प्रो.हरिप्रसादः के. आचार्यः
शिक्षाविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः
राजीवगान्धीपरिसरः शृङ्गेरी
(24/10/2024 तमे दिनाङ्के उडुपिनगरे प्रवृत्ते प्राच्यविद्यासम्मेलने(51st All India Oriental Conference) वाचितः शोधलेखः)
शोधलेखसारः (Abstract)
मूल्याङ्कनम् मूल्याकलनञ्च
छात्रस्य मापयितुं योग्यायाः
उपलब्धेः अङ्कैः मापनमेव मूल्याङ्कनम् इत्युच्यते । इत्युक्ते लिखितपरीक्षायाः
माध्यमेन वा वाक्परीक्षायाः माध्यमेन वा छात्राय अङ्काः दीयन्ते किल, एषा
अङ्कदानप्रक्रिया मूल्याङ्कनम् इत्युच्यते । अन्यैः शब्दैः इत्थं वक्तुं शक्यते
यत् – छात्रः अध्ययनेन यदधिगमं प्राप्तवान् अस्ति तत् तस्य मूल्यम् अस्ति । तस्य
मूल्यस्य परीक्षायाः माध्यमेन अङ्कनम् मूल्याङ्कनम् इत्युच्यते ।
अङ्कैः मापयितुम्
अशक्याः बहवो हि मनोवैज्ञानिकाः गुणाः छात्रस्य भवन्ति । ते गुणाः शिक्षणमाध्यमेन
सम्पादिताः भवन्ति । किन्तु तेषां
गुणानाम् अङ्कैः अङ्कनं कर्तुं न शक्यते । यथा छात्रस्य चरित्रम्, अनुशासनम्, समयपरिपालनम्,
कार्यदक्षता, भ्रातृत्वम्, सहयोगभावना, नायकत्वगुणः इत्यादयः । ईदृशानाम् अङ्कैः
मापयितुम् अशक्यानां
गुणानां मापनं कथं कर्तव्यम् ? तदर्थं शिक्षाविदः मूल्याकलनम् इति तत्वम्
आविष्कृतवन्तः । अङ्कैः मापयितुम् अशक्यानां गुणानां शब्दैरेव विवरीतुं कञ्चन
क्रमं शिक्षाविदः प्रतिपादयन्ति यस्य च नाम भवति मूल्याकलनम् इति । इत्थम् अङ्कैः
मापयितुम् अशक्यानां शब्दैः व्याख्यातुं च शक्यानां छात्रस्य गुणानां मापनं मूल्याकलनम् इत्युच्यते
इति सारतः ज्ञायते ।
एतत् मूल्याङ्कनं वा मूल्याकलनं
वा छात्राधिगमस्य छात्रव्यक्तित्वस्य वा परिचायकं भवति इति सामान्यतः वयं जानीमः ।
इत्युक्ते सत्रान्ते छात्रस्य योग्यतां ज्ञातुं क्रियमाणा परीक्षाप्रक्रिया एव
मूल्याङ्कनम् इति धारणा सामान्या वर्तते ।
किन्तु सम्प्रति मूल्याङ्कनमूल्याकलनयोः विषये एतस्मात् बहु ऊर्ध्वं गत्वा
शिक्षाविशेषज्ञाः चिन्तनं कृतवन्तः ।
मूल्याङ्कनम् मूल्याकलनञ्च
साम्प्रतं न केवलं छात्रस्य क्रियते, अपि तु अध्यापकस्य, प्रधानाध्यापकस्य,
संस्थायाः, कर्मचारिणः, उद्योगार्थिनः, कृष्यादिक्षेत्रस्य, वाणिज्यप्रौद्योगिक्यादिक्षेत्राणां विकासस्य
चेति अगणितानां क्षेत्राणाम् क्रियते । उद्देश्यानाम् आधारेण, क्षेत्राणाम्
आधारेण, मूल्याङ्कनीयविषयस्य प्रकृत्याधारेण, प्रतिक्रियाधारेण, मूल्याङ्कितस्य
विषयस्य पुनर्व्याख्यानाधारेण (Interpretation) च मूल्याकलनमूल्याङ्कनयोः वर्गीकरणं क्रियते । शोधक्षेत्रे विशिष्य मूल्याङ्कनमूल्याकलनयोः
बहूनि उपकरणानि उपयुज्यन्ते । यथा – मौखिकपरीक्षा, प्रायोगिकपरीक्षा,
लिखितपरीक्षा, उपलब्धिपरीक्षणम्, परिसूची, साक्षात्कारः, निर्धारणमापिनी इत्यादीनि । अवलोकनविधिः, अन्तर्दर्शनविधिः,
प्रक्षेपीयविधिः, नैदानिकपरीक्षणविधिः, उपचारात्मकविधिः चेति विधयः
मूल्याङ्कनमूल्याकलनयोः निमित्तं भवन्ति । अत्र उपचारात्मकविधिः यद्यपि
परीक्षार्थं नास्ति तथापि प्रारूपात्मकस्य मूल्याकलनस्य सन्दर्भे (अधिगमार्थं मूल्याकलनम्)
छात्रस्य अधिगमविकासाय अयं विधिः उपचारात्मकरूपेण उपयुज्यते, अन्यत्र च क्वचित् ।
एतदतिरिच्य अभिनवाः केचन मूल्याङ्कनविधयः व्यवहारपथे समागताः सन्ति, यथा –
आत्ममूल्याकलनम्, सहयोगिमूल्याकलनम्, सङ्गणकीयविज्ञानाधारितं मूल्याकलनम्,
अन्तर्जालाधारितं मूल्याकलनम् चेति । एवं सति अस्मिन् विषये विस्तृतरूपेण
विचारप्रस्तुतये अस्मिन् शोधलेखे प्रयासो विधीयते ।
मूल्याकलनम्
मूल्याङ्कनञ्च
Assessment
and Evaluation
उपोद्घातः
“जन्तूनां नरजन्मदुर्लभम्” इति
आदिशङ्कराचार्याः वदन्ति । जन्तुषु नरजन्म श्रेष्ठम् इति अभिप्रायः अत्र गृह्यते
