Wednesday, June 28, 2023

राजनीतिशास्त्रम् (Political Science) Compendium on Basis of contemporary disciplines in Sanskrit

 

राजनीतिशास्त्रम् (Political Science)

 

उपोद्घातः

स्वस्थं सामाजिकं जीवनं यापयितुं दण्डनीतिः अत्यन्तम् आवश्यकी । अत एव भारतीयाः शास्त्रकाराः इत्थम् अभिप्रयन्ति –

दण्डः शास्ति प्रजाः सर्वाः दण्ड एवाभिरक्षति ।

दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ महाभारतम् शान्तिपर्व १५/२

दण्डनीतिर्यदा सम्यङ् नेतारमधितिष्ठति ।

तदा विद्याविदः शेषाः विद्याः सम्यगुपासते ॥ कामन्दकीयनीतिसारः

 

जगतितले अनादिकालादारभ्य राज्यशासनव्यवस्थायाः उत्तरदायित्वं राजवंशीयानाम् आसीत् । किन्तु प्रायः उपद्विशताद् वर्षेभ्यः शासकस्थानं राजातिरिक्तेन जनेन अलङ्कर्तुं शक्यते इति स्थितिः समुत्पन्ना । विशिष्य लोकतन्त्रं राजतन्त्रस्य स्थाने समागतम् । लोकतन्त्रे अपि केषाञ्चिदेव उच्चवर्गीयाणां हस्ते अधिकारः भवति, येन श्रमजीविनां श्रमस्य दुर्लाभं एते सम्प्राप्य श्रमजीविनः शोषयन्ति इति मन्वानाः तदीयहस्ते राज्याधिकारः भवेत् इति चिन्तनस्य फलत्वेन साम्यवादिराजनीतिः व्यवहारपथे आगता । क्रमेण सामाजिकासमतायाः निर्मूलनाय समाजवादिचिन्तनं क्वचित् प्राधान्यम् अवाप्य समाजवादिराजनीतिः व्यवहारपथे आगता । क्वचित् केचन उत्साहिनः जनानुरागितया नेतृत्वं सम्पाद्य क्रमशः स्वहस्ते अधिकारावाप्तेः परं तमेव अधिकारं त्यक्तुम् अनिच्छुकाः अधिनायकवादिचिन्तनेन राज्यं शासितुम् आरभन्त । एतस्य अधिनायकवादिराजनीतिरिति(Autocracy) नाम । जगतः केषुचित् देशेषु अधुनापि राजवंशीयाः एव शासति । क्वचित् सैन्यशासनं प्रचलति । यथा पाकिस्थानम्, ब्रह्मदेशः इत्यादिषु देशेषु वर्तते ।  इत्थं शासनं विभिन्नरूपेण क्रियमाणं अन्यान्यनियमैः समाविष्टं वर्तते एव । तत्र केचन नियमाः सार्वकालिकाः, सार्वभौमिकाश्च ये वर्तन्ते ते निष्पक्षपातं अनुपालनीयाः इति समेषां अपेक्षा भवति । शासनस्य प्रकारः यः कोऽपि वा भवतु , सार्वकालिकाः सार्वभौमिकाश्च नियमाः निष्पक्षपातं पाल्यन्ते चेत् समेषां हितं भवति इत्यत्र नास्ति सन्देहः, येन समाजः स्वस्थः शान्तिपूर्णः समृद्धः च भवति । एतन्मनसि निधाय भारतीयाः मनीषिणः एतादृशान् सार्वकालिकान् सार्वभौमिकान् च नियमान् समग्रराज्यस्य हिताय “दण्डनीतिः” इति नाम्ना प्रत्यपीपदन् ।  एषा दण्डनीतिः भारते विधिशास्त्ररूपेण राजनीतिशास्त्ररूपेण प्रशासनप्रबन्धनशास्त्ररूपेण च साम्प्रतं आधुनिकरीत्या अध्याप्यते ।

प्रकृतं राजनीतिशास्त्रम्(Political Science) इति नाम्ना समग्रे देशे विश्वविद्यालयेषु अध्याप्यमानः विषयः विभिन्नानां राजनीतिशास्त्रनिपुणानां चिन्तकानां चिन्तनैः प्रफुल्लितः अस्त्येव यत्र प्राचीनभारतीयमनीषिणां चिन्तनं आदर्शरूपेण न स्वीकृतमिव दृश्यते । यद्यपि एम्.डि.विश्वविद्यालयसदृशैः कैश्चित् विश्वविद्यालयैः स्वीयविश्वविद्यालयस्य राजनीतिशास्त्रस्य पाठ्यक्रमे प्राचीनभारतीयमनीषिणां केषाञ्चित् विचाराः स्वीकृताः, तथापि राज्यसमृद्धये स्वास्थ्याय जगद्धिताय च बहूनां प्राचीनभारतीयमनीषिणां विचाराः इतोऽपि प्राचुर्येण स्वीकर्तुं शक्याः सन्ति इति निरूपणाय अयं लेखः प्रवृत्तः ।

उद्देश्यानि

१.    राजनीतिशास्त्रम् आधुनिकविश्वविद्यालयेषु अध्याप्यमानं भारतीयवाङ्मयेन अनुक्तं नास्ति इति निरूपणम्

२.    संस्कृतवाङ्मये आधुनिकराजनीतिशास्त्रसम्बद्धतया किमुक्तमस्ति इत्यस्य प्रकाशनम् ।

३.    संस्कृतवाङ्मये राजनीतिविषये अत्यन्तम् उदात्तं चिन्तनं विहितमस्ति इति प्रतिपादनम् ।

४.    आधुनिकराजनीतिः संस्कृतवाङ्मयात् सत्पथविन्यासिनी भवितुमर्हतीति निरूपणम् ।

५.    स्वस्थसमाजस्य निर्माणाय समृद्धये संरक्षणाय, आत्यन्तिकाभ्युदयाय च आधुनिकराजनीतिशास्त्रस्य आधारत्वेन संस्कृतवाङ्मये भूरिशः विचाराः प्राप्यन्ते इत्यस्य प्रमाणीकरणम्।

संस्कृतशिक्षायाः उपरि अस्मदवधानक्षेत्रस्य प्रभावः –

अस्माकम् अवधानक्षेत्रमिदमस्ति -  समकालिकविषयाणाम् आधारत्वेन संस्कृतम्(Basis of contemporary disciplines in Sanskrit).इति । अतः संस्कृतवाङ्मये समकालिकविषयाणाम् आधारत्वेन भूरिशः विचाराः प्राप्यन्ते इति लोकः अवगच्छति चेत् तदध्येतुं प्रवर्तते इति प्रधानं प्रयोजनम् अस्ति । तदा संस्कृताध्येतॄणां संख्यावृद्ध्या नैकेषु आयामेषु संस्कृतशिक्षा प्रभाविता भवति । उद्योगावसराणां वर्धनेन सह बहोः कालात् उपेक्षितस्य ज्ञानराशेः कवाटः उद्घाट्यते येन च असीमप्रयोजनं मानवसन्तत्या प्राप्स्यते ।

 

प्रतिज्ञाविधिः

अस्मिन् लेखे  आधुनिकस्य Political Science इत्यस्य विषयस्य बोधनाय संस्कृतवाङ्मयं कथं आधारत्वेन उपकुरुते इति निरूपणाय दिङ्मात्रेण अधोलिखितानां केषाञ्चित् ग्रन्थानां केचन श्लोकाः अत्र विवरीताः ।

o   चाणक्यनीतिः

o   मनुस्मृतिः

o   अर्थशास्त्रम्

o   विदुरनीतिः

o   कामन्दकीयनीतिसारः

o   शुक्रनीतिः

o   रामायणम्

 

 

चाणक्यनीतिः

 

अरिमर्दनम्

         देशस्य शत्रवः राजनेतॄभिः सम्मुखीकर्तव्याः भवन्ति । एवमेव राजनीतौ अरयः सामान्यतः विरुद्धदलीयाः अपि भवन्ति इत्यतः तैः सह अपि योद्धव्यं भवति । तदा कीदृशेन शत्रुणा सह कथं योद्धव्यम् इति चाणक्यनीतिः इत्थम् उपदिशति -

अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् ।

आत्मतुल्यबलं शत्रुं विनयेन बलेन च ॥ ७/१०

          शत्रुः बलवान् अस्ति चेत् तदनुकूलव्यवहारं कृत्वा तस्य पराजयः साधनीयः ।  शत्रुः दुष्टः अस्ति चेत् प्रतिकूलव्यवहारेण तस्य निग्रहः कर्तव्यः ।  तुल्यबलः अस्ति चेत् विनयेन जेतुं यतनीयम् अथवा बलं प्रदर्श्य जेतव्यः ।

