Sunday, September 19, 2021

१. प्रथमः परमवीरचक्रधारी मेजर सोमनाथशर्मा

 

१. मेजर सोमनाथशर्मा

भूमिका

१९४७ तमे इसवीये संवत्सरे धर्मस्य आधारेण देशस्य विभाजनं कर्तुम् अङ्गीकृत्य अस्माकं देशस्य तदानीन्तनाः केचन नेतारः  भारतस्य स्वातन्त्र्यं सम्पादितवन्तः । मुसल्मानजनेभ्यः  पृथगेव भारतस्य भूमौ कश्चन भागः आवश्यकः इति पक्षे ये ये अभिमतं (Vote)  दत्तवन्तः ते सर्वेऽपि मुसल्मानजनाः  स्वातन्त्र्यप्राप्तेः परं भारते एव स्थितवन्तः । ते पाकिस्थानं न गतवन्तः ।   यस्मिन् प्रदेशे पाकिस्थानं भवेत् इति पूर्वं निश्चितं तत्रत्याः  पाकिस्थानस्य निर्माणं भवेत् इति पक्षे मतं न दत्तवन्तः आसन् इति तु याथार्थ्यम् अस्ति । पाकिस्थानं मुसल्मानजनेभ्यः एव निर्मितम् अस्ति, तत्र वासं कर्तुं अन्येभ्यः अवसरः नास्ति इति तत्रत्याः हैन्दवाः यदा ज्ञातवन्तः तदा तेषां पार्श्वे स्वप्राणान् अतिरिच्य अन्यत् किमपि न अवशिष्टमासीत्, न पत्नी, न पतिः, न पुत्री, न पुत्रः, न पिता, न माता, न भूमिः, न गृहं, नान्या सम्पत् । अतः ते कथमपि स्वप्राणान् रक्षन्तः भारतं प्रति आगत्य  जीवेम इति चिन्तितवन्तः । किन्तु भारते गान्धीमहोदयः एतत् न इष्टवान् । कष्टं भवति चेदपि पाकिस्थाने विद्यमानाः सनातनधर्मानुयायिनः तत्रैव तिष्टन्तु । अत्रत्याः मुसल्मानजनाः अत्रैव तिष्टन्तु इति बोधयति स्म ।

          एतन्मध्ये जम्मुकाश्मीरस्य राजा हरिसिंहः स्वीयं राज्यं स्वतन्त्रमेव भवतु, पाकिस्थाने वा भारते वा तस्य विलयः मास्तु इति चिन्तितवान् आसीत् । अतः एषः सुसमयः इति मत्वा पाकिस्थानीयं सैन्यं गिरिजनानां वेशभूषैः काश्मीरस्य उपरि आक्रमणं व्यधासीत् ।  तेषां आक्रमणस्य नृशंशतायाः पराकाष्टां विज्ञाय राजा हरिसिंहः भारतस्य साहाय्यं प्रार्थितवान् । आरम्भे यद्यपि प्रधानमन्त्री बहुकालं यावत् किमपि निर्णेतुं अवसरं न प्राकल्पयत् तथापि सरदारपटेलवर्यः भारते जम्मूकाश्मीरस्य विलयाय सहमतिपत्रे तस्य हरिसिंहस्य हस्ताक्षरं कारयित्वा  पाकिस्थानीयस्य सैन्यस्य निग्रहाय भारतीयं सैन्यं प्रेषयितुं आदिष्टवान् । तावता पाकिस्तानीयाः सैनिकाः श्रीनगरपर्यन्तं  आगताश्चेदपि तान् पराजित्य जम्मुकाश्मीरसंस्थानं पाकिस्थानीयेभ्यः उन्मोचयितुं  प्रवृत्ताः भारतीयाः सैनिकाः प्रतिपदं साफल्यं प्राप्नुवन्तः आसन् चेदपि नेहरूवर्यः मध्ये प्रविश्य – “युद्धं स्थगयन्तु, अहम् एतं विवादं संयुक्तराष्ट्रसङ्घे नीत्वा परिहरिष्यामि इति आदिष्टवान् इत्यतः इदानीमपि जम्मुकाश्मीरस्य सुमहान् भागः पाकिस्थानस्य आधीन्ये एव अस्ति ।  नेहरूवर्यस्य मनोरथः कोऽपि वा भवतु, अस्माकं सैनिकानां त्यागः बलिदानं शौर्यं च तस्मिन् युद्धे अत्युत्कृष्टम् आसीत् ।

अतः तत्रादौ आत्मार्पणं भारतमातुः पदतले कृतवतः परमवीरस्य मेजर सोमनाथशर्मणः वीरगाथां सम्प्रति पश्यामः –

मेजर सोमनाथशर्मा  ३१/०१/१९२३ तमे इसवीये वर्षे हिमाचलप्रदेशस्य काङ्ग्डा जनपदे डोग्रा-ब्राह्मणपरिवारे  जन्म प्राप्तवान् । तस्य पिता अमरनाथशर्मा सैन्याधिकारी आसीत् । सः विद्यालयीयां शिक्षां उत्तराखण्डस्य नैनिताल इत्यत्र  शेर्वुड्-महाविद्यालये प्राप्नोत् । अनन्तरं देहराडूननगरे  सैनिकमहाविद्यालये  Prince of Wales Royal Militery Collage  इत्यत्र अध्ययनं कृतवान् । पितामहस्य मुखात् भगवद्गीतायाः विवरणं बाल्ये एव एषः श्रुत्वा अत्यन्तं प्रभावितः आसीत् ।

सः १९४२ तमे इसवीये वर्षे फेब्रवरीमासस्य २२तमे दिनाङ्के 19th Hyderabad Regiment इत्याख्ये सेनाङ्गे नियुक्तः अभवत् । पश्चात् स्वातन्त्र्यप्राप्तेः परं  कुमाओ रेजिमेण्ट् इत्यस्य सेनाङ्गस्य  चतुर्थं सैनिकसमूहं (4th Betalian) प्राविशत् ।