यच्च अनायासेन न प्राप्यते चेति । इत्थं नरजन्मनः श्रेष्ठत्वे सत्यपि सुभाषितकाराः
वदन्ति जन्तुभिः सह मानवस्य क्वचित्
साम्यम् अस्ति, क्वचिच्च वैषम्यमस्ति इति -
आहारनिद्राभयमैथुनञ्च सामान्यमेतत् पशुभिर्नराणाम् ।
धर्मो हि तेषाम् अधिको विशेषः धर्मेण हीनः पशुभिः समानः ॥
अत्र नरजन्मनः श्रेष्ठतायाः
कारणीभूतः अयं धर्मः कीदृशः इति मनुः इत्थं वदति -
धृति: क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रह:।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥
कणादोऽपि ब्रूते – “यतोऽभ्युदयनिश्रेयससिद्धिः स
धर्मः” इति ।
अत्र विद्या कश्चन
धर्मः अस्ति यश्च जन्तुभ्यः मानवं पृथक्करोति । अनया विद्यया एव धर्मः ज्ञायते ।
एनां विद्यामवाप्तुमेव मानवः प्राचीनकाले प्रवर्तते स्म येन च धर्मेण सह
अर्थकाममोक्षाख्याः पुरुषार्थाः अपि साध्यन्ते स्म यैः अभ्युदयनिश्रेयसाख्यं
लौकिकपारलौकिकप्रयोजनं प्राप्यते । किन्तु साम्प्रतिके काले विद्यायाः अवाप्तिः केवलं
अर्थकामयोः निमित्तमेव यद्यपि भवति तथापि विद्यायाः सुखेन अवाप्त्यर्थं,
प्रभावात्मकरूपेण अवाप्त्यर्थं, वेगेन अवाप्त्यर्थं, जीवनोपयोगितया अवाप्त्यर्थं च
शिक्षाक्षेत्रे बहुविधानि चिन्तनानि जायन्ते । तत्फलत्वेन शिक्षाक्षेत्रे नैके
विधयः, प्रविधयः, उपायाः, नैकानि उपकरणानि च आविष्कृतानि । अत्र मूल्याङ्कनमूल्याकलनयोः
सम्प्रत्ययः अपि अन्यतमः अस्ति ।
मूल्याङ्कनमूल्याकलनयोः इदानीन्तनः सम्प्रत्ययः अस्मान् विद्यायाः अवाप्तौ
कथं यशस्विनः करिष्यति इति अत्र लेखे चिन्त्यते ।
मूल्याङ्कनम्
छात्रस्य मापयितुं योग्यायाः उपलब्धेः अङ्कैः मापनमेव मूल्याङ्कनम् इत्युच्यते
। इत्युक्ते लिखितपरीक्षायाः माध्यमेन वा वाक्परीक्षायाः माध्यमेन वा छात्राय
अङ्काः दीयन्ते किल, एषा अङ्कदानप्रक्रिया मूल्याङ्कनम् इत्युच्यते । अन्यैः
शब्दैः इत्थं वक्तुं शक्यते यत् – छात्रः अध्ययनेन यदधिगमं प्राप्तवान् अस्ति तत्
तस्य मूल्यम् अस्ति । तस्य मूल्यस्य परीक्षायाः माध्यमेन अङ्कनम् मूल्याङ्कनम्
इत्युच्यते ।
मूल्याकलनम्
अङ्कैः मापयितुम् अशक्याः बहवो हि
मनोवैज्ञानिकाः गुणाः छात्रस्य भवन्ति । ते गुणाः शिक्षणमाध्यमेन सम्पादिताः
भवन्ति । किन्तु तेषां गुणानाम् अङ्कैः
अङ्कनं कर्तुं न शक्यते । यथा छात्रस्य चरित्रम्, अनुशासनम्, समयपरिपालनम्,
कार्यदक्षता, भ्रातृत्वम्, सहयोगभावना, नायकत्वगुणः इत्यादयः । ईदृशानाम् अङ्कैः
मापयितुम् अशक्यानां
गुणानां मापनं कथं कर्तव्यम् ? तदर्थं शिक्षाविदः मूल्याकलनम् इति तत्वम्
आविष्कृतवन्तः । अङ्कैः मापयितुम् अशक्यानां गुणानां शब्दैरेव विवरीतुं कञ्चन
क्रमं शिक्षाविदः प्रतिपादयन्ति यस्य च नाम भवति मूल्याकलनम् इति । इत्थम् अङ्कैः
मापयितुम् अशक्यानां शब्दैः व्याख्यातुं च शक्यानां छात्रस्य गुणानां मापनं मूल्याकलनम् इत्युच्यते
इति सारतः ज्ञायते ।
प्रकृतमूल्याङ्कनाभ्यासाः Current
Evaluation Practices
साम्प्रतं शिक्षाक्षेत्रे मूल्याङ्कनस्य काश्चन पद्धतयः
व्यवहारपथे सन्ति । तासाम् अस्मिन् लेखे प्रतिपिपादयिषितया त्रिधा विभाजनं
व्यधायि, छात्राणां सन्दर्भे मूल्याङ्कनपद्धतयः, शोधकार्यसन्दर्भे मूल्याङ्कनपद्धतयः,
इतरसन्दर्भे मूल्याङ्कनपद्धतयः चेति । क्रमशः तासां सामान्यपरिचयः दास्यते -
छात्राणां सन्दर्भे
लघुपरीक्षा अथवा
घटकपरीक्षा Unit Test
इयं काचित् मूल्याङ्कनपद्धतिः शिक्षकेण एव कक्ष्यायां
सञ्चाल्यमाना भवति । शिक्षकः स्वयमेव प्रश्नपत्रं निर्माय, स्वयमेव स्वीयकालांशे
एव सञ्चालनं कृत्वा छात्रस्य अध्ययनवेगं
ज्ञातुं प्रयतते । अनेन यद्यपि अध्यापितविषये छात्रवैकल्यं परिह्रियते इति नास्ति
तथापि उत्तरवर्तिपाठस्य पाठनवेलायां विकलच्छात्राणाम् उपरि विशेषावधानं दातुमर्हति