जघन्यो यवनश्रेष्ठश्चाण्डालादपि दुर्मतिः

चाण्डालानां सहस्रे च सूरिभिस्तत्वदर्शिभिः ।

एको हि यवनः प्रोक्तो न नीचो यवनात्परः ॥८/५

          तत्वदर्शिनः विद्वांसः वदन्ति यत् सहस्रचाण्डालसमः भवति एकः यवनः ।  यवनात् नीचः अन्यः नास्ति एव इति ।  इदं याथार्थ्यं जगति सर्वत्र तदा तदा प्रमाणितं भवति । किन्तु सूक्ष्मदृक् चाणक्यः आरम्भकाले एव एतद् अभिज्ञातवान् आसीत् इति विशेषः ।

 

असन्तुष्टा द्विजा नष्टा सन्तुष्टाश्च महीभृतः ।

सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गनाः ॥ ८/१८

असन्तुष्टः द्विजः कदापि न भवेत् । सः असन्तुष्टः भवति चेत् नश्यति । एवमेव राजा कदापि सन्तुष्टः न भवेत् । सन्तुष्टः भवति चेत् राज्यरथः न चलति, राज्यविस्तारः च न भवति । सन्तोषेण अक्रियत्वमापद्यते इत्यतः परैराक्रान्तं च भवति राज्यम् । गणिका लज्जावती भवति चेत् तस्याः वाणिज्यं न चलति । कुलाङ्गनाः निर्लज्जाश्चेत् परपुरुषभुक्ताः सत्यः कुलाङ्गनत्वात् भष्टाः भवन्ति ।

अत्र वस्तुतः साम्राज्यस्य विस्ताराय यथा पूर्वं अश्वमेधादियागान् कुर्वन्ति स्म ।

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥३/२०

          राजनैतिकदलेषु दलस्य सिद्धान्तानुगुणं विकासमवाप्तुं दलविरोधिनां अस्य सिद्धान्तस्य आधारेण निष्कासनं क्रियमाणं सर्वत्र दृश्यते ।

 

विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः ।

भण्डारी प्रतिहारी च सप्त सुप्तान् प्रबोधयेत् ॥ ९/६

          अत्र सेवकः, भण्डारी, प्रतिहारी चेति त्रयः दण्डनीत्यनुगुणं प्रशासकेन अवश्यं प्रबोधनीयाः इति स्पष्टम् । विद्यार्थी पान्थः क्षुधार्तः भयकातरश्च आहत्य सामान्यतया राज्यस्य अभ्युदयाय वा शान्त्यै वा पुण्याय वा प्रबोधनीयाः स्युः ।

अहिं नृपं च शार्दूलं  किटिं बालकं तथा  ।

परश्वानं च मूर्खञ्च सप्त सुप्तान् न बोधयेत् ॥९/७

एवमेव के न प्रबोधनीयाः इति अस्मिन् श्लोके वर्णितम् । प्रबोधनेन हानिः भवितुमर्हति इत्यतः एवं प्रोक्तम् इति भासते ।

 

निर्विषेणापि सर्पेण कर्तव्या महती फणा ।

विषमस्तु न चाप्यस्तु घटाटोपो भयङ्करः ॥ ९/१०

मितभाषी विवेकी प्रियभाषी शासकः मृदुभाषणं करोति चेत्  कार्यं न सिध्यति इत्यतः उत्तरदायित्वनिर्वहणाय घटाटोपं/भीषणं कुर्यात् इति अत्र वर्णितम् ।

 

 

कौटिल्यस्य अर्थशास्त्रम्

 

प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।

नात्मप्रैयं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥  कौ.अर्थ. १/१८

          राजा प्रजानां हितार्थं प्रजानां सुखार्थञ्च प्रवर्तेत इति अनेन पद्येन ज्ञायते । तस्य वैयक्तिकं अन्यत् सुखं वा हितं वा नास्त्येव इत्यभिप्रायः कौटिल्येन अत्र गृहीतः । साम्प्रतिकप्रधानमन्त्रीसदृशाः केचनैव शासकाः ईदृशाः अस्माभिः देशे साम्प्रतं द्रष्टुं शक्यन्ते । अतः एतस्य पद्यस्य तात्पर्यं समेषां शासकानां जीवने अवतरति चेत्  अर्थशास्त्रस्य सार्थक्यं सम्पद्यते ।

 

योगक्षेमसाधनो दण्डः तस्य नीतिर्दण्डनीतिः ।

अलब्धलाभार्था लब्धपरिरक्षणी रक्षितविवर्धनी,

वृद्धस्य तीर्थेषु प्रतिपादनी ।                            कौ.अर्थ. १/४

 

श्रुतिस्मृत्यविरोधेन राजवृत्तिर्हि शासनम् ।

सुयुक्तयार्थार्जनं यत्र अर्थशास्त्रं तदुच्यते ॥

          लोकानां अभ्युदयनिश्रेयसयोरेव श्रुतिस्मृतीनां प्रवृत्तिः । अतः तदविरोधेन एव राजा प्रजापालनं करोति चेत् तत्सेत्स्यति ।

 

आराधिता हि शीलेन प्रयत्नैश्चोपलालिताः

राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥

          पद्येऽस्मिन् राज्ञां कर्तव्यमनुक्त्वा प्रजानाम् आचरणं व्यवहारः कथं स्यादिति प्रोक्तम् । राजानः प्रजानां सदाचारं आद्रियन्ते विपरीतं चेत् प्रकुप्यन्ति । यत्नशीलाः एव प्रजाः राज्ञः प्रसन्नतां जनयितुमर्हन्ति इति इदं पद्यं वर्णयति ।

औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः ।

समर्थान् सम्प्रगृह्यन्ति परानपि नराधिपाः ॥ (II – 26-35,36)

          अहितं जनयन्ति चेत् स्वपुत्राश्चेदपि राजानः त्यजन्ति । समर्थाः सन्ति चेत् राजानः तान् मानयन्ति, उच्चपदं प्रच्छन्ति इति इदं पद्यं वर्णयन्ति । अधुनातनराजनीतौ असमर्थाश्चेदपि आत्मजानेव उन्नतपदे प्रतिष्ठापयन्ति इति तु अनेन पद्येन निन्द्यते इति ज्ञायते ।

         

शुक्रनीतिः

 

राज्यवृक्षस्य नृपतिर्मूलं स्कन्धाश्च मन्त्रिणः ।

शाखाः सेनाधिपाः सेनाः पल्लवाः कुसुमानि च ॥

प्रजाः फलानि भूभागा बीजं भूमिः प्रकल्पिता ।  शु.नी. सा. ५/१२-१३

            राज्यस्य घटाकानि कथं परस्परं अविनाभावेन सम्बद्धानि इति पूर्वतने पद्ये समुपवर्णितम् । अत्र उच्चनीचभावः नास्ति । मिथः अन्योन्यसम्बन्धः वर्वर्ति । अयमेव भारतीयदण्डनीतिशास्त्रस्य महिमा वर्तते ।

अधर्मशीलो नृपतिर्यदा तं भीषयेज्जनः ।

धर्मशीलातिबलवद्रिपोराश्रयतः सदा ॥

गुणनीतिबलद्वेषी कुलभूतोऽप्यधार्मिकः ।

नृपो यदि भवेत्तं तु त्यजेद्राष्ट्रविनाशकम् ॥

          राजशासनं भारते कदापि प्रभुत्ववादिशासनमिव(Autocratic) नासीदेव । प्रजाः तादृशं अधार्मिकं नीतिविरुद्धं राजानं तत्पदात् अवतारयन्ति इति पूर्वतनपद्याभ्याम् उपवर्णितम् ।

 

तत्पदे तस्य कुलजं गुणयुक्तं पुरोहितः ।

प्रकृत्यनुमतिं कृत्वा स्थापयेद्राजगुप्तये ॥  शुक्रनी. २/२७४,७५

 

          राजपदे कीदृशः नियुज्येत इति इदं पद्यं वर्णयति । कुलजश्चेदपि गुणयुक्तः भवेदिति स्पष्टम् । तद्वंशीयः चेत् यः कोऽपि राजा भवितुं नार्हति इत्यपि अस्य अभिप्रायो भवति ।

 

विदुरनीतिः

 

यत्नेन स्वराष्ट्रं रक्षेत्

 

य एव यत्नः क्रियते परराष्ट्रविमर्दने ।

स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ॥ ७०॥

अस्माकं प्रतिवेशीराष्ट्रस्य स्थितिम् अवलोक्य अयं श्लोकः स्मर्यते । पाकिस्तानेन भारतस्य नाशाय विमर्दनाय सर्वविधः श्रमः क्रियमाणः अस्ति । किन्तु स्वस्य अभ्युदयाय किमपि न चिन्त्यते । राष्ट्रनेतृषु अस्य श्लोकस्य तात्पर्यानुगुणं प्रवृत्तिः भवति चेत् राजनीतिः/दण्डनीतिः सार्थिका भवति । एषा विदुरनीतिः न केवलं पाकिस्तानाय उपदेशात्मको वर्तते, अपि तु पाकिस्तानसदृशानां उत्तरकोरिया, टर्क, उक्रैन्, पालेस्टैन्, जोर्डान् इत्यादिदेशानां कृते अपि उपयोगाय भवति ।

 