१९४७ तमे वर्षे ओक्टोबरमासस्य २७ तमे दिनाङ्के भारतीयसैन्यस्य  केचन सैनिकगणाः काश्मीरे आक्रमणं कृतवतः पाकिस्थानीयान् उन्मूलयितुं प्रेषिताः । ३१/१०/१९४७ तमे दिनाङ्के  मेजर सोमनाथशर्मणः नेतृत्वे  कुमाओ रेजिमेण्ट् इत्यस्य  सेनाङ्गस्य  4th Betalian मध्ये विद्यमानं D. Company इत्याख्यं सैनिकसमूहः भारतीयसैन्येन प्रेषितः ।  श्रीनगरात् अष्टमैल् परिमिते दूरे विमाननिस्थानस्य समीपे  बडगाम इति ग्रामः अस्ति यत्र सोमनाथशर्मणःसैनिकगणेन युद्धं कर्तव्यम् आसीत् । युद्धार्थं गमनात् प्राक् मेजर् सोमनाथशर्मा देहल्याम् आसीत् । तस्य वामहस्तस्य अस्थिभङ्गः पूर्वमेव जातः आसीत् । तस्य हस्तात् इतोपि Bandage  न निष्कासितम् आसीत् ।  तस्य कम्पनी युद्धार्थं गमिष्यति इति ज्ञात्वा सः स्वयमपि गन्तुं इष्टवान् । अस्थिभङ्गकारणात् तस्य उच्चाधिकारिणः तस्य अनुमतिं निराकृतवन्तः  चेदपि सः आग्रहं कृत्वा अनुमतिं सम्पादितवान् । “चतुर्थे कुमाओ कम्पनी मध्ये प्रत्येकं सैनिकस्य सामर्थ्यम् मदपेक्षया अन्यः कोऽपि सम्यक् न जानाति । अतः अहं गमिष्यामि चेत् अवश्यं युद्धे साफल्यं सम्पादयितुं शक्ष्यामि”  इति उक्त्वा अनुमतिं सम्पाद्य देहलीतः प्रस्थाय परेद्यवि सूर्योदयात् पूर्वमेव श्रीनगरस्थं युद्धभूमिं सम्प्राप्तवान् सोमनाथशर्मवर्यः ।

एतस्य समूहे उपाशीतिः सैनिकाः आसन् । किन्तु शत्रवः पञ्चशतात् अपि अधिकाः आसन् ।  बडगाम इत्यस्मिन् ग्रामे  ग्रामवासिनः इव वस्त्राणि धृत्वा  जवनीकासदॄशानाम् आच्छन्नवस्त्राणम् अन्तः शस्त्रास्त्राणि गृहीत्वा चतुर्थीं कुमाओ कम्पनीं  परितः  चतसृषु अपि दिक्षु ते शत्रुसैनिकाः समाविष्टाः अभवन् ।

एते भारतीयाः सैनिकाः आदौ शत्रूणां कापट्यं न ज्ञातवन्तः । मे. सोमनाथशर्मा सर्वानपि सैनिकान् प्रेरयन्, स्वस्य सुरक्षाविषये किञ्चिदपि अवधानं अप्रयच्छन् युद्धक्षेत्रे इतस्ततः धावति स्म । तस्य प्रेरणाकारणतः एव प्राणान् अपि पणीकृत्य युद्धं कृत्वा अस्माकं सैनिकाः शत्रूणां महतीं हानिम् उत्पादयितुं शक्ताः अभवन् ।  अस्मत्पक्षे २२ सैनिकाः वीरस्वर्गं प्राप्तवन्तः । षड्विंशतिः सैनिकाः व्रणिताः अभवन् ।  किन्तु त्रिशतादपि अधिकाः शत्रुसैनिकाः अस्मदीयानां शौर्यकारणतः यमपुरीं गताः ।

युद्धभूमौ शत्रुभिः प्रक्षिप्तं मोर्टर् अस्माकं मेजरवर्यस्य पार्श्वे एव पतित्वा विस्फोटितमभवत् इत्यतः अन्ते  सः युद्धभूमौ एव वीरस्वर्गं प्राप्नोत् । मरणसमये तस्य वयः  केवलं २४ वर्षाणि आसन् ।

Monday, August 2, 2021

भारतस्य इतिहासविषये व्यर्थप्रलापाः

 

प्रो.हरिप्रसादः के.


भारतस्य इतिहासविषये

व्यर्थप्रलापाः

(इत्याख्यस्य कन्नडग्रन्थस्य अनूदितः एकः अध्यायः)

 

उपोद्घातः

          भारतेन स्वातन्त्र्यम् अवाप्य ७५ संवत्सराणि सम्पद्यमानानि सन्ति । अतिदीर्धकालिकं पारतन्त्र्यम् स्वातन्त्र्येण चिन्तनात् अस्मान् विमुखीकरोति । स्वातन्त्र्यप्राप्तेः परमपि धूर्तानामेव शासनं भारतस्य स्वत्वस्य पुनरुज्जीवनाय अवसरं नाकल्पयत् । एतस्य परमं प्रमाणं स्वातन्त्र्योत्तरभारते निरन्तरं चत्वारः शिक्षामन्त्रिणः भारतभुवः संस्कृतेः सभ्यतायाः च अस्मितायाः विषये अनादरवन्तः म्लेच्छाः एव आसन् इति । भारतस्य अस्तित्वमेव जगतितले श्रेष्ठसभ्यतायाः संस्कृतेः ज्ञानविज्ञानानां आविष्कर्तृत्वेन प्रसारकत्वेन च आसीत् चेदपि ईदृशानां देशविरोधिनां प्रशासकानां कारणतः भारतस्य स्वत्वस्य पुनरुज्जीवनं यथा न स्यात् तथा कर्तुं सर्वविधप्रयत्नाः कृताः । तदर्थं आङ्ग्लेयानां सरणिः अनुसृता च । तत्र एकः प्रयत्नः भारतस्य वास्तविकं वैभवपूर्णम् इतिहासं जनमानसात् दूरीकृत्य नूतनसंततयः ततः अपरिचिताः यथा भवेयुः तथाकरणम् इति । किन्तु सत्यं बहुकालं यावत् गोपायितुं न शक्यते । तत् कथमपि स्वात्मानं कालान्तरे प्रकाशयति इत्यस्य उदाहरणम् एव  “ऎदि चरित्र” इत्याख्यः ग्रन्थः । एषः ग्रन्थः तेलुगुभाषया एम्.वि.आर्.शास्त्री इत्याख्येन तेलुगुलेखकेन लिखितो वर्तते । एतस्य कन्नडानुवादं बाबुकृष्णमूर्तिवर्यः अकार्षीत् । सर्वेणापि स्वाभिमानिना भारतीयेन अवश्यं पठनीयः ग्रन्थः ।  ३८० पृष्ठात्मकस्य एतस्य ग्रन्थस्य पञ्चमाध्यायस्य कश्चन भागः मया छात्रेषु अध्ययनजागृतिमुत्पादयितुम् अनूदितः । अ एव भागः अग्रे पठ्यताम् –

