पञ्चमाध्यायः
सामाजिकरूपेण उत्तरदायित्वहीनं काव्यम् ’रामायणम्’ अस्ति इति चित्रितम्
वैदिककालिक-सामाजिकदमनस्य
प्रचाराय विद्यमाना योजना एव रामायणस्य रचना इति पोलाकस्य दृष्टिकोणः अस्ति ।
शेल्डन पोलॉक् १९८४ तमे इसवीये संवत्सरे वाल्मीकिरामायणस्य
विषये एकम् महत्त्वपूर्णं कार्यं कृतवान् यन्माध्यमेन संस्कृतग्रन्थानाम्
अध्ययनविषये तदीयविचाराणाम् सौष्ठवं निरूपितं स्यात् । रामायणम् ऐतिहासिकघटनाः
आश्रित्य लिखितमिति सः न मन्यते, प्रत्युत रामायणम् काल्पनिकम् इति । बौद्धानां
जातककथाभ्यः पूर्णतः प्रेरिता कथा अस्ति रामाख्यस्य जनस्य । एतादृशाय कल्पनाय
पोलाकेन प्रदर्शितः एकः तर्कः कः इत्युक्ते – जातककथासु उपयुक्तानां छन्दसाम्
अनुकरणं वाल्मीकिः रामायणलेखनवेलायां कृतवान् इति ।
तथापि रामायणम् प्राचीनस्य ’बार्डरिक’ इत्याख्यस्य सम्प्रादायस्य वीरगीतानां पराकाष्ठायाः प्रदर्शकं स्यात् । अपि च अयं स्मरणीयः
कविः वाल्मीकिः लोकसाहित्यस्य कानिचन लक्षणानि अवश्यम् उपयुक्तवान् स्यात् । यथा
बौद्धानां जातककथासु तत्पद्यं भारतीय-साहित्येतिहासस्य प्रथमाध्यायत्वेन लीलया
परिगृहीतम्, न तु प्राचीनस्य अन्तिमाध्यायत्वेन ।
रामायणम् वास्तविकानां घटनानां
प्रतिबिम्बरूपम् अस्ति इति अस्माभिः मन्यमानं साम्प्रदायिकं दृष्टिकोणम् अत्र शेल्डन
पोलॉक् उपेक्षमाणो वर्तते । अत्र ऐतिहासिकानां प्रामाण्यानां विषये सः चर्चां न
करोति । सः रामायणविषये एवं वदति यत् – लोकसाहित्यस्य लक्षणानि आश्रित्य
प्राचीनस्य ’बार्डिक’सम्प्रदायस्य पद्यानि इव चतुरः वाल्मीकिः रामायणाख्यां
वीरगाथां निबद्धवान् । शेल्डन पोलॉक् बलात् ऐरोप्यानां बार्ड इत्यभिधानां कवीनाम्
आदर्शं वाल्मीकौ आरोपयति । प्राचीनायां क्रैस्तपूर्वायाम् आङ्लसंस्कृतौ, बार्ड इत्युक्ते राजाश्रये विद्यमानः कविः, अथवा
प्रवासी गायकः यश्च केनापि धनिकेन राज्ञा वा नियुक्तः तदीयपूर्वजानां
स्मृतिगीतगायनाय इत्यर्थः । पश्चात् एषः बार्डिक-सम्प्रदायः लुप्तः अभवत् । किन्तु
तत् पदं तु महाकाव्यस्य लेखक/गायक/निरूपक इत्यर्थं प्राप्नोत् । ते लेखकाः गायकाः
वा पुराणानि/कथाः रचयन्ति इत्यतः तानि पुराणानि इतिहासस्य विश्वसितुम् अयोग्यम्
मूलम् इति मन्यन्ते ।
पोलाकस्य अनुसारम्, वैदिकब्राह्मणाः
बौद्धैः विकासितं साहित्यिकं संस्कृतं(लौकिकसंस्कृतम्) तदीयस्य आदिकाव्यस्य
रामायणस्य लेखनाय उपयुक्तवन्तः/चितवन्तः ।
एवं कृतम् इत्यतः ते वैदिकानि तत्त्वानि प्रसारयितुं शक्ताः अभवन् । एतस्य
कालस्य अनुसारं सर्वस्य समञ्जनं कर्तुं शेल्डन पोलॉक् वाल्मीकिरामायणस्य कालं १५०
बि.सी.ई. (इसवीयपूर्वकालः) इति कल्पितवान् । अस्मिन् एव काले बौद्धानां कृतयः
सुष्ठु निबद्धाः इति सः कथयति । किन्तु अन्ये विद्वांसः रामायणस्य कालः इतोऽपि
प्राचीनः इति अभिप्रयन्ति । एवं चेदपि पोलाकस्य कृते, रामायणस्य तेन कल्पितः एषः
कालः प्रमुखः भवति, यतो हि वेदानाम् उपरि
बौद्धानाम् आक्रमणं विरुध्य रामायणम् लिखितम् अस्ति इति निरूपयितुं शक्यते ।
सः एवं प्रतिपादयति यत् – रामायणे राज्ञः
शासनस्य प्रधानम् उद्देश्यम् इदम् अस्ति -
ब्राह्मणश्रेष्ठायाः सामाजिकव्यवस्थायाः संरक्षणम् इति । समाजस्य संरक्षणेन सह
राज्ञः प्रधानम् उत्तरदायित्वं/कर्तव्यम् इदम् अस्ति यत् बाह्यप्रतिरोधानाम्
मर्दनम् इति । एतदर्थं सामाजिकाः अवश्यं राजानं दैवीशक्तिसम्पन्नम् इति शत्रून् च
असुरशक्तिसम्पन्नान् मन्येरन् इति । अतः सः शेल्डन पोलॉक् एवं तार्किकरूपेण
प्रतिपादयति यत् द्विपार्श्विकी दैवासुरसंरचना रामायणे इत्थम् कृता अस्ति इति –
· राज्ञि दैविकतायाः आरोपः वैदिकचिन्तनप्रक्रियाकारणात् भवति । अनेन मनुष्ये
इन्द्रजालवत् दैवीगुणाः आरोप्यन्ते । इत्थं दैवीगुणानाम् आरोपणात्परं राजा
निरङ्कुशः भवति । वाल्मीकीये रामायणे, रामे दैवीगुणान् आरोपयितुं दैवीकरणम् उपयुक्तम् अस्ति । अतः सः रामः
विभिन्नदोषेभ्यः मुक्तः भवति, सामान्यजनैः साधयितुम् अशक्यं विजयम् एषः साधयितुं
शक्नोति । एतादृशस्य दैवीकरणस्य सिद्धान्ताः वेदेषु एव उपलभ्यन्ते इति सः कथयति ।
· केषाञ्चित् बाह्यानां समूहानां राक्षसीकरणम्/आसुरीकरणम् एतस्य एव पूरकप्रतिक्रिया
अस्ति । सामान्यैः मनुष्यैः पराजेतुम् अशक्यान् बाह्यजनानाम् असाधारणशक्तिमतः
समूहान् शत्रवः इति परिगणन्ति । केवलं दैवीशक्तिमतः राज्ञः कारणादेव सामाजिकाः
रक्षिताः भवन्ति, राजा च हिंसामार्गेण एव तादृशान् शत्रून् हन्यात् । रावणः अत्र
राक्षसत्वेन आरोपितः अस्ति । हैन्दवानां नृपाणाम् स्वाधिकारान् सुदृढीकर्तुं एषः
वैदिकसिद्धान्तः अन्यान् बाह्यान् जनान् असुरान् करोति इति शेल्डन पोलॉक्
अभिप्रैति ।
एतत् दैवासुरद्वैविध्यं कथं कार्यं करोति इति
विवरणस्य प्रदाता वाल्मीकिः अस्ति इति शेल्डन पोलॉक् अभिप्रैति । रामायणकालादारभ्य
एतत् दैवासुरद्वैविध्यम् राजधर्मस्य आधारः
अभवत् । एषः राजधर्मः हैन्दवानाम् आदर्शप्रशासनरीतिः अस्ति इति शेल्डन पोलॉक् अभिप्रैति । सनातनधर्मः
अविनाशी अपरिवर्तनीयः च अस्ति इत्यतः राजधर्मः अपि निरन्तरं प्रवर्तेत इति
भारतीयानां विचारः अस्ति इति शेल्डन पोलॉक् कथयति । अत एव सः कथयति – इदानीमपि
हैन्दवसमाजः एवं निर्वक्तुं शक्यः यत् प्रशासकः दैवीगुणानां माध्यमेन बाह्यशत्रूणां निग्रहं
करोति इति ।
पोलाकस्य अन्यः प्रमुखः अभिप्रायः अयम् अस्ति यत् -
रामायणस्य प्रधानपात्रेषु स्वतन्त्रेच्छायाः अभावः अस्ति इति । अन्यैः शब्दैः एवं
वक्तुं शक्यते यत् – तानि पात्राणि तथा वर्तितुं विवशाः(वशीभूताः) सन्ति इति । सः शेल्डन
पोलॉक् आरोपयति यत् – हैन्दवाः राजानः प्रजानां निग्रहार्थं, महिलाः च अधिकारात्
दूरे स्थापयितुं रामायणस्य उपयोगं कुर्वन्ति स्म इति । अस्मिन् विषये सः एवं कथयति
यत् –
·
रामः सम्पूर्णरूपेण दशरथस्य विधेयः
अधीनः इव चित्रितः । सः तु हैन्दवानां कृते एतादृशम् उदाहरणम् अस्ति यत् वशीभूतजनस्य
चिन्तनम् इव ।
·
स्वीयां मुक्ताम् इच्छां पूरयितुं
स्वपत्या सह प्रवृत्ता कुटिला महिला इव कैकेयी चित्रिता । कौसल्या सीता च अन्याय्यं भवति चेदपि पत्युः विधेये इव चित्रिते स्तः । इति ।
सः
पुनः एवं स्वपक्षमुपस्थापयति यत् –
हैन्दवान् प्रचोदयितुं, १२ शताब्दात्
षोडशशताब्दपर्यन्तम् आक्रमणं कृतवतः मुसलमानजनान् राक्षसत्वेन निरूपयितुं
रामायणस्य उपयोगः कृतः इति । हैन्दवाः राजानः आत्मानम् एवं प्रदर्शयन्ति स्म यत्
दैवांशसम्भूताः वयं स्मः, वयं प्रजाः
संरक्षामः, मुसल्मानाः राजानः राक्षसाः सन्ति, तेषां हननं कर्तव्यम् चेति । सः
अनन्तरम् एवं वदति यत् – आधुनिके काले भारतीयजनतापक्षेण/विश्वहिन्दूपरिषदा च
रामायणम् एवम् उपयुक्तम् यत् – वयमपि प्राचीनाः हैन्दवराजाः इव स्मः । अतः
अस्माभिः मुसल्मानराजानां राक्षसत्वम् प्रतिपाद्य अवश्यं ते संहर्तव्याः इति । एतादृशकार्यार्थं रामायणम् आन्तरङ्गिकरूपेण
सहकरोति इति शेल्डन पोलॉक् वदति । एषा पोलाकस्य रामायणनिन्दायाः रीतिः अस्ति ।
एतादृशाः विचाराः वेदेषु कथम् आरब्धाः?