अनीत्या राज्यनाशः

पितृपैतामहं राज्यं प्राप्तवान् स्वेन कर्मणा ।

वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥७१॥

          प्रशासकः अनीतिमान् चेत् राज्यनाशः कथं भवति इति पद्येऽस्मिन् वर्णितम् ।

चारचक्षुः भवेत् नृपः

गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः ।

चारैः पश्यन्ति राजानः चक्षुभ्याम् इतरे जनाः ॥७२॥

          राज्ञः पुरस्तात् बहवो हि भृत्यादयः विनीताः इव आत्मानं प्रदर्शयन्ति । तावता ते सर्वेऽपि विनीताः भवन्ति, श्रद्धधानाः भवन्ति इति वा न तात्पर्यम् । अतः राजा वस्तुतः सर्वेषां परिजनानां विषये चारचक्षुः सन् अवगच्छेत् । तदानीमेव याथार्थ्यं ज्ञायते इति पद्यमिदम् आख्याति ।

         

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।

कृतमेवास्य जानन्ति  स वै पण्डित उच्यते ॥७६॥

          राज्ञा करिष्यमाणकर्मणः योजनां कोऽपि  पूर्वमेव न जानीयात् । येन हानिः भवितुमर्हति । कार्यसम्पादनात्परमेव ज्ञायेत । 

गूढमन्त्रः विजयते

यस्य मन्त्रं न जानन्ति बाह्याभ्यन्तराश्च ये ।

स राजा सर्वतश्चक्षुः चिरमैश्वर्यमश्नुते ॥ ७७॥

शासकस्य विचारं आन्तरङ्गिकाः वा बाह्याः वा यथा न जानीयुः तथा सः मन्त्रणां करोति चेत् तस्य सम्पदः वृद्धिः जायते ।

मन्त्रविप्लवः

एकं विषरसो हन्ति शस्त्रेणैकश्च बध्यते ।

सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः ॥७८॥

          मन्त्रणा या शासकेन क्रियते सा राज्यहिताय न भवति चेत् तया सा मन्त्रणा समग्रं राज्यमेव नाशयति इति इदं पद्यं वर्णयति ।

अविरोद्धा नश्यति

द्वाविमौ ग्रसते भूमिः सर्पो बिलेशयानिव ।

राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥८०॥

          राज्ञः विरोधिनः अवश्यं भवेयुः । ते बाह्याः वा भवन्तु आन्तरङ्गिकाः वा भवन्तु ।  विरोधिनः भवन्ति चेदेव राजा शासकः सक्रियः सन् शासनकार्यं करोति । नो चेत् शयिताश्ववत् नश्यति  इति अयं श्लोकः आख्याति ।

भृत्यवात्सल्यम्

यस्मात् न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य ।

तस्मिन् भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति ॥८४॥

 

अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः ।

वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मैव हि सोनुकम्पः ॥८५॥

 

मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा ।

ददात्यमित्रेष्वपि याचितः सन् तमात्मवन्तं प्रजहत्यनर्थाः ॥८६॥

          भृत्यैः सह कथं वर्तितव्यम् ? इति शासकः जानीयात्, येन शासकस्य श्रेयः भवति इत्यादिविचाराः पूर्वोक्तेषु पद्येषु वर्तन्ते ।

दीनसेवया श्रेयः अश्नुते

यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् ।

स पुत्रपशुभिर्वृद्धिं श्रेयश्चानन्त्यमश्नुते ॥

          राजा दीनसेवाम् अवश्यं कुर्यात्, तेनैव राज्ञः आनन्त्यं श्रेयः भवति ।

करग्रहणम्

यथा मधु समादत्ते रक्षन् पुष्पाणि षट्पदः ।

तद्वदर्थान् मनुष्येभ्यः आदद्यादविहिंसया ॥८८॥

          करग्रहणस्य पद्धतिविषये इतोऽपि उत्तमम् उदाहरणम् अन्यत् भवितुं नार्हति एव । अत्र वर्णिता पद्धतिः  करदातुः  क्लेषं न जनयति, करग्राहकस्य लक्ष्यं न न्यूनीकरोति ।

लोकरञ्जनम्

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।

प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति ॥८९॥

         एतत् पद्यं उत्तररामचिरितस्य प्रथमाङ्के  विद्यमानः वसिष्ठसन्देशः समर्थयति । स च “युक्तः प्रजानाम् अनुरञ्जने स्याः, तस्माद्यशो यत्परमं धनं वः” इत्यस्ति । चक्षुषा मनसा वाचा कर्मणा च प्रजारञ्जनं राज्ञा कर्तव्यं इति अस्य सारः ।

शठे शाठ्यं समाचरेत्

यस्मिन् यथा वर्तते यो मनुष्यः  तस्मिन् तथा वर्तितव्यं स धर्मः ।

मायाचारो मायया वर्तितव्यः  साध्वाचारो साधुना प्रत्युपेयः ॥९२॥

          देशानां मध्ये विभिन्नाः सम्बन्धाः भवन्ति । सर्वेऽपि देशाः स्वीयलाभार्थमेव अन्यैः देशैः सह सम्बन्धं स्थापयन्ति । अतः तदर्थं कदाचित्  दुर्मार्गान् अपि आश्रयन्ते । एतद्विज्ञाय तेन तेन देशेन सह वर्तितव्यम् । समीपकाले चीनदेशः भारतेन सह मैत्रीं कुर्वन्नेव गल्वान्-घाटी इत्यत्र अस्मत्सैन्यस्य हानिमुत्पाद्य अस्मद्भूभागं आक्रान्तुं यत्नमरोत् तदा भारतेन कथं व्यवहृतम् इति सर्वे जानन्ति । एवमेव

विश्वस्तोऽपि न विश्वसेत्

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।

विश्वासात् भयमुत्पन्नं मूलान्यपि निकृन्तति ॥९३॥

          शासकः विश्वासायोग्यान् तु न विश्वसेत्, एवमेव विश्वासयोग्याः सन्ति इति मत्वा अतिविश्वासेनापि तैः सह न व्यवहरेत् ।  यतो हि अतिविश्वासात् कदाचित् भयमुत्पद्यते यच्च भयं मूलानि अपि नाशयति ।

शत्रुनिग्रहः

न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः ।

न्यग्भूत्वा पर्युपासीत वध्यं हन्यात् बले सति ॥

अहताद्धि भयं तस्मात् जायते न चिरादिव ॥

          जगमोहनाख्यः वरिष्ठः अधिकारी राज्यपालत्वेन काश्मीरे द्विवारं सेवामकार्षीत् तेन स्वलिखिते “My frozen Turbulence in Kashmir” इत्याख्ये पुस्तके पूर्वतनैः राजनेतृभिः शत्रुविषये स्वीकृतः अनुचितः निर्णयः वर्णितः ।  एकवारं तत्रत्यः मुख्यमन्त्री कारागारे बद्धान् सार्धैकशतं आतङ्ककारिणः कापट्येन अमोचयत् । एवमेव यदा भारतस्य गृहमन्त्रित्वेन मुफ्ति महम्मद सयीद् आसीत् तदा तत्पुत्रीं आतङ्ककारिणः अपाहरन् इत्यतः तदीयापेक्षानुसारं केचन उग्राः आततायिनः उन्मोचिताः । यस्य च परिणामः पश्चात् काश्मीरे, समग्रे भारते च अत्यन्तं दुःसहः आसीत् । एवमेव मौलाना मसूद अजर प्रभृतयः पञ्च आतङ्ककारिणः भारतस्य कारागारे विद्यमानाः अटलसर्वकारेण अगतिकगत्या वा मोचिताः यस्य च परिणामः उत्तरवर्तिकाले भारते कथमासीदिति इतिहासः प्रमाणम् ।

अतः राजनेता पूर्वोक्तं पद्यं जानाति चेत् तादृशम् अनुचितं निर्णयं कदापि न स्वीकरोति । योगी आदित्यनाथः आततायिनां निग्रहविषये अस्य पद्यस्य सारमवगत्य प्रवर्तमानो वर्तते इति तदीयकर्मणा प्रतीयते ।

 

कामन्दकीयनीतिसारः

          कामन्दकीयनीतिसारे शासकस्य गुणाः कर्तव्यानि च यानि वर्णितानि तनि दिङ्मात्रेण अत्र सङ्गृह्य प्रदत्तानि सन्ति ।

न्यायप्रवृत्तो नृपतिरात्मानमथ च प्रजाम् ।

त्रिवर्गेणोपसन्धत्ते निहन्ति ध्रुवमन्यथा ॥ १/१५

          न्याय्येन शासनं कुर्वाणः राजा स्वस्य प्रजानां धर्मार्थकामान्  उत्पादयति । नो चेत् इत्युक्ते अन्याय्येन रतः राजा सर्वस्यापि नाशाय कल्पते । अतः राज्ञि अयं गुणः भवेत् । राजा न्याय्यं आचरति चेदेव प्रजाः धर्मार्थकामान् प्राप्तुमर्हन्ति । नो चेत् अधर्ममार्गे प्रवृत्ताः अनर्थं साधयन्तः निराशाः भवन्ति इति ज्ञायते ।