। सामान्यतः मासे एकवारम् इयं परीक्षा सञ्चाल्यते इत्यतः मासिकपरीक्षा चेत्यपि
एतस्य नामान्तरं वर्तते ।
अर्धवार्षिकी परीक्षा Half
Yearly Exam
इयं परीक्षा यथाभिधानं वर्षार्धे सम्पाद्यते ।
वार्षिकपाट्यक्रमव्यवस्थायाम् अर्धं
पाठ्यक्रमं सम्पाद्य परीक्षेयं सञ्चाल्यते । अनेन छात्राणां
वर्षान्तिमपरीक्षायाः भारः न्यूनः भवति ।
वार्षिकपरीक्षा Annual
Examination
इयं परीक्षा पूर्णरूपेण छात्रस्य स्तरज्ञानाय एव सञ्चाल्यमाना
परीक्षा भवति । अस्यां परीक्षायां छात्रः असफलः भवति चेत् तस्य वर्षमेकं
विनष्टमिति चिन्त्यते यत्र प्रोन्नत्यर्थम् अवसरो नास्ति । प्रायः विंशतेः
वर्षेभ्यः पूर्वं प्राथमिक-माध्यमिकस्तरस्य शिक्षायां प्रोन्नतेरभावात् बहवो हि
छात्राः असकृत् अनुत्तीर्णाः सन्तः अध्ययनं स्थगयन्ति स्म अथवा मनोवैज्ञानिकरूपेण
आत्महीनताम् अनुभूय समुचितविकासं न प्राप्नुवन्ति स्म ।
सत्रार्धपरीक्षा Semester
System
इयं काचित् व्यवस्था छात्राणां दीर्घकालिकस्मृतिभारं
न्यूनीकृत्य अधिकविषयबोधनाय कल्पिता व्यवस्था अस्ति । अत्र छात्राः सत्रार्धात्
अनन्तरम् अग्रिमसत्रार्धपरीक्षार्थं पूर्वसत्रार्धस्य विषयं स्मरेयुः इति बन्धनं
नास्ति । एवमेव सत्रार्धद्वयस्य कल्पनेन कार्यदिवसाः वर्धिताः इत्यतः
पाठ्यविषयाणां तदितरक्रियाकलापानां च वृद्धिः जाता ।
सांस्थिकपरीक्षा Board
Exam
इयं
परीक्षा परीक्षायाः मूल्याङ्कनं वस्तुनिष्ठं कृत्वा छात्रस्य वास्तविकस्य स्तरस्य
अभिज्ञानाय कल्पिता व्यवस्था । कस्यापि पाठ्यक्रमस्य अन्ते सञ्चाल्यमाना इयं
परीक्षा सञ्चाल्यते इत्यतः छात्राय तत्तत्पाठ्यक्रमसम्बद्धः उपाधिः अत्र प्रदीयते
।
प्रवेशपरीक्षा Entrance
Test
कस्यापि विशिष्टस्य पाठ्यक्रमस्य निमित्तं छात्राः विशिष्टयोग्यतावन्तः एव
अपेक्ष्यन्ते । एतादृशसन्दर्भे विशिष्टच्छात्राणां चयनाय प्रवेशपरीक्षा सञ्चाल्यते
। अस्यां प्रवेशपरीक्षायां तस्य विशिष्टस्य पाट्यक्रमस्य अध्ययनाय वस्तुतः यः
अधिकारी भवति तस्य एव चयनं अस्याः परीक्षायाः उद्देश्यम् अस्ति । एतदतिरिच्य एकमेव
पाठ्यक्रमम् अध्येतुं निश्चितस्थानापेक्षया अधिकसंख्याकाः छात्राः कामयन्ते चेत्
तेषां निश्चितस्थानानां पूर्त्यर्थं प्रवेशपरीक्षा सञ्चाल्यते । यथा वैद्यकस्य
पठनाय, अभियान्त्रिक्याः पठनाय, अन्येषां केषाञ्चित् व्यावसायिकपाट्यक्रमाणाम्
पठनाय अध्ययनोत्सुकानां छात्राणां चयनाय क्रियमाणा परीक्षा ।
शोधसन्दर्भे –
उपलब्धिपरीक्षणम् Achievement Test
उपलब्धिः कस्यापि जनस्य, जनानां समूहस्य वा
कस्मिन्नपि क्षेत्रे भवितुम् अर्हति । मनोवैज्ञानिकशोधेषु व्यक्तित्वस्य
परीक्षणवेलायाम् उपलब्धेः परीक्षणम् एकं प्रमुखं कार्यं भवति । उपलब्ध्या एव
व्यक्तित्वस्य मूल्याङ्कनं कर्तुं शक्यते । तत्र गुणात्मकतया मात्रात्मकतया च
उपलब्धेः परीक्षणं सम्भवति । छात्रस्य विविधेषु विषयेषु जायमानः अधिगमः एव
शिक्षाक्षेत्रे उपलब्धिः इति उच्यते । छात्रस्य व्यावहारिकं परिवर्तनं अधिगमस्य
लक्ष्यं भवति । एतादृश्याः उपलब्धेः परीक्षणार्थम् उपकरणं कथं निर्मीयते इति
अधस्तात् न्यरूपि -
निर्माणम् (Construction)
·
उद्देश्यानां
निर्धारणम्
·
समग्रपाठ्यक्रमस्य
संस्पर्शः(समग्रपाठ्यक्रमात् प्रश्नानां स्वीकरणम्)
·
प्रश्नप्रकाराणां
पूर्वनिश्चयः –निबन्धात्मक-लघूत्तरीय-अतिलघूत्तरीय-वस्तुनिष्ठप्रश्नाः
·
परीक्षायाः अवधिः
·
Blue Print निर्माणम् (Essay type, Short Answer, Objective type questions in all levels of - Knowledge,
Understanding and Application)
·
परीक्षणम् (Try out),
·
प्रश्नविश्लेषणम्(Item Analysis)
·
परीक्षायाः
प्रमापीकरणम् (Standardization of a Test)
·
प्रतिदर्शचयनम् (Sample Selection)
