41. ज्ञानकेन्द्रत्वेन सामाजिकजागृतेः
केन्द्रत्वेन च संस्थाः विकासनीयाः
(Institutions to be
evolved into centers of knowledge and social awakening)
(मया लिखितं शिक्षासूत्रस्य भाष्यम्)
ज्ञानकेन्द्रत्वेन संस्थाः
अस्माकं शैक्षिकसंस्थाः प्राचीनकाले
गुरुकलरूपेण आसन् । तत्रत्यानाम् आचार्याणां विषये राज्ञामपि महान् आदरः आसीत् ।
राजानः गुरकुलीयानाम् आचार्याणां पुरस्तात् नतमस्तकाः भवन्ति स्म । गुरुकुलीयवातावरणमपि आचार्याणां
तपोराशिना कथं भवतीति कालिदासः इत्थं वदति –
शमप्रधानेषु तपोवनेषु
गूढं दाहात्मकमस्ति तेजः ।
स्पर्शानुकूला अपि
सूर्यकान्तास्ते ह्यन्यतेजोऽभिभवाद्दहन्ति ॥ अ.शा. २.७
तत्रैव शाकुन्तले आश्रमपदम् उपसृत्य
किम् अकार्षीत् राजा दुष्यन्तः इति अवलोक्यताम् -
राजा - (अवतीर्य)
सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं तावद्
गृह्यताम् । (इति सूतस्याभरणानि धनुश्चोपनीयार्पयति)
अनेन इदं ज्ञायते यत् गुरुकुलेषु राजानः अपि
विनीताः सन्तः स्वीयं राजवैभवम् अप्रदर्शयन्तः विनीताश्च सन्तः प्रविशन्ति स्म इति
। तस्य सर्वस्य कारणं गुरुकुलानि ज्ञानकेन्द्राणि आसन् । ज्ञानं च
“नहि ज्ञानेन सदृशं
पवित्रमिह विद्यते ।“ इत्युक्त्यनुगुणं
पवित्रम् अस्ति ।
अतः
तत्प्राप्त्यर्थम् जनानां सहजप्रवृत्तिः जायते स्म । शिक्षा लब्धजन्मनः सर्वस्यापि
जनस्य पुरुषार्थसाधिका आसीत् । यतो हि गुरुकुलानि ज्ञानकेन्द्रत्वेन सर्वेषां
जनानाम् अभ्युदयाय जीवनमार्गदर्शकाणि आसन् । पारलौकिकं जीवनमपि ऐहिकजीवनेन कथं
साधनीयमिति मार्गदर्शनं गुरुकुलेषु प्राप्यते स्म इत्यतः निश्रेयसाय लौकिकजीवनं
स्वस्थम् आदर्शपूर्णं शान्तिप्रदं च कर्तुं गुरुकुलानि प्रवर्तन्ते स्म ।
किन्तु अद्यत्वे विद्यालयाः एतादृशं स्थानं न
अर्हन्ति । जीवनोपयोगिनी विद्या विद्यालयेषु प्राप्यते इति निश्चयः साम्प्रतं
नास्ति । जीवनं केवलं धनार्जनेन सुखमयं भवति इति नास्ति । किन्तु साम्प्रतं
धनार्जनोपयोगिनी शिक्षा भवेत् इति भ्रमेण तादृशीं शिक्षां बालेभ्यः दापयितुं
सर्वेषां यत्नः चलति । जीवनाय धनम् आवश्यकं चेदपि धनेनैव सुखं न प्राप्यते इत्यतः
तदर्थमपि (आत्मपरितोषाय) छात्राः सज्जीकर्तव्याः ।
वयमिह परितुष्टा वल्कलैस्त्वं
दुकूलैः । सम इव परितोषो निर्विशेषो विशेषः ॥
स तु भवतु दरिद्रो
यस्य तृष्णा विशाला । मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥
एवं अभ्युदयः अस्माकं परितुष्ट्या भवति । सा च
परितुष्टिः अस्माकं छात्राणां भाविजीवने सम्पादिता भवेत् इत्येतदर्थमपि शिक्षा
आवश्यकी ।
निश्रेयसस्य तु
कल्पनामात्रमपि अस्मच्छात्राः विद्यालयेषु न प्रापुवन्ति एव । वस्तुतः निश्रेयसस्य
प्राप्तिः सदाचारेण/सद्व्यवहारेण विना कथमपि न भवति । सदाचारः कः ?
