संस्कृतवाङ्मयम् आधुनिकं विज्ञानञ्च
उपोद्घातः Introduction
द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा
चैवापरा च । मुण्डकोपनिषत् १-१-४
विद्या
द्विविधा परा अपरा चेति । एते द्विविधेऽपि
विद्ये वेदितव्ये इति उक्तत्वात् न तयोर्मध्ये विरोधः अस्ति इति स्पष्टम् । “तत्र परा यया तदक्षरमधिगम्यते” इति उक्तत्वात्
परमपुरुषार्थसाधनीभूता विद्या एव श्रेष्ठा इति पार्थक्येन वक्तव्यं नास्ति । एषा
परमपुरुषार्थसाधनीभूता विद्या ब्रह्मविद्या इत्युच्यते । एषा ब्रह्मविद्या
उपनिषत्प्रतिपाद्या वेदान्तविद्या । तर्हि तद्भिन्ना सर्वा अपि विद्या अपरा विद्या
इत्युच्यते । एवं परा इत्युक्ते श्रेष्ठा इति चेत् अपरा इत्युक्ते तुच्छा इति न
मन्तव्यम् । या परतत्वं न बोधयति सा अपरा इति तस्य तात्पर्यम् । अपरेत्यतः
नाध्येतव्या इत्यपि नास्ति, प्रत्युत अध्येतव्या एव, अत एव च पारस्परिकाविरोधः
तयोः नास्तीति इत्यपि मन्तव्यम् ।
किन्तु पाश्चात्य जगति इत्थं नासीत् ।
तत्र अब्रहामीयसम्प्रदाये मतीयग्रन्थेषु यत्किमपि उक्तं स्यात् तत् सर्वमपि
याथार्थ्येन परिगृहीतव्यम् इति निर्बन्धः । अतः तत्र केचन विज्ञानिनः
गेलिलियोप्रभृत्यः मतीयेषु ग्रन्थेषु याथार्थ्यविरुद्धं प्रतिपादितं किमपि
अयथार्थमस्ति इति आधुनिकविज्ञानबलेन
प्रतिपादयितुम् उद्युक्ताः मतीयवादिभिः अमानवीयरीत्या हताः । इत्युक्ते आधुनिकविज्ञानबलेन
मतविरुद्धं प्रतिपाद्यमानं तत्रत्यमतीयवादिनः न सहन्ते स्म । तादृशान् निर्दयं
घ्नन्ति स्म । तत्रत्या मतीयविद्या परा विद्या यद्यपि नास्ति तथापि तत्तुल्या
इत्यतः अन्यविधासु लौकिकविद्यासु विरोधं न कुर्यात् । किन्तु तत्रत्या सा मतीयविद्या
अन्याः त्द्विरुद्धतया विद्यमानाः यथार्थाश्चेदपि न सहते इति इतिहासः प्रमाणम् ।
भारते तु आदिशङ्कराचार्याः - परिदृश्यमानं जगत् मित्था इति सडिण्डिमं
प्रत्यपीपदन् चेदपि कोऽपि तान् न जिघांसति स्म । यतो हि तैः याथार्थ्यमेव
प्रत्यपादि । अस्मत्सम्प्रदाये यथार्थवक्ता आप्तः भवति । अत एव शङ्कराचार्याः अत्र
आराध्यन्ते । तत्र पाश्चात्यप्रपञ्चे तु यथार्थवक्ता हन्तव्य एव विनिश्चयः ।
किञ्च भारते धर्माधारिताः
ग्रन्थाः, विशिष्य वैदिकाः मौलिकाः ग्रन्थाः यत् प्रतिपादयन्ति तत्
आधुनिकविज्ञानविरुद्धं नास्त्येव । केषुचिदंशेषु आधुनिकविज्ञानात् बह्वेव ऊर्ध्वं
गत्वा याथार्थ्यं प्रतिपादयन्ति येषां विषये आधुनिकविज्ञानेन इतोऽपि अध्येतव्यमवशिष्टमस्ति,
अथवा आधुनिकविज्ञानेन आश्रियमाणानि प्रत्यक्षप्रयोगादीनि प्रमाणानि तद्विषये
दुर्बलानि भवन्ति । अत एव उच्यते यत्र आधुनिकविज्ञानं विरमति ततः भारतीया
आध्यात्मविद्या अस्मान् अग्रे नयति इति ।