·
प्रतिदर्शानाम् उपरि
परीक्षायाः उपकरणस्य प्रयोगः Administration of the test on the sample
·
प्रतिक्रियायाः
अङ्कनम् सरणीकरणम् च Scoring and tabulation of the responses
व्यक्तित्वपरीक्षणम्
व्यक्तित्वं नाम व्यक्तेः बाह्याभ्यन्तरगुणानाम् अथवा
मनोशारीरिकगुणानां सङ्घातः अस्ति । व्यक्तित्वपरीक्षणं कस्यचित् जनस्य अथवा
संस्थायाः कर्तुं शक्यते । शोधकार्ये शोधसमस्यानुगुणं व्यक्तित्वपरीक्षणाय
उपकरणानां चयनं क्रियते । सामान्यतः अवलोकनविधिः, प्रश्नावली, साक्षात्कारः,
परिसूची, निर्धारणमापनी इत्येतादृशानि उपकरणानि उपयुज्यन्ते ।
नैदानिकपरीक्षणम्
निदानं नाम हेतुः । कस्यचित् जनस्य संस्थायाः वा समस्यायाः
मूलं किमिति ज्ञातुं नैदानिकपरीक्षणम् क्रियते । वैद्यके मनोवैज्ञानिकक्षेत्रे च
प्राचुर्येण इयं परीक्षा क्रियते । समस्यायाः मूलस्य परीक्षणेन परिहारोपायाः
चिन्तयितुम् शक्याः भवन्ति इत्यतः इयं परीक्षा क्रियते । एवमेव शिक्षाक्षेत्रे अपि
नैदानिकं परीक्षणं क्रियते । सर्वे छात्राः समानाः न भवन्ति । केचन बुद्धिमन्तः
तीव्रबुद्धयः । केचन सामान्याः । केचन परिश्रमेण आसादिततैक्ष्ण्याः । केचन
निरर्थकयत्नाः । केचन मन्दाः । केचन अलसाः । केचन विफलकार्याः । केचन
अव्यवस्थितकार्याः । केचन नष्टरुचयः विमनस्काः । एवं सति येषाम् अध्ययने
सहजसामान्यप्रवृत्तिः विकासश्च न जायते, तेषां तादृश्याः असहज-असामान्यप्रवृत्तेः
अनैसर्गिकविकासस्य च कारणम् अन्वेष्टव्यं भवति । एतादृशाय कारणान्वेषणाय क्रियमाणम्
अध्ययनमेव नैदानिकं परीक्षणम् इत्युच्यते । अनेन उपचारात्मकाः उपक्रमाः आरब्धुं
शक्याः भवन्ति ।
शिक्षाक्षेत्रात् इतरत्र (सन्दर्भे)
उद्योगार्थम् अभ्यर्थिनां चयनाय परीक्षा
उद्योगः यया
संस्थया दीयते सा संस्था उद्योगार्थिनां चयनाय परीक्षां चालयति । संस्थया
अपेक्षितानां कौशलान्वितानां चयनं परीक्षाम् अकृत्वा न क्रियते । इयं परीक्षा
साक्षात्कारमाध्यमेन वा भवतु, लिखितपरीक्षामाध्यमेन वा भवतु,
प्रायोगिकपरीक्षामाध्यमेन वा भवतु अथवा सम्मिश्रणात्मिका वा भवतु, चाल्यते इति तु
निश्चयः ।
पुरस्कारदानाय परीक्षा
शिक्षाक्षेत्रे समाजे वा
तत्तद्व्यक्तिविशेषाय पुरस्कारः दीयते इत्युक्ते तदर्थं परीक्षा क्रियते, अथवा
पुरस्कारार्हतायाः कश्चन मानदण्डः निश्चीयते, यस्य मानदण्डस्य आधारेण पुरस्कारः दातव्यः भवति इत्यर्थः । स च
मानदण्डः योग्यतायाः मापनस्य निकषो वर्तते । कक्ष्याशिक्षणे अपि
पुरस्कारदण्डव्यवस्था भवति । पुरस्कारेण छात्राः अभिप्रेरिताः भवन्ति इत्यतः
छात्रेषु सद्व्यवहारस्य विकसनाय सा व्यवस्था अनिस्रियते । दण्डेन दुर्व्यवहाराः नियन्त्रिताः भवन्ति
इत्यतः दण्डव्यवस्था अपि अनुस्रियते । शारीरिकदण्डविषये शिक्षाक्षेत्रे सम्प्रति
विमतयः सन्ति । अन्यविधाः “दशवारं लिखतु” इत्यादिरूपेण दीयमानाः दण्डाः
अनुवर्तमानाः सन्ति ।
परिहारदानाय परीक्षा
क्वचित् प्राकृतिकानाम् आपदां
कारणतः यत्र जनाः पीडिताः भवन्ति तत्र तदीयायाः विनष्टायाः सम्पदः परिहाराय नाशस्य
मात्रा परीक्ष्यते । इत्थं मात्रायाः परीक्षणेन परिहारः कीदृशः देयः इति निश्चेतुं
शक्यते । इत्थं परिहारदानाय क्रियमाणा परीक्षा अपि मूल्याङ्कनस्य कश्चन प्रकारः
अस्ति ।
मूल्याङ्कने अभिनवप्रवृत्तयः
आधुनिके शैक्षिकप्रपञ्चे अभिनवचिन्तनानि, तत्फलत्वेन
अभिनवसिद्धान्ताः, तत्परिणामत्वेन अभिनवोपक्रमाश्च प्राचुर्येण आरभ्यमाणाः सन्ति ।
तत्र संरचनावादोऽपि अन्यतमः सिद्धान्तः । मूल्याङ्कनमूल्याकलनयोः परिप्रेक्ष्ये
शोधलेखेऽस्मिन् संरचनावादिचिन्तनस्य प्रतिफलनानि साक्षात्करिष्यामः ।
संरचनावादः (Constructivism)
अधिगमः कथं जायते ? व्याख्यानेन अधिगमः जायते ? उत उपायान्तरेण ?