अनन्तरं रामायणे कथं जनप्रियाः अभवन् ? अन्ते हैन्दवेषु मतीयभावनाम्
आक्रमणप्रवृत्तिं च कथम् उत्पादितवन्तः इति शेल्डन पोलॉक् यत् वर्णयति तस्य मूलं
अहम्(लेखकः) सम्प्रति परीक्षिष्ये ।
दैवीकरणस्य कल्पनम्
शेल्डन पोलॉक् वदति – वेदेषु दैवीकरणस्य आसुरीकरणस्य च अनेकानि
उदाहरणानि सन्ति । तत्र एकः सामाजिकः समूहः उन्नतस्थानसम्मानादिना दैविकः इति प्रदर्श्यते, अपरः सामाजिकसमूहः
राक्षसः इति चित्रीक्रियते । विष्णुः कथं
असुरेभ्यः जयं प्राप्तवान् ? (शेल्डन पोलॉक् राक्षसेभ्यः इति अनूदितवान्) तदीयाः
सम्पदः स्वायत्तीकृत्य देवताभ्यः कथं
वितीर्णवान् इति वेदाः प्रतिपादयन्ति इति सः वदति । पोलाकस्य दृष्ट्या विष्णुः
अत्र दैविकशक्तेः प्रतिनिधिः भवति । राज्ञि दैविकशक्तिम् आपादयितुं ब्राह्मणाः
अयजन्त । ब्राह्मणैः कृतायाः एतस्याः दैवीकरणस्य प्रक्रियायाः कारणतः राजा सामान्य
मनुष्य एव न भवति, सः सर्वेषाम् मनुष्याणाम्
अपेक्षया श्रेष्ठः भवति । अतः एतादृशपुराणानाम्/कथानाम् आधारेण राजा
परिपूर्णाधिकारं प्राप्नोति इति शेल्डन पोलॉक् अभिप्रैति ।
दैवीकरणस्य स्रोतः वेदाः इति
प्रतिपाद्य पुनः प्रत्यावृत्य पुराणानां कः अर्थः इति शेल्डन पोलॉक्
विवृणोति –
पुराणानाम् अर्थकथनवेलायाम् अहं प्रपञ्चस्य क्रमीकृतं(वर्णाश्रमभेदेन)
व्यवस्थाम् उल्लिखामि । एषा व्यवस्था नैरन्तर्येण व्यापकरूपेण च तत्रत्यसंस्कृत्या
सह सम्बद्धा भवति । एषा व्यवस्था
अपरिवर्तनीयं काल्पनिकं सामाजिकजालम् अस्ति यस्मिन् बहुमुख्यनुभवाः द्रष्टुं शक्यन्ते । वास्तविकतां विवरीतुम्
अपेक्षिता काल्पनिकी शक्तिः एषा अस्ति या अत्यन्तापेक्षिता
वर्तते । पौराणिकदृष्ट्या रामायणं
याथार्थ्यस्य अन्यान् अंशान् न पुरस्करोति ।
रामायणस्य सामाजिक-आयामस्य विषये स्पष्टं वक्तव्यं चेत् तत् कस्यापि एकस्य
जनस्य कल्पनाम् आधारीकृत्य प्रवर्तते यच्च पोलाकस्य अनुसारं तु
(वर्णव्यवस्थाख्यम्)काल्पनिकं सामाजिकजालम्(Conceptual Grid) अस्ति । शेल्डन पोलॉक् रामायणादिग्रन्थविषये
तस्य राजनैतिकतन्त्रम् अस्ति इति सङ्केतयति ।
अनन्तरं सः वदति – समाजस्य गभीरं
संरचनास्वरूपम् आश्रित्य वेदाः प्रवर्तन्ते । अत्र सामान्यमनुष्याः अत्यन्तं
दुर्बलाः इति गण्यन्ते । मनुष्यस्य स्वाभाविकदौर्बल्यस्य कारणतः सामाजिकाः राजानम्
आश्रित्य जीवन्ति इति सः वदति । सोऽपि
राजा सामान्यः राजा न । सः अवश्यं विष्णोः गुणान् धारयित्वा स्वप्रजाः संरक्षितुं
समर्थः भवति । सः तादृशान् नृपान् भगवतः अनन्तरवर्तिनः(Second order being) इति
(भारतीयाः/वेदाः मन्यन्ते इति)कथयति ।
रामायणम् एतस्य चिन्तनस्य प्रथमं वाहकम् अस्ति । अस्य वाहकस्य माध्यमेन
प्राचीनवैदिकरीतयः साम्प्रदायिकानां भारतीयानां दैनन्दिनजीवनस्य भागाः एव सन्ति । शेल्डन
पोलॉक् एवं प्रतिपादयति –
रामायणस्य एताः प्राचीनरीतयः परामर्शरूपाः, सङ्कीर्णाः, शक्तिशालिन्यश्च सन्ति
। एते राजानः देवात् अनन्तरवर्तिनः इति वस्तुस्थितिः अस्ति । एते राजानः दैवीगुणयुक्ताः मानवाः सन्ति । एते
नश्वरदेवताः सन्ति । एते साम्प्रदायिकभारते प्रजानां सामाजिकराजनैतिकप्रतिनिधयः
भवन्ति । सुरनरयोः मध्यवर्तिनः एते राजानः मनुष्यरूपेण भुवि चरन्त्यः देवताः सन्ति
।
सः वदति यत् ब्राह्मणस्य प्राधान्येन सः यज्ञं कृत्वा राजनि विष्णोः गुणान्
सामर्थ्यानि च आपादयति । तस्य प्रतिफलत्वेन राजा अवश्यं ब्राह्मणान् संरक्षेत्
। अनेन ब्राह्मणाः एतादृशम् अन्यैः निर्वोढुम्
अशक्यं निर्णायकपात्रम् अनुवर्तयितुं
शक्नुवन्ति । अतः क्षत्रियः राजा, तस्य
राज्ञः दैविकस्वरूपं साधयितुं प्रवृत्ताः ब्राह्मणाश्च समाजस्य योगक्षेमाय
अनिवार्याः सन्ति । पोलाकस्य दृष्ट्या एष एव राजधर्मस्य सारः अस्ति ।
शेल्डन पोलॉक् राजधर्मं महाभारतेन सह अपि बध्नाति – अहं महाभारताख्यस्य
महाकाव्यस्य एकं भागं साम्प्रदायिकं राजनैतिकं धर्मशास्त्रं राजधर्माख्यं विभागं पृथक् कृत्वा प्रदर्शयामि । सः तत्र एनं
विषयम् उल्लिखति –
राजानं विरुध्य कोऽपि मनुष्यः कार्यं करोति चेत् सः सुखं न
प्राप्नोति(रामायणम् III 38/20)। सः स्वयं अपि न प्राप्नोति, तस्य निकटवर्तिनःभ्रातृपुत्रमित्रादयः... वा न
प्राप्नुवन्ति । राज्ञः याः सम्पदः भवन्ति ताः स्वीयाः इव रक्षणीयाः । ताभ्यः सम्पद्भ्यः अन्तरालः रक्षणीयः । ततः कस्यापि वस्तुनः स्वीकरणम् इत्युक्ते
मरणवत् भयकारकम् इति मन्तव्यम् । कस्यापि वस्तुनः स्पर्शः क्रियते चेत् भवन्तः
नश्यन्ति ... । राजा तस्य प्रजानां हृदयानां हृदयम् भवति, आधारः भवति, आश्रयः
भवति, आत्यन्तिकसन्तोषः च भवति । प्रजाः तदीयस्य नृपस्य आश्रयणेन इदानीन्तनस्य प्रपञ्चस्य विजेतारः
निश्चयेन भवन्ति, भविष्यत्कालिकस्य
प्रपञ्चस्यापि विजेतारः भविष्यन्ति ।(म.भा.XII.68.37-59)
अनन्तरं शेल्डन
पोलॉक् एनं दृष्टिकोणं वाल्मीकिना सह सम्बध्नाति । इत्थम् – वाल्मीकेः पद्यस्य
पठनेन कोऽपि जनः विशिष्टं प्रभावं प्राप्नोति यत् राजधर्मस्य सिद्धान्तः एक एव,
तस्य राजधर्मस्य बलवर्धनं अस्य पद्यस्य उद्देश्यम् अस्ति इति । अत्र अवधार्यताम्
यत् – शेल्डन पोलॉक् तस्य वादस्य सहायकत्वेन केवलं महाभारतस्य एकं पद्यम् उल्लिखति
। तच्च पद्यम् तस्मिन् महाभारते विद्यमानेषु बहुषु अभिप्रायेषु एकस्य अभिप्रायस्य
द्योतकम् अस्ति । एतत् पद्यं कस्मिन् सन्दर्भे प्रयुक्तम् इति सः न विवृणोति । सः
एनं विषयं गाम्भीर्येण अविचिन्त्य कथयति यत्
रूढिगतस्य राजधर्मस्य प्रतिपादकम् एतत् पद्यम् अस्ति, अपि च एषः दृष्टिकोणः
वाल्मीकेः कृतेः पठनेन दृढः अभवत् इति ।
कानिचन धर्मशास्त्राणि ईदृशाणि आसन् यानि
पूर्वोक्तरीत्या राजधर्मस्य व्याख्यानं विरुन्धन्ति स्म अथवा मौनम् आवहन्ति स्म
इति शेल्डन पोलॉक् अभिप्रैति । स्वाभीष्टरीत्या प्रचारयितुं न शक्यते इत्यतः एतादृशानि धर्मशास्त्राणि
अप्रासङ्गिकाणि इति सः तानि तिरस्करोति । शेल्डन पोलॉक् अङ्गीकरोति यत् स्वयं
दुर्बले आधारे स्थित्वा एवं कथयन् अस्ति इति । राज्ञः भूमिकाविषये विदुषां मध्ये
चर्चाः जायन्ते स्म, विरुद्धदृष्टिकोणाः च आसन् इति सः अङ्गीकरोति ।
वाल्मीकिरामायणविषये तस्य यत् ज्ञानम् अस्ति तस्य उपोद्बलकतया अपेक्षितान् विषयान्
ततः चिनुयाम् इति तस्य आशयः इति सः प्रामाणिकरूपेण अङ्गीकरोति ।
पोलाकस्य कथनानुगुणं दैवीशक्तिसम्पन्नः राजा
धर्मशास्त्रस्य नियमान् पालयेत् इति नास्ति । यतो हि ते नियमाः केवलं सामान्यशासकानां
विषये अन्वियन्ति । दैवीगुणसम्पन्नस्य राज्ञः प्रत्येकं प्रजाः राज्ञः अपेक्षाः
आदेशान् च स्पष्टतया पालयेयुः । अतः वैदिकसंस्कृतौ राज्ञः दैवीकरणं तं
निरङ्कुशाधिकारिणं करोति । वाल्मीकीये रामायणे रामेण उक्तम् एकं वाक्यं १० उद्धृत्य रामः स्पष्टरूपेण निरङ्कुशाधिकारी आसीत् इति शेल्डन पोलॉक् निरूपयितुम् इच्छति ।
रामायणे आदौ दैवीगुणसम्पन्नः राजा
इति विषये शेल्डन पोलॉक् किमर्थं विशेषावधानं ददाति ?