 

तस्मिन् देशे बलिष्टान् अश्वान् अपि सर्पाः लीलया गिलन्ति । तत्र केषाञ्चित् सर्पाणां पक्षिणामिव द्वौ पक्षौ भवतः । रात्रौ ते जतुकाः इव डयन्ते । तेषां मूत्रं वा स्वेदो वा मनुष्याणाम् उपरि पतति चेत् तत्र पिटकानि उत्पद्यन्ते । क्रमशः शरीरस्य सः भागः पूयते क्षीयते च ।  सर्पाणामिव वृश्चिकाणामपि तत्र महान्तौ पक्षौ भवतः ।   तत्र अश्वानां  मुखानि हरिणानां मुखानि इव भवन्ति । तेषां मस्तके एकं शृङ्गं भवति ।

तस्य देशस्य आदिवासिनां जनानाम् अकाराः इतोऽपि विचित्राः भवन्ति ।  केषाञ्चित् पादाः तिरोमुखाः भवन्ति । पादानां पृष्ठभागं पुरोभागे भवति । अङ्गुल्यः पृष्ठभागे भवन्ति । इतोऽपि केषाञ्चित् आदिवासिनाम् मुखमेव न भवति ।  मुखस्य स्थाने  द्वे रन्ध्रे भवतः । ताभ्यां रन्ध्राभ्यामेव मांसानां फलानां वा गन्धम् आघ्राय जीवन्ति । कदाचित्  दुर्गन्धं आघ्रान्ति चेत् अवश्यं ते म्रियन्ते ।  इतोपि केषाञ्चित् आदिवासिनाम् एकमेव नेत्रं  भवति । तदपि ललाटस्य मध्यभागे । अन्येषां केषाञ्चित् आदिवासिनाम् पादाः सर्पाः इव रज्जुस्वरूपाः भवन्ति । केषाञ्चित्  तु गजपादवत् पादाः भवन्ति । केषाञ्चित् आदिवासिनां कर्णौ चलनसमये भूमिं स्पृशन्तौ भवतः । तेषां कर्णौ तावद्विशालौ भवतः यौ प्रसारयामः चेत् अवश्यं तदुपरि मनुष्याः कटेषु इव शयनं कतुम् अर्हन्ति ।

तस्मिन् देशे पर्वतवासिषु केचन वामनाः भवन्ति । तेषु कस्यापि औन्नत्यं सार्धद्वयात् पादात् अधिकं न भवति । ते जनाः बलाकेभ्यः बहु एव पीडिताः भवन्ति ।  अतः ते  अजान् मेषान् च आरुह्य धनुः बाणान् च गृहीत्वा वसन्तर्तौ समुद्रतीरं गत्वा तत्र तैः निक्षिप्तान् अण्डान्, अण्डात् निर्गतान् बलाकशावकान् च मारयन्ति । एतत् कार्यं प्रतिवर्षं मासत्रयं प्रवर्तते । ते तथा न कुर्वन्ति चेत्  बलाकाः तेभ्यः जीवितुमेव अवसरं न प्रयच्छन्ति ।

तत्र  षष्ठे वयसि बालिकाः गर्भवत्यः भवन्ति ।

तस्मिन् देशे सुवर्णस्य उत्पादनं पिपीलिकाः कुर्वन्ति ।  एकैका पिपीलिका अपि अस्मद्देशीयात् जम्बूकादपि बृहती भवति ।  भूमौ बिलं निर्मायं पिपीलिकाः सुवर्णस्य चूर्णानि सङ्गृह्णन्त्यः भवन्ति । गच्छति काले सङ्गृहीतस्य सुवर्णस्य चूर्णं पर्वताकारेण वर्धते । सुवर्णानां चूर्णानि तथा निबिडतया सङ्गृहीतानि भवन्ति येन तन्मध्ये तिष्ठामः चेत् सूर्यस्यापि दर्शनं न भवति ।  अत्यन्तं प्रकाशमानया कान्त्या शोभायमानं सुवर्णराशिं पश्यामः चेत् अस्माकं नेत्राभ्यां दृक्शक्तिरेव निर्गच्छेत् । तत्र पार्श्वस्थेभ्यः मरुस्थलेभ्यः मनुष्याः अश्वशकटेषु आगत्य मध्याह्नसमये  यदा पिपीलिकाः भूम्याः अन्तः बिलेषु प्रविशन्ति तदा यथाशक्ति सुवर्णपर्वतं खनित्वा शकटेषु पूरयित्वा अतिवेगेन ततः पलायन्ते । एतत् ज्ञात्वा पिपीलिकाः ताननुगम्य  प्रयत्नेन अविश्रम्य संयुध्य म्रियन्ते ।  ताः पिपीलिकाः अपि सुवर्णस्य मूल्यं सम्यक् जानन्ति । अत एव ताः स्वप्राणान् अपि पणीकृत्य   युध्यन्ते”

एतत् सर्वं प्रलापं श्रुत्वा किं चिन्तयन्ति भवन्तः ? उन्मत्तानां ऊहाप्रपञ्च इति वा ?  सुरापानं कृत्वा वाचिता कथा इति वा ?  अरेबियन् नैट्स् इत्याख्या कथा इति वा ?  पातालभोगिनां कथाजालमिति वा ?

नैव भोः नैव ।  अस्माकं इतिहासकारैः परमप्रमाणत्वेन स्वीकृतात्  एकस्मात् इतिहासग्रन्थात् उद्धृतानि अनर्घ्यानि मौक्तिकानि सन्ति इमानि वाक्यानि !!!

