Thursday, July 27, 2023

राजनीतिशास्त्रम् (Political Science)

 

राजनीतिशास्त्रम् (Political Science)

स्वस्थं सामाजिकं जीवनं यापयितुं दण्डनीतिः अत्यन्तम् आवश्यकी । अत एव भारतीयाः शास्त्रकाराः इत्थम् अभिप्रयन्ति

दण्डः शास्ति प्रजाः सर्वाः दण्ड एवाभिरक्षति ।

दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ महाभारतम् शान्तिपर्व १५/२

दण्डनीतिर्यदा सम्यङ् नेतारमधितिष्ठति ।

तदा विद्याविदः शेषाः विद्याः सम्यगुपासते ॥ कामन्दकीयनीतिसारः

जगतीतले अनादिकालादारभ्य राज्यशासनव्यवस्थायाः उत्तरदायित्वं राजवंशीयानाम् आसीत् । किन्तु प्रायः उपद्विशताद् वर्षेभ्यः शासकस्थानं राजातिरिक्तेन जनेन अलङ्कर्तुं शक्यते इति स्थितिः समुत्पन्ना । विशिष्य लोकतन्त्रं राजतन्त्रस्य स्थाने समागतम् । लोकतन्त्रे अपि केषाञ्चिदेव उच्चवर्गीयाणां हस्ते अधिकारः भवति, येन श्रमजीविनां श्रमस्य दुर्लाभं एते सम्प्राप्य श्रमजीविनः शोषयन्ति इति मन्वानाः तदीयहस्ते राज्याधिकारः भवेत् इति चिन्तनस्य फलत्वेन साम्यवादिराजनीतिः व्यवहारपथे आगता । क्रमेण सामाजिकासमतायाः निर्मूलनाय समाजवादिचिन्तनं क्वचित् प्राधान्यम् अवाप्य समाजवादिराजनीतिः व्यवहारपथे आगता । क्वचित् केचन उत्साहिनः जनानुरागितया नेतृत्वं सम्पाद्य क्रमशः स्वहस्ते अधिकारावाप्तेः परं तमेव अधिकारं त्यक्तुम् अनिच्छुकाः अधिनायकवादिचिन्तनेन राज्यं शासितुम् आरभन्त । एतस्य अधिनायकवादिराजनीतिरिति (Autocracy) नाम । जगतः केषुचित् देशेषु अधुनापि राजवंशीयाः एव शासति । क्वचित् सैन्यशासनं प्रचलति । यथा पाकिस्थानम्, ब्रह्मदेशः इत्यादिषु देशेषु वर्तते ।  इत्थं शासनं विभिन्नरूपेण क्रियमाणं अन्यान्यनियमैः समाविष्टं वर्तते एव । तत्र केचन नियमाः सार्वकालिकाः, सार्वभौमिकाश्च ये वर्तन्ते ते निष्पक्षपातं अनुपालनीयाः इति समेषां अपेक्षा भवति । शासनस्य प्रकारः यः कोऽपि वा भवतु , सार्वकालिकाः सार्वभौमिकाश्च नियमाः निष्पक्षपातं पाल्यन्ते चेत् समेषां हितं भवति इत्यत्र नास्ति सन्देहः, येन समाजः स्वस्थः शान्तिपूर्णः समृद्धः च भवति । एतन्मनसि निधाय भारतीयाः मनीषिणः एतादृशान् सार्वकालिकान् सार्वभौमिकान् च नियमान् समग्रराज्यस्य हितायदण्डनीतिःइति नाम्ना प्रतिपादितवन्तः  एषा दण्डनीतिः भारते विधिशास्त्ररूपेण राजनीतिशास्त्ररूपेण प्रशासनप्रबन्धनशास्त्ररूपेण च साम्प्रतम् आधुनिकरीत्या अध्याप्यते ।

प्रकृतं राजनीतिशास्त्रम्(Political Science) इति नाम्ना समग्रे देशे विश्वविद्यालयेषु अध्याप्यमानः विषयः विभिन्नानां राजनीतिशास्त्रनिपुणानां चिन्तकानां चिन्तनैः प्रफुल्लितः अस्त्येव यत्र प्राचीनभारतीयमनीषिणां चिन्तनं आदर्शरूपेण न स्वीकृतमिव दृश्यते । यद्यपि एम्.डि.विश्वविद्यालयसदृशैः कैश्चित् विश्वविद्यालयैः स्वीयविश्वविद्यालयस्य राजनीतिशास्त्रस्य पाठ्यक्रमे प्राचीनभारतीयमनीषिणां केषाञ्चित् विचाराः स्वीकृताः, तथापि राज्यसमृद्धये स्वास्थ्याय जगद्धिताय च बहूनां प्राचीनभारतीयमनीषिणां विचाराः इतोऽपि प्राचुर्येण स्वीकर्तुं शक्याः सन्ति इति निरूपणाय अयं प्रयासः प्रवर्तते अत्र राजनीतिशास्त्रसम्बद्धतया भारतीयसंस्कृतवाङ्मये अधोलिखितग्रन्थेषु उक्ताः केचन विचाराः प्रस्तुताः सन्ति -

·              चाणक्यनीतिः

·              मनुस्मृतिः

·              अर्थशास्त्रम्

·              विदुरनीतिः

·              कामन्दकीयनीतिसारः

·              शुक्रनीतिः

·              रामायणम्

चाणक्यनीतिः

अरिमर्दनम्

        देशस्य शत्रवः राजनेतॄभिः सम्मुखीकर्तव्याः भवन्ति । एवमेव राजनीतौ अरयः सामान्यतः विरुद्धदलीयाः अपि भवन्ति इत्यतः तैः सह अपि योद्धव्यं भवति । तदा कीदृशेन शत्रुणा सह कथं योद्धव्यम् इति चाणक्यनीतिः उपदिशति[1]