पौर्वात्यनिरङ्कुशवादः सार्वभौमिकस्य
उत्तरदायित्वस्य न्यायिकविधानेन आबद्धः नास्ति, दैविकनिष्ठया आबद्धः अपि नास्ति
इति सः प्रतिपादयति । तस्य एतादृशी भूमिका
तस्मै ईदृशम् एकं द्वारम् उद्घाटयति यन्माध्यमेन सः इदं प्रदर्शयितुं शक्नोति यत् –
भारते केनापि उत्तरदायित्वेन विना, नियमस्य बन्धनेन विना च जनान् दमयितुम्
दैवीगुणयुक्तः राजा अधिकारं प्राप्नोति इति । ईदृशेन व्याख्यानेन ज्ञायते यत्
कोऽपि धार्मिकः निर्बन्धः दैविकराजं न अन्वेति/संबध्नाति । यतो हि दैविकः राजा
धर्माधारितसंस्थातः राजाधिकारं न प्राप्नोति । तत्र सामान्यानां राज्ञां केचन निर्बन्धाः
भवन्ति । दैविकराजाः साक्षात् विष्णोः सकाशात् शक्तिं प्राप्नुवन्ति । ताः शक्तयः
ब्राह्मणैः अनुष्ठीयमानानां यज्ञानां कारणतः भवन्ति ।
शेल्डन पोलॉक् इदं लक्ष्यीकरोति यत् – राज्ञः राजधर्मस्य च मध्ये अपेक्षितः
भेदः अस्माकं महाकाव्येषु आदरं न प्राप्नोति इति । एषा भेदकल्पना मूलतः मध्ययुगीना अस्ति । एषा
ऐरोप्या न्यायिककल्पना अस्ति । पाश्चात्यभारतीययोः आदर्शभूतराजधर्मयोः मध्ये
विद्यमाने भेदे संवेदनशीलता अस्ति इति नाङ्गीक्रियते चेदपि सः बलात् भारतीयपरिस्थितौ पाश्चात्यानाम् राजधर्मस्य आदर्शान्
आरोपयति । भारतस्य विषये ऋणात्मकम् अभिप्रायम् आकलयितुं सः शेल्डन पोलॉक् तत्र भेदं दर्शयति । ऐरोप्यदेशानां
मध्यकालिके इतिहासे राज्ञः राजधर्मस्य च मध्ये औपचारिकः भेदः आधिक्येन दृश्यते ।
एषः भेदः wedge रूपेण कार्यं करोति यश्च
राजधर्मस्य उपरि पन्थाह्वानानि निर्बन्धांश्च अनुमन्यते । एषः कुप्रसिद्धस्य
राज्ञः दैविकाधिकारस्य विनाशस्य आरम्भः अस्ति । एषः उपक्रमः पाश्चात्यानां
राजनैतिकविकासाय बाधकः भवति इति विद्वांसः अभिप्रयन्ति । एतद्विपरीतत्वेन भारते
तादृशः भेदः एव नास्ति चेदपि प्राच्यनिरङ्कुशाधिपत्यं प्रबलयति इति शेल्डन पोलॉक्
अभिप्रैति । अतः भारतं पाश्चात्यदेशाः च भिन्नाः इति सः वदति । राज्ञः
दैविकाधिकारस्य विषये पाश्चात्यानां कल्पनाकारणतः पाश्चात्याः विकासं
प्राप्तवन्तः, भारतीयाः तु तथा कर्तुं न पारितवन्तः ।
पोलाकस्य विश्लेषणं दोषपूर्णम् अस्ति । पाश्चात्येषु राज्ञः दैवीगुणाः
अब्रहामीयान् नियमान् आश्रित्य प्रवर्तन्ते ।
एतस्य अयमर्थः यत् – एतत् दैविकं चित्तम् आश्रित्य चलति । एतत्
पूर्वनिश्चितेन नियमेन बद्धं सत् स्वातन्त्र्येण कुप्रसिद्ध्या च कार्यनिर्वहणं
करोति । भारतीयपरिस्थितौ/परिप्रेक्ष्ये
दैविकः राजधर्मः धार्मिकपद्धतिम् आश्रयते । एतत् भगवन्तम् महाविष्णुम् अपि अविहाय अन्तर्निर्मितेषु नियमेषु सर्वान् बद्धान्
करोति । एतस्य परिणामतः संस्कृतकाव्येषु राज्ञः राजधर्मस्य/राजाधिकारस्य च मध्ये
भेदः न प्रदर्श्यते इत्यतः सः भेदाभावः राजानं
तस्य परिमितिभ्यः न उन्नयति पोलाकस्य कथनस्य विरुद्धतया ।
सनातनः दैवीगुणसम्पन्नः राजा तस्य निरङ्कुशाधिकारं प्रतिष्ठापयति इति तदीयं
कथनं प्रमाणीकर्तुं सः शेल्डन पोलॉक् तैत्तिरीयब्राह्मणस्य उदाहरणं प्रयच्छति । तत्र एवं वर्णितमस्ति इति
सः ब्रवीति – राजवंशस्य परिशुद्धीकरणकार्यक्रमे (एतादृशः कार्यक्रमः यवनमते अस्ति
। सनातनधर्मानुगुणं तु पञ्चगव्यं निर्माय पुण्याहः इति सम्प्रदायः अस्ति यश्च
व्यक्तिविशेषस्य निमित्तमिति नास्ति, कस्यापि जननाद्यशौचनिवृत्तिसमये अथवा
वैदिककार्यक्रमस्य आरम्भे एतस्य विधेः अनुष्ठानं क्रियते, यजमानस्य, समेषां
परिवारजनानां च यागाद्यनुष्ठानाधिकारसिध्यर्थम्) राजा यदा विष्णोः/वामनस्य इव
त्रीणि पदानि विन्यस्यति तदा स्वयमेव विष्णुर्भवति येन त्रिभुवनस्य उपरि विजयं
साधयति इति । पोलाकस्य एतत् प्रमाणं/हेतुः बलहीनम्(हेत्वाभासः) अस्ति । विष्णुत्वस्य
प्राप्तिः वैयक्तिकसामर्थ्यस्य विषयः इति एतादृशेन आचरणेन कथं वा प्रमाणीकृतं भवति
? किमर्थम् एतत् परमात्मना निर्मितम् अथवा
परमात्मना नियन्त्रितम् इति सिद्धान्तानुगुणं साङ्केतिकम् आचारणम् इति नोच्यते ? शेल्डन
पोलॉक् तैत्तिरीयवाक्यस्य एतत् तात्पर्यं न परिगणयति ।
एतद्विपरीततया सः एवं आग्रहेण परिगृह्णाति यत् – इत्थं
(तदीयमतीयकल्पनानुगुणम्) शुद्धीभूतस्य राज्ञः कर्तव्यं तु ब्राह्मणानाम् अधिकारस्य
रक्षणम् इति । सः एवं लिखति – एकवारम् एवं सृष्टः राजा सदाचारस्य प्रतिज्ञां करोति,
वचनं च ददाति यत् – अस्यां पृथिव्यां लब्धजन्मनां ब्राह्मणानां रक्षां करोमि,
ब्राह्मणीयसामाजिकसंरचनां संरक्षामि इति । अन्यैः शब्दैः एवं वक्तुं शक्यते –
पोलाकस्य दृष्ट्या राज्ञः आद्यं कर्तव्यं तु ब्राह्मणानां प्राबल्यस्य संरक्षणमेव
।
एतत् कर्तव्यं एवञ्च एतदेकमेव कर्तव्यं राजधर्मस्य मूलम् इति शेल्डन पोलॉक्
अभिप्रैति । धर्मः राजानम् एव आश्रित्य तिष्ठति इति सः प्रमाणयितुं महाभारतस्य
कानिचन चितानि अपूर्णानि पद्यानि उदाहरति –राज्ञः धर्मः “रक्षणम्” अस्ति, एतद् रक्षणमेव प्रपञ्चं परिपालयति । सर्वाः
प्रजाः धर्मम् आश्रित्य जीवन्ति, धर्मश्च राजानं अवलम्ब्य तिष्टति । किन्तु राजा कर्तव्यबुध्या किं वस्तुतः रक्षेत्
? शेल्डन पोलॉक् एवं कथयति –
राजा विशेषतः ब्राह्मणानां तपस्विनां रक्षणं करोति । ... एतत् जीवनस्य
सुरक्षायाः वरदानम् अन्यैः ब्राह्मणभिन्नैः
दुर्लभ्यम् अस्ति । किञ्च अनेनैव समग्रा ब्राह्मणीयसामाजिकसंरचना यागादिसम्प्रदायः
जीवति, प्रपञ्चः च रक्षितः भवति ।
सारतः वक्तव्यं चेत् – शेल्डन पोलॉक् नैरन्तर्येण राजधर्मस्य उपरि इतिहासे
एवम् अधोलिखितान् आरोपान् करोति –
·
राज्ञः मौलिकं कार्यं तु ब्राह्मणानां संरक्षणम् ।
· ब्रह्मणानां
सुखमयजीवनम् अत्यावश्यकम् येन ते वैदिकान् यागान् अनुष्ठाय ब्रह्माण्डस्य
समतोलनं कुर्वन्ति ।
· राज्ञः अपरिमिता शक्तिः कियद्वा दमनात्मिका भवतु, तथापि तत् समर्थ्यते ।
पावित्र्यस्य (ब्राह्मणैः सम्बद्धम्) प्रशासनस्य (क्षत्रियैः सम्बद्धम्) च
विषययोः संरक्षणं कृत्वा तयोः कृते
प्राधान्यं प्रादायि इति तस्य कथनं तु सत्यमेव यद्यपि तथापि शेल्डन पोलॉक्
राज्ञः अन्यकर्तव्यानां विषये मौनम् आचरति । सः अन्यानि शास्त्राणि नयेन उपेक्षते,
यथा अर्थशास्त्रम् । अर्थशास्त्रे तु सर्वासां प्रजानां योगक्षेमं रक्षितुं
कारणानि स्पष्टतया विव्रियन्ते, किञ्च योगक्षेमयोः रक्षणं कथं कर्तव्यमिति सूच्यते
। समेषाम् आर्थिककल्याणस्य सुनिश्चयः , पर्यावरणस्य समतोलनसम्पादनम् च राजधर्मस्य
प्रधानं तत्त्वद्वयमिति अर्थशास्त्रं प्रतिपादयति ।
के.एस्.कण्णन्-वर्यः (वैयक्तिकसंवादवेलायाम् उक्तवान्) अधोलिखितैः उदाहरणैः
रामायणानुगुणं राज्ञः कर्तव्यानि कानि इति कथनमुखेन पोलाकस्य आक्षेपाणां समाधानं
ददाति –
रामपट्टाभिषेकसमये दशरथः राजसभाम् आयोजितवान् । तत्र न केवलं ब्राह्मणाः आसन्,
अपि तु नगरप्रमुखाः, ग्रामप्रमुखाः च आसन्
। एतत् निरङ्कुशशासनात् शासननिर्णये
सामाजिकानां समावेशस्य शासनरीतिः उत्तमा इति
सूचयति ।(रामायणम् २.२)
राजा कदापि अत्र स्वेच्छानुगुणं शासनं न कृतवान् । सः धर्मशास्त्रैः बद्धः
असीत् । सः परिषदः जनसभायाश्च मार्गदर्शनं प्राप्नोति स्म । पथभ्रष्टस्य
राज्ञः बहिष्कारः शक्य आसीत् ।
दुर्व्यवहारकारणात् सगरपुत्रस्य राज्ञः बहिष्करणस्य उदाहरणं रामायणे अस्ति
।(रामायणम् १.३८.२१)
रामायणे २.६७ इत्यत्र अराजकतायाः अपायाः वर्णिताः । तत्र ब्राह्मणानाम्