अनादिकालतः शिक्षकाः व्याख्यानं कुर्वाणाः सन्ति । छात्राः शृण्वन्ति । तत्र
छात्राः निष्क्रियाः श्रोतारः इव भवन्ति इति अनुभवामः । शिक्षकाः छात्रेषु
अविद्यमानस्य ज्ञानस्य प्रदातारः इव श्रावयन्ति । छात्राः रिक्तपात्राणि इव
अध्यापकोक्तं विषयं स्वमस्तिष्के सञ्चिनुयुः इति शिक्षकाः अपेक्षन्ते, इत्येव किल
प्रायः अस्माभिः शैक्षिकसंस्थासु सदा अवलोक्यते । किन्तु संरचनावादिनः कथयन्ति यत्
छात्राः स्वीयं ज्ञानं स्वयमेव आरचयन्ति इति । अधिगमः निष्क्रियप्रक्रिया न भवेत्
। अधिगमः सक्रियप्रक्रिया भवति चेदेव साफल्यं प्राप्यते चेति एतेषाम् अभिप्रायः ।
व्याख्यानवेलायम् आधिक्येन छात्राः निष्क्रियश्रोतारः एव भवन्ति । तेषु
सक्रियत्वम् आनेतुं यतनीयम् । छात्राः सक्रियाः भवेयुः । सक्रियाः सन्तः यथा ते
नूतनं विषयं जानीयुः तथा कर्तव्यम् । संसूचनाः (ज्ञातव्याः अंशाः) निष्क्रियतया
प्राप्येरन् । किन्तु अवगतिः निष्क्रियस्य कदापि न भवति । अतः पूर्वज्ञानाधारेण
अधिगमप्रक्रिया नवीनज्ञानस्य संरचनायै प्रवर्तेत येन अवगतिः जायते ।
संज्ञानात्मकसंरचनावादः
छात्राः तेषां पूर्वज्ञानानुगुणं नूतनज्ञानस्य संरचनां
कुर्वन्ति । पूर्वमेव विद्यमानानां तदीयानां संज्ञानात्मकसंरचनानाम् आधारेण
सक्रियतया यत् संरचयन्ति तदेव ज्ञानम् इति संज्ञानात्मकसंरचनावादः कथयति । अतः
अधिगमः छात्रस्य संज्ञानात्मकविकासस्य स्तरमाश्रित्य प्रवर्तते । (Cognitive
constructivism states knowledge is something that is actively constructed by
learners based on their existing cognitive structures. Therefore learning is
relative to their stage of cognitive development. Learners construct new
knowledge on the foundations of their existing knowledge.)
सामाजिकसंरचनावादः
सामाजिकसंरचनावादः ज्ञानस्य समाजशास्त्रीयसिद्धान्तः अस्ति
। एतदाधारेण मानवस्य विकासः समाजाधारितः
अस्ति,
ज्ञानं च अन्यैः सह (समाजस्य सदस्यैः सह) क्रियमाणया
अन्तःक्रियया संरचिता भवति इति एतस्य वादस्य अभिप्रायः । (Social Constructivism is a
sociological theory of knowledge
according to which human development is socially situated and knowledge is
constructed through interaction with others.)
संरचनावादानुगुणं मूल्याकलनम्
मूल्याकलनाय संरचनावादी मार्गः तु यौगिकः नास्ति,
प्रत्युत प्रारूपात्मकः अस्ति । प्रारूपात्मकमूल्याकलनस्य
उद्देश्यं छात्राधिगमस्य गुणवर्धनम्,
न तु छात्रस्य स्तरज्ञापनाय प्रामाण्यस्य प्रदर्शनम् । मूल्याकलनं सन्दर्भानुसारि भवति । अतः एकस्यां
कक्ष्यायाम् उपयुक्ता मूल्याकलनपद्धतिः अपरस्यां कक्ष्यायां सफला भवति इति वक्तुं
न शक्यते ।
संरचनावादानुगुणं मूल्याङ्कनम्
ज्ञानस्य निर्माणे प्रत्येकं
अध्येता यं मार्गं/प्रक्रियाम् अनुसरति
तस्यामेव प्रक्रियायाम् तस्य मूल्याङ्कनं भवति । यतो हि प्रत्येकं छात्रस्य
सामर्थ्यं वैकल्यं, पूर्वज्ञानम्, अनुभवश्च विशिष्ट/अनन्यसम एव भवति इति सुविदितम् ।
अतः मूल्याकलनस्य कश्चन निश्चितः क्रमः अत्र भवितुम्
नार्हति । यथा केदारनाथम् उदग्रयाने सन्दृष्टवन्तम् उद्दिश्य केदारनाथदर्शनाय
पादयात्रायां कीदृशानुभूतिः प्राप्यते इति
प्रश्नकरणम् अनुचितं यथा भवति तथेति मन्तव्यम् ।
अधिगमः
संरचनावादानुगुणं
छात्राणाम् उपरि आग्रहः भवति यत् ते स्वीयायामेव
अधिगमपद्धत्यां/प्रक्रियायाम् सक्रियतया
प्रवर्तन्ताम् इति । (एषः विषयः अध्यापकस्य कृते महत्वम् अदत्वा छात्रस्य उपरि
महत्वं प्रयच्छति) । पाठ्यक्रमः लघ्वंशैः आरभ्यते । प्राथमिककौशलानाम् प्राधान्यम्
अत्र दीयते ।
संरचनावादानुगुणम्
मूल्याकलनम् द्विविधम् अस्ति । एकं अधिगमाय मूल्याकलनम्
इति, अपरञ्च अधिगमस्य मूल्याकलनम् ।
अधिगमस्य मूल्याकलनम्
अधिगमस्य मूल्याकलनम् अधिगमात्परं भवति । एतस्य उद्देश्यं
केवलं स्तरज्ञानम् । अनेन अधिगमे परिवर्तनं न भवति । एतत् कादाचित्कतया भवति ।
अधिगमस्य विकासः एतस्य मूल्याकलनस्य लक्ष्यं नास्ति । अधिगमः कियत्या मात्रया जातः
इति परिणामस्य ज्ञानार्थमेव इदं कार्यं क्रियते ।
अधिगमस्य मूल्याकलनम् यौगिकम्
भवति । (Assessment of Learning =
Summative ) इत्युक्ते अस्मिन् मूल्याकलने अङ्कानां योगः क्रियते । अत्र प्रतिप्रश्नं अङ्काः भवन्ति येषां योगः क्रियते, प्रतिपत्रं
अङ्काः भवन्ति येषां च योगः क्रियते । आहत्य अङ्कानां योगं कृत्वा छात्रस्य स्तरः
निर्धार्यते । एवं योगः अत्र क्रियते इत्यतः यौगिकं मूल्याकलनं इति इदं मूल्याकलनं
कथ्यते ।
अधिगमार्थं मूल्याकलनम्
अधिगमार्थं मूल्याकलनम् अधिगमसमये एव भवति । एतस्य
उद्देश्यं छात्रस्य/छात्राधिगमस्य स्तरवर्धनम् अस्ति । एतत् निरन्तरं जायेत येन
अधिगमः प्रभावी भवति । अनेन अधिगमे परिवर्तनमायाति । ईदृशमूल्याकलनेन
छात्रः स्वयमेव स्वीयं स्तरं जानानः तस्मिन् स्तरे विकासं सम्पादयितुं शक्नोति,
तदर्थं प्रेरणां च प्राप्नोति ।
अधिगमार्थं मूल्याकलनम् =
प्रारूपात्मकम् (Assessment
for Learning = Formative) भवति । अत्र अधिगमस्य formation भवति । इत्युक्ते ईदृशेन
मूल्याकलनेन छात्रस्य अधिगमस्य निर्माणं भवति ।
प्रारूपात्मकं
मूल्याङ्कनम्
प्रारूपात्मके मूल्याकलने अथवा अधिगमार्थम् क्रियमाणे मूल्याकलने नैरन्तर्येण कृतकर्तव्ययोः
व्यवस्था भवति । इयं मूल्याङ्कनपद्धतिः छात्राणां विकासस्य, तदीयाध्ययनक्रमस्य च
नियमितपरीक्षणं कर्तुम् अध्यापकाय अवसरं कल्पयति, छात्राय च आत्ममूल्याङ्कनं
कर्तुम् अवसरं कल्पयति । (Formative
assessment or assessment for learning involves a continuous way of checks
and balances in the teaching learning processes. The method allows teachers to
frequently check their learners' progress and the effectiveness of their own
practice, thus allowing for self assessment of the student.)
