Reviving
Traditional Pedagogies in Modern Classrooms
पारम्परिकशिक्षणपद्धतयः
आधुनिककक्ष्याः
च
(Delivered 2 Lectures through online in the Refresher Course conducted by National Sanskrit University Tirupati on 24th Feb. 2025 )
Prof.
Hariprasad K.
Central
Sanskrit University
Sri
Rajiv Gandhi Campus Sringeri
उपोद्घातः
पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ॥
चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥
महो अर्णः सरस्वती प्रचेतयति केतुना । धियो विश्वा विराजति ॥
समग्रं जगत्
डार्विन्-वर्यस्य विकासवादं परिष्वज्य तत्पूर्वजान् वानरान् मन्यते । तदीयमतानुगुणं
मानवः पशुतुल्यम् आचरणं कुर्वन् क्रमशः वानरान्नरत्वम् अवाप्नोति । किन्तु भारतं मन्यते यत् “अमृतस्य पुत्रा वयम्” इति । वयं वानरेभ्यः
नोत्पन्नाः, प्रत्युत नरोत्तमेभ्यः एव । यदा समग्रं जगत् आहारनिद्राभयमैथुनाख्यानि
पशुतुल्यानि कार्याणि कुर्वत् अरण्ये विचरति स्म तदा वयं भारतीयाः – उपर्युक्तमन्त्रनिचयैः
बौद्धिकचरमोत्कर्षस्य सीमानम् अपि अतिक्रम्य पारलौकिकस्य परमपुरुषार्थस्य मार्गान्
उपदिशामः स्म ।
अस्माकम् अध्येयाः विषयाः अतिप्राचीने
अपि काले अगणीताः एव । “अनन्ता वै वेदाः” इत्युच्यते । महर्षिपतञ्जलिरपि वदति
पस्पशाह्निके –
“महान् हि शब्दस्य प्रयोगविषयः।
सप्तद्वीपा वसुमती त्रयो लोकाश्चत्वारो वेदाः साङ्गाः सरहस्या बहुधा भिन्ना एकशतमध्वर्युशाखाः, सहस्त्रवर्त्मा सामवेदः एकविंशतिधा बाह्वृच्यं नवधाथर्वणो वेदः, वाकोवाक्यमितिहासः पुराणं वैद्यकमित्येतावाञ्छब्दस्य प्रयोगविषयः। एतावन्तं शब्दस्य
प्रयोगविषयमनुनिशम्य ‘सन्त्यप्रयुक्ता’ इति वचनं केवलं साहसमात्रमेव।”
एतादृशं वाङ्मयं तूष्णीं पूजागृहे
संस्थाप्य नीराजनं कुर्वन्ति स्म इति कथनमपि अविवेकपूर्णं भवति ।
एतादृशस्य वाङ्मयस्य समग्रा अध्ययन-अध्यापनपरम्परा
भारते समृद्धा एव आसीत् । अत्र थामस् मुन्रो प्रभृतीनां प्रतिवेदनं प्रमाणम् ।
इत्थं समृद्धायाम् अध्ययन-अध्यापनपरम्परायां
नूनमेव अनुत्तमाः शिक्षणपद्धतयः उपयुज्यमानाः आसन्नेव ।
नो चेत् कथं वा सहस्रसहस्रवर्षेभ्यः
केवलं श्रवणबलेनैव समग्रो वेदराशिः एकाक्षरभेदेन विनापि संरक्षितः अभविष्यत् । साम्प्रतं
कस्यापि ग्रन्थस्य एकमपि अनुच्छेदं दोषेण विना
अग्रिमच्छात्रसन्ततये सङ्क्रामयितुं
न शक्नुमः इत्यनेन एव अस्माभिः अवगन्तुं शक्यते प्राचीनाः शिक्षणविधयः कथम् उत्तमाः
आसन् इति । एतादृशान् प्राचीनान् विधीन् परिगृह्य
प्राचीन-अर्वाचीनयोः समावेशं
कृत्वा नवं विक्रमं साधयितुम् पारयाम ।
प्राचीनशिक्षणविधयः
- आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः
।
कस्याः अपि
विद्यायाः प्राप्त्यर्थम् अध्येता अधिकारी स्यात् । साम्प्रतं तदर्थं (अधिकारी अस्ति न वेति ज्ञातुम्)
प्रवेशपरीक्षा क्रियते ।
प्रत्येकं छात्रः इदं जानीयात्
यत् अहम् अधिकारी अस्मि उत न इति । नास्ति चेत् तदर्थं प्रयतेत ।
प्रयत्नः कथम् ?