        शत्रुः बलवान् अस्ति चेत् तदनुकूलव्यवहारं कृत्वा तस्य पराजयः साधनीयः ।  शत्रुः दुष्टः अस्ति चेत् प्रतिकूलव्यवहारेण तस्य निग्रहः कर्तव्यः ।  तुल्यबलः अस्ति चेत् विनयेन जेतुं यतनीयम् अथवा बलं प्रदर्श्य जेतव्यः । 

        त्त्वदर्शिनः विद्वांसः वदन्ति यत् सहस्रचाण्डालसमः भवति एकः यवनः ।  यवनात् नीचः अन्यः नास्ति एव इति ।  इदं याथार्थ्यं जगति सर्वत्र तदा तदा प्रमाणितं भवति । किन्तु सूक्ष्मदृक् चाणक्यः आरम्भकाले एव एतद् अभिज्ञातवान् आसीत् इति विशेषः[2]

सन्तुष्टाः महीभृतः नष्टाः भवन्ति

असन्तुष्टः द्विजः कदापि न भवेत् । सः असन्तुष्टः भवति चेत् नश्यति । एवमेव राजा कदापि सन्तुष्टः न भवेत् । सन्तुष्टः भवति चेत् राज्यरथः न चलति, राज्यविस्तारः च न भवति । सन्तोषेण अक्रियत्वमापद्यते इत्यतः परैराक्रान्तं च भवति राज्यम् । गणिका लज्जावती भवति चेत् तस्याः वाणिज्यं न चलति । कुलाङ्गनाः निर्लज्जाश्चेत् परपुरुषभुक्ताः सत्यः कुलाङ्गनत्वात् च्युताः भवन्ति इति पद्यस्य सारः[3]

महीभृत् कथं स्यात् इति पद्ये यदुक्तं तत् अत्र विचार्यः विषयः । साम्राज्यस्य विस्ताराय यथा पूर्वं अश्वमेधादियागान् राजानः कुर्वन्ति स्म येन साम्राज्यं विशालं भवति । राज्ये समृद्धिः भवति चेत् शत्रवः अवश्यं वशीकर्तुं प्रयतन्ते । अतः तस्याः समृद्धेः रक्षणाय राजा प्रवर्तेत । समृद्ध्या शान्तिं अवाप्य राजा तूष्णीकः भवति चेत् परेषाम् आक्रमणॆन अथवा आभ्यन्तरशत्रूणां कारणतः स्वयं विनश्यति । अतः राजा समृद्ध्या राज्यविस्तारं वा आभ्यन्तरशत्रुनिग्रहं वा अकृत्वा तिष्टति चेत् नश्यति इति पद्यस्य अभिप्रायः ।

अस्मिन् आधुनिके काले अपि अस्मद्देशे सन्तुष्ट्या तूष्णींभूताः यदा प्रधानमन्त्रिणः आसन् तदा एव शत्रवः आक्रमणं कृतवन्तः । अतः अद्यत्वेपि राजतुल्याः प्रधानमन्त्रिणः सन्तुष्ट्या तूष्णीकाः न भवेयुः इति तात्पर्यम् ।

राजा कान् प्रबोधयेत् ?

        सेवकः, भण्डारी, प्रतिहारी चेति त्रयः दण्डनीत्यनुगुणं प्रशासकेन अवश्यं प्रबोधनीयाः इति उच्यते । विद्यार्थी पान्थः क्षुधार्तः भयकातरश्च आहत्य सामान्यतया राज्यस्य अभ्युदयाय वा शान्त्यै वा पुण्याय वा प्रबोधनीयाः स्युः[4]

राजा कान् न प्रबोधयेत् ?

अहिं नृपं च शार्दूलं  किटिं बालकं तथा 

परश्वानं च मूर्खञ्च सप्त सुप्तान् न बोधयेत् ॥९/७

एवमेव के न प्रबोधनीयाः इति अस्मिन् श्लोके वर्णितम् । प्रबोधनेन हानिः भवितुमर्हति इत्यतः एवं प्रोक्तम् इति स्पष्टम् ।

निर्विषेणापि सर्पेण कर्तव्या महती फणा ।

विषमस्तु न चाप्यस्तु घटाटोपो भयङ्करः ॥ ९/१०

मितभाषी विवेकी प्रियभाषी शासकः मृदुभाषणं करोति चेत्  कार्यं न सिध्यति इत्यतः उत्तरदायित्वनिर्वहणाय घटाटोपं/भीषणं कुर्यात् इति अत्र वर्णितम् ।

कौटिल्यस्य अर्थशास्त्रम् 

त्मप्रैयं हितं राज्ञः नास्ति[5]

        राजा प्रजानां हितार्थं प्रजानां सुखार्थञ्च प्रवर्तेत इति अनेन पद्येन ज्ञायते । तस्य वैयक्तिकम् अन्यत् सुखं वा हितं वा नास्त्येव इत्यभिप्रायः कौटिल्येन अत्र गृहीतः । साम्प्रतिकप्रधानमन्त्रीसदृशाः ईदृशाः केचनैव शासकाः अस्माभिः देशे साम्प्रतं द्रष्टुं शक्यन्ते । अतः एतस्य पद्यस्य तात्पर्यं समेषां शासकानां जीवने अवतरति चेत्  अर्थशास्त्रस्य सार्थक्यं सम्पद्यते ।