अस्मिन् एव परिप्रेक्ष्ये
अत्र विचारः क्रियते यत् संस्कृतवाङ्मये पाश्चात्यैः अथवा समग्रेण आधुनिकजगता
स्वीक्रियमाणत्त्वविषये किम् वा प्रत्यपादि, अनवगतं किम् वा प्रत्यपादि, अथवा
संस्कृतवाङ्मयोक्तं पारलौकिकं तत्वं यच्च
आधुनिकविज्ञानस्य निकषैः परीक्षितुमशक्यं तत्वं सम्प्रति परिगृह्यमाणमस्ति चेत्
तत् किमिति अत्र विचार्यते ।
गुरुत्वाकर्षणम्
तर्कसंग्रहे पदार्थविवेचनावसरे कश्चन
सिद्धान्तः परिदृश्यते -
सिद्धान्तः – असमवायिकारणनाशे कार्यनाशः इति ।
कुरुत्वम् इति किञ्चन तत्त्वम् । गुरुत्वस्य
असमवायिकारणम् आद्यपतनम् । अतः पूर्वोक्तसिद्द्धान्तानुगुणम् आद्यपतनस्य नाशेन गुरुत्वनाशः
भवति ।
ज्ञातव्यमेतत् –
गुरुत्वमस्ति चेत् आद्यपतनम् अस्ति, आद्यपतनमस्ति चेत् द्वितीयपतनम् भवति, एवमेव द्वितीयपतनमस्ति चेत्
तृतीयपतनमस्ति । एवमेव इयं कार्यकारणपरम्परा प्रचलति भुवः स्पर्शपर्यन्तम् ।
इत्युक्ते गुरुत्वमस्ति चेत् आद्यपतनादि पतनपरम्परा भुवः स्पर्शपर्यन्तं सम्भवति ।
इत्युक्ते गुरुत्वस्य कारणतः एव पतनम् । गुरुत्वाभावे पतनं नास्ति इति च स्पष्टम्
।
अत्र सन्दर्भे आधुनिकविज्ञानक्षेत्रे पाश्चात्यः न्यूटन् इत्याख्यः वैज्ञानिकः
गुरुत्त्वाकर्षणसिद्धान्तं प्रत्यपीपदत् इति वयं श्रुतवन्तः । इत्युक्ते पृथिवी
गुरुत्वयुतं किमपि वस्तु स्वपार्श्वे आकर्षति । पृथिव्यां सा शक्तिः अस्ति यया
निकटवर्तिनां तद्वलये विद्यमानां वस्तूनां आकर्षणं क्रियते । इत्थं पृथिवी
आकर्षणशक्तिमती अस्ति इति कारणतः वृक्षात् अन्तरिक्षात् अथवा ऊर्ध्वदेशात् अधोदेशं
प्रति कस्यापि वस्तुनः पतनं चलनं वा सम्भवति ।
द्वयोः सिद्धान्तयोः परिणामतः तात्पर्यं एकमेव अस्ति । किन्तु प्रतिपादनरीतिः
भिद्यते तावदेव । कन्या अपेक्ष्यते चेत् सा श्वशुरस्य पुत्री इति वा कथयन्तु
श्वश्र्वाः पुत्री इति वा कथयन्तु, परिणामे कोऽपि भेदः न भवति । अतः भारतीयैः शास्त्रकारैः
ये वैज्ञानिकाः विषयाः तत्र तत्र प्रतिपादिताः ते आधुनिकवैज्ञानिकानाम्
अपेक्षया बहुपूर्वमेव प्रतिपादिताः । किन्तु तेषाम्
उपयोगं कर्तुं वयं न प्रवृत्ताः इत्येतत् तेषां शास्त्रकाराणां दोषो नास्ति,
प्रत्युत अस्माकमेव । किञ्च
आधुनिकवैज्ञानिकैः यदा प्रतिपादितम् अभवत् ततः परम् अस्माभिः संस्कृते इदं
पूर्वमेव प्रतिपादितमासीत् इति कथनं न युज्यते इति बहूनां आक्षेपः उपहासश्च वर्तते
। किन्तु एतदयुक्तम् । संस्कृते विज्ञानसम्बद्धं यत् प्रतिपादितं तस्य विषये
अवगमनं अवबोधनं च दोषाय नास्ति । एवं संस्कृतवाङ्मये ईदृशाः विचाराः सन्ति
अवबोधितम् इत्यतः एव तेषु विषयेषु
जिज्ञासां वहन्तः बहवो हि वैज्ञानिकाः तत्रत्यान् बहून् नूतनान् वैज्ञानिकांशान्