अपेक्षाणां सम्पूर्तिं अतिरिच्य राज्ञः
प्रमुखम् उत्तरदायित्वम् अन्येषां जनानां हिताय कार्यकरणम् इति वर्णितम् ।१६
यथा राजा तथा प्रजाः
। अतः राजा प्रजानाम् आदर्शरूपेण आचरणं कुर्वन् भरणं कुर्यात् । (रामायणम्
२.१०९.९)
शत्रूणाम् उपरि आक्रमणसमये अपि राज्ञा केचन नियमाः
पालनीयाः आसन् । यथा – शयानानां, निरायुधानां, स्त्रीसङ्गे विद्यमानानां,
मधुमत्तानाञ्च उपरि आक्रमणं न कर्तव्यम् ।(रामायणम् ४.११.३६)
रामः नियमिततया
मन्त्रिभिः सह मन्त्रणां कृत्वा पश्चादेव निर्णयं करोति स्म । (रामायणम्
६.४१.५८ )
सर्वाः प्रजाः धर्मानुगुणं जीवनं कुर्वाणाः रामम्
आदर्शं मन्यन्ते स्म । (रामायणम् – ६.१३१.९८)
दैविकः राजा निर्बन्धरहितः सन् निरङ्कुशः इव
प्रवर्तते इति पोलाकस्य दृष्टिकोणस्य विरुद्धतया
एते विषयाः सन्ति ।
आसुरीकरणम्
दैवीकरणम्-आसुरीकरणम् चेति द्विपार्श्विकसंरचनायां
दैवीकरणं शेल्डन पोलॉक् कथं प्रतिपादयति, तच्च राजधर्मस्य आधारत्वेन कथमस्ति इति
अहं दर्शितवान् । पश्चात् सः एतादृशस्य द्वैविध्यस्य अपरं ध्रुवं गृहीत्वा
आसुरीकरणस्य पृष्ठतः का राजनीतिः अस्ति इति कल्पयति । रामः दैविकं मानुषञ्च
स्वरूपं धृतवान् इति विषये पश्चिमदेशीयाः संस्कृतज्ञाः सन्दिग्धमानसाः सन्ति
। एनां सन्दिग्धतां वयं रावणस्य आसुरप्रवृत्तेः अवगमनेन निवारयितुं
शक्नुमः । सः शेल्डन पोलॉक् एवं लिखति –
रामायणस्य नायकस्य दैविकस्थानगता समस्या मौलिकरूपेण
अस्माकम् एतद्विषयिणीं धारणां नियन्त्रयति । सा च निश्चयेन पाश्चात्यानां
पाण्डित्यम् अनिश्चिततया व्याप्नोत् । तत्रत्यानां केषाञ्चित्
विस्तृतविवरणात्मकानां पद्यानां विमर्शात्मकस्य प्रभावोत्पादकस्य च अध्ययनस्य
निराकरणं सूक्ष्मविश्लेषणेन कर्तुं शक्यते । तत्र एकम् उदाहरणम् रामयणस्य
अविभाज्य-अङ्गत्वेन विद्यमाना रावणस्य वरस्य कथा ।१७
शेल्डन पोलॉक् वदति – रावणस्य आसुरीकरणस्य आरम्भः
तस्य वरप्रदानेन भवति, येन दैविकत्वापादितस्य राज्ञः अपेक्षया अधिकशक्तिशाली सः
भवति । सः लिखति –
सहस्रवर्षाणाम् उग्रतपस्यायाः निमित्तं ब्रह्मणा
रावणाय प्रदत्तः सः वरः एवंगुणविशिष्टः आसीत् – सः रावणः केनापि देवेन, दानवेन,
गन्धर्वेण, पिशाचेन, पक्षिणा, सर्पेण वा कदापि हतः न भवेत् इति । एतत् सामान्यतः इतिहासपुराणादिषु नैजरूपेण
चित्र्यते यत् तपसः आचरणेन प्रपञ्चस्य परिपालकाः
देवताः/देवाः(ब्रह्मविष्णुमहेश्वराः) आगृहीताः/वशीभूताः भवन्ति येन ते वरं दातुं न इच्छन्ति चेदपि दुष्टशक्तिभ्यः वरं
प्रयच्छन्ति । यान्त्रिकरूपेण राक्षसानां स्वमरणाय कियमाणं तपः देवतानां प्राबल्यं
विच्छिद्यात् । तच्च प्राबल्यं देवताभिः
सागरमथनवेलायां महता श्रमेण अमरत्वप्राप्त्या सम्पादितम् त्रिविष्टपम् अस्ति ।
किन्तु एतादृशं वरप्रदानं तस्य एव त्रिविष्टपस्य नाशार्थं प्रवर्तते । १८
उपरितने उल्लेखे शेल्डन पोलॉक् तपस्यायाः त्यागस्य च
दोषपूर्णम् अनुवादम् एवं करोति यत् Self Mortification इति
। एतत् जूडॊ क्रिश्चियन् सन्यासत्वस्य प्रक्षेपणम् अस्ति । एतदतिरिच्य - १. वरप्राप्तेः परं दुर्व्यवहारस्य प्रदर्शनेन
रावणः शत्रुः अभवत् नान्यथा, २. सः ब्राह्मणश्चेदपि महामुनेः पुत्रः चेदपि सः
दुष्टः इत्येव गृह्यते इति हैन्दवान् अत्र बोधयन्ति । शेल्डन पोलॉक् रामायणस्य
एतादृशं महत्त्वम् उपेक्षते । ब्राह्मणाः सदा उत्तमाः भवन्ति इति रामायणादिषु
प्रतिपादितम् इति कथयितुं (केनापि उद्देशेन) प्रवृत्तस्य तस्य पोलाकस्य विचारं
प्रायः एषः अभिप्रायः(ब्राह्मणश्चेदपि ....) भञ्जयति ।
रावणः असामान्यशक्तिसम्पन्नः मानवः अस्ति । केवलं दैवीगुणसम्पन्नः रामः तं संहर्तुं
शक्नोति, अपि च अनया रीत्या प्रजानां संरक्षणं कर्तुम् अर्हति । शेल्डन पोलॉक्
कथयति यत् एषः सम्बन्धः वेदेषु विद्यमानम् एकं प्रमापितं सूत्रम् अस्ति । एतत्
मान्त्रिकं रूपविज्ञानम् अस्ति, यच्च पुराणानाम् आरम्भाकालात् अपि पूर्वतनम् अस्ति,
पोलाकस्य दृष्ट्या वैदेशिकैः इण्डो-आर्यजनैः निर्मितम् इति –
वरप्रदानम् भारतस्य पुराणानाम् एकं “मार्फीम्”
अस्ति । एतत् आर्यभारतीयजनानाम् आरम्भिकं स्तरं प्रति
प्रत्यावृत्तम् इति भासते । स्वाभाविकरूपेण आरम्भतः अस्तित्वहीनस्य जन्तोः अथवा
घटनायाः माध्यमेन वरदानस्य प्रतीकारार्थं बलं दीयते । एतत् सर्वदा वारं वारं प्रवर्तते यच्च पूर्णरूपेण नैसर्गिकतया सम्भवनीयतायाः
दूरे एव भवति१९ ।
अतः शेल्डन पोलॉक् सम्प्रति विदुषां निकटे निवेदयति
यत् – आर्याः यानि पुराणानि रचितवन्तः तत्र रावणस्य वरप्रदानप्रकरणम् अपि च
दैवीशक्तिसम्पन्नं राजानं च व्याख्यान्तु इति । दैवीशक्तिसम्पन्नस्य राज्ञः मूलं
कल्पनामात्रम् अस्ति । स्वाभाविक्याः सम्भवनीयतायाः परिधेः बहिः अविद्यमानानां
जीविनाम् मध्ये एषा कथा कल्पिता इति सः अभिप्रैति । अन्यशब्दैः वदामः चेत् - रामायणस्य केन्द्रे विद्यमानाः ईदृश्यः संरचनाः मनुष्यस्य कल्पनाप्रवृत्तेः
आरम्भिककाले(इत्युक्ते अविकसितकल्पनाप्रवृत्तिकाले इति) उत्पन्नाः इति शेल्डन
पोलॉक् अभिप्रैति ।
रामायणस्य समाजशास्त्रीयः विमर्शः
रामायणं “राजनीतेः प्रतिक्रियात्मकप्रवृत्तेः
निमित्तं सिद्धं साधनम्” इति पोलाकस्य वादम् अहम् अत्र परिशीलयामि । “तदानीन्तनाः
कवयः राज्ञाम् आस्थाने आजीविकेच्छवः
उद्योगिनः आसन् । अतः ते क्षत्रियप्रेक्षकाणां निमित्तं काव्यानि रचितवन्तः” इति
सः शेल्डन पोलॉक् प्रतिपादयति । सः स्पष्टरूपेण
सूचयति यत् रामायणस्य
मुख्यपात्राणि क्षत्रियाः एव आसन् । कथावस्तु क्षत्रियपात्राणि केन्द्रीकृत्य एव
चलति । वसिष्ठसदृशाः ब्राह्मणाः लघुभूमिकां निर्वहन्ति । अन्यजातीयाः इतोऽपि
लघुभूमिकां निर्वहन्ति ।
अनन्तरं शेल्डन पोलॉक् आग्रहं करोति यत् – रामायणस्य
केन्द्रे विद्यमानं सैद्धान्तिकं सम्भाषणम् एवम् अस्ति - समाजिकम् आधीन्यं राजनैतिकं दमनं च साम्प्रतं
“सदाचारस्य शाश्वतिकः मार्गः” अभवत् । अन्यैः शब्दैः वदामः चेत् – सदाचारी
सनातनधर्मः राज्ञः प्राबल्यस्य, सामाजिकानां निष्क्रियस्य आधीन्यस्य च रूपं
प्राप्नोत् इति ।
पोलाकस्य एकः मौलिकः दृष्टिकोणः एषः अस्ति यत् - अस्मत्सम्प्रदाये (रामायणादिषु) सर्वेऽपि
प्रमुखाः जनाः वैयक्तिकेच्छान्विताः/स्वतन्त्रेच्छान्विताः न भवन्ति । रामस्य
भावाः पद्यानाम् उद्देश्यानुगुणं न भवन्ति । निश्चयेन सः वदति – रामायणे किमपि पात्रम् एवं न चिन्तयति यत् प्रत्येकं
कार्यं किमर्थं मया क्रियमाणम् अस्ति ? इत्येतत् वयं ज्ञातुं न शक्नुमः । यतो हि
रामायणे कोऽपि स्वयं किमपि कर्तुं स्वतन्त्रः नास्मि इत्येतत् न विश्वसिति ।
सामान्यतः शेल्डन पोलॉक् रामायणस्य पात्राणां विषये एवं चिन्तयति यत् – कस्यापि
कार्यस्य चयनं कर्तुम् अस्वतन्त्राः इति । अतः ते तेषाम् उपरि किम् आपतिष्यति इति न
जानन्ति । एतादृशीं दुस्थितिम् अङ्गीकुर्वन्ति इत्युक्ते तत्र न्याय्यं नास्ति
इत्यर्थः इति च । सः शेल्डन पोलॉक् लिखति
-
”रामायणस्य पात्राणि एवं विश्वसन्ति
यत् स्वस्य सर्वेऽपि स्वतन्त्राः
चयनावसराः निराकृताः इति । तेषां विषये
किं जायमानं अस्ति इति तु तदीयकार्याणां परिणामः एव स्यात् । किन्तु तत् कथमिति ते
न अवगच्छन्ति । परिणामतः ते स्वयम् आत्मानं नियन्त्रयितुं न शक्नुवन्ति ।...