तस्य ग्रन्थस्य नाम इण्डिका इति । तस्य रचयिता (अथवा रचयिता इति चिन्तितः) मेगास्तनिस् इत्युच्यते । तेन उपरि वर्णितः विषयः कस्यचित्  कल्पितलोकस्य नास्ति भोः, साक्षात् अस्माकं भारतस्य वर्तते India that is Bharat  इत्येतस्य 

बहुभ्यः वर्षेभ्यः अस्माभिः पठ्यमानस्य इतिहासस्य लेखकानां सर् विलियम् जेम्स्  म्याक्स्मुल्लर् इत्येतादृशानां पाश्चात्यविदुषां दृष्ट्या  भारतीयसाहित्यस्य ऐतिहासिकं महत्वमेव नास्ति ।  भारतीयानाम् अस्माकं आरम्भतः एव इतिहासविषयकं कल्पनमेव स्पष्टं नास्तीति ते कथयन्ति ।  प्राचीनाः सुदीर्घाणि पुराणानि तु लिखितवन्तः  । किन्तु तानि सर्वाणि कल्पनामात्राणि सन्ति, युगाः मन्वन्तराणि इत्येवं प्रकारेण अस्माभिः सहस्रवर्षाणां कोटिवर्षाणां गणनानि सर्वथा मिथ्याभूतानि इति ते कथयन्ति ।   विष्णुः शिवः ऋषयः, शापाः, यागाः इत्येवं रूपेण  कथाजालनिर्माणम् अकृत्वा वैदेशिकैः लेखकैरिव स्पष्टतया स्फुटवेद्यत्वेन इतिहासलेखनस्य विचार एव पौर्वात्यानां भारतीयानां नासीदिति ते अभिप्रयन्ति । अस्मान् शासितवतः ऐरोप्यशासकानाम् अभिप्रायानुसारं  -इसवीयपूर्वे ३२तमे वर्षे अलेग्साण्डरस्य भारतस्य उपरि आक्रमणपर्यन्तं  भारतस्य विश्वसितुं योग्यः इतिहास एव न लिखितः आसीत् इति । सः ग्रीकवीरः  तस्य विजयगाथां साक्षात् अवलोक्य  तत् लिपिबद्धं कर्तुं कांश्चन मेधाविनः विदुषः आनीतवान् आसीत् । तैः तदानीं लिखितसामग्रीणाम् साहाय्येन प्राचीनभारतस्य इतिहासः लिखितरूपः प्राप्यमाणः अभवत् । ग्रीकानां समग्राणां ऐतिहासिकसामग्रीणां मध्ये   मेगास्तनीस् इत्यनेन लिखितम् इण्डिका इत्याख्यं पुस्तकं मेरुतुल्यम् अस्ति पाश्चात्यानां इतिहासबृहस्पतीनां  ऊहा वर्तते ।  तैः वञ्चनाबुद्ध्या ग्रथितां खपुष्पेतिहासमालां सगर्वं धारयित्वा तदीयशौर्यशुक्तिकां रजतभ्रान्त्या कौतुकेन अवलोक्य श्लाघामहे । अस्मत् सन्ततिभ्यः तदेव दर्शयितुम् अभिलषामः च ।

उदाहरणार्थम् –

केन्द्रीयपाठ्यक्रमस्य ११तमकक्ष्यायाः पाठ्यक्रमे रामशरणशर्मा इत्यनेन रचिते प्राचीनभारतदेशः(Ancient India) इत्यस्मिन् ग्रन्थे एवं ससम्माननं लिखितम् अस्ति यत् –

“सेल्यूकस् इत्यस्य राजदूतरूपेण मेगास्तनीस् इत्याख्यः चन्द्रगुप्तमौर्यस्य राजधान्यां पाटलीपुत्र इत्याख्यायां नगर्यां स्थित्वा मौर्यसाम्राज्यस्य विषये पाटलीपुत्रनगरशासनविषये च यत्लिखितवान्  तत् तत्कालीनसामाजिकार्थिकस्थितीः सम्यक् प्रकाशयति” इति  (Throws valuable light on the administration, society and economy of Maurya times)

प्राचीनभारतस्य इतिहासविषये अत्यन्तं विश्वासार्हः आधारः इति द्विशतात् वर्षेभ्यः अस्माकम् इतिहासकारैः वर्णिते इण्डिका इत्याख्ये ग्रन्थे कथं इतिहासःलिखितः इति भवन्तः  अस्य लेखस्य आरम्भे एव पठित्वा ज्ञातवन्तः सन्ति किल !

अनादिकालादारभ्य भारतीयैः अनुस्रियमाणाः स्मृतयः इतिहासपुराणानि च ऐतिहासिकमहत्वहीनानि कल्पनामात्राणि इति आधुनिक-इतिहासचक्रवर्तिनः निर्णीतवन्तः । पुराणादीनां प्रामाण्यं ग्रीकलेखकैः रचितानां ग्रन्थानाम् आधारेण एव निर्णेतव्यम् इति च निर्णीतवन्तः  इत्येतत् अस्ताम् नाम । किन्तु तैः परमप्रमाणत्वेन स्वीक्रियमाणाः ग्रीकग्रन्थाः  कुत्रापि नोपलभ्यन्ते !!!  सहस्रवर्षेभ्यः पूर्वमेव ते कालकवलीभूताः सन्ति । अलेग्साण्डरतः पूर्ववर्तिषु स्कैलाक्स्, हेचाटियस्, मुल्लेटस्, हेरोडोटस्, केशियस् इत्यादिषु   कोऽपि भारतस्य मुखं न दृष्टवान् । भारतस्य विषये तैः लिखितानां ग्रन्थानां को वा आधारः इति न ज्ञायते  । ते ग्रन्थाः अनतिकाले एव नष्टाः । अलेग्साण्डरेण सह आगताः नेर्चस्, वन्सिक्रोटस्, अरिश्टोबुलस्,  केल्लिस्थेनीस् इत्यादयः भारतं दृष्ट्वा यल्लिखितवन्तः  तत् किमपि सम्प्रति नोपलभ्यते । अलेग्साण्डरतः अनन्तरं चतुश्शतात् वर्षेभ्यः परम् उत्पन्नाः अरियन् ष्ट्राबो इत्यादयः अपि तान् ग्रन्थान् न प्राप्तवन्तः  । अन्ततः अस्माभिः इदानीमपि सगर्वम् कीर्त्यमानः इण्डीका इत्याख्यः ग्रन्थः अपि द्वित्रेषु शतकेषु एव अदृश्यतां गतः । तं ग्रन्थं ये पठितवन्तः तेषां स्मृतौ खिलीभूय तदीयग्रन्थेषु  क्वचिदुद्धृतम् एव साम्प्रतम् उपलभ्यते ।  इत्थम् इतस्ततः प्रकीर्णं  वस्तु सङ्गृह्य Megasthenis India   इति नाम्ना लोकाय समार्पयत् जर्मनदेशस्य विद्वान् डा.श्चुवानबेक् इत्याख्यः । तदेव Ancient India as Described by Megasthenis and Arrian इति नाम्ना १८७७ तमे वर्षे जे.एन्. मेक्. क्रिण्डल् इत्याख्यः आङ्ग्ले अनूदितवान् । अस्य लेखस्य आरम्भे उद्धृतानि वाक्यानि तत्रत्यानि एव वर्तन्ते ।

