Tuesday, October 29, 2024

चरकसंहितायाः सुश्रुतसंहितयाः आर्यभटीयस्य च विश्लेषणम्

 

चरकसंहितायाः सुश्रुतसंहितयाः आर्यभटीयस्य च विश्लेषणम्

 (18/10/2024 तमे दिनाङ्के तिरुपतिस्थे राष्ट्रियसंस्कृतविश्वविद्यालये प्रवृत्ते MMTTC  इत्याख्ये अध्यापकविकासकार्यक्रमे व्याख्यातः विषयः) 

चरक-संहिता

चरकसंहितायाः कालः

शङ्करबालकृष्णदीक्षितानां  “ज्योतिषशास्त्रेतिहासःइत्याख्ये  ग्रन्थे  - ज्योतिषशास्त्राधारेण शतपथ-ऐतरेयब्राह्मणयोः रचनाकालः  इसवीयपूर्वः ३००० तमवर्षः इत्युक्तम् । गान्धारदेशाधिपस्य नग्नजितः नाम शतपथ-ऐतरेयब्राह्मणयोः उल्लिखितम् । अतः गान्धारदेशाधिपस्य कालः ५००० वर्षेभ्यः पूर्वतनः इति स्पष्टम् । आत्रेयपुनर्वसुः गान्धारदेशाधिपस्य नग्नजितः राजवैद्यः आसीत् ।

गान्धारदेशे राजर्षिर्नग्नजित् स्वर्गमार्गगः । संगृह्य पादौ पप्रच्छ चान्द्रभागं पुनर्वसुम् ॥

न च स्त्रीभ्यो न चास्त्रीभ्यो न भृत्येभ्योऽस्ति मे भयम् ।अन्यत्र विषयोगेभ्यःसोऽत्र मे शरणं भवान् ॥ भेलसं.पृ.३०

अतः तस्यापि कालः ५००० वर्षेभ्यः पूर्वतनः इति स्पष्टम् ।

चरकस्तु  कनिष्कस्य (इसवीयात् ८३ तः ११९ पर्यन्तम्) राजवैद्यः आसीत् इति चीनदेशे समुपलब्धे संयुक्तरत्नपिटके श्रीधर्मपिटकसम्प्रदायाख्ये च बौद्धग्रन्थे प्रोक्तम्  । अतः तस्यापि कालः स्पष्टः ।

चरकसंहिता

महाभारते शान्तिपर्वणि २१० तमे अध्याये एवमुक्तम्

गान्धर्वं नारदो वेद भारद्वाजो धनुर्ग्रहम् ।

देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम् ॥ म.भा.शान्ति.१२०/

अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः ।

शिष्येभ्यो दत्तवान् षड्भ्यो  सर्वभूतानुकम्पया ॥च.सं. १/१/३०

अग्निवेशश्च भेलश्च जतूकर्णः पराशरः ।

हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः ॥ च.सं. १/१/३१

महर्षि आत्रेयपुनर्वसुः ग्रन्थविषयमिमं  उपादिशत् । तच्छिष्यः अग्निवेशः एनं ग्रन्थं प्रणिनाय । चरकदृढबलौ प्रतिसंस्करणं चक्रतुः ।

चरकसंहिता – आत्रेयसम्प्रदायस्य गुरुशिष्यपरम्परा

ब्रह्मा कृत्वायुषो वेदं  प्रजापतिमुपादिशत् ।

सो अश्विनौ तौ सहस्राक्षम् सोऽत्रिपुत्रादिकान् मुनीन् ।

ते अग्निवेशादिकांस्ते तु पृथक् तन्त्राणि तेनिरे ॥

ब्रह्मा

प्रजापतिः

अश्विनीकुमारौ

 इन्द्रः

आत्रेयपुनर्वसुः

अग्निवेशः अन्ये च पञ्च

चरकः दृढबलश्च

चरकसंहिता प्रतिपाद्याः विषयाः

1.     सूत्रस्थानम्  अत्र ३० अध्यायाः सन्ति ।  मौलिकसिद्धान्तानां वर्णनम् ।

2.     निदानस्थानम् ज्वर-प्रमेह-अपस्मार-कुष्ठ-रक्तपित्त-उन्माद-गुल्म-शोषाणां विचाराः । ०८ अध्यायाः ।

3.     विमानस्थानम् - अत्र ०८ अध्यायाः सन्ति । विशेषेण मीयते ज्ञायते दोषभेषजादि इति विमानम् ।

4.     शारीरस्थानम् Anatomy – अत्र 08 अध्यायाः सन्ति ।

5.     इन्द्रियस्थानम्  - अत्र 12 अध्यायाः सन्ति ।

6.     चिकित्सास्थानम् - अत्र ३० अध्यायाः सन्ति ।

7.     कल्पस्थानम् - चिकित्सास्थाने तत्र तत्र विहितवमनविरेचनयोः प्रयोगान् विस्तरेण अभिधातुम् इदमस्ति ।

8.     सिद्धिस्थानम् - वमनाद्यसम्यक् योगजन्यानां व्यापदां भेषजस्य साध्यतारूपा सिद्धिरुच्यते ।