रामस्य अन्येषां च भविष्यं तेषां हस्तक्षेपेण विना एव सिद्धम् अस्ति । तस्य
परिज्ञानम् अपि तेषां नास्ति । न्याय्यं कदापि व्यवहारपथे न प्रविशति ।’२२
प्राचीनायाः ग्रीकपद्धतेः विरुद्धतया एनं दृष्टिकोणं शेल्डन
पोलॉक् विरुणद्धि । वदति च –
प्राचीने ग्रीक(यवन)प्रपञ्चे - भाग्ये प्रापञ्चिकः आयामः न्याय्यस्य अंशः च वर्तते इत्यतः
देवाः सम्पूर्णप्रक्रियां न्याययुतां नैतिकक्रमानुसारिणीम् इति द्रढयितुं
शक्नुयुः । प्राधान्येन अयोध्यायां
देवतानां किमपि पात्रं नास्ति । मानवव्यवहाराणां मार्गे यान्त्रिकगुणाः तत्र सन्ति
२३।
“देवानां
किमपि पात्रं नास्ति” इति शेल्डन पोलॉक् यदा वदति तदा सः “राक्षसेभ्यः पीडिताः
ऋषयः विष्णुं प्रार्थयन्ते” इति वाल्मीकेः वचनम् उपेक्षते । अनन्तरं पुनः इत्थम्
अनुवर्तयति –
अयोध्याकाण्डे मनुष्यः स्वीयं भविष्यं स्वयमेव
निर्मातुं न शक्नोति इति निषेधः अस्ति । तस्य दुःखस्य कारणमपि निश्चयेन ज्ञातुं न
शक्यते । भाग्यम् दैवायत्तम्, कालः, अदृष्टम्, कृतान्तः, इत्यादिकं कोऽपि अवगन्तुं
न शक्नोति । तद्विरुध्य कोऽपि सङ्ग्रामं कर्तुं न शक्नोति । चयनाय रामस्य कोऽपि
विकल्पः नासीत् । कोऽपि न करोति । विकल्पः अकस्मात् कल्प्यते । क्रिया
प्रतिक्रियापेक्षया विशिष्टा नास्त्येव ।
सः कर्मविषये एवं वदति यत् कर्म इत्युक्ते भाग्यम् ।
पाश्चात्यानाम् अत्यन्तम् अस्पष्टतायाः
पराकाष्टां गतायाः “यान्त्रिकभाग्यम्” इति कर्मविषयक-परिकल्पनायाः अनुगुणम्
अस्माकं कर्मणः तुलनां सः शेल्डन पोलॉक् करोति । कस्यापि अन्येन सह कोऽपि सम्बन्धः
नास्ति । कर्म पूर्वतनकार्याणां परिणामः अस्ति । तस्य भविष्यं नूतनक्रियाभिः
परिवर्तयितुं शक्यते । एषा एका
कारणपद्धतिः यत्र परिणामस्य भागः विलम्बितः
भवति इति अस्य विषये चिन्तनम् उत्तमं भवति ।
रामः तस्य संस्कृतेः शृङ्खलया बद्धः अस्ति इति शेल्डन
पोलॉक् कथयति । अतः तस्य विषये किं जायमानम् अस्ति इति जानाति चेदपि सः “अहं किमपि
कर्तुं न शक्नोमि” इति निश्चयं प्राप्तवान् । ग्रीकपुराणेषु वर्णितानां यवनवीराणाम्
अपेक्षया रामस्य चरित्रं निम्नतरम् इति शेल्डन पोलॉक् प्रतिपादयति –
रामायणस्य नायकं वयं नायकं मन्यामहे इत्येतत्
केषुचित् विषयेषु दोषाय भवेत् । सम्यग्
विचारयामः चेत् – अकिल्स्-सीग्फ़्रैड्-रोल्याण्ड्-कुचुलैन्-प्रभृतयः वस्तुतः शूराः आसन्
ये पराजये प्राप्ते अपि महत्कार्याणि कृतवन्तः । ते अस्मत्तः ऊर्ध्वं सन्ति । वयं
तदनुकर्तुं योग्याः न स्मः । रामः वस्तुतः विभिन्नप्रकारकाणां पितृभक्तिः, विधेयता
इत्यादिव्यवहाराणाम् उदाहरणम् अस्ति ।
अन्यशब्दैः सः वदति – रामस्य पितृभक्तिः तं
स्वतन्त्रप्रवृत्तितः दूरम् अनयत् यच्च ग्रीकवीरेषु नासीत् ।
शेल्डन पोलॉक् इतोऽपि उर्ध्वं गत्वा वक्तुम् इच्छति
यत् रामायणम् लैङ्गिकविचारयुक्तम् अस्ति । तच्च अयोध्याकाण्डे सः महिलापात्राणां
परीक्षणेन कथयति । सः एवं वदति यत् – “सम्पूर्णरामायणे
अयोधाकाण्डः सामान्यतः सामाजिकराजनैतिकजीवनमिव लैङ्गिकसम्बन्धेषु आसक्तिं वहति”२६
। पश्चात् सः वाल्मीकेः काले महिलानाम् असमानतायाः द्योतकान् श्लोकान्
प्रस्तुतीकृतवान् । तस्मिन् एव काले तादृशी एव समस्या जगति सर्वत्र अन्यसंस्कृतिषु
आसीत् चेदपि तदनुक्त्वा केवलम् एतन्मात्रं दोषत्वेन प्रतिपादितवान्२७
। सः एतानि सर्वाणि लिङ्गसम्बद्धानि
उद्धरणानि मनुस्मृत्या सह सम्बद्धवान्२८ ।
स्त्री तावत्, बाल्ये तस्याः पितुः इच्छानुगुणम्,
प्रौढावस्थायां वरयितुः पत्युः इच्छानुगुणम्, पत्युः मरणात्परं पुत्राणाम् इच्छानुगुणं
व्यवहरेत् । तस्याः कदापि स्वातन्त्र्यं नास्ति२९ ।
शेल्डन पोलॉक् कथयति यत् – स्त्रीणाम्
अस्वातन्त्र्यस्य एतादृशानां विचाराणाम्
आधारः मनोः ग्रन्थः अस्ति । एतत् स्त्रीणां पराधीनतायाः कल्पनां पुनः
प्रतिष्ठापयति । अपि च कदापि ताः स्वातन्त्र्यं न प्राप्नुयुः चेति तार्किकं
निर्णयं प्रतिपादयति३० इति ।
श्रीनिवासतिलकवर्यः कथयति यत् शेल्डन पोलॉक् मनोः विवरणात्मकानि उद्धरणानि
(तदीयकाले विद्यमानपरिस्थित्यनुसारम्) नियमाधीनोद्धरणत्वेन परिवर्त्य मनोः सुरूपं
विरूपं करोति इति३१ ।
आधुनिकान् मानदण्डान् आश्रित्य रामायणे कदाचित्
प्रतिपादितः महिलाधिकारः लिङ्गसम्बन्धः वा अद्यत्वेऽपि अनुसर्तुं शक्यः इत्यत्र मम
सन्देहः नास्ति । किन्तु एतादृशस्य निरूपणस्य निश्चयः पूर्णरूपेण
कालबाह्यमानदण्डैः क्रियते चेत् कुमार्गे नयनमिव भवति । अपि च एतानि पद्यानि तेषां
सन्दर्भम् अनुक्त्वा पृथक्कृत्य तानि एव रामायणस्य प्रतिनिधिभूतानि पद्यानि इति
प्रदर्श्यन्ते चेत् तस्य महाकाव्यस्य लिङ्गात्पराणां
धार्मिकतत्त्वानां वास्तविकः अर्थः अस्पष्टः भविष्यति ।
एकादशशताब्दात् आरभ्य मुसल्मानजनान् राक्षसान् कर्तुं
रामायणं प्रसारितम्
पोलाकस्य निबन्धानुगुणम् – रामायणे स्वयंद्वन्द्वितया
हैन्दवाः राजानः आत्मानं तदीयप्रजाश्च दैविकसदस्यत्वेन पश्यन्ति । अन्यांश्च
विरोधिनः राक्षत्वेन निन्दन्ति । मध्य-एशियातः आगतानां मुसलमान-आक्रामकाणां कारणतः
एषः सिद्धान्तः अनुसरणीयः अभवत् । हैन्दवः
राजा आत्मानं पराक्रमिणः रामस्य प्रतिनिधिभूतः इति निरूपयितुं ब्राह्मणानां
माध्यमेन काव्यानि रचितवान् येन च मुसलमानान् राक्षसान् इव प्रतिपादितवान् । राजा
आक्रमणकर्तॄन् मुसल्मानजनान् विरुध्य युद्धं कृत्वा प्रजानां रक्षणं करोति इव,
मुसल्मानजनाः राक्षसाः इव च चित्रिताः । शेल्डन
पोलॉक् एतस्य उदाहरणत्वेन पृथ्विराजं, विजयनगरस्य षष्ठम् विक्रमादित्यं च तदीयनिबन्धे
प्रदर्शयति ।
सः शेल्डन पोलॉक् एवं निरूपयति – दैवासुरकल्पनया मुसल्मानतुरुकजनान् विरुध्य
हिन्दूमुस्लिमसङ्घर्षं प्रेरयितुं रामायणं
शस्त्ररूपेण उपयुक्तम् इति विषयः प्रकाशपथमागतः । एकादशे शतके प्रारब्धं हिन्दूमुस्लिमसङ्घर्षं
प्रेरयितुं रामायणस्य उपयोगः कृतः इति प्रमाणीकर्तुं सः बहूनि प्रमाणानि प्रदर्शयति । वस्तुतः सः शेल्डन
पोलॉक् विद्यमानतथ्यानि यत् प्रदर्शयन्ति ततः बहुदूरं गत्वा विषयान् सामान्यीकरोति
। सः एवं लिखति –
रामायणम्
१००० वर्षेभ्यः मार्क्स-पूर्ववर्तिसाम्यवादिसम्बन्धान् सक्रियान् कर्तुम्, अपि
च देवप्रभुत्वस्य न्यायपरायणतां
निरूपयितुं संहितारूपेण सेवां अकार्षीत् ।
अस्य रामायणस्य श्रेष्ठताकारणतः अद्यत्वे भारते प्रतिक्रियात्मक-राजनीतिः
अभिव्यक्तिं प्राप्नोति । देशस्य राजनीतौ दैवीशक्तिः आन्तरिकशत्रुं देशविरोधिनं
करोति ।
मया पूर्वम् यथा सूचितं तथैव हिंसायाः राजनीतिः