योगक्षेमसाधनो दण्डः तस्य नीतिर्दण्डनीतिः ।

अलब्धलाभार्था लब्धपरिरक्षणी रक्षितविवर्धनी

वृद्धस्य तीर्थेषु प्रतिपादनी ।                       कौ.अर्थ. १/४

प्रजानां योगक्षेमाय दण्डनीतिः कथं प्रवर्तते इति उपरितनपद्यं विवृणोति ।

श्रुतिस्मृत्यविरोधिनी राजवृत्ति

        लोकानाम् अभ्युदयनिश्रेयसयोरेव निमित्तं श्रुतिस्मृतीनां प्रवृत्तिः । अतः तदविरोधेन एव राजा प्रजापालनं करोति चेत् अभ्युदयनिश्रेयसौ सेत्स्यतः[6] 

आराधिता हि शीलेन प्रयत्नैश्चोपलालिताः

राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥ 

        पद्येऽस्मिन् राज्ञां कर्तव्यमनुक्त्वा प्रजानाम् आचरणं व्यवहारः कथं स्यादिति प्रोक्तम् । राजानः प्रजानां सदाचारम् आद्रियन्ते विपरीतं चेत् प्रकुप्यन्ति ।  यत्नशीलाः एव प्रजाः राज्ञः प्रसन्नतां जनयितुमर्हन्ति इति इदं पद्यं वर्णयति ।

औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः ।

समर्थान् सम्प्रगृह्यन्ति परानपि नराधिपाः ॥ (II – 26-35,36)

        अहितं स्वपुत्रः जनयति चेदपि राजानः तं त्यजन्ति एव । अन्ये समर्थाः सन्ति चेत् राजानः तान् मानयन्ति, उच्चपदं प्रच्छन्ति इति इदं पद्यं वर्णयति । अधुनातनराजनीतौ आत्मजाः असमर्थाश्चेदपि तानेव उन्नतपदे पितरः राजनेतारः प्रतिष्ठापयन्ति । एवं न कर्तव्यम् इति इदं पद्यम् अस्मान् बोधयति ।

       

शुक्रनीतिः

राज्यवृक्षस्य नृपतिर्मूलं स्कन्धाश्च मन्त्रिणः ।

शाखाः सेनाधिपाः सेनाः पल्लवाः कुसुमानि च ॥

प्रजाः फलानि भूभागा बीजं भूमिः प्रकल्पिता ।  शु.नी. सा. ५/१२-१३

        राज्यस्य घटकानि कथं परस्परम् अविनाभावेन सम्बद्धानि इति अस्मिन् पद्ये समुपवर्णितम् । अत्र उच्चनीचभावः नास्ति । मिथः अन्योन्यसम्बन्धः वर्वर्ति । अयमेव भारतीयदण्डनीतिशास्त्रस्य महिमा वर्तते ।

अधर्मशीलो नृपतिर्यदा तं भीषयेज्जनः ।

धर्मशीलातिबलवद्रिपोराश्रयतः सदा ॥

गुणनीतिबलद्वेषी कुलभूतोऽप्यधार्मिकः ।

नृपो यदि भवेत्तं तु त्यजेद्राष्ट्रविनाशकम् ॥

        राजशासनं भारते कदापि प्रभुत्ववादिशासनमिव(Autocratic) नासीदेव । प्रजाः तादृशम् अधार्मिकं नीतिविरुद्धं राजानं तत्पदात् अवतारयन्ति इति पूर्वतनपद्याभ्याम् उपवर्णितम् । इत्युक्ते राजशासनं चेदपि लोकतन्त्रमिव राजशासनं प्रचलति स्म इति । आधार्मिकः राजा भवति चेत् -

तत्पदे तस्य कुलजं गुणयुक्तं पुरोहितः ।

प्रकृत्यनुमतिं कृत्वा स्थापयेद्राजगुप्तये  शुक्रनी. २/२७४,७५

        राजपदे कीदृशः नियुज्येत इति इदं पद्यं वर्णयति । कुलजश्चेदपि गुणयुक्तः भवेदिति स्पष्टम् । तद्वंशीयः चेत् यः कोऽपि राजा भवितुं नार्हति इत्यपि अस्य अभिप्रायो भवति ।

विदुरनीतिः

यत्नेन स्वराष्ट्रं रक्षेत् 

अस्माकं प्रतिवेशीराष्ट्रस्य स्थितिम् अवलोक्य अयं श्लोकः स्मर्यते । पाकिस्तानेन भारतस्य नाशाय विमर्दनाय सर्वविधः श्रमः क्रियमाणः अस्ति । किन्तु स्वस्य अभ्युदयाय किमपि न चिन्त्यते । राष्ट्रनेतृषु अस्य श्लोकस्य तात्पर्यानुगुणं प्रवृत्तिः भवति चेत् राजनीतिः/दण्डनीतिः सार्थिका भवति । एषा विदुरनीतिः न केवलं पाकिस्तानाय उपदेशात्मको वर्तते, अपि तु पाकिस्तानसदृशानाम् उत्तरकोरिया, टर्क, उक्रैन्, पालेस्टैन्, जोर्डान् इत्यादिदेशानां कृते अपि उपयोगाय भवति[7]

अनीत्या राज्यनाशः

        प्रशासकः अनीतिमान् चेत् यथा वायुः अभ्रं नाशयति तथा स्वयमपि राज्यनाशं करोति इति विदुरनीतौ वर्णितम्[8]

चारचक्षुः भवेत् नृपः

        राज्ञः पुरस्तात् बहवो हि भृत्यादयः विनीताः इव आत्मानं प्रदर्शयन्ति । तावता ते सर्वेऽपि विनीताः भवन्ति, श्रद्धधानाः भवन्ति इति वा न तात्पर्यम् । अतः राजा वस्तुतः सर्वेषां परिजनानां विषये चारचक्षुः सन् अवगच्छेत् । तदानीमेव याथार्थ्यं ज्ञायते इति विदुरनीतिः आख्याति[9]

       