इत्युक्ते मौर्यसाम्राज्ये मेगास्तनीसेन दृष्टमस्ति, दृष्ट्वा लिखितमस्ति चेति केवलं कल्प्यते । सः किं दृष्टवान् ? किं लिखितवान् चेति कोऽपि न जानाति ।  तदीयमिति यत्  साम्प्रतम् उच्यते तत् यथार्थं वा अयथार्थं वा इति केनापि तृतीयेन कल्पितं वा इति कोपि वक्तुं नार्हति ।  अस्माकं पुरस्तात् विद्यमानं वस्तु(इण्डिका) मेगास्तनिसस्य एव  इति सामान्यव्यवहारे उच्यते चेदपि प्राज्ञः कोपि अङ्गीकर्तुं न शक्नोति । एतद्विषये इण्डिका इत्यस्यसम्पादकस्य श्चानबेक् इत्यस्य  एव इत्थं अवगन्तव्यम् -

“The ancient writers, whenever they judge of those who have written on Indian matters, are without doubt want to reckon Megasthanis among those writers who are given tolying and least worthy of credit…”

[Mc Crindle,1877  p 18]

(इत्युक्ते – भारतस्य इतिहासादिविषये लिखितवतां विषये वक्तव्यं चेत्  असत्यवादिनाम् विश्वसितुं अयोग्यानाम् आवल्यां  मेगास्तनीसं प्राचीनलेखकाः योजितवन्तः)

इसवीयपूर्वे ६३ तमे वर्षे ष्ट्राबो इत्याख्यः तद्देशीयानां महालेखकानां विषये किमुक्तवानिति किञ्चित् आकर्ण्यताम् –

“Generally speaking, the men who have hitherto written on the affairs of India were a set of liars. Deimachos holds the first place in the list, Megasthenes comes next …. No faith whatever can be placed in Deimachos and  Megasthenes. They coined the tables concerning men with ears large enough to sleep in, men without any mouths, without noses with only one eye…. And fingers bent backward…. They told of ants digging for gold…. Of serpents swallowing down oxen and stags…. Meantime accusing each other of falsehood”

[Mc Crindle, 1877  p 20]

(स्थूलरूपेण वक्तव्यं चेत्  - एतावत्पर्यन्तं भारतस्य विषये ये ये लिखितवन्तः ते सर्वेपि अनृतवादिनः सन्ति । तेषु प्रथमस्थानं प्राप्नोति डिमचस्  इत्याख्यः ।  द्वितीयं स्थानमर्हति मेगास्तनीसः । डिमचस-मेगास्तनीसाभ्याम् उक्तं किमपि विश्वसितुं न शक्यते ।  मनुष्यैः शयितुं योग्यविशालकर्णयुतानां विषये मुखनासिकारहितानां विषये , एकाक्षिणां विषये तिर्यक्पादाङ्गुलीनां विषये च ते मिथ्याकथाजालं  रचितवन्तः । सुवर्णार्थं भूम्याः खननं कुर्वतीनां पिपीलिकानां विषये गोहरिणभक्षानां सर्पाणां विषये लिखितवन्तः । एकः अन्यम् इव परस्परम् अनृतवादी इति दूषितवन्तः)

तर्हि मेगास्तनीसस्य पुस्तकस्य किमपि मूल्यं नास्ति किम् ? तस्य पुस्तके विश्वसितुं योग्यं किमपि नास्ति  किम् ? सर्वमपि असत्यमेव वा ?

उपरि अतिशयोक्तिमात्रं कल्पनाविलासः इत्यादिपदानि इण्डिकाविषये उक्तानि चेदपि विश्वसितुं योग्याः बहवः विषयाः तत्र सन्ति । तेन दृष्टस्य देशस्य तदानीन्तनस्थितयः, शासनरीतिः,आर्थिकसामाजिकस्थितिः, आचारविचाराः, वैदेशिकानां विषये आदरः, स्वीयस्य प्राचीनेतिहासस्य विषये भारतीयानां मनोभूमिः, हैन्दव-बौद्धधर्मयोः भेदः इत्यादिविषये मेगास्तनीसस्य पुस्तकं वस्तुतः साहाय्यमाचरति एव । सनातनधर्मस्य विषये तदीयसम्प्रदायानां व्यवस्थाविषये अज्ञानेन वा धारणाभेदेन वा मेगास्तनीसस्य लेखने दोषाः स्युः नाम ।  किन्तु अन्ततः कस्यचित् वैदेशिकस्य दृष्टौ तदानीन्तनं भारतं कथम् आसीत् इति ज्ञातुं वा तदीयग्रन्थः उपयोगी भवितुम् अर्हति ।

