Thursday, July 27, 2023

शिक्षासूत्रम् - ४१ : ज्ञानकेन्द्रत्वेन सामाजिकजागृतेः केन्द्रत्वेन च संस्थाः विकासनीयाः (Institutions to be evolved into centers of knowledge and social awakening)

 

41. ज्ञानकेन्द्रत्वेन सामाजिकजागृतेः केन्द्रत्वेन च संस्थाः विकासनीयाः

(Institutions to be evolved into centers of knowledge and social awakening)

(मया लिखितं शिक्षासूत्रस्य भाष्यम्)

ज्ञानकेन्द्रत्वेन संस्थाः   

अस्माकं शैक्षिकसंस्थाः प्राचीनकाले गुरुकलरूपेण आसन् । तत्रत्यानाम् आचार्याणां विषये राज्ञामपि महान् आदरः आसीत् । राजानः गुरकुलीयानाम् आचार्याणां पुरस्तात् नतमस्तकाः भवन्ति स्म ।  गुरुकुलीयवातावरणमपि आचार्याणां तपोराशिना कथं भवतीति कालिदासः इत्थं वदति

शमप्रधानेषु तपोवनेषु गूढं दाहात्मकमस्ति तेजः ।

स्पर्शानुकूला अपि सूर्यकान्तास्ते ह्यन्यतेजोऽभिभवाद्दहन्ति ॥ अ.शा. २.७

तत्रैव शाकुन्तले आश्रमपदम् उपसृत्य किम् अकार्षीत् राजा दुष्यन्तः इति अवलोक्यताम् -

 राजा - (अवतीर्य) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं तावद् गृह्यताम् । (इति सूतस्याभरणानि धनुश्चोपनीयार्पयति)

          अनेन इदं ज्ञायते यत् गुरुकुलेषु राजानः अपि विनीताः सन्तः स्वीयं राजवैभवम् अप्रदर्शयन्तः विनीताश्च सन्तः प्रविशन्ति स्म इति । तस्य सर्वस्य कारणं गुरुकुलानि ज्ञानकेन्द्राणि आसन् । ज्ञानं च

नहि ज्ञानेन सदृशं पवित्रमिह विद्यते “  इत्युक्त्यनुगुण पवित्रम् अस्ति ।  

अतः तत्प्राप्त्यर्थम् जनानां सहजप्रवृत्तिः जायते स्म । शिक्षा लब्धजन्मनः सर्वस्यापि जनस्य पुरुषार्थसाधिका आसीत् । यतो हि गुरुकुलानि ज्ञानकेन्द्रत्वेन सर्वेषां जनानाम् अभ्युदयाय जीवनमार्गदर्शकाणि आसन् । पारलौकिकं जीवनमपि ऐहिकजीवनेन कथं साधनीयमिति मार्गदर्शनं गुरुकुलेषु प्राप्यते स्म इत्यतः निश्रेयसाय लौकिकजीवनं स्वस्थम् आदर्शपूर्णं शान्तिप्रदं च कर्तुं गुरुकुलानि प्रवर्तन्ते स्म ।

          किन्तु अद्यत्वे विद्यालयाः एतादृशं स्थानं न अर्हन्ति । जीवनोपयोगिनी विद्या विद्यालयेषु प्राप्यते इति निश्चयः साम्प्रतं नास्ति । जीवनं केवलं धनार्जनेन सुखमयं भवति इति नास्ति । किन्तु साम्प्रतं धनार्जनोपयोगिनी शिक्षा भवेत् इति भ्रमेण तादृशीं शिक्षां बालेभ्यः दापयितुं सर्वेषां यत्नः चलति । जीवनाय धनम् आवश्यकं चेदपि धनेनैव सुखं न प्राप्यते इत्यतः तदर्थमपि (आत्मपरितोषाय) छात्राः सज्जीकर्तव्याः । 

वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः । सम इव परितोषो निर्विशेषो विशेषः ॥

 स तु भवतु दरिद्रो यस्य तृष्णा विशाला । मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥ 

          एवं अभ्युदयः अस्माकं परितुष्ट्या भवति । सा च परितुष्टिः अस्माकं छात्राणां भाविजीवने सम्पादिता भवेत् इत्येतदर्थमपि शिक्षा आवश्यकी । 

 निश्रेयसस्य तु कल्पनामात्रमपि अस्मच्छात्राः विद्यालयेषु न प्रापुवन्ति एव । वस्तुतः निश्रेयसस्य प्राप्तिः सदाचारेण/सद्व्यवहारेण विना कथमपि न भवति । सदाचारः कः ?