यौगिकं मूल्याङ्कनम्
यौगिकमूल्याकलनस्य उद्देश्यं तु पाठ्यक्रमस्य समाप्त्यनन्तरं छात्राधिगमस्य
मूल्याङ्कनम् इति । एतच्च निर्दिष्टसीम्ना सह तुलनया क्रियते । पाठ्यक्रमस्य अन्ते
इत्युक्ते समग्रपाठ्यक्रमस्य अन्ते इति न
मन्तव्यम् प्रत्युत निर्दिष्टघटकस्य अध्यायस्य वा समाप्तेः अनन्तरमिव
समग्रपाट्यक्रमस्य सञ्चालनस्य मध्ये मध्ये नैकवारं कर्तुं शक्यते । (The goal
of summative assessment is to evaluate student learning at the end of an
instructional unit by comparing it against a standard or benchmark. Note, 'the
end' does not necessarily mean the end of an entire course or module of study.
Summative assessments may be distributed throughout a course, after a
particular unit (or collection of topics) has been taught.)
छात्रैः आदीयमानानि प्रतिशतता, श्रेयोङ्कः,
उत्तीर्णता/अनुत्तीर्णता इत्यादीनि तत्वानि यौगिकमूल्याकलने अन्तर्भवन्ति । यथा
षण्मासेभ्यः परं सञ्चाल्यमानपरीक्षा, सत्रार्धपरीक्षा, घटकपरीक्षा इत्यादि । (Summative
assessment usually involves students receiving a grade that indicates their
level of performance, be it a percentage, pass/fail, or some other form of
scale grade. For example-test after 6 months in schools, Semester exams in B.
Ed after each 6 months.)
अधिगमार्थं
मूल्याकलनम् अधिगमस्य मूल्याकलनम् इत्यनयोः
भेदः
Difference
between Assessment of Learning and Assessment for Learning
|
अधिगमार्थं मूल्याकलनम् |
अधिगमस्य मूल्याकलनम् |
|
प्रतिकालांशं प्रतिक्षणं भवितुमर्हति । अस्य उद्देस्यं प्रभावी सफलः अधिगमः । कक्ष्याशिक्षणे शिक्षक एव कार्यमिदं सम्पादयति । अनेन अधिगमे परिवर्तनमायाति । अनेन शिक्षणस्य/अध्यापनस्य लक्ष्यं साधयितुं शक्यते । |
सत्रान्ते, पाठान्ते, मासान्ते, सत्रार्धे वा भवति । अस्य उद्देश्यं छात्रस्य स्तरस्य अभिज्ञानम् । शिक्षकातिरिक्तोऽपि सम्पादयितुमर्हति । अनेन अधिगमे परिवर्तनम् नायाति । अनेन शिक्षणस्य/अध्यापनस्य लक्ष्यं साधयितुं न शक्यते । |
सततविस्तृतमूल्याङ्कनम् (Continuous
Comprehensive Evaluation)
सततविस्तृतमूल्याङ्कनम्
मूल्याकलनस्य कश्चन प्रकारः अस्ति । अत्र द्विविधमूल्याङ्कनयोः सङ्घातः अस्ति,
सततमूल्याङ्कनम् विस्तृतमूल्याङ्कनम् चेति । निरन्तरं क्रियमाणं मूल्याङ्कनं
सततमूल्याङ्कनमिति अभिधीयते । विस्तृतरूपेण इत्युक्ते अधिगमस्य सर्वेषाम् आयामानां
मूल्याकलनं विस्तृतमूल्याकलनम् इत्युच्यते ।
सततमूल्याङ्कनं किमर्थम्
कर्तव्यम् ? (Continuity of Evaluation,
why ? )
शिक्षणाधिगमप्रक्रियायाः परिणामं ज्ञातुं वयं मूल्याङ्कनं
कुर्मः । सः परिणामः छात्राणां व्यवहारे समागतं सुनियोजितं परिवर्तनम् अस्ति ।
एतत् व्यावहारिकं परिवर्तनं(Behavioral Change) नैरन्तर्येण जायते । अतः तस्य मूल्याङ्कनमपि निरन्तरं
कर्तव्यम् ।
विस्तृतमूल्याकलनं किमर्थं कर्तव्यम् (Comprehensive Evaluation,
why ? )
छात्रस्य सर्वाङ्गिकविकासाय क्रियमाणं मूल्याङ्कनमेव Comprehensive
Evaluation इत्युच्यते ।
शिक्षया छात्रस्य बहुमुखीविकासः भवेत् । ईदृशस्य विकासस्य अभिज्ञानाय
मूल्याङ्कनमपि तदनुकूलमेव कर्तव्यम् ।
मूल्याकलनोपकरणानि
( Assessment Tools)
मात्रात्मकमूल्याकलनाय Quantitative Assessment
मौखिकी परीक्षा
प्रायोगिकपरीक्षा
लेखनपरीक्षा
गुणात्मकमूल्याकलनाय
Qualitative Assessment
अन्तर्दर्शनविधिः