चरकसंहितायां प्रतिपादिताः दोषाः


शारीराः त्रिदोषाः
, मानसे रजस्तमसी चेति दोषद्वयम्

वायुः पित्तं कफश्चोक्तः शारीरो दोषसंग्रहः ।

मानसः पुनरुद्दिष्टो रजश्च तम एव च 

प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयैः ।

मानसो ज्ञानविज्ञान-धैर्यस्मृतिसमाधिभिः ॥

 

सुश्रुतसंहिता

अयं ग्रन्थः काशिराजेन भगवता धन्वन्तरिणा उपदिष्टः

तच्छिष्येण विश्वामित्रसुतेन सुश्रुतेन विरचितः इति ।

          इह खल्वायुर्वेदं नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैव प्रजाः श्लोकशतसहस्रमध्यायसहस्रं च कृतवान् स्वयम्भूः, ततोऽल्पायुष्ट्वमल्पमेधस्त्वं चालोक्य नराणां भूयोष्टधा प्रणीतवान् ॥६॥

          तद्यथा शल्यं शालक्यं कायचिकित्सा भूतविद्या कौमारभृत्यम् अगदतन्त्रम्, रसायनतन्त्रम् वाजीकरणतन्त्रमिति ॥७॥

शल्यतन्त्रम्

 विविध-तृण-काष्ट-पाषाण-पांशु-लोह-लोष्टास्थि-बालनख-पूयास्राव-दुष्टव्रण-अन्तर्गर्भ-शल्योद्धरणार्थम् यन्त्र-शस्त्र-क्षाराग्नि-प्रणिधान-व्रण-विनिश्चयार्थं च ।

शालाक्यतन्त्रम्

ऊर्ध्वजत्रुगतानां श्रवण-नयन-वदन-घ्राणादि-संश्रितानां व्याधीनाम् उपशमनार्थम् ।

कायचिकित्सा नाम सर्वाङ्गसंश्रितानां व्याधीनां ज्वर-रक्तपित्त-शोष-उन्माद-अपस्मार-कुष्ट-मोह-अतिसारादीनाम् उपशमनार्थम्

भूतविद्या

देवासुर-गन्धर्व-यक्ष-रक्षः-पितृ-पिशाच-नाग-ग्रहादि-उपसृष्टचेतसाम् शान्तिकर्म-बलिहरणादि-ग्रहोपशमनार्थम् ।

कौमारभृत्यम्

कुमारभरण-धात्रीक्षीरदोष-संशोधनार्थम् दुष्टस्तन्यग्रहसमुत्थानां च व्याधीनाम् उपशमनार्थम् ।

अगदतन्त्रम् - सर्पकीटलूतामूषकादि-दष्टविषव्यञ्जनार्थं  विविध-विषसंयोगोपशमनार्थम् च ॥

रसायनतन्त्रम्

वयःस्थापनमायुर्मेधाबलकरं रोगापहरणसमर्थं च ।

 

अत्र कस्मै किमुच्यताम् इति -

अस्माकं सर्वेषामेव  शल्यज्ञानं मूलं कृत्वा उपदिशतु भगवानिति ।

आर्यभटीयम्
कक्षाप्रतिमण्डलगा भ्रमन्ति सर्वे ग्रहाः स्वचारेण ।

मन्दोच्चादनुलोम प्रतिलोमं चैव शीघ्रोच्चात् ॥  आर्यभटीयम्, कालक्रियापादः ३.१७

तात्पर्यम् - मध्यमग्रहाः कक्षावृत्ते (भूकेन्द्रवृत्ते भ्रमन्ति) । स्फुटग्रहाः प्रतिवृत्ते (उत्केन्द्रवृत्ते)भ्रमन्ति । कक्षावृत्ते प्रतिवृत्ते च भ्रमन्तः सर्वे ग्रहाः  स्वीयया गत्या मन्दोच्चाद् अनुलोमेन (पूर्वाभिमुखतया) शीघ्रोच्चात् प्रतिलोमेन (पश्चिमाभिमुखम्) भ्रमन्ति ।

इसवीये १७ शताब्धे जोहान्स् केप्लर् इत्याख्येन  ग्रहगतेः प्रथमनियमस्य प्रतिपादनात् बहुपूर्वं  इसवीये पञ्चमशताब्धे आर्यभटः एनं नियमं प्रत्यपीपदत् ।

ग्रहणस्य हेतुः

छादयति शशी सूर्यं शशिनं महती च भूच्छाया  आर्यभटीयम्, गोलपादः ३७

सूर्यग्रहणे चन्द्रः सूर्यम् आवृणोति, भूच्छाया च चन्द्रम् आवृणोति 

पाथेयम्

संस्कृतवाङ्मयम् विज्ञानम्

द्वे विद्ये वेदितव्ये परा चैवापरा च ।

परापरयोः पारस्परिकः विरोधः नास्ति । आत्यन्तिकं लक्ष्यं परमपुरुषार्थं साधयितुं अपरा विद्या द्वेष्ट्व्या इति नास्ति एष्टव्या एव । अत एव भारते अभ्युदयनिश्रेयसयोः उभयोरपि मार्गान् पारस्परिकविद्वेषेण विना एव पर्यग्रहीषुः ।  तदर्थम् अत्र गेलिलियो-कापर्निकस्-सदृशाः न हताः ।

  

धन्यवादाः

Prof. Hariprasad K.

Central Sanskrit University

Sri Rajiv Gandhi Campus,Sringeri 577139

No comments:

Post a Comment