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।।१४।।

एते पंच यमाः प्रोक्ताः शृण्वेषामपि लक्षणम् ।।

इति स्कन्दपुराणे यमान् उक्त्वा तद्विवरणं पश्चात् एवं प्रादायि

आत्मवत्सर्वभूतेषु यो हिताय प्रवर्तते ।। १५ ।।

अहिंसैषा समाख्याता वेदसंविहिता च या ।। ॥ इति ।

विद्याविनयसंपन्नब्राह्मणे गवि हस्तिनि । 

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ इति ब्रह्मपुराणे (२३६/२०) 

श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवाऽवधार्यताम् । 

आत्मनः प्रतिकूलानि परेषां न् असमाचरेत् ॥ पञ्चतन्त्रम्

श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।

परोपकारः पुण्याय पापाय परपीडनम् ॥ चेति महाभारते  साररूपेण प्रोक्तम् ।

इत्थं स्वस्थजीवनोपयोगिविषयाः निश्रेयसमार्गप्रदर्शकाः अस्मन्वाङ्मये लभ्यमानाः एतादृशाः असंख्याकाः विषयाः इदानीन्तनशिक्षायाः पाठ्यक्रमेषु स्थानं प्राप्नुयुः येन अस्मच्छात्राः अध्ययनोत्तरकालिकजीवनं सुखेन यापयेयुः ।

सामाजिकजागृतेः केन्द्रत्वेन संस्थाः 

          शैक्षिकसंस्थाः निर्दिष्टस्य पाठ्यक्रमस्य बोधनमात्रं स्वीयलक्ष्यत्वेन मन्यमानाः दृश्यन्ते । अतः बोधनसम्बद्धानि कार्याणि विहाय अन्येषां सामाजिक-उत्तरदायित्वानां विषये न कदापि चिन्तयन्ति । बहुत्र इदम् अपि लक्ष्यं साधयितुं अक्षमाः सन्ति इति तु अस्त्येव । काश्चन संस्थाः उत्तमशैक्षिकोपलब्धिः एव परमलक्ष्यमिति व्यवहरन्ति । 

वस्तुतः उत्तमनागरिकाणां निर्माणं शिक्षायाः प्रधानं लक्ष्यं भवेत् ।  यतो हि शिक्षाप्राप्तेरनन्तरं छात्राः समाजं प्रविशन्ति । समाजे प्रविष्टानां छात्राणाम् उत्तरदायित्वं सामाजिकस्वास्थ्यसंरक्षणं भवेत् । तच्च उत्तरदायित्वनिर्वहणाय अपेक्षितानां कौशलानां प्राप्तिः विद्यालये एव भवेत् । सामाजिकमूल्यानि छात्रेण अधिगतानि भवेयुः । 

          समाजे शिक्षायाः अभावादिकारणात् विभिन्नाः कुरीतयः भवन्ति ।  केषुचित् विषयेषु गुणाधानाय अपि जनेषु जागर्या आवश्यकी । यथा सार्वजनीनसम्पदः संरक्षणम्, पर्यावरणस्य संरक्षणम्, सार्वजनिकस्थलानां स्वच्छता,   स्त्रीणां संरक्षणम् सम्माननम् च, वृद्धानां सेवा, बालानां क्रीडादिसौविध्यकल्पनम्, भूतानुकम्पा, इत्यादिषु बहुषु विषयेषु काले काले जागर्या आवश्यकी । एतादृशीं जागर्यां कर्तुं शैक्षिकसंस्थाः प्रवर्तेरन् । सामजिकजागर्यायाः केन्द्रत्वेन शैक्षिकसंश्थाः भवेयुः ।

No comments:

Post a Comment