Sunday, September 27, 2026

केरलवार्ता

अद्य (२६/९२६)अत्र केरलराज्यस्य त्रिश्शूरजिल्लायाः पुरनाट्टुकरा इति ग्रामे रामकृष्णविद्यालयः यः अस्ति तत्र अहं गतवान् । अस्माकं बि. एड्. कक्षायाः द्वितीयवर्षीयाः पञ्च छात्राः तत्र शिक्षणाभ्यासं कुर्वाणाः सन्ति । तस्य निरीक्षणार्थम् अहं अद्य गतवान् प्रथमवारम् ।

तत्र अस्माकं छात्रैः सह अन्यमहाविद्यालयस्य B.Ed. छात्राः अपि काश्चन असन् । सर्वानुद्दिश्य अहं अपृच्छम् -

 अत्र विद्यालये कोsपि कार्यक्रमः पूर्वं प्रवृत्तो वा इति । 

एका उक्तवती - कोऽपि कार्यक्रमः न प्रवृत्तः इति । 

अनन्तरं तस्मिन् प्रकोष्ठे अन्यमहाविद्यालयस्य बि एड् छात्राः आसन्  किल ।  किञ्चित्कालानन्तरम् एकां छात्राम् अहं पृष्टवान् । तास्तु स्थानीयाः एव छात्राः केरलीयाः । तत्र वैष्णवी इति काचित् त्रिश्शूरतः आगता बालिका उक्तवती - अत्र  न कोऽपि कार्यक्रमः प्रवर्तते इति । रामकृष्णपरमहंसस्य विषये स्वामिनः विवेकानन्दस्य विषये वा तदीय योगदानस्य विषये वा जायेत किल इति पृष्टे सति सा उक्तवती तादृशकार्यक्रमः कोऽपि अत्र न जातः, न जायते च इति ।

अनन्तरं सा उक्तवती, यत् अहं बहु पूर्वमेव ऊहितवान् आसम् अपि च शृंगगिरौ शिक्षाशास्त्रिकक्ष्यायां असकृत् उक्तवान् अपि आसम्  तदेव। इदानीं तदेव वैष्णवी तदीयमुखेन वक्तुमारब्धवती - 

अत्र केरलेषु कम्युनिष्टदलीयाः हैन्दवानां Mind wash पूर्णरूपेण बहुपूर्वमेव कृतवन्तः सन्ति । अतः अत्रत्याः,  शैक्षिकसंस्थासु, सार्वजनीनकार्यक्रमेषु, सर्वकारीयकार्यक्रमेषु वा  सनातनधर्मविषये किमपि कथनं संविधानविरुद्धमिति मन्यन्ते । अन्यमतीयाः तत्तन्मतविषये सधैर्यं विस्तरेण वदन्ति किल इति पृष्टे सति तत्रत्याः मूर्खाः हैन्दवाः इत्थं वदन्ति इति - "संविधानेन अल्पसंख्यकानां तेषां तदर्थम् अवसरः कल्पितः । अतः ते तस्य अवसरस्य  उपयोगं नियमानुगुणमेव कुर्वन्ति । तत्र तेषां दोषो नास्ति" इति । 

वैष्णवी वदति "क्रिश्चियन जनाः मुसल्मान् जनाश्च अत्यन्तं स्मार्ट् सन्ति" इति। इत्युक्ते ते सर्वकारपक्षतः यत्सौविध्यं मिलति यथा- तदीयधर्मस्य प्रसारार्थं वा, उन्मुक्तरूपेण स्वमतविषये भाषणं कर्तुं वा, स्वमतस्य प्रचारं कर्तुं वा, मतपरिवर्तनं कर्तुं वा  तत् सौविध्यं अत्यन्तं नैपुण्येन उपयुंजते । तदीयं मतीयं कार्यं संविधानस्य परिधावेव चलति  इति उपपत्तिं दर्शयन्ति, मूर्खाणां कम्युनिष्टसिद्धान्तेन प्रभावितानां हैन्दवानां पुरस्तात् । अतः एते एव मूर्खाः हैन्दवाः तेषां मतीयान् सार्वाजनीनान् कार्यक्रमान् समर्थयन्ति, हैन्दवानां कार्यक्रमान् न केवलं विरुन्धन्ति, अपि तु स्थगयन्ति च । 

विशिष्य हैन्दवेषु एतादृशीं मानसिकताम् उत्पादयितुं  साम्यवादिनः बहुपूर्वं यत्नं कृतवन्तः । 

मलप्पुरजिल्लायां १०૪ वर्षेभ्यः पूर्वं सहस्रशः हैन्दवान्  मुसल्मानाः हतवन्तः यस्य परिणामतः तत्र साम्प्रतं ९० प्रतिशतं मुस्लिंजनाः सन्ति, हैन्दवास्तु केवलं १० प्रतिशतमपि न सन्ति । तथापि तत्रत्यां शिक्षिकां संस्कृतज्ञां शैलजाख्यां पृच्छामि चेत् सा वदति - "तत्र न कोपि क्लेशः अस्ति । सर्वे मुसल्मान् जनाः प्रेम्णा सन्ति" इति । शैलजासदृशाः तत्रत्याः हैन्दवाः, काश्मीरे ५% हैन्दवाः १९९० तः पूर्वं यथा चिन्तयन्ति स्म तथैव सन्ति । काश्मीरे ५ लक्षसंख्याकाः पण्डिताः मध्यरात्रिकाले प्राणान् मानं च पणीकृत्य जीवितावधौ संपादितां सर्वां सम्पदं परित्यज्य पलायनं कृत्वा स्वदेशे एव निर्गतिका भिक्षुका इव जम्मुसमीपे नरकसदृशजीवनं यापयन्तः सन्ति । एतादृशं देशे प्रवृत्तं चेदपि एतेषां मलप्पुरवासिनां हैन्दवानां कीदृशी आत्मविस्मृतिः ???