अन्विष्य प्रकाशपथम् आनेतुं शक्ताः अभवन्, मौलिकरूपेण वा रूपान्तरेण वा । अत्र
लेखे तादृशाणि कानिचन उदाहरणानि प्रस्तूयन्ते -
मञ्जुल भार्गवः
जन्म – १९७४ तमे इसवीये संवत्सरे अमेरिकादेशे जन्म
प्राप्नोत् । एतस्य माता गणितशिक्षिका आसीत् । पितामहः संस्कृतविद्वान् आसीत् ।
स्वयं तु मञ्जुलभार्गवः संस्कृताध्ययनं विशेषतः यद्यपि न कृतवान्,
आधुनिकगणितशास्त्रमेव नियमिततया अधीतवान्, तत्र च अष्टादशे एव वयसि स्नातकोऽपि
जातः ।
Professor, Princeton University, 8/8/1974 awarded with Fields Medal
Discovered
the mathematical theorem based on भारतीय-शास्त्रीय-सङ्गीतशास्त्रम् and छन्दश्शास्त्रम् ।
Dr. Jeorge Sudarshan (16/09/1931 तः 14/5/2018
)
केरलराज्यस्य तिरुवनन्तपुरस्य निकटे अयं कस्मिंश्चित् यवन परिवारे १९३१ तमे
इसवीये वर्षे जन्म प्राप्नोत् ।
Ø उपनिषदाम् मूलतत्वानि आश्रित्य अनुसन्धानं बहुभ्यः
वर्षेभ्यः कृतवान् ।
“Doubt and Certainty “(संशयः
निश्चयश्च ) इत्याख्ये
तदीये ग्रन्थे सः परमार्थतत्वज्ञानं भौतपदार्थः इत्यनयोः सम्बन्धविषये
तदीय-शोधानां फलितानि प्रादर्शयत् ।
तस्य नव पुस्तकानि अमेजानद्वारा
क्रेतुं शक्यन्ते येषां मूल्यं केवलं ८२ सहस्रं रूप्यकाणि ।
Ø नववारं तस्य नाम नोबेलपुरस्काराय नामाङ्कितमासीत् ।
Ø सः सनातनधर्मे परिवर्तितः अभवत् इत्यतः नववारं
नोबेलपुरस्कारात् वञ्चितः आसीत् ।
Ø पश्चात् २००५ तमे वर्षे
यदा सः पुरस्कारः उद्घोषितः तदा तेन तत् निराकृतम् ।
Huns Peter Durr (1929 तः 2014)
बहिरन्तश्च भूतानाम् अचरं चरमेव च ।
सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥
कोऽपि पदार्थः अस्तीति न ज्ञायते चेत् तत् नास्तीति नार्थः ।
Absence of evidence is not the evidence of absence.
Huns Peter Durr
Whenever I give
a lecture on Quantum Physics, I feel as if I am talking on Vedanta.
I studied matter for last 35 years, only to find out
that it does not exist.
I have been studying something that does not exist –
eaxactly what Adi Shankara said long back from the upanishads.
रुस्तुम् राय (१९२४ – २०१०)
•
Professor of Metallurgy in Pennsylvania State University
•
21 Times nominated to Nobel Award.
•
He defined the complicated
structure of water with several loose bonds not as H2O
•
He found out the nano particles of Silver and passed it through water with radio
waves and as a result found atomic hydrogen and atomic oxygen
which is very much useful to field of medicine as antiseptic.