रामायणे सुबद्धमूला अस्ति इति शेल्डन पोलॉक् वदति । तस्य दृष्ट्या रामायणम् राजभिः
लेखापिता समाजे उन्नतस्थानीयानां जनानां पठ्यरूपेण विद्यमाना कथा अस्ति । किन्तु
किञ्चित् भिन्नमेव मुसल्मानजनानाम् आक्रमणवेलायां प्रवृत्तम् इति । सः वदति
तस्मिन् समये – सा रामायणी कथा राजनैतिकवातावरणे प्रथमवारं जीवद्रूपं प्राप्नोत् ।
तदा राजानः रामाः भवन्ति । सः एवं प्रतिपादयति यत् आविष्करणस्य सम्प्रदायः/परम्परा
आरब्धा । तदा राजा रामरूपेण आविष्कृतः ।
एतदाविष्करणम् एकादशे शताब्दे आरब्धम् । तदा आरभ्य रामायणं राजनैतिकस्य उत्साहस्य
अभिव्यञ्जिका भाषा अभवत् इति ।
सः शेल्डन पोलॉक् आग्रहेण एवं कथयति यत् – दक्षिण-एशिया-भूभागे
रामसम्प्रदायस्य अस्तित्वम् एकादशशताब्दम् अथवा द्वादशशताब्धंब्दं यावत्
पूर्णरूपेण न आसीत् । अस्य सम्प्रदायस्य
विकासः निश्चिताभिः ऐतिहासिकघटनाभिः सह समकालिकतया जातः । ततः पूर्वं रामसम्बद्धा
आराधनपद्धतिः विरला आसीत्, अपि च रामः आराधनायाः वस्तु स्यादित्यस्य प्रामाण्यानि
विरलानि सन्ति इति सः वदति३४ ।
रामः पुराकाले अपि प्रमुखपात्रं आवहति स्म इति विषयं
लघुतमाः अपवादाः इति कथयित्वा तस्य प्रभावः नास्ति इति प्रतिपादयितुं शेल्डन
पोलॉक् प्रयतते । मध्य-एषियातः मुसलमानजनानाम् आगमनात्परं रामस्य जनप्रियतायाः
वृद्धेः परीक्षणं, एवञ्च मुसलमानविरुद्धतया हिंसाचारस्य समर्थनोद्देश्यत्वेन
रामायणस्य उपयोगः कृतः इति प्रतिपादनं पोलाकस्य उद्देश्यम् आसीत् । मुसलमानजनेभ्यः
समग्रे भारते देवालयेषु रामायणस्य भागाः
कुत्र कुत्र प्रदर्शिताः इति सः आवलिं करोति । किन्तु कुत्रापि रामस्य
साम्प्रादायिकं महत्त्वं नास्ति इति सः निर्णीतवान्३५ ।
हैन्दवाः राजानः राजनैतिकसङ्केतरूपेण रामायणम्
उपयोक्तुम् आरब्धवन्तः इत्यस्य विषये अहं स्पष्टज्ञानवान् दृढज्ञानवान् च अस्मि
इति सः शेल्डन पोलॉक् प्रतिपादयति –
भारतस्य राजनैतिककल्पनायां
केन्द्रीयसङ्घटनात्मकतत्त्वरूपेण रामायणम् उपयुक्तम् इति स्पष्टरूपेण
निर्दिष्टरूपेण च ऐतिहासिकसंनिवेशे व्यक्तीकर्तुं शक्यते३६ ।
अहं वदामि.... एकादशचतुर्दशशताब्दयोः मध्ये
पश्चिमभारते मध्यभारते च सामाजिकानां राजनैतिकसम्भाषणसमये असदृशतया नाटकीयरूपेण रामायणं सजीवतां
प्राप्नोत् ३७ ।
एकादशशतकस्य
मध्यभागतः द्वादशशतकस्य अन्तिमभागपर्यन्तं स्थानीयाः राजानः अयोध्यां
प्रधानवैष्णवकेन्द्रत्वेन विकासयितुं महत्त्वपूर्णान् मन्दिरनिर्माणकार्यक्रमान्
आरब्धवन्तः इति प्रमाणीकर्तुं सः शेल्डन पोलॉक्
दतांशान् प्रदर्शयति । त्रयोदशशताब्दस्य अन्तिमसमये चतुर्दशशताब्दस्य
आरम्भसमये च रामसम्बद्धानि बहूनि आराधनाकेन्द्राणि प्रतिष्ठापितानि अथवा नवीकृतानि
। चतुर्दशशतकस्य आरम्भे श्रीरामचन्द्रस्य आराधनास्थलानि उत्तुङ्गस्थितिम्
अवाप्नुवन्, यदा विजयनगरसाम्राज्यस्य अपि स्थापनमभवत् । अस्य पोलाकस्य कथनानुगुणम्
–
आदौ देशकालदृष्ट्या विशेषतः निर्बन्धः आसीत् । एतत्
(रामस्य आराधनम्) अद्भुतं चमत्कारं प्रदर्शयति । एवञ्च द्वादशशताब्धस्य अन्ततः
राजनैतिकधर्मशास्त्रस्य सन्दर्भे एकं प्रमुखं स्थानमपि प्राप्नोति । एतत्
रामाराधनम् कासुचित् घटनासु तु केन्द्रीयं स्थानम् अपि चतुर्दशे शतके प्राप्नोति३८
।
मुस्लिम-आक्रमणकर्तॄन् राक्षसशक्तिरिति प्रतिपादयन्तीं
द्वादशशतकस्य एकां कवितां व्याख्यातुं सः शेल्डन पोलॉक् बहूनि पृष्ठानि आरक्षितवान्
। अपि च अस्य एकस्य पद्यस्य आधारेण सः तदीयवक्तव्यम् उपस्थापितवान् । महम्मद-गज़नवी
भारते मन्दिराणि आक्रम्य यदा ध्वंसीकृतवान् ततः परमेव अयोध्यां निर्मातुम् आरब्धवन्तः इति शेल्डन
पोलॉक् कथयति३९ ।
तथापि तस्य प्रतिपादनविरुद्धतया वर्षाणां शतानि यावत्
अयोध्या मौर्येभ्यः अपि पूर्वतने युगे अत्रत्यानां राज्ञां राजधानिरासीत् इत्यंशः
परिशीलनीयः४० ।
यद्यपि शेल्डन पोलॉक् तस्य प्रतिपाद्यविषयं
समर्थयितुं कानिचन प्रक्षिप्तानि प्रमाणानि प्रादर्शयत्, तथापि एकादशशताब्दात्
पूर्वं भारते एशियाभूखण्डस्य आग्नेयदिशः देशेषु च रामस्य आराधनायाः विषये
व्यापकरूपेण ऐतिहासिकानि प्रबलप्रमाणानि प्राप्यन्ते । परिशिष्टम्-B एतद्विषये कानिचन प्रमाणानि
प्रदर्शयति । रामायणस्य इतिहासविषये दलद्वयस्यापि
जनानां मध्ये जायमाना प्रामाण्यविषयिणी चर्चा आसक्तिप्रदा अस्ति ।
अस्माकम् अवलोकनानुगुणं वदामः चेत् – शेल्डन पोलॉक् रामायणविषये
एवं चित्रितवान् यत् मुसल्मानजनानां राक्षसीकरणाय रामायणस्य स्वरूपम् अस्माभिः
उपयुक्तम् अस्ति इति । सः वदति – बहुषु प्रकारेषु परकीयाः पथभ्रष्टाः इति भावस्य
प्रतिपादकम् अस्ति इति ।
सः इतोऽपि एकं पदम् अग्रे विन्यस्य स्थूलरूपेण
रामायणस्य विषये सिग्मण्ड-फ़्राईडवर्यस्य चिन्तनं आरोपयति । एतस्य रामायणस्य पठनम्
इत्युक्ते पाश्चात्यानां सांस्कृतिकविमर्शानुगुणं कालबाह्यम् अविवेकपूर्णं च
कार्यं अस्ति इति । सः वदति - रामायणे “विषयान्तरस्य वर्णनम्” इत्युक्ते श्रद्धावतां
भारतीयानाम् अपरिपूरितानां लैङ्गिकेच्छानां प्रक्षेपणम्/प्रकाशनम् एव इति –
तेषां(पारम्परिकाणां भारतीयानां) विषये चिन्तयितुं
विद्यमानः एकः सफलः मार्गः इत्युक्ते – मनोलैङ्गिकः दृष्टिकोणः, यश्च दृष्टिकोणः
प्रतिनिधिरूपेण सर्वेषु पारम्परिकेषु भारतीयेषु वर्तते । तच्च
संस्कृत-संस्कृतिरूपेण वर्तते । तत्र बलवती आशा वर्तते । बलवती भीतिश्च अस्ति ।
(संस्कृतं संस्कृतिः चेति) द्वयमपि मिलित्वा एकसङ्केतरूपेण संयोजितम् अस्ति४१
।
अन्यैः शब्दैः एवं वक्तुं शक्यते - राक्षसरूपेण चित्रयित्वा प्रतिपादितम् अन्यत्
सर्वं हैन्दवानाम् एव प्रगाढायाः मनोलैङ्गिकतायाः प्रक्षेपकम् अस्ति । तैः
निग्रहीताः आशाः, निग्रहीतानि भयानि च एवं
(राक्षसरूपेण) चित्रितानि इति शेल्डन पोलॉक् कथयति ।
शेल्डन पोलॉक् निरूपयति – भारते पूर्वकाले ये ये
बाह्याः समागताः ते अत्यल्पकाले एव भारतीयत्वेन समेकीकृताः । किन्तु मध्य-एशियातः मध्यकाले
आगतानां(मुसलमानजनानाम्) दृढं सुरक्षितम् अभिज्ञानम्, आसीत् येन ते भारते
धार्मिकरूपेण भाषारूपेण च समेकीकर्तुं न शक्याः अभवन् । एतादृशं भयं निवारयितुं रामायणं निरन्तरं साधनत्वेन अत्रत्यैः नेतृभिः उपयुक्तम् । रामायणं राजनीतेः आधारत्वेन उपयुक्तम्,
बाह्यान् परकीयाः इति सङ्केतयितुम् च उपयुक्तम् ४२ इति ।
द्वितीयसहस्रमानस्य अन्ते हैन्दवानां विषये पोलाकस्य कल्पना
न्यूनाधिकभावेन एवं सम्पन्ना- अधिकारे विद्यमानाः हैन्दवपुरुषाः निपुणाः, कामप्रवृत्तयः