गूढमन्त्रः विजयते 

        राज्ञा करिष्यमाणकर्मणः योजनां कोऽपि  पूर्वमेव न जानीयात् । येन हानिः भवितुमर्हति । कार्यसम्पादनात्परमेव जानीयात् इति विदुरनीतिः प्रतिपादयति[10]   

शासकस्य विचारं आन्तरङ्गिकाः वा बाह्याः वा यथा न जानीयुः तथा सः मन्त्रणां करोति चेत् तस्य सम्पदः वृद्धिः जायते ।

यथा इस्रेलदेशीयैः एण्टेब्बे इत्यत्र अतर्कितं सैनिककार्याचरणं (Operation) कृत्वा शताधिकाः स्वदेशीयाः(इस्रेल) रक्षिताः, यथा वा ईजिप्टदेशस्य विमानं अपहृत्य नवीनं युद्धविमानतन्त्रज्ञानम् अधीत्य षड्भिः देशैः सर्वतः आक्रमणं विहितं चेदपि सर्वान् पराजितान् अकरोत्, यथा वा शत्रुदेशेन क्रीतानि ४०० Mig 21 युद्धविमानानि स्वदेशस्य(इस्रेल) नाशाय एव कल्पन्ते इति ज्ञात्वा घण्टाभ्यन्तरे सर्वाणि ध्वंसीचकार, यथा वा इराकदेशेन स्वदेशस्य (इस्रेल) नाशाय एव परमाणुस्थावरस्य(न्यूक्लियर रियाक्टर) यथा वा निर्मीयमाणमासीत् तत् प्रध्वंसीकृतम्, यथा वा भारतेन शत्रुदेशस्य पाकिस्थानस्य आतङ्ककारिणां निर्माणकेन्द्रस्य उपरि आक्रमणं विधाय सर्वं ध्वंसीकृत्य सुरक्षितरूपेण प्रत्यागतम्, यथा वा भारतेन बालाकोट-आक्रमणं विधाय आतङ्ककारिणां मर्मस्थानं चूर्णीकृतम्, यथा वा त्रिकालाबाध्यमिति कथ्यमानायाः भारतस्वाभिमानवेधिन्याः ३७० धारायाः सयुक्तिकतया निर्मूलनं कृतम् तथा इति मन्तव्यम् ।  

मन्त्रविप्लवः

        मन्त्रणा या शासकेन क्रियते सा राज्यहिताय न भवति चेत् तया सा मन्त्रणा समग्रं राज्यमेव नाशयति इति इदं पद्यं वर्णयति । मन्त्रविप्लवेन एव साम्प्रतं पाकिस्थानम्, उत्तरकोरिया, युगोस्लाविया, श्रीलङ्का, युक्रेन इत्यादयः देशाः विनाशपथं गच्छन्तः सन्ति[11]

अविरोद्धा नश्यति

        राज्ञः विरोधिनः अवश्यं भवेयुः । ते बाह्याः वा भवन्तु आन्तरङ्गिकाः वा भवन्तु ।  विरोधिनः भवन्ति चेदेव राजा/शासकः सक्रियः सन् शासनकार्यं करोति । नो चेत् शयिताश्ववत् नश्यति  इति विदुरनीतिः आख्याति[12]

भृत्यवात्सल्यम् 

यस्मात् न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य ।

तस्मिन् भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति ॥८४॥

अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः ।

वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मैव हि सोनुकम्पः ॥८५॥

मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा ।

ददात्यमित्रेष्वपि याचितः सन् तमात्मवन्तं प्रजहत्यनर्थाः ॥८६॥

        भृत्यैः सह कथं वर्तितव्यम् ? इति शासकः जानीयात्, येन शासकस्य श्रेयः भवति इत्यादिविचाराः पूर्वोक्तेषु पद्येषु वर्तन्ते । 

दीनसेवया श्रेयः अश्नुते

यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् ।

स पुत्रपशुभिर्वृद्धिं श्रेयश्चानन्त्यमश्नुते ॥

        राजा दीनसेवाम् अवश्यं कुर्यात्, तेनैव राज्ञः आनन्त्यं श्रेयः भवति । 

करग्रहणम्

यथा मधु समादत्ते रक्षन् पुष्पाणि षट्पदः ।

तद्वदर्थान् मनुष्येभ्यः आदद्यादविहिंसया ॥८८॥

        करग्रहणस्य पद्धतिविषये इतोऽपि उत्तमम् उदाहरणम् अन्यत् भवितुं नार्हति एव । अत्र वर्णिता पद्धतिः  करदातुः  क्लेषं न जनयति, करग्राहकस्य लक्ष्यं न न्यूनीकरोति । 

लोकरञ्जनम्

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।

प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति ॥८९॥

        एतत् पद्यं उत्तररामचिरितस्य प्रथमाङ्के  विद्यमानः वसिष्ठसन्देशः समर्थयति । स च सन्देशः एवमस्ति -युक्तः प्रजानाम् अनुरञ्जने स्याः, तस्माद्यशो यत्परमं धनं वःइत्यस्ति । चक्षुषा मनसा वाचा कर्मणा च प्रजारञ्जनं राज्ञा कर्तव्यं इति अस्य सारः ।

शठे शाठ्यं समाचरेत्

        देशानां मध्ये विभिन्नाः सम्बन्धाः भवन्ति । सर्वेऽपि देशाः स्वीयलाभार्थमेव अन्यैः देशैः सह सम्बन्धं स्थापयन्ति । अतः तदर्थं कदाचित्  दुर्मार्गान् अपि आश्रयन्ते । एतद्विज्ञाय तेन तेन देशेन सह वर्तितव्यम् । समीपकाले चीनदेशः भारतेन सह मैत्रीं कुर्वन्नेव गल्वान्-घाटी इत्यत्र अस्मत्सैन्यस्य हानिमुत्पाद्य अस्मद्भूभागं आक्रान्तुं यत्नमरोत् तदा भारतेन कथं व्यवहृतम् इति सर्वे जानन्ति[13] 

