
वृत्तिसम्पन्नान् निपुणान् कोषवृद्धये ॥ ७/६४ .....
आयव्ययस्य
कुशलान् गणितज्ञानलोलुपान्
नियोजयेत्
धर्मनिष्ठान् सम्यक्कार्यार्थचिन्तकान् ॥
No comments:
Post a Comment