आभ्यन्तरभावानाम् अवलोकनं कृत्वा
प्रयोज्येनैव आख्यातुम् अन्तर्दर्शनविधिः उपयुज्यते । अत्र प्रयोज्यः स्वस्य विवक्षितांशान्
एव केवलम् उक्त्वा, प्रयोगापेक्षितान् कांश्चन अंशान् गोपायितुम् अर्हति इत्यतः
एतस्य विधेः विश्वसनीयता न्यूना अस्ति ।
अवलोकनविधिः
अयं विधिः प्रयोगकर्त्रा प्रयोज्यानां
व्यवहारस्य अवलोकनं कृत्वा मापनं कर्तुम् उपयुज्यते । अवलोकनं वस्तुनिष्ठं कर्तुं
सुव्यवस्थितं च कर्तुं अवलोकनपत्रकं, परिसूची इत्यादीनाम् उपकरणानां उपयोगं
प्रयोगकर्ता करोति ।
प्रक्षेपीयविधयः – मनुष्यः सामान्यतः
स्वीयान् गोप्यान् अपि भावान् कस्यापि उद्दीपनस्य उपस्थितौ सहजतया व्यक्तीकरोति ।
एतत् प्रक्षेपणम् इत्युच्यते । मनुष्यः स्वीयाम् इच्छाम् अनिच्छां, विचारं, दृष्टिकोणं, आवश्यकतां वा असंरचितस्य
उद्दीपनस्य उपस्थितौ प्रतिक्रियारूपेण व्यक्तीकरोति इति एतस्य प्रतिपादकाः
अभिप्रयन्ति । एतदर्थं केचन विधयः मनोविज्ञानिभिः आविष्कृताः, यथा - रोशामशीचिह्नपरीक्षणम्, प्रासङ्गिकान्तर्बोधपरीक्षणम्,
बालान्तर्बोधपरीक्षणम् इत्यादयः ।
साक्षात्कारः
साक्षात्कारः किञ्चन विशिष्टम् उपकरणम् अस्ति यस्य माध्यमेन
कस्यापि प्रयोज्यस्य मौखिकीम् अभिव्यक्तिम् आश्रित्य परीक्षणं कर्तुं शक्यते ।
अद्यत्वेऽपि अत्यन्तं प्राचुर्येण विभिन्नक्षेत्रे उद्योगाकाङ्क्षिणां चयनाय इदम्
उपकरणम् उपयुज्यते । शोधक्षेत्रे तु अस्य उपकरणस्य विश्वसनीयता अधिका इति
परिगृह्यते । अस्य नैके प्रकाराः सन्ति, यथा-
वैयक्तिकसाक्षात्कारः,
सामूहिकसाक्षात्कारः
संरचितसाक्षात्कारः,
असंरचितसाक्षात्कारः
प्रमापीकृतसाक्षात्कारः,
अप्रमापीकृतसाक्षात्कारः चेति ।
निर्धारणमापनी
कोऽपि जनः तस्य
सम्बन्धिनाम् मित्राणां सहोद्योगिनाम् अन्येषां वा मध्ये स्वीयव्यवहारेण कीदृशं
प्रभावं कियद्वा जनयति इत्यस्य परीक्षणं निर्धारणमापन्या क्रियते । एतत्तु स्वस्य
कस्यापि गुणस्य विषये प्रयोज्यस्य मात्रात्मककल्पनायाः अध्ययनार्थमपि उपयुज्यते ।
आङ्किकनिर्धारणमापन्याः प्रारूपम्
आङ्किकनिर्धारणमापन्यां प्रयोज्यस्य
व्यक्तित्वादिसम्बद्धानां गुणानां मात्रायाः अध्ययनाय सम्बद्धानां कथनानां पुरतः
केचन अङ्काः प्रदत्ताः भवन्ति । तेषु कश्चन अङ्कः चिह्नीकर्तव्यः येन तस्य गुणस्य
मात्रा निर्धारिता भवति । यथा -
|
क्र.सं |
कथनानि |
अङ्काः |
||||
|
१ |
मम असाफल्येन अहं निराशः भवामि । |
५ |
४ |
३ |
२ |
१ |
|
२ |
अहं विपदि धैर्येण कार्यं करोमि । |
५ |
४ |
३ |
२ |
१ |
|
३ |
अहम् अन्येषां मार्गदर्शनेन कार्यं करोमि । |
५ |
४ |
३ |
२ |
१ |
क्रमिकनिर्धारणमापन्याः प्रारूपम्
अत्र मनुष्यस्य/प्रयोज्यस्य गुणानां आवलिः
भवति । वरीयताक्रमेण कः गुणः प्रयोज्ये प्रबलः अस्ति इति चिह्नीकरणं क्रियते ।
क्रमशः एकः गुणः अन्यगुणापेक्षया प्रबलः भवति इति अत्र आवल्यां ज्ञायते । अस्य
गुणानां बलाबलस्य क्रमम् आश्रित्य प्रयोज्यस्य व्यक्तित्वस्य व्याख्यानं कर्तुं
शक्यते ।
|
गुणः |
वरीयताक्रमः |
गुणः |
वरीयताक्रमः |
गुणः |
वरीयताक्रमः |
|
साहसम् |
|
समयपालनम् |
|
कर्तव्यपरायणता |
|
|
बुद्धिमत्ता |
|
सहयोगः |
|
परोपकारः |
|
|
विनम्रता |
|
न्यायप्रियता |
|
सौजन्यम् |
|
|
नैतिकता |
|
अर्जवम् |
|
|
|
ग्राफिक्-निर्धारणामापन्याः प्रारूपम्
अस्यां निर्धारणमापन्याम्
आङ्किनिर्धारणमन्याम् इव गुणानां मापनं तु क्रियते । किन्तु इदं मापनं अङ्कैः
अकृत्वा ग्राफ़्-द्वारा क्रियते इति भेदः । द्वयोः परस्परं विरुद्धगुणयोः मध्ये
प्रयोज्यस्य स्थानं केनापि चिह्नेन सूच्यते ।
साहसी .