विश्वस्तोऽपि न विश्वसेत् 

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।

विश्वासात् भयमुत्पन्नं मूलान्यपि निकृन्तति ॥९३॥

        शासकः विश्वासायोग्यान् तु न विश्वसेत्, एवमेव विश्वासयोग्याः सन्ति इति मत्वा अतिविश्वासेनापि तैः सह न व्यवहरेत् ।  यतो हि अतिविश्वासात् कदाचित् भयमुत्पद्यते यच्च भयं मूलानि अपि नाशयति ।

शत्रुनिग्रहः

न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः ।

न्यग्भूत्वा पर्युपासीत वध्यं हन्यात् बले सति ॥

अहताद्धि भयं तस्मात् जायते न चिरादिव ॥

       

कामन्दकीयनीतिसारः

        कामन्दकीयनीतिसारे शासकस्य गुणाः कर्तव्यानि च यानि वर्णितानि तनि दिङ्मात्रेण अत्र सङ्गृह्य प्रदत्तानि सन्ति । 

न्यायप्रवृत्तो नृपतिरात्मानमथ च प्रजाम् ।

त्रिवर्गेणोपसन्धत्ते निहन्ति ध्रुवमन्यथा ॥ १/१५

        न्याय्येन शासनं कुर्वाणः राजा स्वस्य प्रजानां धर्मार्थकामान्  उत्पादयति । नो चेत् इत्युक्ते अन्याय्येन रतः राजा सर्वस्यापि नाशाय कल्पते । अतः राज्ञि अयं गुणः भवेत् । राजा न्याय्यम् आचरति चेदेव प्रजाः धर्मार्थकामान् प्राप्तुमर्हन्ति । नो चेत् अधर्ममार्गे प्रवृत्ताः अनर्थं साधयन्तः निराशाः भवन्ति इति ज्ञायते । 

धर्माद् वैजवनो राजा चिराय बुभुजे महीम् ।

अधर्माच्चैव नहुषः प्रतिपेदे रसातलम् ॥ १/१६

        धर्ममार्गप्रवृत्तः शासकः चिरकालं यावत् राज्यश्रियम् अनुभवति । अधर्ममार्गी अस्ति चेत् अधोगतिं प्राप्नोति इति पद्यमिदं वर्णयति । अतः अस्मिन् अपि काले इदं पद्यं राजनीतौ सुष्ठु समन्वेति । धर्मनिरपेक्षता इत्यनेन वस्तुतः अधर्ममार्गपरता इत्यर्थः अनुभवेन भारतीयैः आत्मसात्कृतम् अस्ति । अतः तस्य शब्दस्य संविधाने योजनात्परम् अत्र राजनैतिक-अस्थिरता सदा दरीदृश्यते । किन्तु धर्ममार्गे प्रवृत्तस्य राजनेतुः पदात् च्युतिः प्रायः दुश्शकम् इति अस्मत्प्रधानमन्त्रिणः द्वाविंशतेः वर्षाणाम् आधिकारिकपदे स्थितिः द्योतयति । 

तस्मात् धर्मं पुरस्कृत्य यतेतार्थाय भूपतिः ।

धर्मेण वर्धते राज्यं तस्य स्वादु फलं श्रियः ॥ १/१७

        अत एव धर्ममार्गेण शासनं कर्तव्यम्, येन राज्यं वर्धते । तस्य स्वादु फलं भवति सम्पदः इति अत्र प्रोक्तम् । इदमपि जगतः विकटपरिस्थितावपि भारतेन अद्यत्वे देशस्य GDP(7.2%) यत् सर्वाधिकं साधितं तेन प्रमाणितं भवति ।

राजवृत्तं चतुर्विधम्

        शासकस्य चतुर्विधं कार्यम् अत्र उपवर्णितम् । सम्पदः अर्जनं, रक्षणं, वर्धनं, सत्पात्रेभ्यः दानं च । एतत् सर्वमपि चतुर्विधं राजवृत्तं न्याय्येन एव सम्पादनीयम्[14] 

सदानुरक्तप्रकृतिः प्रजापालनतत्परः ।

विनीतात्मा हि नृपतिः भूयसीं श्रियमश्नुते ॥ १/२६

जितेन्द्रियस्य नृपतेः  नीतिमार्गानुसारिणः ।

भवन्ति ज्वालिताः लक्ष्म्यः कीर्तयश्च नभस्पृशः ॥ १/६५

        पूर्वोक्तपद्यद्वयमपि प्राक्तनपद्यानि इव  राज्ञः/शासकस्य श्रेयसे, सः कीदृङ्गुणान्वितः स्यादिति प्रतिपादयति, अपि च तादृशगुणोपेतेन किं फलं प्राप्यते चेति ।

दण्डनीतिर्यदा सम्यङ् नेतारमधितिष्ठति ।

तदा विद्याविदः शेषाः विद्याः सम्यगुपासते ॥

        ये नेतारः सम्यक् दण्डनीतिम् अनुसरन्ति सर्वेऽपि आन्वीक्षिक्याद्याः सर्वाः विद्याः उपार्जयन्ति, उपासते च इत्युक्ते शास्त्रोक्तम् अनुतिष्ठन्ति इति । 

रामायणम्

वाल्मीकिरामायणे अयोध्याकाण्डे शततमः सर्गः दण्डनीतिदृष्ट्या अत्यन्तं  महत्वपूर्णः । वनवासार्थं निर्गतं रामं पुनः सिंहासने अभिषेक्तुम् इच्चुकः भरतः चित्रकूटं प्रति सामात्यः सप्रजः यदा अगच्छत् तदा श्रीरामचन्द्रः राज्यशासनं कथं कुर्वन्नस्ति ? कथं वा कर्तव्यम् अस्तीति प्रेम्णा भरतं यदबोधयत् तत् वस्तुतः आधुनिकराजनीतिशास्त्रे अपि बोधयितुं योग्यः विषयः अस्ति । अतः ततः कांश्चन श्लोकान् चित्वा अत्र प्रदर्श्यते

मन्त्रिणः कीदृशाः स्युः ?

