चरकसंहितायाः सुश्रुतसंहितयाः आर्यभटीयस्य च
विश्लेषणम्
चरक-संहिता
चरकसंहितायाः कालः
शङ्करबालकृष्णदीक्षितानां “ज्योतिषशास्त्रेतिहासः”
इत्याख्ये
ग्रन्थे - ज्योतिषशास्त्राधारेण
शतपथ-ऐतरेयब्राह्मणयोः रचनाकालः
इसवीयपूर्वः ३००० तमवर्षः इत्युक्तम् । गान्धारदेशाधिपस्य नग्नजितः नाम
शतपथ-ऐतरेयब्राह्मणयोः उल्लिखितम् । अतः गान्धारदेशाधिपस्य कालः ५००० वर्षेभ्यः
पूर्वतनः इति स्पष्टम् । आत्रेयपुनर्वसुः गान्धारदेशाधिपस्य नग्नजितः राजवैद्यः
आसीत् ।
गान्धारदेशे राजर्षिर्नग्नजित् स्वर्गमार्गगः । संगृह्य
पादौ पप्रच्छ चान्द्रभागं पुनर्वसुम् ॥
न च स्त्रीभ्यो न चास्त्रीभ्यो न भृत्येभ्योऽस्ति मे भयम्
।अन्यत्र विषयोगेभ्यःसोऽत्र मे शरणं भवान् ॥ भेलसं.पृ.३०
अतः तस्यापि कालः ५००० वर्षेभ्यः पूर्वतनः इति स्पष्टम् ।
चरकस्तु कनिष्कस्य (इसवीयात् ८३ तः
११९ पर्यन्तम्) राजवैद्यः आसीत् इति चीनदेशे समुपलब्धे संयुक्तरत्नपिटके
श्रीधर्मपिटकसम्प्रदायाख्ये च बौद्धग्रन्थे प्रोक्तम् । अतः तस्यापि कालः स्पष्टः ।
चरकसंहिता
महाभारते शान्तिपर्वणि २१० तमे अध्याये एवमुक्तम् –
गान्धर्वं नारदो वेद भारद्वाजो धनुर्ग्रहम् ।
देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम् ॥ म.भा.शान्ति.१२०/
अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः ।
शिष्येभ्यो दत्तवान् षड्भ्यो सर्वभूतानुकम्पया ॥च.सं. १/१/३०
अग्निवेशश्च भेलश्च जतूकर्णः पराशरः ।
हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः ॥ च.सं. १/१/३१
महर्षि आत्रेयपुनर्वसुः ग्रन्थविषयमिमं
उपादिशत् । तच्छिष्यः अग्निवेशः एनं ग्रन्थं प्रणिनाय । चरकदृढबलौ
प्रतिसंस्करणं चक्रतुः ।
चरकसंहिता – आत्रेयसम्प्रदायस्य गुरुशिष्यपरम्परा
ब्रह्मा कृत्वायुषो वेदं
प्रजापतिमुपादिशत् ।
सो अश्विनौ तौ सहस्राक्षम् सोऽत्रिपुत्रादिकान् मुनीन् ।
ते अग्निवेशादिकांस्ते तु पृथक् तन्त्राणि तेनिरे ॥
ब्रह्मा
प्रजापतिः
अश्विनीकुमारौ
इन्द्रः
आत्रेयपुनर्वसुः
अग्निवेशः अन्ये च पञ्च
चरकः दृढबलश्च
चरकसंहिता – प्रतिपाद्याः विषयाः
1.
सूत्रस्थानम् अत्र ३० अध्यायाः सन्ति
। मौलिकसिद्धान्तानां वर्णनम् ।
2.
निदानस्थानम् ज्वर-प्रमेह-अपस्मार-कुष्ठ-रक्तपित्त-उन्माद-गुल्म-शोषाणां
विचाराः । ०८ अध्यायाः ।
3.
विमानस्थानम् - अत्र ०८ अध्यायाः सन्ति । विशेषेण मीयते ज्ञायते दोषभेषजादि
इति विमानम् ।
4.
शारीरस्थानम् Anatomy – अत्र 08 अध्यायाः सन्ति ।
5.
इन्द्रियस्थानम् - अत्र 12
अध्यायाः सन्ति ।
6.
चिकित्सास्थानम् - अत्र ३० अध्यायाः सन्ति ।
7.
कल्पस्थानम् - चिकित्सास्थाने तत्र तत्र विहितवमनविरेचनयोः प्रयोगान् विस्तरेण
अभिधातुम् इदमस्ति ।
8.