धर्माद् वैजवनो राजा चिराय बुभुजे महीम् ।

अधर्माच्चैव नहुषः प्रतिपेदे रसातलम् ॥ १/१६

          धर्ममार्गप्रवृत्तः शासकः चिरकालं यावत् राज्यश्रियं अनुभवति । अधर्मगार्गी अस्ति चेत् अधोगतिं प्राप्नोति इति पद्यमिदं वर्णयति । अतः अस्मिन् अपि काले इदं पद्यं राजनीतौ सुष्ठु समन्वेति । धर्मनिरपेक्षता इत्यनेन वस्तुतः अधर्ममार्गपरता इत्यर्थः अनुभवेन भारतीयैः आत्मसात्कृतम् अस्ति । अतः तस्य शब्दस्य संविधाने योजनात्परम् अत्र राजनैतिक-अस्थिरता सदा दरीदृश्यते । किन्तु धर्ममार्गे प्रवृत्तस्य राजनेतुः पदात् च्युतिः प्रायः दुश्शकम् इति अस्मत्प्रधानमन्त्रिणः द्वाविंशतेः वर्षाणाम् आधिकारिकपदे स्थितिः द्योतयति ।

तस्मात् धर्मं पुरस्कृत्य यतेतार्थाय भूपतिः ।

धर्मेण वर्धते राज्यं तस्य स्वादु फलं श्रियः ॥ १/१७

          अत एव धर्ममार्गेण शासनं कर्तव्यम्, येन राज्यं वर्धते । तस्य स्वादु फलं भवति सम्पदः इति अत्र प्रोक्तम् । इदमपि जगतः विकटपरिस्थितावपि भारतेन अद्यत्वे देशस्य GDP(7.2%) यत् सर्वाधिकं साधितं तेन प्रमाणितं भवति ।

न्यायेनार्जनमर्थस्य  रक्षणं वर्धनं तथा ।

सत्पात्रप्रतिपत्तिश्च राजवृत्तं चतुर्विधम् ॥ १/२०

          शासकस्य चतुर्विधं कार्यं अत्र उपवर्णितम् । सम्पदः अर्जनं, रक्षणं, वर्धनं, सत्पात्रेभ्यः दानं च । एतत सर्वमपि चतुर्विधं राजवृत्तं न्यायेन एव सम्पादनीयम् ।

सदानुरक्तप्रकृतिः प्रजापालनतत्परः ।

विनीतात्मा हि नृपतिः भूयसीं श्रियमश्नुते ॥ १/२६

जितेन्द्रियस्य नृपतेः  नीतिमार्गानुसारिणः ।

भवन्ति ज्वालिताः लक्ष्म्यः कीर्तयश्च नभस्पृशः ॥ १/६५

          पूर्वोक्तपद्यद्वयमपि प्राक्तनपद्यानि इव  राज्ञः/शास्कस्य श्रेयसे सः कीदृङ्गुणान्वितः स्यादिति प्रतिपादयति, अपि च तादृशगुणोपेतेन किं फलं प्राप्यते चेति ।

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्चती ।

विद्याश्चतस्र एवैता लोकस्स्थितिहेतवः ॥ २/२

 

दण्डनीतिर्यदा सम्यङ् नेतारमधितिष्ठति ।

तदा विद्याविदः शेषाः विद्याः सम्यगुपासते ॥

          यो नेता सम्यक् दण्डनीतिम् अनुसरति सर्वेऽपि आन्वीक्षिक्याद्याः सर्वाः विद्याः उपार्जयन्ति, उपासते च इत्युक्ते शास्त्रोक्तम् अनुतिष्ठन्ति इति ।

 

रामायणम्

वाल्मीकिरामायणे अयोध्याकाण्डे शततमः सर्गः दण्डनीति दृष्ट्या अत्यन्तं  महत्वपूर्णः । वनवासार्थं निर्गतं रामं पुनः सिंहासने अभिषेक्तुम् इच्चुकः भरतः चित्रकूटं प्रति सामात्यः सप्रजः यदा अगच्छत् तदा श्रीरामचन्द्रः राज्यशासनं कथं कुर्वन्नस्ति ? कथं वा कर्तव्यम् अस्तीति प्रेम्णा भरतं यदबोधयत् तत् वस्तुतः आधुनिकराजनीतिशास्त्रे अपि बोधयितुं योग्यः विषयः अस्ति । अतः ततः कांश्चन श्लोकान् चित्वा अत्र प्रदर्शयन् अस्मि ।

मन्त्रिणः कीदृशाः स्युः ?

कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः ।

कुलीनश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥

हे भरत, भवतः आस्थाने कीदृशाः मन्त्रिणः भवता नियोजिताः ? ते मन्त्रिणः भवत्सदृशाः एव सन्ति किल ? शूराः ज्ञानिनः जितेन्द्रियाः उत्तमकुले जाताः, तीक्ष्णमतयः मन्त्रिणः एव भवता नियोजिताः किल ? इति रामस्य प्रश्ने राज्यस्य सुशासनार्थं पूर्वोक्तविशेषणविशिष्टाः मन्त्रिणः आवश्यका इति अभिप्रायोऽस्ति । अतः एतादृशैः मन्त्रिभिः सह मन्त्रणां कृत्वा राजा शास्ति चेत् साफल्यमवाप्तुम्(विजयम्) अर्हति इति अग्रिमश्लोके कथयति ।

मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।

सुसंवृत्तो मन्त्रिधुरैरमात्यैः शास्त्रकोविदैः ॥

राज्यस्य समृद्धये अहर्निशं एभिः मन्त्रिभिः सह मन्त्रणां कृत्वा राजा निर्णयं स्वीकुर्यात्, निद्रादिविषयमोहगर्ते निमग्नो न भवेत् इति अनेन श्लोकेन उपदिशति-

कच्चिन्निद्रावशं नैषीः कच्चित्कालेऽवबुद्ध्यसे ।

कच्चिच्चापररात्रेषु चिन्तस्यस्यर्थनैपुणम् ॥

शत्रुतः गुप्तस्य गोपनम्

इत्थम् मन्त्रणासमयेऽपि गोप्यता संरक्षणीया । मन्त्रणार्थमपि अधिकाः न भवेयुः । गुप्ताः विषयाः अधिकेषु मन्त्रयितृषु सत्सु बहिः प्रकाशिताः भवन्ति । भवता अधिकजनानां मध्ये सुचिन्तिताः गुप्तविषयाः शत्रूणां निकटे न गच्छन्ति किल ? इति रामः अग्रिमश्लोके भरतं मन्त्रणाविषयसंरक्षणजागृतिम् उपदिशति -

कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।

कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ इति ।

समये सुकार्यसाधनम्

अल्पश्रमेण साधयितुं योग्यं, किञ्चन महत्प्रयोजनं मनसि निधाय सुचिन्तितं कार्यं विलम्बेन न आरभसे किल ? तादृशाणि कार्याणि तूर्णं साधनीयानि इति रामस्य अभिप्रायः अस्मिन् श्लोक्के उपदिष्टो वर्तते -

कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।

क्षिप्रमारभसे कर्म न दीर्घयसि राघव ॥ इति ।

शत्रुभ्यः कार्यरक्षणम्

शत्रवः अस्माभिः करिष्यमाणानि कार्याणि आदावेव न जानीयुः । कार्यं यदा सिद्ध्यति ततः परं ज्ञास्यन्ति चेत् चिन्ता नास्ति । पूर्वमेव ज्ञास्यन्ति चेत् कार्ये बाधं जनयेयुः । अथवा अस्मदपेक्षया पूर्वमेव ते तत् कार्यं साधयित्वा अस्माभिः प्राप्तव्यं प्रयोजनं ते अपहरेयुः । तदर्थं रामः भरतं अग्रिमे श्लोके जागरयति-

कच्चिन्नु सुकृतान्येव  कृतरूपाणि वा पुनः ।

विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥ इति ।

स्वीयस्य गोप्यस्य परानवगतिः, परेषां तु गोप्यस्य अवगतिः

अमात्यैः सह मन्त्रितः विचारः बहिः न प्रकटितः चेदपि  इतरैः(शत्रुभिः) तर्केण युक्त्या वा न ज्ञायेत । प्रत्युत इतरैः (शत्रुभिः) मन्त्रितः विचारः प्रकटनात्प्रागेव ज्ञातव्यः । अतः ईदृशं कार्यं भवान् भरतः साधयति किल इति रामः पृच्छति -

कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः ।

त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम् ॥ इति ।

सुयोग्यानां श्रेष्ठानां नियोजनम्

एवम् मन्त्रणां कृत्वा समस्यापरिहाराय सम्पदभिवृद्धये च  अल्पसंख्याकाश्चेदपि सुयोग्यानामेव मन्त्रिणां राजा नियोजनं कुर्यात् न तु अधिकसंख्याकानां अयोग्यानाम् इति  सकारणं प्रतिपाद्य भरतम् इत्थम् उपदिशति रामः -

कच्चित् सहस्रैर्मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्रेयसं महत् ॥

सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः ।  अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥

एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।  राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥

योग्यतानुसारं भृत्यानां नियोजनम्

जनानां योग्यतां सम्यक् विज्ञाय तदनुगुणं तेषां कृते विविधानि पदानि दातव्यानि भवन्ति । साम्प्रतिकप्राशासनिकव्यवस्थायां वयं एतद्विपरीतं पश्यामः ।  किञ्च श्रेष्ठानां नियोजनवेलायां तेषां श्रेष्ठतायाः मूल्याङ्कनार्थं तेषां पितृपितामहादयः शुचयः आसन् वा न वेत्यपि परीक्षणीयमिति रामः वदति । सम्प्रति नेतॄणाम् अधिकारिणां च भ्रष्टाचारं पश्यामः चेत् रामस्य चिन्तनं रामराज्यस्य निर्माणे कियत् श्रेष्ठमासीदिति पद्यद्वयेन ज्ञायते -

कच्चिन्मुख्या महत्स्वेव  मध्यमेषु च मध्यमाः । जघन्याश्च जघन्येषु भृत्यास्ते तात योजिताः ॥

अमात्यानुपधातीतान् पितृपैतामहान् शुचीन् । श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥

उग्रकरविधानस्य परिणामः

द्विरेफवत् राज्ञा करग्रहणं कर्तव्यं येन राज्ञः अपि लाभः भवेत् प्रजानामपि हानिः न स्यात् इति चाणक्यः अर्थशास्त्रे वदति । द्विरेफः मकरन्दं पिबति चेत् द्विरेफस्य तु लाभः भवत्येव । किन्तु पुष्पस्य कापि हानिर्न भवति प्रत्युत परागस्पर्शेन वृक्षसन्ततिरेव वर्धते । किन्तु राजा बलात् उग्ररूपेण करं विधत्ते चेत् कामचारिणं पुरुषं स्त्रियः यथा अवजानन्ति तथा राजानमपि प्रजाः अवजानन्ति । भवान् तु तथा न करोति किल ? इति रामः अनेन श्लोकेन पृच्छति -

कच्चित् त्त्वां नावजानन्ति याजकाः पतितं यथा ।

उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ इति ।

उपायादिकुशलस्य शत्रोः अहननस्य परिणामः

राजा कुशलं शत्रुं न हन्ति चेत् सः शत्रुः स्वयं राजानमेव हन्ति । अतः तादृशस्य शत्रोः हननम् अवश्यमेव कर्तव्यम् इति रामः इत्थम् उपदिशति - 

उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् ।

शूरम् ऐश्वर्यकामं च यो हन्ति न स हन्यते ॥ इति ।

कीदृशस्य सेनापतेः नियोजनं कर्तव्यम् ?

एकस्य राज्यस्य संरक्षणार्थं सेनापतिः कथं भवेत् ? कीदृशस्य सेनापतेः नियोजनं कर्तव्यमिति भरतमुपदिशति रामः -

कच्चित् धृष्टश्च शूरश्च धृतिमान् मतिमान् शुचिः ।

कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ इति ।

कर्मचारिणां वेतनस्य भक्तस्य च समये प्रदानस्य महत्वम्

प्रशासकस्य इयं तु चातुरी भवति यत् काले काले कर्मकरेभ्यः वेतनस्य भक्तस्य च दानेन तत्सकाशात् अधिकसेवायाः स्वीकारः इति । तदभावे महाननर्थश्च भवतीति राजा जानीयात् । भवान् तु इत्थमेव काले तेभ्यः वेतनं भक्तञ्च सर्वेभ्यः कर्मकरेभ्यः प्रयच्छति किल ? विलम्बं तु न करोति किल ? इति रामः भरतं पृच्छति -

कच्चिद्बलस्य भक्तञ्च वेतनं च यथोचितम् । सम्प्राप्तकाले दातव्यं ददासि न विलम्बसे ॥

कालातिक्रमणे ह्येव भक्तवेतनयोर्भृताः । भर्तुरप्यतिकुप्यन्ति सोऽनर्थः सुमहान् कृतः ॥ इति ।

स्वबलस्य शत्रुसामर्थ्यस्य च नियतपरीक्षा

त्रयाणां त्रयाणां गुप्तचराणां माध्यमेन शत्रुपक्षस्य अष्टादशव्यक्तीनां स्वपक्षस्य पञ्चदशव्यक्तीनाञ्च व्यवहारस्य विषये राज्ञा अवधानं दातव्यमिति मनुना यदुक्तं तदत्र दण्डनीतिशास्त्रानुगुणं रामः भरतमुपदिशति । शत्रुपक्षस्य आष्टादश जनाः इमे भवन्ति येषां व्यवहारः सूक्ष्मेक्षिकया अवलोकनीयः – मन्त्री, पुरोहितः, युवराजः, सेनापतिः, द्वारपालः, अन्तःपुराध्यक्षः, कारागाराध्यक्षः, कोशाध्यक्षः, यथायोग्यकार्येषु धनव्ययकर्ता सचिवः, सुरक्षासचिवः(Security Chief), नगराध्यक्षः, कार्यनिर्माणकर्ता(अभियन्ता), धर्माध्यक्षः, सभाध्यक्षः, दण्डपालः, दुर्गपालः, राष्ट्रसीमापालः, वनरक्षकश्च । स्वपक्षे तु पूर्वोक्तेषु आदिमान् त्रीन् विहाय अवशिष्टानां विषये राजा दृष्टिं निदधीत ।

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।

त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ इति ।

दण्डितशत्रोर्विषये जागरूकता

कच्चित् व्यपास्तान् अहितान् प्रतियातांश्च सर्वदा । दुर्बलाननवज्ञाय वर्तसे रिपुसूदन ॥

शत्रवः व्यपास्ताः दुर्बलाश्चेदपि तेषु अवज्ञा कदापि  न कर्तव्या । यतो हि ते पुनः बलं वर्धयित्वा नातिक्राम्यन्ति इति वक्तुं न शक्यते ।

नास्तिकबुद्धीनां (बुद्धिजीविनः) निन्दा

सम्प्रति यथा बुद्धिजीविनः इति यान् वयं ब्रूमः तादृशाः जनाः रामायणकालेऽपि आसन् । नास्तिकाः ते आत्मानं पण्डितं मन्यमानाः दुर्बुधाः अनर्थकुशलाः भवन्ति । ते सर्वदा निरर्थकतर्कमुपयुज्य  वृथा अपलापं कुर्वन्तः समाजस्य शान्तिं नाशयन्ति । काङ्ग्रेस्-प्रभृतीनि दलानि यथा सम्प्रति तान् सम्पोष्य स्वानुकूलतया उपयुञ्जते न तथा कर्तव्यमिति रामः तदानीमेव भरतमुपादिशत् -

कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे । अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥

धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ इति ।

इत्थं स्त्रीसंरक्षणविषये, दुर्गसमृद्धिविषये, आर्याणाम् अविचार्य दण्डदानविषये, चोराणां उन्मोचनहानिविषये चेति बहुषु विषयेषु भरतम् उपदिश्य राजधर्मं बोधितवान् । रामायणस्य अयोध्याकाण्डे विद्यमाने अस्मिन् शततमे सर्गे अत्यन्तं प्रासङिकाः सार्वकालिकाः राजधर्मसम्बद्धाः विषयाः सप्तदशलक्षवर्षेभ्यः प्रागेव रामेण उपदिष्टाः इति अत्यन्तं गर्वेण भक्त्या च अस्माभिः परिगृह्यन्ते ।

 

मनुस्मृतिः

स्मृतयः वस्तुतः  मनुष्यकल्याणकारिण्यः पुरुषार्थसाधनाय प्रवृत्ताः  सुहृत्संहितानाम्ना अभिधीयन्ते । अस्मद्देशे यद्यपि मन्वाद्याः बह्व्यः स्मृतयः सन्ति, तथापि तासु “कलौ पाराशरं स्मृतम्” इति पराशरस्मृतेः कालोचितत्वम् प्रतिपादितम् । तावता मन्वादिस्मृतयः त्याज्याः इति न तात्पर्यम् । अतः मनुस्मृतौ राजनीति सम्बद्धतया प्रोक्तान् कांश्चन अंशान् अत्र दिङ्मात्रेण प्रतिपादयामः ।

अराजके हि लोकेऽस्मिन्  सर्वतो विद्रुते भयात् ।

रक्षार्थस्य सर्वस्य राजानमसृजत्प्रभुः ॥ ७/३

सर्वेषां लोकानां रक्षार्थं राज्ञः इत्युक्ते शासकस्य आवश्यकता अस्ति । अतः भगवान् राजानं सृष्टवान् ।

बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।

महती देवता ह्येषा नररूपेण तिष्ठति ॥ ७/८

“युक्तियुक्तं वचो ग्राह्यं बालादपि शुकादपि” इतीदं वचनं अनुवदतीव इदं पद्यमस्ति ।

कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।

कुरुते धर्मसिद्ध्यर्थं विश्वरूपे पुनः पुनः ॥ ७/१०

कार्यस्य स्वरूपम् अवलोक्य, साधयितुमपेक्षितां शक्तिं च परीक्ष्य देशकालयोः औचित्यं निर्णीय राजा धर्माचरणम् इत्युक्ते प्रजापालनकार्यं सम्पादयेत् येन समेषां हितं भवति ।