हे भरत, भवतः आस्थाने कीदृशाः मन्त्रिणः भवता नियोजिताः ? ते मन्त्रिणः भवत्सदृशाः एव सन्ति किल ? शूराः ज्ञानिनः जितेन्द्रियाः उत्तमकुले जाताः, तीक्ष्णमतयः मन्त्रिणः एव भवता नियोजिताः किल ? इति रामस्य प्रश्ने राज्यस्य सुशासनार्थं पूर्वोक्तविशेषणविशिष्टाः मन्त्रिणः आवश्यका इति अभिप्रायोऽस्ति[15]

 अतः एतादृशैः मन्त्रिभिः सह मन्त्रणां कृत्वा राजा शास्ति चेत् साफल्यमवाप्तुम्(विजयम्) अर्हति इति अग्रिमश्लोके कथयति ।

मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।

सुसंवृत्तो मन्त्रिधुरैरमात्यैः शास्त्रकोविदैः

राज्यस्य समृद्धये अहर्निशं एभिः मन्त्रिभिः सह मन्त्रणां कृत्वा राजा निर्णयं स्वीकुर्यात्, निद्रादिविषयमोहगर्ते निमग्नो न भवेत् इति अनेन श्लोकेन उपदिशति- 

कच्चिन्निद्रावशं नैषीः कच्चित्कालेऽवबुद्ध्यसे ।

कच्चिच्चापररात्रेषु चिन्तस्यर्थनैपुणम्

शत्रुतः गुप्तस्य गोपनम्

इत्थम् मन्त्रणासमयेऽपि गौप्यं संरक्षणीयम् । मन्त्रणार्थमपि अधिकाः न भवेयुः । गुप्ताः विषयाः अधिकेषु मन्त्रयितृषु सत्सु बहिः प्रकाशिताः भवन्ति । भवता अधिकजनानां मध्ये सुचिन्तिताः गुप्तविषयाः शत्रूणां निकटे न गच्छन्ति किल ? इति रामः अग्रिमश्लोके भरतं मन्त्रणाविषयसंरक्षणजागृतिम् उपदिशति[16]

समये सुकार्यसाधनम्

अल्पश्रमेण साधयितुं योग्यं, किञ्चन महत्प्रयोजनं मनसि निधाय सुचिन्तितं कार्यं विलम्बेन न आरभसे किल ? तादृशाणि कार्याणि तूर्णं साधनीयानि इति रामस्य अभिप्रायः अस्मिन् श्लोक्के उपदिष्टो वर्तते - 

कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।

क्षिप्रमारभसे कर्म न दीर्घयसि राघव ॥ इति

शत्रुभ्यः कार्यरक्षणम्

शत्रवः अस्माभिः करिष्यमाणानि कार्याणि आदावेव न जानीयुः । कार्यं यदा सिद्ध्यति ततः परं ज्ञास्यन्ति चेत् चिन्ता नास्ति । पूर्वमेव ज्ञास्यन्ति चेत् कार्ये बाधं जनयेयुः । अथवा अस्मदपेक्षया पूर्वमेव ते तत् कार्यं साधयित्वा अस्माभिः प्राप्तव्यं प्रयोजनं ते अपहरेयुः । तदर्थं रामः भरतं अग्रिमे श्लोके जागरयति-

कच्चिन्नु सुकृतान्येव  कृतरूपाणि वा पुनः ।

विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥ इति ।

स्वीयस्य गोप्यस्य परानवगतिः, परेषां तु गोप्यस्य अवगतिः

अमात्यैः सह मन्त्रितः विचारः बहिः न प्रकटितः चेदपि  इतरैः(शत्रुभिः) तर्केण युक्त्या वा न ज्ञायेत । प्रत्युत इतरैः (शत्रुभिः) मन्त्रितः विचारः प्रकटनात्प्रागेव ज्ञातव्यः । अतः ईदृशं कार्यं भवान् भरतः साधयति किल इति रामः पृच्छति[17] 

सुयोग्यानां श्रेष्ठानां नियोजनम्

एवम् मन्त्रणां कृत्वा समस्यापरिहाराय सम्पदभिवृद्धये च  अल्पसंख्याकाश्चेदपि सुयोग्यानामेव मन्त्रिणां राजा नियोजनं कुर्यात् न तु अधिकसंख्याकानां अयोग्यानाम् इति  सकारणं प्रतिपाद्य भरतम् इत्थम् उपदिशति रामः -

कच्चित् सहस्रैर्मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्रेयसं महत् ॥

सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः ।  अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥

एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।  राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥

योग्यतानुसारं भृत्यानां नियोजनम् 

जनानां योग्यतां सम्यक् विज्ञाय तदनुगुणं तेषां कृते विविधानि पदानि दातव्यानि भवन्ति । साम्प्रतिकप्राशासनिकव्यवस्थायां वयं एतद्विपरीतं पश्यामः ।  किञ्च श्रेष्ठानां नियोजनवेलायां तेषां श्रेष्ठतायाः मूल्याङ्कनार्थं तेषां पितृपितामहादयः शुचयः आसन् वा न वेत्यपि परीक्षणीयमिति रामः वदति । सम्प्रति नेतॄणाम् अधिकारिणां च भ्रष्टाचारं पश्यामः चेत् रामस्य चिन्तनं रामराज्यस्य निर्माणे कियत् श्रेष्ठमासीदिति पद्यद्वयेन ज्ञायते -