द्रष्टव्यः - स्वस्य स्वयमेव सामर्थ्यं परिशीलयेत्
– आत्मा वारे द्रष्टव्यः
श्रोतव्यः - अन्येषां माध्यमेन छात्रः जानीयात् अहम् एतदर्थं समर्थः अस्मि उत न । समर्थः
नास्मि चेत् कथं सामर्थ्यमवाप्नुयाम् चेति ।
मन्तव्यः - अधिकारित्वं कीदृशं भवतीति सदा मननं
कर्तव्यम् । इत्युक्ते अधिकारिणः सामर्थ्य्यस्य हेतुभूताः विषयाः सदा मननीयाः, येन अधिकारित्वं सम्पादितं भवति ।
निदिध्यासितव्यः – श्रवणेन अवगतस्य, मननेन दृढतां प्राप्तवतः तत्वस्य (विपर्यये) विजातीयप्रत्ययरहित-सजातीयवृत्तिप्रवाहेण प्राप्तिः
।
प्राचीनशिक्षणविधयः
- “आनो
भद्राः
क्रतवो
यन्तु
विश्वतः”
´ सर्वाभ्यः दिग्भ्यः मङ्गलकारिणः विचाराः मन्निकटे आयान्तु ।
´ मया प्राप्तपरिचय एव विषयः श्रेष्टः, अन्ये सर्वेऽपि अवराः इति भावः बहूनां विदुषामपि भवति । यथा –
´ व्याकरणमेव श्रेष्ठं शास्त्रम् इति वैयाकरणः वदति ।
´ तमिळ एव श्रेष्ठा भाषा इति तमिळजनः कथयति ।
´ वैद्यकं पठितवानेव जनः श्रेष्ठः । इत्यादिरूपेण भ्रमः भवति बहूनाम् जनानाम् ।
´ किन्तु –
´ अस्माकं उपरितना उक्तिः अस्मान् ईदृशसङ्कुचितभावनाभ्यः दूरे नीत्वा औदार्येण श्रेष्ठानां
समेषां विषयाणाम् अवाप्तये हृदयस्य कवाटमुद्घाटयति ।
प्राचीनशिक्षणविधयः
- अधीतिबोधाचरणप्रचारणैः -
-
´ शिक्षणम् इत्युक्ते केवलं कक्ष्याप्रकोष्टे विषयस्य अवगतेः निमित्तं शिक्षकेण अनुस्रियमाणः
मार्गः इत्येतावदेव आसीदिति न मन्तव्यम् ।
´ शिक्षणस्य लक्ष्यम् अधिगतस्य तत्त्वस्य जीवने अवतरणपर्यन्तं प्रवर्तते ।
´ तर्हि तत्तु आचरणम् इति सोपाने एव सम्पन्नं भवति किल इति चेत् न । प्रचारणेन अधिगतस्य
तत्वस्य प्रचारकस्य आचरणे नैतिकं बन्धनम् आयाति
। प्रचारं कुर्वन् जनः स्वयं नाचरति चेत् दोषो
भवति ।
´ अतः अधीयानस्य छात्रस्य समग्रविकासस्य लक्ष्यसम्पादनं यावत् शिक्षणम् प्रवर्तते
इति मन्तव्यम् ।
प्राचीनशिक्षणविधयः - वेदस्वीकरणं
पूर्वं विचारोऽभ्यसनं जपः । तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥
वेदस्वीकरणम् –अध्ययनम्, तद्दानम् – वेदाध्यापनम्
वैदिककाले वेदाः एव प्रधानाः
अध्येयविषयाः आसन् । तर्हि तदानीन्ती शिक्षणपद्धतिः कीदृशी आसीत् ?