एवमेतत् ।

तस्य याथार्थ्यं कियदस्ति इति प्रश्नः अस्ति चेदपि इतः २००० वर्षेभ्यः पूर्वम् इसवीयपूर्वे चतुर्थे शतके अयं ( इण्डिका ) ग्रन्थः लिखितः इत्यतः पुरातत्वशास्त्रदृष्ट्या अधिकं महत्वं दातव्यं स्यात् ।  तस्य प्राचीनतायाः कारणादेव चारित्रिकदृष्ट्या अपरिमितं प्राधान्यं  प्राप्नोति ।  ग्रन्थोक्तं प्रत्येकमपि अक्षरं सत्यं भविष्यति चेदेव तस्य मूल्यं अधिकं भवति इति कथनं मौर्ख्यं भवति ।  तादृशेषु ग्रन्थेषु तर्कसंमताः अंशाः कुत्रापि लभ्यन्ते चेत्  तानेव स्वीकृत्य ऐतिहासिकेषु अध्ययनेषु  विचारः/अनुसन्धानम् अनुवर्तनीयम्  । एतादृशीषु परिस्थितिषु आधुनिकान् पण्डितान् उद्दिश्य एतदेव प्रष्टव्यं यत् -  इतिहासविषये भवद्भिः उच्यमानानि धर्मसूत्राणि मेगास्तनीसे यथा अन्वियन्ति तथा भारतीयपुराणेषु नान्वियन्ति किम् ?

सहस्रात् वर्षेभ्यः पूर्वमेव नष्टस्य, नाममात्रावशेषस्य मेगास्तनीसरचितग्रन्थस्य  ऐतिहासिकाधारत्वेन परिग्रहः कृतः चेत्, तत्पठित्वा  यावत् स्मृतौ वर्तते तावत् रटित्वा एकत्रीकृतवाक्यानि एव इण्डिका इति च स्वीकृतं चेत्,  सहस्रशः वर्षेभ्यः किञ्चिदपि अपरिवर्त्य सुरक्षितरूपेण विद्यमानानि पुराणानि ऐतिहासिकाधारत्वेन  न परिगण्यन्ते  इति कथं वा ते वदन्ति ?

आधुनिकेतिहासग्रन्थेषु यथा दिनाङ्कानुगुणं घटनाः वर्ण्यन्ते  तथा पुराणेषु घटनाः न निरूपिताः स्युः ।  लोकाः, युगाः, देवताः, तदीयतरतमभावाः,  धर्माः, तद्रहस्यानि,  इत्यादिविषयाः पुराणेषु प्रतिपादिताः आधुनिकानां जनानां दृष्ट्या विचित्राः इव भासेरन् । आधुनिकशास्त्रानुगुणं पश्यामः चेत्  तत्रस्थाः अनेके विषयाः सन्दिग्धाः इव भासेरन् । पुराणद्वयस्य मध्ये क्वचित् पारस्परिकविरोधः स्यादपि । कदाचित् आधुनिकाः प्रगतिचिन्तकाः इति आत्मानं मन्वानाः वयं भाषणवेलायां “पुराणेषु नवतिः प्रतिशतं भागः निरर्थकः” इति  वदामः चेदपि तत्र एव उपयोगार्हाः 10% विषयाः सन्ति इति मत्वा तेषु विषयेषु आदरं प्रदर्शयेम किल ? अस्माकं तेषु विषयेषु आदरो भवतु, न वा भवतु ; न्यूनातिन्यूनं ऐतिहासिकदृष्ट्या वा तर्कसङ्गतानां विषयाणां कृते प्राधान्यं दातव्यं किल ?  बहुषु पुराणॆषु पारस्परिकविरोधेन विनैव प्रतिपादिताः विषयाः बहवः सन्ति ये शास्त्रसम्मताः, विभिन्नैः प्रमाणैः प्रमाणीकृताः, विद्वद्भिः पुरस्कृताः च सन्ति । ईदृशाणां विषयाणाम् इतिहासस्य शोधार्थं  स्वीकरणस्य आवश्यकता नास्ति किम् ?

अलेग्साण्डर् इत्यस्य आक्रमणपर्यन्तं  भारतस्य समग्रः अपि इतिहासः भ्रमाभूयिष्टः  निरर्थकप्रलापः आसीत् इति  विलियम जोन्स-म्याक्स-मुल्लर-प्रभृतिभिः  उपेक्षाबुद्ध्या  उक्तं चेदपि  अस्मिन् देशे सहस्रशः संवत्सरेभ्यः अविच्छिन्नप्रवाहवत् समागतः, स्पष्टरूपेण अभिज्ञातुं शक्यः,  असन्दिग्धः, केनापि शुद्धान्तःकरणेन निराकर्तुं अशक्यः सुदीर्घेतिहासः अस्य देशस्य वर्तते । सः सर्वोऽपि प्राचीनेतिहासः अस्माभिः उपहास्यमानेषु पुराणेषु निगूहितो वर्तते ।

कृतयुग-त्रेतायुग-द्वापरयुगानां लक्षशः वर्षाणि भवन्ति इत्यतः तेषां गणनादिकं भ्रमं जनयेत् इति धिया  पार्श्वे स्थापयित्वा कलियुगस्य एव गणनां करवाम । पुराणगतानि नामानि तत्पृष्टवर्तिनीः कथाः च अवलोकयामः चेत्  अस्माकं हासः भवितुम् अर्हति । कलियुगस्य आरम्भतः अपि अस्माकं पूर्वजाः स्पष्टतया  कालस्य गणनां कृतवन्तः एव सन्ति । अस्माकं देशे प्रत्येकस्मिन् पञ्चाङ्गे कलियुगस्य आरम्भतः प्रत्येकस्मिन् वर्षे कियान् कालः जातः इति  स्पष्टगणना वर्तते ।  तदनुगुणं 2003 तमे इसवीये वर्षे  कल्यादिः 5104 तमः संवत्सरः । इत्युक्ते इसवीयपूर्वे  3101-102 तमे (इत्युक्ते 5104 - 2003) संवत्सरे कलिशकः आरब्धः ।  कलिशकस्य गणना इसवीयपूर्वे 3102 तमे संवत्सरे  फेब्रवरीमासस्य 20तमे दिनाङ्के आरब्धः इति पाश्चात्याः अपि विद्वांसः स्वीकुर्वन्ति ।   ततः 36 वर्षेभ्यः पूर्वम् , इत्युक्ते इसवीये पूर्वे 3138 तमे संवत्सरे महाभारतयुद्धं प्रवृत्तम् ।  तत्र विजयं प्राप्य 36 वर्षाणां शासनं कृत्वा  श्रीकृष्णस्य देहत्यागवार्तां श्रुत्वा युधिष्ठिरः  परीक्षितस्य पट्टाभिषेकं कृत्वा सपत्नीकः सहोदरैः सह स्वर्गारोहणाय प्रस्थितः ।  तदानीमेव कलिशकस्य आरम्भः अभवत् । ततः 26 वर्षेभ्यः परं(इत्युक्ते इसवीयपूर्वे 3076 तमे वर्षे) सः स्वर्गं प्राप्नोत् ।  तदभिज्ञानाय तस्मादेव संवत्सरादारभ्य युधिष्ठिरशकस्य आरम्भः अभवत् । तं लौकिकाब्दः इत्यपि जनाः वदन्ति । तदनुगुणमेव इदानीमपि काश्मीरेषु पञ्चाङ्गं प्रचलति ।...