कच्चिन्मुख्या महत्स्वेव  मध्यमेषु च मध्यमाः । जघन्याश्च जघन्येषु भृत्यास्ते तात योजिताः ॥

अमात्यानुपधातीतान् पितृपैतामहान् शुचीन् । श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥

उग्रकरविधानस्य परिणामः 

द्विरेफवत् राज्ञा करग्रहणं कर्तव्यं येन राज्ञः अपि लाभः भवेत् प्रजानामपि हानिः न स्यात् इति चाणक्यः अर्थशास्त्रे वदति । द्विरेफः मकरन्दं पिबति चेत् द्विरेफस्य तु लाभः भवत्येव । किन्तु पुष्पस्य कापि हानिर्न भवति प्रत्युत परागस्पर्शेन वृक्षसन्ततिरेव वर्धते । किन्तु राजा बलात् उग्ररूपेण करं विधत्ते चेत् कामचारिणं पुरुषं स्त्रियः यथा अवजानन्ति तथा राजानमपि प्रजाः अवजानन्ति । भवान् तु तथा न करोति किल ? इति रामः अनेन श्लोकेन पृच्छति - 

कच्चित् त्त्वां नावजानन्ति याजकाः पतितं यथा ।

उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ इति ।

उपायादिकुशलस्य शत्रोः अहननस्य परिणामः

राजा कुशलं शत्रुं न हन्ति चेत् सः शत्रुः स्वयं राजानमेव हन्ति । अतः तादृशस्य शत्रोः हननम् अवश्यमेव कर्तव्यम् इति रामः इत्थम् उपदिशति  -  

उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् ।

शूरम् ऐश्वर्यकामं च यो हन्ति न स हन्यते ॥ इति ।

कीदृशस्य सेनापतेः नियोजनं कर्तव्यम् ?

एकस्य राज्यस्य संरक्षणार्थं सेनापतिः कथं भवेत् ? कीदृशस्य सेनापतेः नियोजनं कर्तव्यमिति भरतमुपदिशति रामः - 

कच्चित् धृष्टश्च शूरश्च धृतिमान् मतिमान् शुचिः ।

कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ इति ।

कर्मचारिणां वेतनस्य भक्तस्य च समये प्रदानस्य महत्वम् 

प्रशासकस्य इयं तु चातुरी भवति यत् काले काले कर्मकरेभ्यः वेतनस्य भक्तस्य च दानेन तत्सकाशात् अधिकसेवायाः स्वीकारः इति । तदभावे महाननर्थश्च भवतीति राजा जानीयात् । भवान् तु इत्थमेव काले तेभ्यः वेतनं भक्तञ्च सर्वेभ्यः कर्मकरेभ्यः प्रयच्छति किल ? विलम्बं तु न करोति किल ? इति रामः भरतं पृच्छति - 

कच्चिद्बलस्य भक्तञ्च वेतनं च यथोचितम् । सम्प्राप्तकाले दातव्यं ददासि न विलम्बसे ॥

कालातिक्रमणे ह्येव भक्तवेतनयोर्भृताः । भर्तुरप्यतिकुप्यन्ति सोऽनर्थः सुमहान् कृतः ॥ इति ।

स्वबलस्य शत्रुसामर्थ्यस्य च नियतपरीक्षा 

त्रयाणां त्रयाणां गुप्तचराणां माध्यमेन शत्रुपक्षस्य अष्टादशव्यक्तीनां स्वपक्षस्य पञ्चदशव्यक्तीनाञ्च व्यवहारस्य विषये राज्ञा अवधानं दातव्यमिति मनुना यदुक्तं तदत्र दण्डनीतिशास्त्रानुगुणं रामः भरतमुपदिशति । शत्रुपक्षस्य आष्टादश जनाः इमे भवन्ति येषां व्यवहारः सूक्ष्मेक्षिकया अवलोकनीयः मन्त्री, पुरोहितः, युवराजः, सेनापतिः, द्वारपालः, अन्तःपुराध्यक्षः, कारागाराध्यक्षः, कोशाध्यक्षः, यथायोग्यकार्येषु धनव्ययकर्ता सचिवः, सुरक्षासचिवः(Security Chief), नगराध्यक्षः, कार्यनिर्माणकर्ता(अभियन्ता), धर्माध्यक्षः, सभाध्यक्षः, दण्डपालः, दुर्गपालः, राष्ट्रसीमापालः, वनरक्षकश्च । स्वपक्षे तु पूर्वोक्तेषु आदिमान् त्रीन् विहाय अवशिष्टानां विषये राजा दृष्टिं निदधीत । 

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।

त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ इति ।

दण्डितशत्रोर्विषये जागरूकता

कच्चित् व्यपास्तान् अहितान् प्रतियातांश्च सर्वदा । दुर्बलाननवज्ञाय वर्तसे रिपुसूदन ॥

शत्रवः व्यपास्ताः दुर्बलाश्चेदपि तेषु अवज्ञा कदापि  न कर्तव्या । यतो हि ते पुनः बलं वर्धयित्वा नातिक्राम्यन्ति इति वक्तुं न शक्यते ।

नास्तिकबुद्धीनां (बुद्धिजीविनः) निन्दा

सम्प्रति यथा बुद्धिजीविनः इति यान् वयं ब्रूमः तादृशाः जनाः रामायणकालेऽपि आसन् । नास्तिकाः ते आत्मानं पण्डितं मन्यमानाः दुर्बुधाः अनर्थकुशलाः भवन्ति । ते सर्वदा निरर्थकतर्कमुपयुज्य  वृथा अपलापं कुर्वन्तः समाजस्य शान्तिं नाशयन्ति । काङ्ग्रेस्-प्रभृतीनि दलानि यथा सम्प्रति तान् सम्पोष्य स्वानुकूलतया उपयुञ्जते न तथा कर्तव्यमिति रामः तदानीमेव भरतमुपादिशत् - 

कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे । अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥

धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ इति ।

इत्थं स्त्रीसंरक्षणविषये, दुर्गसमृद्धिविषये, आर्याणाम् अविचार्य दण्डदानविषये, चोराणां उन्मोचनहानिविषये चेति बहुषु विषयेषु भरतम् उपदिश्य राजधर्मं बोधितवान् । रामायणस्य अयोध्याकाण्डे विद्यमाने अस्मिन् शततमे सर्गे अत्यन्तं प्रासङिकाः सार्वकालिकाः राजधर्मसम्बद्धाः विषयाः सप्तदशलक्षवर्षेभ्यः प्रागेव रामेण उपदिष्टाः इति अत्यन्तं गर्वेण भक्त्या च अस्माभिः परिगृह्यन्ते ।

मनुस्मृतिः

स्मृतयः वस्तुतः  मनुष्यकल्याणकारिण्यः पुरुषार्थसाधनाय प्रवृत्ताः  सुहृत्संहितानाम्ना अभिधीयन्ते । अस्मद्देशे यद्यपि मन्वाद्याः बह्व्यः स्मृतयः सन्ति, तथापि तासुकलौ पाराशरं स्मृतम्इति पराशरस्मृतेः कालोचितत्वम् प्रतिपादितम् । तावता मन्वादिस्मृतयः त्याज्याः इति न तात्पर्यम् । अतः मनुस्मृतौ राजनीति सम्बद्धतया प्रोक्तान् कांश्चन अंशान् अत्र दिङ्मात्रेण प्रतिपादयामः ।

अराजके हि लोकेऽस्मिन्  सर्वतो विद्रुते भयात् ।

रक्षार्थस्य सर्वस्य राजानमसृजत्प्रभुः ॥ ७/३

सर्वेषां लोकानां रक्षार्थं राज्ञः इत्युक्ते शासकस्य आवश्यकता अस्ति । अतः भगवान् राजानं सृष्टवान् । 

बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।

महती देवता ह्येषा नररूपेण तिष्ठति ॥ ७/८

युक्तियुक्तं वचो ग्राह्यं बालादपि शुकादपिइतीदं वचनं अनुवदतीव इदं पद्यमस्ति । 

कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।

कुरुते धर्मसिद्ध्यर्थं विश्वरूपे पुनः पुनः ॥ ७/१०

कार्यस्य स्वरूपम् अवलोक्य, साधयितुमपेक्षितां शक्तिं च परीक्ष्य देशकालयोः औचित्यं निर्णीय राजा धर्माचरणम् इत्युक्ते प्रजापालनकार्यं सम्पादयेत्  । अनेन समेषां हितं भवति । 

अन्यानपि प्रकुर्वीत शुचीन् प्राज्ञान् अवस्थितान् ।

सम्यगर्थसमाहर्तॄन् अमात्यान् सुपरीक्षितान् ॥ ७/६०

प्रजापालनकर्मणि अपेक्षितान् अमात्यान् कीदृशान्  शासकः नियोजयेत् इति पद्यमिदं वर्णयति । रामायणे रामोऽपि एतदनुसारेणैव भरतस्य निकटे कीदृशान् अमात्यान् नियोजितवान् इति पृच्छति ।



[1] अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् ।

आत्मतुल्यबलं शत्रुं विनयेन बलेन च ॥ ७/१०

[2] जघन्यो यवनश्रेष्ठश्चाण्डालादपि दुर्मतिः

चाण्डालानां सहस्रे च सूरिभिस्तत्त्वदर्शिभिः ।

एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥८/५

[3] असन्तुष्टा द्विजा नष्टा सन्तुष्टाश्च महीभृतः ।

सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गनाः ॥ ८/१८

[4] विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः ।

भण्डारी प्रतिहारी च सप्त सुप्तान् प्रबोधयेत् ॥ ९/६

[5] प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।

नात्मप्रैयं हितं राज्ञः प्रजानां तु प्रियं हितम्  कौ.अर्थ. १/१८

[6] श्रुतिस्मृत्यविरोधेन राजवृत्तिर्हि शासनम् ।

सुयुक्तयार्थार्जनं यत्र अर्थशास्त्रं तदुच्यते ॥ 

[7] य एव यत्नः क्रियते परराष्ट्रविमर्दने ।

स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ॥

[8] पितृपैतामहं राज्यं प्राप्तवान् स्वेन कर्मणा ।

वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः

[9] गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः ।

चारैः पश्यन्ति राजानः चक्षुभ्याम् इतरे जनाः

[10] यस्य मन्त्रं न जानन्ति बाह्याभ्यन्तराश्च ये ।

स राजा सर्वतश्चक्षुः चिरमैश्वर्यमश्नुते ॥ ७७॥

[11] एकं विषरसो हन्ति शस्त्रेणैकश्च बध्यते ।

सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः ॥

[12] द्वाविमौ ग्रसते भूमिः सर्पो बिलेशयानिव ।

राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्

[13] यस्मिन् यथा वर्तते यो मनुष्यः  तस्मिन् तथा वर्तितव्यं स धर्मः ।

मायाचारो मायया वर्तितव्यः  साध्वाचारो साधुना प्रत्युपेयः ॥९२॥

[14] न्यायेनार्जनमर्थस्य  रक्षणं वर्धनं तथा ।

सत्पात्रप्रतिपत्तिश्च राजवृत्तं चतुर्विधम् ॥ १/२०

[15] कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः ।

कुलीनश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः

[16] कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।

कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ इति

[17] कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः ।

त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम्

No comments:

Post a Comment