अन्यानपि प्रकुर्वीत शुचीन् प्राज्ञान् अवस्थितान् ।

सम्यगर्थसमाहर्तॄन् अमात्यान् सुपरीक्षितान् ॥ ७/६०

प्रजापालनकर्मणि अपेक्षितान् अमात्यान् कीदृशान्  शासकः नियोजयेत् इति पद्यमिदं वर्णयति । रामायणे रामोऽपि एतदनुसारेणैव भरतस्य निकटे कीदृशान् अमात्यान् नियोजितवान् इति पृच्छति ।

स्यन्दनाश्वैः समे युध्येत् अनूपे नौद्विपैस्तथा ।

वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥ ७/१९२

 

दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् ।

इङ्गिताकारचेष्टज्ञं शुचिर्दक्षं कुलोद्गतम् ॥

 

सन्धिविग्रहकालज्ञान् समर्थान् आयतिक्षमान् ।

परैरहार्यान् शुद्धांश्च धर्मतः कामतोर्थतः ॥

समाहर्तुं प्रकुर्वीत सर्वशास्त्रविपश्चितः ।

कुलीनान् वृत्तिसम्पन्नान् निपुणान् कोषवृद्धये ॥ ७/६४ .....

 

आयव्ययस्य कुशलान् गणितज्ञानलोलुपान्

नियोजयेत् धर्मनिष्ठान् सम्यक्कार्यार्थचिन्तकान् ॥

 

साम्यघ्नो जगद्धन्ता साम्यवादः प्रवर्तते

 

श्री गुरुभ्यो नमः

साम्यघ्नो जगद्धन्ता साम्यवादः प्रवर्तते

 

निश्चयेन समग्रे जगति उच्चनीचभावः आसीत् वर्वर्ति भविष्यति च । पूर्वं येन रूपेण आसीत् तथा इदानीं न स्यात् । इदानीं यथा अस्ति तथा भाविनिकाले न भविष्यति च । महाराष्ट्रे कश्चन महात्मा उच्चनीचभेदः समाजे न भवेत् इति आन्दोलनमेकं गते शतके आरब्धवान् इति । एवं तस्य आन्दोलनस्य नामकरणं “अजात” इति कृतवान् । आन्दोलनस्य आरम्भिकेषु दिवसेषु बहवः जनाः तत् समर्थयन्तः तस्य आन्दोलनस्य भागग्राहिणो भूत्वा स्वीयां जातिं त्यक्तवन्तः । तस्य विडाम्बनं इदमस्ति यत् महाराष्ट्रे २०१० तमे वर्षे प्रवृत्तगनगणनानुसारं १५० अजातजातीयाः सम्प्रति सन्ति इति । जातिव्यवस्थां निर्मूलयितुं प्रवृत्तं अजात इत्याख्यं आन्दोलनं एकां नूतनाम् अतिरिक्तां जातिम् असृजत्, पुर्वतनाः जातयः तु न नष्टाः ।  इत्थं सर्वत्र केषाञ्चित् समाजसुधारकाणाम् अन्दोलनकारणतः समाजे नूतनाः जातयः समुत्पन्नाः । पुर्वं वर्णसङ्करेण जातिः उत्पद्यते स्म । यथा गीतायां अर्जुनः शङ्कते –

“स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः” भगवद्गीता १-१८

किन्तु अद्यत्वे साङ्कर्यं स्वाभाविकं जातमस्ति । अतः साङ्कर्याधारेण जातयः न भवन्ति । बहूनां अभिनवसमाजसुधारकाणां (साम्यवादिनाम्) इदमपि मतमस्ति यत् साङ्कर्यं भवेत् येन जातीयः भेदः निर्गच्छति इति ।

 जन्माधारितं भेदं मानवसामान्यः नाङ्गीकुर्यात् इति उदात्तम् आदर्शपूर्णं वाक्यं बहवः आधुनिकाः विवेकिनः वदन्ति । तदर्थमेव सर्वकाराः विधीन् निर्मान्ति येषां कारणतः अयं भेदः इतोऽपि बलवत्तरः भवति ।  भारतीयं चिन्तनं तु  इत्थमस्ति -

“विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः” ॥ भगवद्गीता ५-१८

किन्तु एषः विधिः नास्ति । अत्र मनुष्यस्य स्वातन्त्र्यम् अस्ति । श्रेष्ठः यः भवितुं इच्छति सः ज्ञानी भवेत् (पण्डितः), स एव ज्ञानी यः समदर्शी भवति ।  स च समदर्शी गीतोक्तरीत्या भवेत् । अत एव अत्र समदर्शी इति पदं भगवता व्यासेन प्रयुक्तम्, साम्यवादी इति न । समदर्शी भेदं न पश्यति । साम्यवादी साम्यं सम्पादयाम इति प्रतिज्ञाय शोषकशोषितरूपेण समाजं द्विधा विभज्य शोषकत्वेन कल्पितानां प्रतिशोधाय शोषकाणां शोषणं कर्तव्यम् इत्यभिप्रैति ।

अस्मिन् लेखे साम्यवादिचिन्तनं असमतायाः निवारणार्थं प्रवृत्तं कुटिलैः उपायैः तदीयमेव चिन्तनं कार्यप्रणाली च अनुसर्तुं योग्यम्, अन्यत्सर्वं नाशयितुम् योग्यञ्चेति प्रतिपादयत् तदनुष्ठातुं  केन मार्गेण प्रवर्तमानम् अस्ति इति विम्रष्टुम् राजीव मल्होत्रा इत्याख्यस्य लेखकस्य “Snakes in the Ganga” इति ग्रन्थस्य केचन भागाः परिशील्यन्ते ।

 

साम्यवादः कार्ल् मार्क्स् इत्यनेन प्रतिपादितः पश्चात् विकासमवाप्य समग्रे जगति व्याप्नोत्  विभिन्नाभिः शाखाभिः । ऐरोप्यदेशेषु नवदशे शताब्दे उत्पन्नायाः यान्त्रिकक्रान्तेः कारणात् यन्त्रागाराणि महान्ति निर्मितानि यत्र कार्यं कर्तुं महत्या संख्यया कर्मकराः नियुक्ताः । तेषु देशेषु नियतरूपेण कृष्यादिकर्मणा जीवितुम् अवसरः न्यूनः इत्यतः यन्त्रागारेषु कर्मकराः अपि अत्यधिकसंख्यया प्रविष्टाः । जगतः बहुषु देशेषु स्वाधिकारं प्रतिष्ठाप्य तत्तदेशीयान् दासान् कृत्वा वेतनेन विना दमनात्मकनीत्या स्वकार्यं साधयितुं प्रवृत्तानां ऐरोप्यानां एषः स्वभावः अत्रापि प्रदर्शितः इत्यतः  कर्मकराणां जनानां पीडनं अपि स्वाभाविकमासीत् । एषा परिस्थितिः कार्ल् मार्क्स् इत्यस्य जन्मने कारणमभवत् । तेन स्पष्टतया एतद्विषये सिद्धान्तितं यत् समाजे द्विप्रकारकाः जनाः भवन्ति –प्रथमप्रकारकाः शोषकाः, द्वितीयप्रकारकाः शोषिताः इति । अस्य अभिनवस्य साम्यवादस्य बहूनि रूपाणि सन्ति – Marxism, Leninism, Maoism  Postmodernism, Critical Race Theory, Queer Theory, LGBTQ+ इत्यादि ।

एतेषाम् अनुसारं के शोषकाः भवन्ति ?  – श्वेतचर्माणः(विदेशेषु), ब्राह्मणाः, तैः निर्मिताः सर्वाः संस्थाः यथा मन्दिराणि, शैक्षिकादिसंस्थाः, भाषाः, साहित्यानि, गुरवः, देवताः, पर्वाणि, तीर्थस्थलानि, संस्काराः, पारिवारिकजीवनपद्धतिः .... इत्यादयः.