•
For this kind of invention he has used the Rigvedic hymns like -
आपो हिष्ठा मयो भुवः ता न ऊर्जे दधातन । महेरणाय चक्षसे यो वः शिवतमो रसः ।
तस्य भाजयते हनः । उषतीरिव मातरः । तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ ।
आपो जनयथ चनः ।
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजाः । अग्निं च विश्वशम्भुवम् ॥
आपः प्रणीत भेषजं वरूथं तन्वे३मम ज्योक्चं सूर्यं दृशे ॥
यत्किञ्च दुरितं मयि यद्वा हमभि दुद्रोह यद्वाशेष उतानृतम् ।
“आपो विश्वस्य भेषजीः” अथर्ववेदः
Quantum Physics (Study
of matter and energy at the most fundamental level).
डा डेविड बोह्म
पीटर रसेल
स्टीफ़न वेयिनबर्ग
सर जान एक्लिस
सर आर्थर एडिंग्टन
कार्ल पीयरसन
नील्स भोर
म्याक्स प्लांक
वर्नर हैसनबर्ग
अल्बर्ट ऐन्स्टैन् .....
Fritjof Capra “The Tao of Physics”
व्यक्तिनिष्ठं मनः वस्तुनिष्ठानि भौतद्रव्याणि च भिन्नानि न
सन्ति इति , दृश्यमानं वस्तु द्रष्टुः सकाशात् पृथक् कर्तुं न शक्यते इति च प्रतिपादयति अयं ग्रन्थः ।
खगोलशास्त्रम्
बाणास्थधूमकेतूनां मण्डलस्याष्टमान्तरे।
त्रिकोटिसप्तलक्षत्रिसहस्रद्विशतोपरि ।
एकविंशतिसंख्याकाः वर्तन्ते धूमकेतवः ॥ बृहद्विमानशास्त्रम् – क्रियासारतन्त्रम् पुट्संख्या - १८५
आकाशस्य अष्टमे वलये 3,07,03,221 संख्याकाः धूमकेतवः सन्ति ।
विद्युद्गर्भास्तेषु
धूमकेतवोष्टसहस्रकाः।
महाकालादयो रौद्राः विद्युद्द्वादशलोचनाः ।
तेषु द्वादशसंख्याकाः प्रश्स्ताः धूमकेतवः ॥ बृहद्विमानशास्त्रम् –
क्रियासारतन्त्रम् पुट्संख्या - १८४
एतेषु पूर्वोक्तेषु धूमकेतुषु अष्टसहस्रं धूमकेतवः अत्यन्तं क्रूराः सन्ति ।
द्वादश धूमकेतवः सभ्याः प्रश्स्ताः सन्ति
।
त्रिनाभिचक्रमजरमनर्वं यत्रेमा विश्वा भुवनानि तस्थुः ।
ऋग्वेदः – १.१६४.२
ग्रहाणां दीर्घवृत्ताकारस्य मार्गः अविनाशी अच्छिद्रकारी
चास्ति । एषः दीर्घवृत्ताकारकः मार्गः
त्रिनाभिचक्रमिति उच्यते ।
दीर्घवृत्ताकारस्य मार्गस्य निमित्तं त्रयः बिन्दवः आवश्यकाः ।
उद्गमकेन्द्रत्वेन उच्यमानाभ्यां द्वाभ्यां
बिन्दुभ्यां समानदूरे तृतीयबिन्दुः
भवति इत्युच्यते ।
पाश्चात्यानां विज्ञानानुगुणं
कापर्निकस् इत्यस्य जीवितकालं यावत् (१४७३-१५४३) एवं मन्यन्ते स्म यत् ग्रहाः
वर्तुलाकारेण एव भ्रमन्ति इति ।
जोहान्स् केप्लर् इत्याख्यः
१६०९ तमे वर्षे नूतनं सिद्धान्तं प्रतिपाद्य सर्वे ग्रहाः दीर्घवृत्ताकारेण
भ्रमन्ति इति उक्तवान् ।
No comments:
Post a Comment