आसन् इति । ते पौराणिकाः कथाः उपयुज्य सामाजिकानाम्
अवधानं स्वीयनिरङ्कुशाधिकारात् दूरीकृतवन्तः इति । येषाम् अधिकारः नासीत् ते तार्किकं चिन्तनं कर्तुं असमर्थाः वादादिकम्
अकुर्वाणाः असह्यरूपेण विधेयाः आसन् इति ।
महिलाः तु तेषां दमनस्य बलिरूपेण अभवन् न तु अन्यथा इति । एवञ्च ये बाह्याः
इति परिगणिताः ते राक्षसत्वेन चित्रिताः इति । तच्च हैन्दवानां मनसि
निगृहीतायाः लैङ्गिकमानसिकतायाः प्रक्षेपणवत् कृतम् चेति शेल्डन पोलॉक् कथयति ।
सः शेल्डन पोलॉक् एतत् सर्वम् साररूपेण
सम्पूर्णरामायणेन सह सम्बन्धं कल्पयन् सम्बध्नाति :
रामायणम् गभीररूपेण मौलिकरूपेण च विभेदनस्य ग्रन्थः
अस्ति .....बाह्याः जनाः तावत् विकृतलैङ्गिकतया, आहारक्रमेण, राजनैतिकरूपेण च अन्ये इव चित्रिताः... । रामायणम् तदीय-राक्षसीयकल्पनया शत्रूणां
द्विगुणीकरणकल्पनायाः साधनत्वेन उपयुक्तम्, इत्थं नान्यः ग्रन्थः उपयुक्तः४३
।
पूर्वोक्तरीत्या अस्य कालखण्डस्य अन्यसंस्कृतीनां
स्थितिं वा स्वरूपं वा अनुक्त्वा हैन्दवसमाजं पृथक्कृत्य परिशीलनं विधाय एकं
तत्सम्बद्धम् अव्यवस्थितं चित्रं अत्र
पोलाकेन प्रस्तुतीकृतम् । सिग्मण्डफ़्राईडवर्यस्य
चिन्तनप्रारूपं रामायणेन सह तोलयित्वा यत् कथितं तत् पुनः विम्रष्टुं योग्यम्
अस्ति । एवं ग्रन्थस्यास्य अन्येषु स्थानेषु अपि मया प्रतिपादितम् । पोलाकस्य
एतादृशं प्रतिपादनं मया यावत् अत्र खण्डितं ततोऽपि अधिकविस्तरेण विद्वद्भिः
खण्डनीयम्, एतद्विषये चर्चनीयम् च ।
रामायणं जात्यतीतमिति परिगणितम् अस्ति ।
रामायणम् निश्चयेन लौकिकग्रन्थः अस्ति । यतो हि
वैदिकयज्ञानाम् अनुष्ठानाय एतत् न उपयुक्तम् इति शेल्डन पोलॉक् अभिप्रैति । तथापि
यागानाम् अनुष्ठानं केवलं पारमार्थिकताम् उत्पादयति । अतः तद्भिन्नप्रतिपादकः
ग्रन्थः सर्वोऽपि लौकिकः इति पोलाकस्य
अभिप्रायः दोषपूर्णः अस्ति । एषः दोषः एव इतिहासविषये तदीयचिन्तनस्य कारणम् अस्ति
विशिष्य राजनीत्युद्देशेन रामायणम् लौकिकमिति सः वदति ।
हैन्दवाः विभिन्नरूपेण कथयन्ति यत् – भक्तिः, तन्त्रम्, कथा, ध्यानम् इत्यादिकं विभिन्नः मार्गः
अस्ति इति । अतः वेदज्ञानाधारितः इतिहासः पारमार्थिकतायाः कारणं
भवितुम् अर्हति । रामायणं लौकिकः ग्रन्थः
अस्ति यश्च पारमार्थिकतायाः सेतुरूपेण कार्यं करोति । रामायणविषये श्रद्धालवः तं ग्रन्थम् इतिहासग्रन्थत्वेन
मन्यन्ते । ज्ञानार्थम् अपेक्षितायै
आत्मावलोकनप्रवृत्त्यै यावान् उपयोगः रामायणस्य करणीयः तदपेक्षया अधिकतया
वेदप्रतिपादिततत्वानाम् आनन्देन क्रीडया इव बहूनां
जनानाम् अवगमनाय रामायणम् उपयुज्यते । एतद्विरुद्धतया शेल्डन पोलॉक् वदति यत् – काव्यानि लौकिकानि
भवन्ति, मूलतः सामाजिक-राजनैतिक-शक्तेः
सौन्दर्यात्मकाभिव्यक्तिसम्बद्धानि
भवन्ति चेति ।
वाल्मीकिरामायणम् बौद्धानां प्रभावाद्
अनन्तरम् आरचितम् इति शेल्डन पोलॉक् प्रतिपादयति
शेल्डन पोलॉक्
आधारान्/प्रामाण्यानि परिवर्त्य वाल्मीकेः रामायणस्य ऐतिहासिकीं कालगणनां परिवर्तितवान् । पोलाकेन राजनैतिकप्रेरणया
प्रतिपादितस्य बिन्दोः, पारम्परिकदृष्टिकोणस्य च मध्ये तुलनां कृत्वा वैरुध्यं
प्रदर्शयितुम्, अस्माकं सम्प्रदायान् आश्रित्य, राबर्ट-गोल्डमेन-सदृशानां
पाश्चात्यशिक्षावेतॄणां पुस्तकानि च आश्रित्य, अहम् तर्कान् उपस्थापयिष्यामि४४
।
800
BCE अथवा
ततः पूर्वं रामायणं रचितम् इति बहवः भारतीयाः पाश्चात्याश्च विद्वांसः यदुक्तवन्तः
तत् अस्वीकृत्य, 150 BCE समये रचितम् इति शेल्डन पोलॉक् प्रतिपादयति४५
। एवं दिनाङ्कनिश्चयेन बौद्धानां जातककथाभ्यः वाल्मीकिः रामकथां पठितवान् इति
वक्तुं शेल्डन पोलॉक् शक्नोति४६ । राबर्ट-गोल्डमेन पोलाकस्य प्रतिपादनं
निराकरोति । बौद्धजातककथाभ्यः रामायणं प्रेरितम् इति म्याक्स वेबर इत्याख्येन
नवदशे शताब्दे यदुक्तं तत् गोल्डमेन-महोदयः एवं निराकरोति –
बौद्धानां जातककथासु रामायणस्य मूलम् अन्वेष्टुं शक्नुमः इति परामर्शं म्याक्स वेबर प्रदत्तवान् । ग्रीकमहाकाव्यानां
प्रभावेण बौद्धानां जातककथासु विद्यमानः राजकुमारः रामः इदानीन्तनरूपेषु विकसितः
इति सः वदति । एषः विषयः वास्तविकप्रपञ्चस्य
घटनाभिः सह साम्यं भजतां सद्गुणानां वैभवीकरणम् अस्ति । तदानीं वेबरः
चिन्तितवान् यत् दशरथजातकम् रामायणस्य मूलम् इति । तच्च ब्राह्मणानां
बौद्धद्वेषस्य इतरविषयैः सह काव्यात्मिका अभिव्यक्तिः इति च । एतस्य सिद्धान्तस्य घोषणात् अनन्तरं
स्वल्पे समये समर्थरीत्या निराकरणमपि
कृतम् अभवत् । तथापि उपलभ्यमानस्य अत्युत्तमस्य ऐतिहासिकस्य साहित्यिकस्य आधारस्य
अनुसारेण दशरथस्य जातककथा वाल्मीकिरामायणात् बह्वेव अनन्तरकालिकी इति४७
।
अस्मिन् विषये पोलाकस्य वैदुष्यं उन्मुक्तरूपेण
आक्षिप्तवत्सु अङ्गुलिगणनीयेषु विद्वत्सु गोल्डमन अन्यतमः विद्वान् अस्ति ।
सारः - “रामायणम्” दौर्जन्यस्य साहित्यमिति व्याख्यातम् ।
दैवासुरकल्पनम् सनातनधर्मस्य भागः एव अस्ति इत्यतः
एतत् शाश्वतम् अपरिवर्तनीयं च अस्ति इति शेल्डन पोलॉक् प्रतिपादयति । अतः सः
निर्धारयति यत् हैन्दवाः राज्यशासनस्य मूलतत्त्वानि एव राजधर्मः इति मन्यन्ते इति
। पोलाकस्य अनुसारेण दैविकराजत्वेन तच्छत्रूणां राक्षसत्वेन च कल्पनस्य परिणामाः
एवं साररूपेण उच्यन्ते –
१.
कमपि जनम् अथवा जनानां समूहम्
असुराः इति शत्रवः इति वा राजा ब्राह्मणानां साहाय्येन उद्घोषयितुम् अर्हति ।
राज्ञः सिंहासनस्य वशीकर्तारः सम्भाव्यशत्रवः इति तेषां नामकरणं क्रियते । प्रजाः
रामायणकथाम् आश्रित्य एतान् शत्रून् युद्धार्थम् आह्वातुं, तान् हन्तुं च
प्रवर्तन्ते ।
२.
राजा प्रजानां सकाशात् सम्पूर्णां
विधेयताम् अपेक्षेत । एतादृशीं शासनरीतिम्
औपनिवेशिकभारतशास्त्रवादिनः प्राच्यनिरङ्कुशाधिकारः इति वदन्ति । एतत्
हैन्दवराजान् भयजनकान् निन्दनीयान् इव निरूपयति । प्रजाः तदीयवचनानुगुणं प्रवृत्ताः
उन्मत्ताः जनाः इति निरूपयति ।
३.
एतादृशीम् अन्धत्वयुक्तां
विधेयतां/आज्ञाकारिताम् आदाय निर्मिता सामाजिकी व्यवस्था भारतीयान् स्वातन्त्र्येण
चिन्तयितुम् असमर्थान्, प्रश्नं च कर्तुम् असमर्थान् करोति । अतः हैन्दवेषु स्वस्य
विषये चिन्तयितुम् अथवा शासनं विरुध्य प्रश्नं कर्तुं सामर्थ्यं नास्ति ।
४.
राजधर्मस्य एतादृशस्य स्वरूपस्य
कारणात् राज्ञः समीपे अप्रतिबद्धं दैविकं सामर्थ्यं भवति । तच्च निर्बाधं लैङ्गिकविचलनयुक्तं, महिलानां
विषये अपमानजनकं च भवितुम् अर्हति । शेल्डन पोलॉक् आरोपयति यत् दशरथः
एतादृशप्रवृत्तेः एकम् उदाहरणम् अस्ति इति ।
५.