शोषिताः के – म्लेच्छाः, शूद्राः, LGBTQ+ … इत्यादयः ।

          अत्र शोषकाः के इति निर्णयं साम्यवादिनेतारः कुर्वन्ति । शोषिताः के इत्यपि ते एव निर्णयं कुर्वन्ति । कः शोषणं कृतवान् इति वैयक्तिकं न्यायिकं विश्लेषणं वा विचारणं वा न क्रियते । एवमेव कः शोषितः इत्यपि वैयक्तिकं न्यायिकं विश्लेषणं वा विचारणं वा न क्रियते । यः शोषितः सः कृष्णवर्णीयः/म्लेच्छः/निम्नजातीयः चेत् सर्वेऽपि कृष्णवर्णीयाः/म्लेच्छाः/निम्नजातीयाः शोषिताः इति परिगण्यन्ते । एवमेव एकः शोषकः श्वेतचर्मा/म्लेच्छेतरः/उच्चावर्गीयः चेत्  सर्वेऽपि श्वेतचर्माणः/म्लेच्छेतराः/उच्चावर्गीयाः शोषकाः इति परिगण्यन्ते । एवं च एकेन कृतस्य कर्मणः आरोपणं तज्जातीयस्य समूहस्य उपरि क्रियते । एवमेव एकः शोषितः चेत् तदीयसमूहः समुदायो वा जातिः वा तदीयमतं वा एव शोषितम् इति परिगण्यते ।

किन्तु एतद्विपरीततया शोषकजातीयत्वेन गृहीतस्य शोषणं शोषितेन क्रियते चेत् एषः पूर्वोक्तः नियमः तत्र न अन्वेति । यथा भारते काश्मीरं विहाय अन्यत्र मुसल्मानजनाः अल्पसंख्याकाः (सत्स्वपि उपत्रिंशत्कोटिसंख्याकेषु) इति कृत्वा तेषां रक्षणाय पूर्वतनेन यु.पि.ए.सर्वकारेण Communal Violence Bill संसदि पारयितुं यत्नः विहितः, यस्य आधारेण हिन्दुमुस्लिम्-कलहे जाते सति, कलहस्य कारणीभूताः अधिकसंख्याकाः यवनाः भवन्ति चेदपि एकाकिनः हैन्दवस्य एव दण्डविधानं करणीयमिति नियमः योजितः आसीत् । यतो हि पीडां प्राप्तवान् हैन्दवः एकाकी चेदपि, सः  बहुसंख्याकसमूहस्य सदस्यः अस्ति । एवमेव कलहकारणीभूताः यवनाः बहवः भवन्ति चेदपि ते अल्पसंख्याकमतस्य सदस्याः । अपि च ते दोषं कृतवन्तः चेदपि ते शोषितवर्गीयाः इत्यतः शोषकाः न । एवमेव हैन्दवः पीडितः जातः चेदपि न पीडितः इत्येव अङ्गीकर्तव्यम्, यतः सः शोषकसमूहत्वेन साम्यवादिभिः निर्णीतहैन्दवधर्मीयः अस्ति ।  अत एव काश्मीरे तत्रत्यानां हैन्दवानां पण्डितप्रभृतीनां नृशंसं सामूहिकं हननं जातम् आसीत् । तद्विषये भारतस्य तदानीन्तनः सर्वकारो वा देशविदेशेषु विद्यमानाः साम्यवादिनः वा दुःखं न अनुभूतवन्तः । यतो हि काश्मीरे मृताः पण्डितजातीयाः शोषकत्वेन(???) परिगणितस्य समूहस्य/धर्मस्य सदस्याः । मारितवन्तः यवनाः अल्पस्ख्याकसमूहस्य(???) सदस्याः ।

एवमेव साम्यवादिनः निश्चिन्वन्ति यत् के शोषकाः के च शोषिताः इति । एते शोषिताः वस्तुतः शोषिताः एव भवन्ति इति निश्चयः नास्ति, शोषकाश्च शोषकाः इति । साम्यवादिनेतारः यान् शोषकाः इति गृह्णन्ति ते शोषकाः इत्यर्थः । यान् च शोषिताः इति कल्पयन्ति ते शोषिताः इत्यर्थः ।  अमेरिकादेशे यथा कृष्णवर्णीयाः शोषिताः इति गृह्यन्ते तथैव यवनाः अपि ग्रहीतव्याः इति साम्यवादिमतम् । अत एव इस्लामोफोबिया अस्ति इति लोके कोऽपि वदति चेत् सः दण्डनीयः इति अमेरिकादेशस्य संसदि विधिः पारितः एतेषां साम्यवादिनां कुटिलोपायकारणात् । वस्तुतः जिहाद् इत्यस्य कारणतः एव इस्लामोफोबिया उत्पद्यते किल । किन्तु आतङ्ककारिणि कार्ये  यवनाः गृह्यन्ते चेदपि यवनाः आतङ्कम् उत्पादयन्ति इति कथनं असाधु इति साम्यवादिनां निर्णयः । अत एव यः इस्लाम् आतङ्कम् उत्पादयति इति वदति सः तन्मतस्य निन्दां करोति इति गृह्यते । अतः सः जनः दण्डनीयः इति विधिं पारयितुम् अमेरिकादेशस्य संसदि(अमेरिकादेशस्य संसत् Congress इत्युच्यते) यत्नः विहितः, पारितश्च ।  किन्तु Senate (Upper House/Assembly of US ) मध्ये सः विधिः यथा पारितः न भवेत् तथा लेखकगणेन परिश्रमः कृतः ।

 

परिहारोपयः कः ?

 

 

 वस्तुतः साम्यवादी कथं भवेत् इति  गीता अस्मान् इत्थम् उपदिशति -

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।

निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥

समः शत्रौ च मित्रे च तथा मानापमानयोः ।

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ गीता १२/१३,१८

किन्तु अभिनवः साम्यवादः ईदृशं तत्वं नाङ्गीकरोति । गीतासदृशं प्राचीनं कमपि ग्रन्थं, ग्रन्थप्रतिपादितं सर्वहितकारितत्वं वा नाङ्गीकरोति । तत्रत्यां भाषामपि शोषकभाषां मन्यते । सा भाषा निम्नजातीयानां शोषणमुखेन उच्चवर्गीयाणाम्/ब्राह्मणानां आत्मलाभाय प्रवृत्ता इत्यभिप्रैति[1] अतः एतादृश्यः भाषाः नाशनीयाः इत्येतादृशानि तदीयानि उद्देश्यानि भवन्ति ।  वस्तुतः भाषा एतादृशोद्देशेन प्रवर्तते किम् इति अग्रे विव्रियते ।

           

साम्यवादिनः अभिप्रयन्ति यत् –’विधीन्(शासननियमान्) ये निर्मान्ति ते तदीयापेक्षानुगुणं निर्मान्ति न तु शोषितानां कल्याणाय, शोषकाणां मर्दनाय वा । परम्परया ये समाजे प्राप्तादराः(privilaged) तेषामेव निकटे अधिकाराः भवन्ति । असौविध्यानि सर्वाण्यपि उपेक्षितवर्गाणामेव भवन्ति । धनिकाः प्राप्तशासनाधिकाराः उच्चवर्गीयाः  तदीयानि उन्नतसामाजिकस्थानानि रक्षितुं निम्नवर्गीयाणां दमनाय शासननियमान् उपयुञ्जते’ इति ।

“The law supports the interests of those who create the law. a power dynamic which favours the historically privileged and disadvantages the historically underprivileged.... The wealthy and the powerful use the law as an instrument for oppression in order to maintain their place in hierarchy.”[2]

         

साम्यवादिनां(Postmodernist) इदं मतम् अस्ति यत् – सामाजिकं याथार्थ्यं शक्तिशालिसंवादेन भवति, यच्च सामाजिकं याथार्थ्यं इदं अपेक्षेत यत् शोषितानां अभिप्रायः शोषकाणां वचनस्य उपरि विजयं प्राप्नुयात् (प्राधान्यं प्राप्नुयात्)  ।

साम्यवादिनां अनेन मतेन पूर्वतनी उदारदृष्टिः ध्वंसीभूता । सा उदारदॄष्टिः इयमासीत् यत् विचाराणां विपण्यां कुत्सिताः विचाराः सहजतया उत्तमविचारेभ्यः पराजिताः भवन्ति इति । अपि च अनेन उदारवादे एकं महत्परिवर्तनं इदमागतम् यत्  स्वतन्त्रचिन्तनस्य स्थाने प्रबद्धचिन्तनं आवृणोत् इति । प्रबद्धचिन्तनं इत्युक्ते कश्चन सिद्धान्तः एव स्वीकार्यः, यश्च सिद्धान्तः साम्यवादिराजनीतेः सिद्धान्तः भवति ।

“The Postmodernist view that social reality is constructed by dominant discourses has been turned into the demand that the speech of the oppressed must prevail over that of the oppressor. This has toppled the previous liberal view that in the 'marketplace of ideas' the bad ideas will automatically get defeated by the better ones. A big shift in Liberalism is that free thinking is being replaced by the dogma that only one particular ideology is acceptable, and this is the ideology of identity politics.”(Page no. 43)

 

साम्यवादिभिः तेषां पक्षस्य दृढीकरणाय प्रतिष्ठापनाय अथवा तद्विरोधिनां आक्षेपेभ्यः आत्मानं रक्षितुं एवं उच्यते यत् – अस्माभिः सिद्धान्ताः इत्थं प्रतिपाद्यन्ते यत् विश्वासयोग्यं ज्ञानं तर्केण वा प्रमाणेन वा परिप्रश्नेन/वादेन वा न जायते । तत् ज्ञानं शोषितानां/दूरीकृतानां जीवनानुभवस्य श्रवणात् प्राप्यते ।  दूरीकृताः के इति निर्णयं साम्यवादिनेतारः कुर्वन्ति । पुनश्व एते कथं दूरीकृताः इति निर्णीतं इति प्रष्टुं कस्यापि अधिकारो नास्ति । तेषां सिद्धान्तानुसारं केवलं शोषितानां(इति कैश्चिदेव मन्यमानानाम्) जीवनानुभवः एव मान्यः भवति, न तु अन्यत् किमपि । अतः सर्वाणि अपि पारम्परिकाणि शास्त्राणि,  आधिकारिकाश्च  ग्रन्थाः तिरस्कर्तव्याः । यतो हि तेषु ग्रन्थेषु दमनशीला भाषा अस्ति ।