सिद्धिस्थानम् - वमनाद्यसम्यक् योगजन्यानां व्यापदां भेषजस्य साध्यतारूपा
सिद्धिरुच्यते ।
चरकसंहितायां प्रतिपादिताः दोषाः –
शारीराः त्रिदोषाः, मानसे रजस्तमसी चेति दोषद्वयम्
वायुः पित्तं कफश्चोक्तः शारीरो दोषसंग्रहः ।
मानसः पुनरुद्दिष्टो रजश्च तम एव च ॥
प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयैः ।
मानसो ज्ञानविज्ञान-धैर्यस्मृतिसमाधिभिः ॥
सुश्रुतसंहिता
अयं ग्रन्थः काशिराजेन भगवता धन्वन्तरिणा उपदिष्टः
तच्छिष्येण विश्वामित्रसुतेन सुश्रुतेन विरचितः इति ।
इह खल्वायुर्वेदं
नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैव प्रजाः श्लोकशतसहस्रमध्यायसहस्रं च कृतवान्
स्वयम्भूः, ततोऽल्पायुष्ट्वमल्पमेधस्त्वं चालोक्य नराणां भूयोष्टधा प्रणीतवान् ॥६॥
तद्यथा शल्यं शालक्यं
कायचिकित्सा भूतविद्या कौमारभृत्यम् अगदतन्त्रम्, रसायनतन्त्रम् वाजीकरणतन्त्रमिति ॥७॥
शल्यतन्त्रम् –
विविध-तृण-काष्ट-पाषाण-पांशु-लोह-लोष्टास्थि-बालनख-पूयास्राव-दुष्टव्रण-अन्तर्गर्भ-शल्योद्धरणार्थम्
यन्त्र-शस्त्र-क्षाराग्नि-प्रणिधान-व्रण-विनिश्चयार्थं च ।
शालाक्यतन्त्रम् –
ऊर्ध्वजत्रुगतानां श्रवण-नयन-वदन-घ्राणादि-संश्रितानां व्याधीनाम् उपशमनार्थम्
।
कायचिकित्सा नाम सर्वाङ्गसंश्रितानां व्याधीनां
ज्वर-रक्तपित्त-शोष-उन्माद-अपस्मार-कुष्ट-मोह-अतिसारादीनाम् उपशमनार्थम्
भूतविद्या –
देवासुर-गन्धर्व-यक्ष-रक्षः-पितृ-पिशाच-नाग-ग्रहादि-उपसृष्टचेतसाम्
शान्तिकर्म-बलिहरणादि-ग्रहोपशमनार्थम् ।
कौमारभृत्यम् –
कुमारभरण-धात्रीक्षीरदोष-संशोधनार्थम् दुष्टस्तन्यग्रहसमुत्थानां च व्याधीनाम्
उपशमनार्थम् ।
अगदतन्त्रम् -
सर्पकीटलूतामूषकादि-दष्टविषव्यञ्जनार्थं विविध-विषसंयोगोपशमनार्थम्
च ॥
रसायनतन्त्रम्–
वयःस्थापनमायुर्मेधाबलकरं रोगापहरणसमर्थं च ।
अत्र कस्मै किमुच्यताम् इति -
अस्माकं सर्वेषामेव शल्यज्ञानं मूलं
कृत्वा उपदिशतु भगवानिति ।
आर्यभटीयम्
कक्षाप्रतिमण्डलगा भ्रमन्ति सर्वे ग्रहाः स्वचारेण ।
मन्दोच्चादनुलोम प्रतिलोमं चैव शीघ्रोच्चात् ॥ आर्यभटीयम्, कालक्रियापादः ३.१७
तात्पर्यम् - मध्यमग्रहाः कक्षावृत्ते (भूकेन्द्रवृत्ते
भ्रमन्ति) । स्फुटग्रहाः प्रतिवृत्ते (उत्केन्द्रवृत्ते)भ्रमन्ति । कक्षावृत्ते
प्रतिवृत्ते च भ्रमन्तः सर्वे ग्रहाः
स्वीयया गत्या मन्दोच्चाद् अनुलोमेन (पूर्वाभिमुखतया) शीघ्रोच्चात्
प्रतिलोमेन (पश्चिमाभिमुखम्) भ्रमन्ति ।
इसवीये १७ शताब्धे जोहान्स् केप्लर् इत्याख्येन ग्रहगतेः प्रथमनियमस्य प्रतिपादनात्
बहुपूर्वं इसवीये पञ्चमशताब्धे आर्यभटः
एनं नियमं प्रत्यपीपदत् ।
ग्रहणस्य हेतुः
छादयति शशी सूर्यं शशिनं महती च भूच्छाया । आर्यभटीयम्, गोलपादः ३७
सूर्यग्रहणे चन्द्रः सूर्यम् आवृणोति, भूच्छाया च चन्द्रम् आवृणोति ।
पाथेयम्
संस्कृतवाङ्मयम् विज्ञानम्
“द्वे विद्ये वेदितव्ये परा चैवापरा च ।”
परापरयोः पारस्परिकः विरोधः नास्ति । आत्यन्तिकं लक्ष्यं परमपुरुषार्थं
साधयितुं अपरा विद्या द्वेष्ट्व्या इति नास्ति एष्टव्या एव । अत एव भारते
अभ्युदयनिश्रेयसयोः उभयोरपि मार्गान् पारस्परिकविद्वेषेण विना एव पर्यग्रहीषुः
। तदर्थम् अत्र गेलिलियो-कापर्निकस्-सदृशाः
न हताः ।
धन्यवादाः
Prof.
Hariprasad K.
Central
Sanskrit University
Sri
Rajiv Gandhi Campus,Sringeri 577139
No comments:
Post a Comment