 

 


Monday, June 28, 2021

मम सामान्यः परिचयः Bio-Data

Prof. Hariprasad K.
Professor of Education
Central Sanskrit University
Rajiv Gandhi Campus
Sringeri Karnataka

 वैयक्तिकविवरणम्
जन्मदिनांकः १२/०८/१९७७
पितुर्नाम - के.रामण्ण हेब्बारः
मातुर्नाम - मीनाक्षी
पत्न्याः नाम - अखिला
पुत्रौ - प्रणम्या, परावरः च

 शैक्षिकविवरणम्
उपाधयः - आचार्यः, शिक्षाचार्यः, विद्यावारिधिः
 *लिखितानि पुस्तकानि* 
१. किमर्थमहं हिन्दुरभवम् (संस्कृतानुवादः)
२.नानेके हन्दुवादे(कन्नडानुवादः)
३.हिमालयसदृशः प्रमादः(संस्कृतानुवादः)
૪.शैक्षिकप्रविधेः मूलतत्वानि
५.वेदान्तप्रबोधः (संस्कृतानुवादः)
६. पाठ्यचर्या विद्यालयश्च - अप्रकाशितम्
७.युद्धनीति मत्तु अहिंसे - अप्रकाशितम्
८. चाणक्यः - अप्रकाशितः

 शोधलेखाः- ૪०

 शोधमार्गदर्शनम् - द्वयोः समाप्तम्, द्वयोः च प्रचलति।

कृता परियोजना - १.शैक्षिकानुसन्धानविश्वकोशस्य संस्कृतानुवादः
२. ONGC - CSR वेदान्तपरियोजना (संयोजकत्वेन अस्यां संस्कृतसंवर्धनप्रतिष्ठानस्य परियोजनायां कार्यमकार्षम्)

अध्यापनम् - केन्द्रीयसंस्कृतविश्वविद्यालयस्य  चतुर्षु परिसरेषु १७ वर्षेभ्यः (२००૪ तः)  शिक्षाविभागे अध्यापनकार्यं कृतम् । सम्प्रति राजीवगान्धीपरिसरे आचार्यत्वेन कार्यरतोsस्मि ।

Wednesday, March 18, 2020

पाठ्यचर्या विद्यालयश्च (मम प्रकाश्यमानं षष्ठं पुस्तकम्)


पाठ्यचर्या विद्यालयश्च


प्रो.हरिप्रसादः के.




राष्ट्रियसंस्कृतसंस्थानम्
(मानितविश्वविद्यालयः)





पाठ्यचर्या विद्यालयश्च(School & Curriculum)


प्रकाशकः –        कुलपतिः
राष्ट्रियसंस्कृतसंस्थानम्, (मानितविश्वविद्यालयः)
नवदेहली