. . . . . . . . . . . भीरुः
आधुनिकः . . . . . . . . . . . . पारम्परिकः
सामाजिकः . . . . . . . . . . . . सङ्कोचस्वभाववान्
सज्जनः . . . . . . . . . . . . दुर्जनः
प्रश्नावली
प्रश्नावली प्रयोज्यस्य विशिष्टगुणानां
परीक्षार्थं उपयुज्यते । अत्र निर्धारणमापन्यां प्रायः प्रयोगकर्ता प्रयोज्यस्य
गुणानां अङ्कनं करोति । प्रश्नावल्याम् प्रयोज्यः एव स्वीयगुणानां विषये
प्रश्नानुगुणम् उत्तरम् आख्याति/लिखति ।
प्रश्नावल्याः स्वरूपदृष्ट्या प्रश्नानां प्रकाराः इत्थं वर्तन्ते -
निर्बन्धितविकल्पात्मकप्रश्नाः (Forced Choice questions)
बहुविकल्पात्मकप्रश्नाःMultiple choice questions
उन्मुक्तोत्तरप्रश्नाःOpen Ended Questions, इत्यादयः ।
परिसूची (Check List}
परिसूच्यां
प्रयोज्यस्य विद्यमानानाम् अविद्यमानां च गुणानाम् आवलिः भवति । तत्र के गुणाः
प्रयोज्ये सन्ति, कति गुणाश्च सन्ति इति परीक्षितुं शक्यते । यथा -
आर्जवम् Honesty √
समयपरिपालनम् Punctuality √
सत्यभाषणम् Truthfulness √
कार्यबद्धता Duty boundness √
आत्मविश्वासः Self Confidence X
आत्ममूल्याकलनम् सहयोगिमूल्याकलनञ्च (Self-assessment and Peer-assessment.)
मूल्याकलनम् इत्युक्ते वस्तुतः
संरचनात्मकं मूल्याकलनं इति अभिप्रायः । संरचनात्मकं मूल्याकलनं छात्रस्य
अधिगमविकासाय/व्यक्तित्वस्य विकासाय भवति न तु वार्षिकपरीक्षामाध्यमेन अङ्कानां प्रदानाय ।
अतः एतादृशं मूल्याकलनं स्वयं छात्रः यदा करॊति तदा स्वविकासाय एव सः पदे पदे इदं
कार्यं स्वॆच्छया अनौपचारिकरूपॆण करोति ।
सामान्यतः आत्ममूल्याकलनम् अनौपचारिकरूपॆण एव भवति । किन्तु सहाध्यायीमूल्याकलनं
शिक्षकः कारयति इत्यतः औपचारिकं इति वक्तव्यम् । शिक्षकः प्रश्नान् सामूहिकरूपॆण
प्रदाय मूल्याकलं छ्त्राणां मध्ये
पारस्परिकरूपॆण कारयति । एतत् मूल्याकलनं अध्यापकॆन कार्यते न तु छात्राः स्वयं
कुर्वन्ति इत्यतः औपचारिकं मूल्याकलनम् इति उच्यते ।
उपसंहारः
मूल्याङ्कनं मूल्याकलनञ्च
शैक्षिकक्रियाकलापत्वेन स्वीक्रियमाणं नानाविधैः आयामैः शैक्षिकलक्ष्यानि साधयति ।
विभिन्नैः स्वरूपैः छात्रस्य विकासाय कारणीभूतं भवति । छात्रस्य स्तरं परिचाययति ।
एवमेव शिक्षाक्षेत्राद् बहिरपि अस्य उपकरणानि नानाविधानि प्रयोजनानि उत्पादयति इति
अत्र सविस्तरम् उपन्यस्तम् । मूल्याङ्कनमूल्याकलनयोः विषये साम्प्रतिकसङ्कल्पनाम्
आश्रित्य सारल्येन च किञ्चित् प्रत्यपादि । वस्तुतः किमपि व्यावहारिकं चिन्तनं ,
सिद्धान्तः वा परिनिष्ठितः सार्वकालिकः सार्वभौमिकश्च भवितुम् नार्हति । एवमेव मूल्याङ्कनमूल्याकलनयोः
इदानीन्तनः सम्प्रत्ययः अपि परिवर्तयिष्यते । ईदृशं कालानुसारि परिवर्तनं वस्तुतः शोभायै
एव भवति । तदर्थं निरन्तरं प्रवर्तनीयम् । तदैव स्वादु फलं प्राप्यते ।
चरन् वै मधु विन्दते चरन् स्वादूदुम्बरम् ।
सूर्यस्य अश्य श्रेमाणं यो न तन्द्रयते चरंश्चरैवेति ॥(ऐतरेयब्राह्मणम्)
अस्मिन् मूल्याङ्कनमूल्याकलनक्षेत्रे नवीनचिन्तनस्य नवीनोपक्रमस्य च
विफुलावसराः सन्ति एव । अतः अन्तेऽहं - शिक्षाविदः शोधकर्तारश्च अस्मिन् विषये
यावच्छक्यं अधिकप्रयोजनवत् हितकारिणं, विभुं, सरलं कार्यक्षमं सरलम् अभिनवम्
मूल्याङ्कनविधिम् आविष्क्रियासुरिति आशासानः उपसञ्जिहीर्षामि ।
सन्दर्भाः
1. Assessent
of Learning, S.K.Mangal, Shubhra Mangal, PHI Learning Private Ltd
2. Bloom's Taxonomy Levels of
Learning: The Complete Post (kodosurvey.com)
3.
Dimensions Of Deep Learning:
Levels Of Engagement And Learning - ASCD
4. (PDF) Dimensions of Learning
| raing use - Academia.edu
5. Modern
Psychological Testing and Measurement, Mahesh Bhargava
6. Research
in Education, J.W. Best
7. Thematic
Apperception Test, H.A. Murray