 “The assumption being made is that reliable knowledge can be obtained without evidence, reasoning  or cross examination. It can be obtained simply by listening to the lived experiences of those who have been designated as marginalised groups, and this designation is fixed by the authorities of this Church and can not be questioned. Because only lived experience are valid, all traditional and authoritative texts must be discarded because they contain language that is oppressive.”(Page no. 43)

 

दीप्ति राव इत्याख्या भारतीया महिला सङ्गणक्षेत्रे अभियान्त्रिकीं अधीत्य अमेरिकादेशस्य silicon valley इत्यत्र कार्यरता अस्ति । सा अस्वाभाविक्या इच्छया अमेरिकादेशीयस्य LGBTQ+ इत्याख्यस्य आन्दोलनस्य(सङ्घटनस्य) सदस्या अभवत् । तत्र प्रवेशात्परं तस्याः ये अनुभवाः तत्र सङ्घटने जाताः तान् सा इत्थं विवृणोति –

“यदा अहं  LGBTQ+ समूहे पूर्णतः प्रविष्टा तदा तत्रत्यानां सुहृदां भारतविषये सनातनधर्मविषये सुमहान् विरोधः अस्ति इति ज्ञातवती ।  सनातनधर्मः दमनकारी अस्ति, उच्चनीचजातिभिः संवलितः अस्ति, अतः सः धर्मः नाशनीयः” इति ते संलपन्ति । भारते सर्वविधसमस्यानां मूलं ब्राह्मणवादः अस्ति इति ते आरोपं कुर्वन्ति । भारतसर्वकारस्य धनात्मकाः नीतयः  विकासपराः सन्ति इति उच्यते चेत् तत् दमनात्मकराजनीतेः प्राचारतन्त्रमात्रम् इति ते कथयन्ति । अहं यत्किमपि  सकारात्मकं (भारतसर्वकारस्य नीतिः उचिता अस्ति) अभिप्रायं प्रकटयामि चेत् अत्यन्तम् असभ्यरीत्या ते तत् निराकुर्वन्ति । ते यवनसंस्कृतेः समर्थनं कुर्वन्ति । यवनमतस्य दमनात्मिका संरचना अस्ति चेदपि, तदीयः इतिहासः च  LGBTQ+विरुद्धतया अस्ति चेदपि तद्विम्रष्टुं ते न इच्छन्ति । एषा अप्रामाणिकता अस्ति, एषा मतान्धता अस्ति ।“

Lived experience of Deepti Rao an Indian American software professional in silicon valley is insightful-----

 “As I got deeper into the American LGBTQ+ movement, I noticed that this new group of friends had antagonistic views about Hinduism and India. They were vocal about Hinduism being oppressive and casteist and in need of being dismantled. They attributed all the problems in India to ‘Brahminical Petriarchy’ and called any positive policies and progress of India as fascist and nationalistic propaganda…. Any alternative view I presented was rudely dismissed. These individuals supported Muslim culture, never once wanting to discuss Islam’s anti-LGBTQ+ history and structural oppression. This is dishonest and bigoted” (Page no. xxxix)

हार्वर्डविश्वविद्यालयस्य राजनैतिकसाहाय्येन अमेरिकादेशस्य संसदि एकः विधिः पारितः/अङ्गीकृतः । कः सः विधिः ?  Islamophobia इत्यस्य उत्पादनं अपराधाय भवति इति । समग्रे जगति एषः विधिः अन्वेति, न केवलं अमेरिकादेशे । Islamophobia इत्यस्य उत्पादनं कुर्वतां दण्डविधानाय एका संस्था अमेरिकादेशेन प्रतिष्ठापिता ।  यस्मिन् कस्मिन् अपि देशे केनापि Islam भयमुत्पादयति इति वदति चेत्  तत्तद्देशम् अमेरिका दण्डयति । एतत् विडम्बनम् अस्ति यत् – एतादृशः विधिः अन्यधर्माणां विषये न कृतः ।  अने

With the political support of Harvard (University) the US Congress passed a bill making Islamophobia a crime worldwide and requiring the government  to create a special organisation prosecuting Islamophobia everywhere and to apply US sanctions against countries found guilty. The irony is that no such protection was offered to other religions.  In parallel, Pakistan introduced a resolution in the United Nations General Assembly on ‘International Day to Combat Islamophobia’  It stated that ‘Hate speech, discrimination and violence are proliferating in several parts of world, causing great anguish in the Islamic world’. Though France desired any such resolution to be inclusive of all religions and not just for Islam, and India had similar views as well, there were many Muslim countries supporting the resolution. It was passed with the decision ‘to proclaim15 March the International Day to Combat Islamophobia’  (Page No xliii) 

Harvard University

Our research suggests that Harvard University is the epicenter for developing the discourse and weaponizing it into activism, as well as training thousands of fighters in this warefare Harward is developed its own community with a vast network of branches. (Page no. xiviii)

China is playing a double role: Opposing this idealogy(CRT and etc) at home but helping those bring to its enemies like US and India. (Page no. xiviii)

Indian billionaires are supporting this breaking India work at Harvard by actively funding it and giving it legitimacy knowingly or unknowingly. (Page no. xiviii)

A large number of Indians are employed by the global left at all levels from the highest to lowest. They are a key part of this latest incarnation of the Marxist revolution. The global left operates across national boundaries. (Page no. xlix)

 

The French Marxist, Pierre Bourdieu, further developed the theory that culture is a form of capital. His contribution to Marxism was to formulate the relationship between culture and power. He stated that people in power use culture as an emotional tool to exploit the public and protect the status quo of their power. Culture contains deep, and invisible, safety nets, and emotional shock absorbers. People exist with their economic miseries without revolting because the cultural structures protect the power structure. In this way, culture has hidden structures that enable the elites to assert power over the masses.

 

Critical theorists feel that capitalism is subverting the materialistic revolution by diverting the masses away from such a revolution. Capitalists are promoting emotional 'good feelings' among the working class that deflects their attention away from real-world physical experiences. Culture has been co-opted by capitalism, and the advertising industry is one of its devices. Popular culture and advertising serve as a soothing Do balm that the ruling elites use to brainwash the masses and placate them. The goal is to channel their energies away from any social and political activism. Consumerism thus, is the enemy of social and political activism.

 

Herbert Marcuse, the young follower of Horkheimer, famously explained how capitalism had won over the oppressed masses psychologically: (Page No. 09)

It is important to note that Marxism had only two classes: bourgeoisie and proletariat. The bourgeoisie was one single class and there were no separate minority groups or identities each vying for victimhood status and power. The replacement of one single victim class with several is a major recent adaptation of Marxism.

 

The focus of Critical Theory and all its offshoots and variations was to attack Western institutions and norms in order to tear them down. It was to disrupt traditional thinking that schools imparted and what the masses believed. (Page No. 10)

 

In other words, all claims to truth are culturally biased and are constructed by the social power of the elites. One consequence of such a theory is that a critic cannot offer counter aurguements against any Postmodernist statement using scaintific evedence  and methedology, because the critisism would itself be rejected as a product of elitism.(Page-12)

            New York Times इत्यस्याः पत्रिकायाः प्रथमस्थाने विक्रीयमाणस्य पुस्तकस्य लेखकः, National Book Award इत्यस्य भाजनः Ibram X Kendi इत्याख्यः कथयति यत् पूर्वं कृतस्य तारतम्यस्य निर्मूलनं वर्तमाने तारतम्येन एव निवारणीयम् । वर्तमाने क्रियमाणस्य तारतम्यस्य निर्मूलनं भविष्यदि तारतम्येन एव कर्तव्यम् ।

 

The number one New York Times best selling author and National Book Award winner Ibram X Kendi, has famously said –

The only remidy to past discrimination is present discrimination. The only remidy to present discrimination is future discrimination.

See: Ibram X. Kendi Defines What to mean to be an antiracist '. Penguin RERRI on April 30, 2022 (https://www.penguin.co.uk/articles/2020/june/ibram-Definition-of-antiracist.htm)



[1] Sanskrit is being declared an oppressive language. Critical Race Theory argues that languages contain structures of “White Privilege” in the case of the west, and by extension, Sanskrit perpetuates Brahmin privilege as a tool for exploiting the lower castes and Dalits.  (Snakes in Ganga Page no. XXXVII)

 

 

[2] 'Critical Legal Theory'. Cornell Law School. Retrieved on April 30, 2022 (https://www.law.cornell.edu/wex/critical_legal_theory); (Kennedy and Klare 1984)