वर्षम् – २०२०

© सर्वाधिकारः – कुलपतिः, राष्ट्रियसंस्कृतसंस्थानम्


ISBN –
संस्करणम् -२०२०
प्रतयः  - ५००

मुद्रकः -
मूल्यम् –



लेखकस्य आत्मनिवेदनम्
 
शुक्लां ब्रह्मविचारसारपरमाम् आद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीम् आभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥
श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम् ।
नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥
भारतीकरुणापात्रं भारतीपदभूषणम् ।
भारतीपदमारूढं भारतीतीर्थमाश्रये ॥
विद्याविनयसम्पन्नं वीतरागं विवेकिनम् ।
वन्दे वेदान्ततत्त्वज्ञं विधुशेखरभारतीम् ॥
            पाठ्यचर्या विद्यालयश्च इति ग्रन्थः संस्कृतशिक्षायाः क्षेत्रे अत्यन्तम् अपेक्षितानां ग्रन्थानां पङ्क्तौ वर्तते । राष्ट्रियशिक्षकशिक्षापरिषदा वर्षचतुष्टयात्पूर्वम् वर्षद्वयात्मकः शिक्षाशास्त्रिपाठ्यक्रमः यदा उद्घोषितः तदा निर्धारितेषु विषयेषु पाठ्यचर्या विद्यालयश्च इति विषयोऽपि अन्यतमः । शिक्षाशास्त्रिद्वितीयवर्षे प्रथमपत्रत्वेन संस्थानम् विषयमिमं न्यक्षिपत् । अस्य विषयस्य पाठ्यक्रमः सुविशालः । अत्रस्थाः पाठ्यांशाः परस्परम् अत्यन्तं नैकट्येन ओतप्रोतभावेन सम्बद्धाः इत्यतः छात्राणाम् आरम्भिकदशायां बह्वेव भ्रमो भवति अध्यापनदशायां मया अनुभूतं वर्तते । इत्युक्ते प्रत्येकं पाठ्यांशस्य पृथक्त्वं छात्रैः नानुभूयते । एक एव पाठ्यांशः पुनः पुनः विभिन्नस्वरूपेण आवर्तते इति भ्रमो जायते । तन्निवित्तिरपि एतस्य पुस्तकस्य प्रणयने एकः हेतुरस्ति ।
            अस्य विषयस्य सन्दर्भग्रन्थास्तु संस्कृतशिक्षाक्षेत्रे सुदुर्लभा एव । यद्यपि हिन्द्याम् आङ्ग्ले, इतरासु प्रान्तीयभाषासु च अस्मिन् नाम्नि ग्रन्थाः अङ्गुलिगणनीयाः प्रणीताः सन्ति, तथापि तेषु ग्रन्थेषु पाठ्यक्रमान्तर्गताः सर्वेऽपि विषयाः नोपलभ्यन्ते । अतः छात्राणाम् अध्ययनसौकर्याय संस्कृतशिक्षाक्षेत्रे संस्कृतग्रन्थानां प्रणयनम् अनिवार्यम् अभवत् ।  किन्तु लोके अस्माकं अनिवार्यानि कार्याणि सर्वाणि अनिवार्यताख्यादेव कारणात् सिद्ध्यन्ति इति नास्ति । अत एव लेखनकार्यम् अनिवार्यत्वेन परिगणितं चेदपि वर्षत्रये न सम्पन्नमासीत् । 
सन्दर्भेऽस्मिन् आचार्याणां वै.एस्.रमेशवर्याणाम् आधारभूतचिन्तनं, लक्ष्यनिश्चयः, लक्ष्यप्राप्तिपर्यन्तम् अत्यन्तं कठिनपरिस्थितिष्वपि हतोत्साहरहितप्रयासश्च चतुर्थे वर्षे फलेग्रहिः जायमानो वर्तते इति भृशं सरीस्मरीमि । संस्थानस्य द्विवर्षीयपाठ्यक्रमस्य निश्चयवेलायामेव तैः एतद्विषये विचिन्त्य संस्थानश्रेयोवर्धकानां कुलपतीनां आचार्याणां परमेश्वरनारायणशास्त्रिमहाभागानाम् अनुमत्या विविधस्तरेषु अभिविन्यासादिकार्यक्रमान् आयोज्य पुस्तकलेखने संस्थाने कार्यरतान् सर्वान् शिक्षाविभागीयान् अध्यापकान् सम्प्रेर्य कार्यमिदं समपादीति महतः हर्षस्य सन्तृप्तेश्च विषयः । अहमपि ईदशे कर्मणि आत्मानं व्यापारयितुम् अवसरं प्राप्नुवम् इति सौभाग्यम् मम ।
सन्दर्भग्रन्थलेखनयोजनान्तर्गतत्वेन मया  पाठ्यचर्या विद्यालयश्च इति विषयः प्राप्तः । ग्रन्थलेखनाय समयसीमा निश्चिता आसीत् । किन्तु कार्यं विघ्नपरम्परया बहुधा अवरुद्धप्रायम् आसीत् । काले काले रमेशमहोदयानाम् प्रेरणा आग्रहश्च कर्मणि अस्मान् प्रवर्तयति स्म ।
अभिविन्यासादिकार्यक्रमे चमू कृष्णशास्त्रिमहोदयाः, आचार्याः ए.पि.सच्चिदानन्दमहाभागाः आचार्यमुरलीधरशर्ममहाभागाः, इत्यादयः बहवो हि ज्येष्ठाः अस्मान् समुचितमार्गदर्शनेन लेखनकार्यं सम्पादयितुं प्रेरितवन्तः । मध्ये पुनः यदा अगर्तलायां  सन्दर्भग्रन्थलेखनसमीक्षाकार्यशाला प्रवृत्ता तदा  विशेषतः विषयदृष्ठ्या आचार्याः चान्दकिरणसलूजा महाभागाः, भाषादृष्ट्या डा. विश्वासमहाभागाश्च मम कृते अत्यन्तं महत्वपूर्णं मार्गदर्शनं प्रायच्छन् । एवमेव आचार्याः च.ल.ना.शर्ममहाभागाः, आचार्याः सुदेशकुमारशर्ममहाभागाः आचार्याः वै.एस्.रमेशमहाभागाश्च सान्दर्भिकं मार्गदर्शनं व्यधासिषुः । अतः एतेभ्यः सर्वेभ्यः आचार्येभ्यः मदीयानि कार्तज्ञ्यकुसुमानि समर्पयामि ।
मम जन्मदातारौ मातापितरौ, पोषकाः भ्रातरः भगिन्यश्च स्मर्यन्ते । अस्य पुस्तकस्य लेखनवेलायां मम पारिवारिककार्यभारं सर्वमपि स्वस्कन्धयोः आरोप्य मां सहकृतवती मम सहधर्मचारिणी श्रीमती अखिला सन्दर्भेस्मिन् स्मर्यते । सङ्गणकाध्यापकः श्रीमान् रवीशवर्यः सान्दर्भिकसाहाय्यार्थं समर्यते । सहोद्योगी प्राध्यापकः डा.नारायणवैद्यः समये साहाय्यमाचरदिति स्मरामि ।
आहत्य त्वरया छात्रोपकाराय आबद्धं ग्रन्थं छात्राः पठित्वा लाभान्विताः भवन्ति चेत् लेखकस्य प्रयोजनान्तरं किं वा भवितुम् अर्हति ?

कार्तिकशुद्धद्वितीया(१०/०१/२०२०)         इति भगवत्पादपद्माराधकः
   प्रो. हरिप्रसादः के.


विषयानुक्रमणीका
प्रथमाध्यायः             शिक्षा                                                   ०१
द्वितीयाध्यायः           पाठ्यचर्या                                             २८
तृतीयाध्यायः            पाठ्यक्रमः पाठ्यपुस्तकञ्च                          ५९
चतुर्थाध्यायः             पाठ्यचर्यायाः पक्षाः                                 ८९
पञ्चमाध्यायः            पाठ्यचर्यायाः निर्धारकतत्त्वानि                  १०८
षष्ठाध्यायः               पाठ्यचर्याविकासात्मकाधाराः                     १३६
सप्तमाध्यायः             विद्यालयस्तरे पाठ्यचर्याविकासः                १५७
अष्टमाध्यायः             विद्यालयः(पाठ्यचर्यायाः अनुप्रयोगस्थानम्)             १७०
नवमाध्यायः             पाठ्यचर्यायाः क्रियान्वयनं नवीनीकरणञ्च      १८
दशमाध्यायः             अध्यापकाधिगन्त्रोः स्वायत्तता                     २०३