´ आदौ गुरुमुखात् वेदग्रहणम् ।
´ ततः परं वेदार्थविचारः ।
´ ततः परम् अधिगतस्य वेदार्थस्यावृत्तिः/अभ्यासः ।
´ ततः परं जपः । इत्युक्ते “वेदो नित्यमधीयताम्” इति भगवत्पादोक्तिवत् नियताध्ययनम्
।
´ ततः परं दानम्, इत्युक्ते विद्यादानम्, इत्युक्ते
वेदानां अध्यापनम् ।
प्राचीनशिक्षणविधयः - सर्वान्
परित्यजेदर्थान्
स्वाध्यायस्य
विरोधिनः”
(मनुस्मृतिः)
´ अध्ययनकाले भोग्याः पदार्थाः माणवकान् बहुधा विचालयन्ति, येषां कारणतः अध्ययनं बाधितं भवति ।
´ केचन विचाराः अपि माणवकान् बहुधा विचालयन्ति, यथा – साम्यवादिविचारधारा
आचार्यमेव आक्षिपति ।
´ केचन स्वभावाः, यथा ईर्ष्या, द्वेषः, जाड्यम्, दम्भः, (दम्भो दर्पोऽभिमानश्च
क्रोधः पारुष्यमेव च....) इत्यादयः माणवकम् अध्ययनात् विमुखीकुर्वन्ति ।
´ इत्थं स्वाध्यायविरोधिनः पदार्थाः बहवो हि ये भवन्ति तान् सर्वान् परित्यज्य अध्ययनम्
अनुवर्तयेत् विद्यार्थी ।
प्राचीनशिक्षणविधयः - चरन्
वै
मधु
विन्दति
चरन्
स्वादूदुम्बरम्
। सूर्यस्य
अश्य
श्रेमाणं
यो
न
तन्द्रयते
चरंश्चरैवेति ॥ऐतरेयब्राह्मणम् ॥
क्रियाशीलः छात्रः स्वकार्ये साफल्यं प्राप्नोति
। तच्च साफल्यम् मधुसदृशं स्वादु आनन्दजनकं भवति । अक्रियो अवसीदति । यथा सूर्यः अविश्रान्तगत्या
चरति तथैव, कदापि तस्य गत्याः आलस्यं न भवति तथा कार्यं कुरु इति ऐतरेयभ्राह्मणम्
उपदिशति ।
कुर्वन्नेवेह कर्माणि जिजीविषेत्
शतः समाः ॥ इति ईशावस्योपनिषदः आदिमपद्यमपि इदमेव कथयति ।
आस्ते भग
आसीनस्य ऊध्वर्स्तिष्ठति तिष्ठतः।
शेते निपद्यमानस्य
चराति चरतो भगश्चरैवेति॥ -- ऐतरेयब्राह्मणम् ७.१५ ॥
´ अलसस्य अक्रियस्य भाग्यमपि गतिविहीनं भवति । दण्डायमानस्य भाग्यं उत्तिष्ठति ।
शयानस्य भाग्यं शेते । चरतः चरति । अतः चरन् भव इति ऐतरेयब्राह्मणस्य मन्त्रोऽयम् उपदिशति । अस्माकं शिक्षापद्धतेःतदनुगुणं प्रवर्तते ।
प्राचीनशिक्षणविधयः - “स्वाध्यायान्मा
प्रमदः” तैत्तिरीयोपनिषत् ॥
गुरोरङ्के
अध्ययनवेलायां माणवकस्य विश्रान्तिर्नास्ति । तदा जाड्यस्य न कापि प्रसक्तिः । किन्तु
अध्ययनं समाप्य समावर्तनसंस्कारं प्राप्य शिष्यः गृहस्थाश्रमं प्रविविक्षुः “प्रजातन्तुं
मा व्यवच्छेत्सीः” इति उपदेशेन सहैव स्वाध्यायान्मा प्रमदः इत्यपि उपदिष्टो भवति ।
इत्युक्ते अध्ययनं समाप्तमित्यतः अकर्मण्यो मा भूः । अधीतस्य विषयस्य पुनरध्ययनम् अनुवर्तय
इति गुरुः उपदिशति । इयमस्माकम् अध्ययनपद्धतिरस्ति ।
वेदमनूच्याचार्योन्तेवासिनमनुशास्ति।सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् ।
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १॥
प्राचीनशिक्षणविधयः - यावज्जीवमधीते
विप्रः ॥
शिक्षा आजीवनं प्रचाल्यमाना प्रक्रिया
इति शिक्षाशास्त्रिभिः उच्यते ।
अध्ययनाय ब्रह्मचर्यम् उत्तमः
कालः इति यद्यपि युज्यते तथापि
ब्रह्मचर्ये केवलम् अध्ययनम्
इति अस्य तात्पर्यं नास्ति ।
´ ज्ञेयाः विषयाः अनन्ताः सन्ति “अनन्ता वै वेदाः” अत एव “वेदो नित्यमधीयताम्”
भगवत्पादोक्तिः ।
´ अतः भारतीया शिक्षणपद्धतिः यावच्छक्यं तावदध्ययनम् कर्तव्यमिति ।
´ तदपि प्राचीनपद्धत्यनुगुणं “ब्राह्मणेन निष्कारणं षडङ्गो वेदोऽध्येतव्यो ज्ञोयश्च‘’ इति नियमानुगुणम् ।
नो चेत् किं
भविष्यति ?