भा.ज.पा/वि.हि.प. साम्प्रतम्
एतादृशरीतिम् मुसल्मानजनान् अन्यान् अल्पसंख्यकजनान् च विरुध्य अनुसरति । यतो हि
एतत् सहजतया तान् विरुध्य हिंसां कर्तुं
हैन्दवान् अधिकृतान् करोति ।
पोलाकस्य
अनुसारं १९८० तमात् इसवीयवर्षात् आरभ्य भारते राजनैतिकघटनाः मुसल्मानजनानां दानवीकरणस्य अनुरूपमेव आसन् ।
सः शेल्डन पोलॉक् एवं प्रतिपादयति यत् – १९९२ तमे वर्षे अयोध्यायां बाबरीमसजीद
इत्यस्य ध्वंसीकरणाय भाजपादलस्य नेतारः मुसल्मानजनान् राक्षसरूपेण, हैन्दवान् च
रामरूपेण चित्रितवन्तः । राम(कथा)सम्प्रदायः
बहोः कालात् एतदर्थमेव संयोजितः इति सः तदीयं वक्तव्यम् उपस्थापयति । सङ्घपरिवारः
इदानीमपि आन्दोलनम् इदमेव करोति यत् रामायणम् उपयुज्य हैन्दवानां मुसल्मानजनान्
विरुध्य उद्वेजनम् कृत्वा तान् राक्षसान् करोति इति सः वदति । एवं तस्य पोलाकस्य
अनुसारेण रामायणम् सामूहिकविनाशस्य एकं सांस्कृतिकम् अस्त्रम् अस्ति ।
अमेरिकादेशस्य
प्राच्यविद्भिः पारम्परिकरीत्या अवगमस्य पद्धतिं विरुध्य परामृष्टः एक एव ग्रन्थः
रामायणम् अस्ति । भारतस्य सामान्यजनानां जीवनानुभवं विरुध्य एतत् तार्किकं चिन्तनं
नूतनम् इतिहासं निर्माति । अस्माकं
पूर्वचिन्तनानुगुणं पोलाकस्य धारणायाः, चिन्तनस्य, पद्धतेश्च विमर्शः
पारम्परिकदृष्ट्या अवश्यं कर्तव्यः । केवलम् अहम् अत्रत्यानां विदुषां
न्यायिकविचारणाय रक्तपताकाम् उन्नयन् अस्मि ।
भारतस्य राजनीतौ हस्तक्षेपं कर्तुं रामायाणाधारिता राजनैतिककार्ययोजना
संस्कृतग्रन्थानां
राजनैतिकदृष्ट्या पुनः भिन्नरूपेण व्याख्यानं कृत्वा, रामायणात् सम्भाव्यमानानाम्
अपायानां निरासाय शेल्डन पोलॉक् भारते विद्यमानानाम् तदनुयायिनाम् आङ्ग्लभाषया
व्यवहारं कुर्वाणानां गण्यजनानाम् आह्वानं करोति । तस्य निर्णयः एवम् अस्ति –
भारते
साम्प्रदायिकप्रवृत्तिः सहस्रशः वर्षेभ्यः अस्ति । अस्य कारणम् बाह्यजनानां
धार्मिकरूपेण अपमाननम् कर्तुं वाल्मीकिरामायणस्य उपयोगः अस्ति ।
अस्याः
मतीयप्रवृत्तेः आङ्लेयानां “विभज्य शासनस्य रीत्या” सह कोऽपि सम्बन्धः
नास्ति ।
एवमेव
मुसल्मानजनानाम् आक्रमणस्य अत्र किमपि पात्रम् अस्ति इति द्रष्टुं न शक्यते ।
सङ्घपरिवारस्य
कार्याणां मूलं संस्कृतग्रन्थाः भवन्ति । अतः एतेषां ग्रन्थानां राजनैतिकदृष्ट्या
पुनर्व्याख्यानं कृत्वा तज्जन्यभयं निवारणीयम् ।
अद्यत्वे
भारते राजनैतिकः हस्तक्षेपः इति पोलाकस्य कथनस्य लक्ष्यं स्पष्टम् अस्ति ।
बाबरीमस्जिद इत्यस्य १९९२ तमे वर्षे प्रध्वंसीकरणात् अनुक्षणं लिखितं पुस्तकं “Ramayana and Political Imagination in India” इत्यस्ति । द्वादशवर्षेभ्यः परमपि तस्य अस्मिन् विषये
संलग्नतायाः तीव्रता महती एव अस्ति । पूर्वतनस्य पुस्तकस्य लेखनकारणं विवरीतुं सः
एकं साक्षात्कारं २००५ तमे वर्षे ददाति -
१९९२ तमे वर्षे भारते यात्रायाः वेलायाम् अहं हैदराबादनगरं प्राप्तवान् । तदा तत्र मुसल्मानजनानाम् उपरि दौर्जन्यं चलति
स्म । रामायणं तत्र सर्वत्र आसीत् । अहं
चिन्तितवान् – अहं रामायणस्य विषये बहोः कालात् कार्यं कुर्वन् अस्मि । अत्र अहं
भारतीय-राजनैतिक-जीवनस्य विषये एतस्य ग्रन्थस्य का भूमिका इति वक्तुं विषयं
प्राप्तवान् । कस्मात् कारणात् हिंसायाः
साधनत्वेन रामायणम् उपयुक्तम् अभवत् इति अत्र मया अवगन्तव्यम् इति आशा या मम आसीत्
तत्र अहं निराशः एव अभवम् । यतः बाबरिमसजीद् इतः द्वादशवर्षेभ्यः पूर्वं
ध्वंसीकृतम् अभवत् । अतः अहं रामायणप्रवचनस्य प्राचीनम् इतिहासम् अवलोकयितुं
निर्धारितवान् । तत्र अहं किं दृष्टवान् इत्युक्ते – यत् बह्वेव मां विमनस्कम्
अकरोत् । तादृशं विवरणं कथं वा भवन्तः
गोपयितुम् अर्हन्ति । तदा अहं भावितवान् यत् – तत् विवरणं बहिरानीय तस्य विमर्शं
करवाणि, निन्दां च करवाणि इति । यदि भवन्तः सङ्घर्षस्य अग्रपङ्क्तौ भवन्ति तर्हि
भवन्तः विश्वहिन्दूपरिषदः
राजनैतिककार्यस्य निन्दासदृशाणि कानिचन कार्याणि अवश्यमेव कुर्युः इति अहम्
जानामि ।
रामायणविषयकः लेखः हिन्दुत्वस्य विमर्शनाय/निन्दायै कृतं योगदानम् अस्ति । सः
लेखः राजनैतिकवैरुध्यस्य साधनत्वेन रामायणम्
उपयुक्तम् इत्यस्य विमर्शनाय/निन्दायै योगदानं
करोति । सः लेखः अन्येषाम् उपरि आधिपत्यस्य विमर्शनं/निन्दां करोति । यदि
ऐतिहासिकानि तथ्यानि केषाञ्चित् जनानां दृष्ट्या असमीचीनानि सन्ति चेत् तत् दौर्भाग्यपूर्णम्
अस्ति । आङ्लेयेभ्यः पूर्वतने काले पूर्णरूपेण रामराज्यं नासीत् चेत् तत्
दौर्भाग्यपूर्णम् अस्ति । किन्तु भूतकालात् बहिरागमनाय विद्यमानः एकैकः मार्गः कः
इत्युक्ते तस्य सम्मुखीकरणम्४९ ।
रामायाणं
राजनैतिकवैरुध्यस्य साधनत्वेन उपयुक्तमस्ति इति निन्दितुं सः शेल्डन पोलॉक् स्वयं
सङ्घर्षस्य अग्रपङ्क्तौ अस्मीति आत्मानं भावयति । तदीयः लेखः एवम् आरब्धः अस्ति ।
१९९२ तमे वर्षे दिसेम्बरमासतः १९९३
तमस्य वर्षस्य जनवरीमासपर्यन्तं त्रिसहस्रात् अपि अधिकसंख्याकाः जनाः सूरतनगरात्
कलकत्तानगरपर्यन्तम्, कानपुरतः बेङ्गळूरुपर्यन्तं समग्रे भारते मतीयसङ्घर्षकारणात्
मृताः । एतादृशाः सङ्घर्षाः सुदीर्घकालात् न प्रवृत्ताः आसन् । उदाहरणार्थं मुम्बईनगरे षट्शतात् अपि अधिकाः
जनाः मृताः, सम्पूर्णं नगरं
सार्धैकसप्ताहं यावत् स्तब्धम् आसीत्५० ।
सः
अग्रे विवृणोति – हैन्दवानां मुसलमानजनानां च मध्ये शत्रुतायाः सम्बन्धस्य वर्णनम्
तदीयं लक्ष्यम् इति । सोमनाथात्
अयोध्यापर्यन्तं रथयात्रां कर्तुं भाजपादलेन यदा निश्चितं तदा एषः
सम्बन्धः(शत्रुता) तदीयानि उद्देश्यानि
पूर्वमेव घोषितानि इति शेल्डन पोलॉक् कथनम् आरब्धवान् आसीत् । सः लिखति –
१९९२ तमे वर्षे दिसम्बरमासस्य षष्ठे दिनाङ्के बाबरीमसजीद इत्यस्य भञ्जनम्
केवलं केनापि समूहेन अकस्मात् कृतं कार्यं न, प्रत्युत प्रशिक्षितानां
हैन्दव-उग्रगामिनां समूहेन कृतं कार्यम् अस्ति, यस्य च आरम्भः सुनियोजितायाः
रथयात्रायाः उद्घाटनेन प्रवृत्तानां संघर्षाणां कारणतः अभवत्५१ ।
मुसलमानजनान्
विरुध्य हैन्दवानां धर्माधारितराजनीतेः परीक्षणमेव तदीयं लक्ष्यम् इति सः कथयति ।
तस्य लेखे सः तत् विशिष्टानां चिह्नानां
माध्यमेन सङ्ग्रहेण साधयति । तानि चिह्नानि कानि इत्युक्ते – रामः देवयोधः इति,
तस्य जन्मस्थानम् अयोध्या इति, पवित्ररामजन्मभूम्याः विमुक्तिः चेति ।
अनन्तरं
सः पुनरेकवारं तस्य उद्देश्यम् अग्रे स्पष्टीकरोति - तासां शक्तीनां प्रभावं निस्तेजयितुं एकः उपायः
एषः अस्ति यत् – एतादृशीनाम् अर्थप्रणालीनां निर्माणस्य अनुष्ठानस्य च विश्लेषणम्,
अपि च तस्य समकालमेव पुनःप्रतिष्ठापनम्
इति । सः तत्र इतोऽपि एकम् अंशं योजयति यत् – तादृशी योजना मदर्थं साग्रहं प्रतीक्षते
इति ।
यथा
मया पूर्वम् उक्तम् – सम्पूर्णायाः परम्परायाः स्वरूपवर्णनविषये भाजपादलस्य
विश्वहिन्दूपरिषदः च चर्चार्थम् आह्वानेन, अस्माकम् अवधानम् मूललक्ष्येभ्यः सुदूरं गच्छेत् । एतादृश्यः
विपदः हिंसां दमनं च विरोद्धुम् आभ्यन्तरात् एव प्रामाणिकरीत्या परिणामात्मक-राजनैतिक-प्रतिक्रियायाः
सम्पादने बाधां जनयन्ति । एषः मम दृष्टिकोणः अस्ति, अपि च अन्येषां बहूनां
दृष्टिकोणः अस्ति यत् ये स्तानीयेषु शब्देषु संस्कृतिं समर्थयन्ति । समर्थनं कथम्
इत्युक्ते – मुक्तसमाजस्य अवगमनाय मार्गः सनातनधर्मस्य पूर्णतः अवगमनम् एव इति
। एतदर्थं अस्माभिः पवित्रे पारमार्थिके,
तथैव व्यावहारिके धर्मनिरपेक्षे
अधिष्ठाने, स्थातव्यम् ।
मतीयवादस्य,
फ़ासिस्टवादस्य, हिंसामार्गस्य च भूतम् अवलम्ब्य सम्प्रदायस्य मार्गाणां
भविष्यत्कालिकसम्भावनानाम् अन्वेषणे बाधायाः उत्पादनं, धनिकदरिद्राणां,
स्त्रीपुरुषाणां, सामान्यजनानां गण्यानां जनानां च समानरूपेण अपायं जनयति ।
परिणामतः
शेल्डन पोलॉक् तदीयविचारान् समर्थयितुं तस्य विरोधिनां राक्षसीकरणस्य प्रकारान् संवर्धयन्
अस्ति । किन्तु तदीयानाम् अनुयायिनाञ्च
कृते तदीयचार्वाकसिद्धान्तस्य प्रचाराय दैविकम् अधिकारं ददाति ।
इति
प्रो.हरिप्रसादः के.
२६/०८/२०२३
.jpeg)
.jpeg)