केरलीयानां प्रायः अधिकाधिकानां हैन्दवानां इयमेव स्थितिः साम्यवादिदलस्य(कम्युनिष्ट पार्टी )कारणतः अभवत् ।

अत एव संघः तत्रत्यान् (केरलेयान्ता हैन्न्दवान्) रक्षितुं एतावता ૪०० अधिकानां कार्यकर्तृणां बलिदानं अकरोत् । वैष्णवी एतस्य बलिदानस्य महत्वं अवगतवती अस्ति । सा विधर्मीयाणां वंचनां जानाति । स्वधर्मीयाणां मूर्खतामपि जानाति । अग्रे किं वा कर्तव्यं इति सन्दिग्धतायाम् अस्ति ।

मया  उक्तम् -

भवती पूर्णतः वस्तुस्थितिं ज्ञातवती अस्ति । एतत् अत्यंतं महत्वपूर्णमस्ति । अपि च भवती युवावस्थायाम् अस्ति । अतः एषः स्वर्णिमः अवसरः इति मत्वा जनेषु जागर्याम् उतपादयितुं अर्हति । भवादृशानां यूनां हस्ते केरलस्य(भारतस्य) हैन्दवानां भवितव्यम् अस्ति इति ।


वर्षत्रयात् पूर्वं राष्ट्रियसंगोष्ट्यर्थं शृंगेरीतः अहं गुरुवायूरुपरिसरं गतः आसम् । तत्र भगवतः दर्शनार्थं एकः ब्राह्मणः छात्रप्रमुखः मां मन्दरं नीतवान् आसीत् । तमहं तदा अप्राक्षिषम् - Kerala Story इति चलच्चित्रं दृषटं वा इति । तस्य समाधानं श्रुत्वा भवन्तः चकिता भवेयुः । सः इत्थमवदत् - 

अहं न दृष्टवान् । न द्रक्ष्यामि च ।

किमर्थम् ?

तत् केरलस्य मानं नाशयति !!!

किन्तु तत् केरलीयानां मानिनीनां इतः परं मानहानि मा भूत् इत्येतदर्थं जागर्यां जनयति किल ?

न, तत् सर्वं असत्यम् अस्ति । अतः अत्र केरले तत् Banned अस्ति ।

किन्तु अन्यराज्येषु Banned नास्ति । तेषां कृते तत् असत्यं नास्ति । तत्र ५०००० कन्याः लव् जिहाद कारणतः बलिभूताः सन्ति इत्युक्तम् । सत्यघटनाम् आश्रित्य तन्निर्मितम् ।

न तत् केनापि केरलीयेन न द्रष्टव्यम् । अतः सर्वकारेण Ban कृतम् , यच्च सम्यक् कृतम् ।

किन्तु केरलीयाः इच्छन्ति चेत् अन्तर्जालमाध्यमेन अपि प्राप्य द्रष्टुम् अर्हन्ति किल ?

न तदपि न शक्यते । अन्तर्जाले अपि अत्र निषिद्धम् अस्ति ।

अस्तु नाम निषिद्धम् । किन्तु हैन्दवकन्यानां तत्र मतपरिवर्तनं कृत्वा भविष्यं नाशयन्ति इति पाठः जनैः प्राप्तव्यः किल ?

स्यात् । किन्तु तत्र महती अतिशयोक्तिः प्रदर्शिता ।

किन्तु अहं मम केरलीयस्य सुहृदः (के.के.शैन) मुखात् केरलीयपत्रकायाः वार्तां १५ वर्षेभ्यः प्रागेव श्रुतवान् आसम् यत् "केरलस्य उच्चन्यायालये १० सहस्रं Love Jihad प्रकरणानि विचारणार्थं साम्प्रतं सन्ति" इति ।

किन्तु निर्णयः इतोsपि न्यायालयेन न श्रावितः किल !!!

तर्हि तत् सर्वम् असत्यं इति सम्प्रति निर्णीय वक्तुं शक्यते किम् ? केरलस्य मानं  एतादृशप्रकरणानां प्रकाशनेन नश्यति उत एतादृशप्रकरणानि भाविनि काले यथा न भवेत् तथा क्रियते चेद् भवति ? कथं साम्यवादिसिद्धान्तेन विस्मृतस्वत्वं तं ब्राह्मणयुवानं अवगमयेम ? 

किन्तु इदानीं कालः परिवर्तितः । चतुश्शतस्य संघकार्यकर्तृणां बलिदानेन वैष्णवी उत्पन्ना अस्ति । वामवादिभिः कर्तितपादः सदानन्दमास्तरः देहल्यां काषायध्वजं स्वीकृत्य प्रविष्टः । केरलेषु त्रयः MLA विधानसभां प्रविष्टाः । 

कोयमुत्तूरे ५९ मुग्धानां सनातनीयानां हन्तारं राक्षसं नासिर मदनि इत्याख्यं कारागारात् मोचयितुं केरलस्य सम्पूर्णविधानसभा सर्वानुमत्या निर्णयं पारितवती आसीत् । किन्तु इदानीं काषायगुंजारवः सहस्रकृत्वः तं शूले आरोपयितुं प्रतिध्वनयिष्यति । महाविष्णुः कृष्णमुखात् "यदा यदा हि धर्मस्य ग्लानिर्भवति ....." इति द्वापरे उक्तवानासीत् । सम्प्रति वैष्णवीम् एव  प्राहैषत् । 

॥ जय श्रीराम ॥ वन्दे मातरम् ॥



No comments:

Post a Comment