अहिंसा सत्यमस्तेयं
ब्रह्मचर्यापरिग्रहौ ।।१४।।
एते पंच यमाः
प्रोक्ताः शृण्वेषामपि लक्षणम् ।।
इति स्कन्दपुराणे यमान् उक्त्वा
तद्विवरणं पश्चात् एवं प्रादायि –
आत्मवत्सर्वभूतेषु
यो हिताय प्रवर्तते ।। १५ ।।
अहिंसैषा समाख्याता
वेदसंविहिता च या ।। ॥ इति ।
विद्याविनयसंपन्नब्राह्मणे
गवि हस्तिनि ।
शुनि चैव श्वपाके च
पण्डिताः समदर्शिनः ॥ इति ब्रह्मपुराणे (२३६/२०)
श्रूयतां
धर्मसर्वस्वं श्रुत्वा चैवाऽवधार्यताम् ।
आत्मनः प्रतिकूलानि
परेषां न् असमाचरेत् ॥ पञ्चतन्त्रम्
श्लोकार्धेन
प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।
परोपकारः पुण्याय पापाय परपीडनम् ॥ चेति महाभारते
साररूपेण प्रोक्तम्
।
इत्थं
स्वस्थजीवनोपयोगिविषयाः निश्रेयसमार्गप्रदर्शकाः अस्मन्वाङ्मये लभ्यमानाः एतादृशाः
असंख्याकाः विषयाः इदानीन्तनशिक्षायाः पाठ्यक्रमेषु स्थानं प्राप्नुयुः येन
अस्मच्छात्राः अध्ययनोत्तरकालिकजीवनं सुखेन यापयेयुः ।
सामाजिकजागृतेः केन्द्रत्वेन संस्थाः
शैक्षिकसंस्थाः निर्दिष्टस्य पाठ्यक्रमस्य बोधनमात्रं
स्वीयलक्ष्यत्वेन मन्यमानाः दृश्यन्ते । अतः बोधनसम्बद्धानि कार्याणि विहाय
अन्येषां सामाजिक-उत्तरदायित्वानां विषये न कदापि चिन्तयन्ति । बहुत्र इदम् अपि
लक्ष्यं साधयितुं अक्षमाः सन्ति इति तु अस्त्येव । काश्चन संस्थाः
उत्तमशैक्षिकोपलब्धिः एव परमलक्ष्यमिति व्यवहरन्ति ।
वस्तुतः उत्तमनागरिकाणां निर्माणं
शिक्षायाः प्रधानं लक्ष्यं भवेत् । यतो हि शिक्षाप्राप्तेरनन्तरं छात्राः समाजं प्रविशन्ति । समाजे
प्रविष्टानां छात्राणाम् उत्तरदायित्वं सामाजिकस्वास्थ्यसंरक्षणं भवेत् । तच्च
उत्तरदायित्वनिर्वहणाय अपेक्षितानां कौशलानां प्राप्तिः विद्यालये एव भवेत् ।
सामाजिकमूल्यानि छात्रेण अधिगतानि भवेयुः ।
समाजे शिक्षायाः अभावादिकारणात् विभिन्नाः कुरीतयः भवन्ति । केषुचित् विषयेषु गुणाधानाय अपि जनेषु
जागर्या आवश्यकी । यथा सार्वजनीनसम्पदः संरक्षणम्, पर्यावरणस्य संरक्षणम्, सार्वजनिकस्थलानां स्वच्छता, स्त्रीणां संरक्षणम् सम्माननम् च, वृद्धानां सेवा, बालानां क्रीडादिसौविध्यकल्पनम्, भूतानुकम्पा, इत्यादिषु बहुषु विषयेषु काले काले जागर्या आवश्यकी । एतादृशीं
जागर्यां कर्तुं शैक्षिकसंस्थाः प्रवर्तेरन् । सामजिकजागर्यायाः केन्द्रत्वेन
शैक्षिकसंश्थाः भवेयुः ।
No comments:
Post a Comment