प्राचीनशिक्षणविधयः -इदमन्धन्तमः
कृत्स्नं
जायेत
भुवनत्रयम्
यदि
शब्दाह्वयं
ज्योतिरासंसारं
न
दीप्यते ॥ काव्यादर्शः॥
अत्र शब्देन
शब्दशास्त्रं वा संस्कृतवाङ्मयं वा वाक् वा यद्यपि गृह्यते तथापि वेदवाङ्मयम् अपि शब्दशब्देन
अभिधीयते इत्यतः भर्तृहरिणा उक्तरीत्या कृत्स्नं जगत् वाङ्मयैर्विना अथवा वाचा विना तमसावृतं भवेत् । अतः शिक्षाप्रपञ्चः समग्रं भुवनत्रयम्
अन्धकारात् निवर्तयितुम् प्रवर्तेत ।
प्राचीनशिक्षणविधयः -कण्ठपाठः
संहितापाठः-क्रमपाठः-जटापाठः-घनपाठः
उदात्तानुदात्तस्वरितभेदेन
पणिनीय-धातुपाठः अपि अस्ति, यस्य प्रयोजनम् इदमस्ति यत् परस्मैपदि-आत्मनेपदि-उभयपदिधातूनां
स्पष्टरूपेण भेदम् अभिज्ञातुं शक्नुमः । किन्तु दौर्भाग्यमिदं अस्ति यत् ईदृशस्वरभेदेन
पाणिनीयधातुपाठस्य अध्ययनाध्यापनपरम्परा विनष्टा वर्तते इत्यतः वयमिदं धातुषु कः धातुः
आत्मनेपदिधातुरिति को वा परस्मैपदिधातुरिति वा क्लेषमनुभवामः ।
सुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।
ऊहापोहार्थविज्ञानं तत्वज्ञानं च धीगुणाः ॥ इति पद्यं अस्माकं शिक्षापद्धतिं विशिनष्टि ।
प्राचीनशिक्षणविधयः
- गुरोरधीतम् गुरवे निवेदितम्
प्राचीनशिक्षणपद्धतौ
छात्रः गुरुमुखात् यत् श्रुतवान् भवति तत् सर्वं गृहीत्वा पश्चात् यथावत् गुरवे निवेदयेत्
इति नियमः आसीत् । यावत्पर्यन्तं शिष्यः गुरोरधीतं गुरवे न निवेदयति तातव्पर्यन्तं
तस्य अग्रिमः विषयः नाध्यापितो भवति स्म ।
´ अनेन छात्रः केवलः श्रोता न भवेत्, प्रत्युत विषयं सम्यग् गृहीत्वा पश्चात् वेदयेदिति नियमकारणात्
अध्यापिते विषये अज्ञातः अंशः कोऽपि नावशिष्यते स्म ।
´ परीक्षायै अन्तिमक्षणे रटनं वा पण्डुलिपीकरणं वा कृत्रिमवैदुष्यप्रदर्शनं वा कुर्यात्
इति नास्त्येव । पुनरध्ययनस्य आवश्यकता केवलं स्मृतेः दार्ढ्याय एव भवति स्म ।
प्राचीनशिक्षणविधयः
- आचार्यात् पादमादत्ते
´ आचार्यात् पादमादत्ते इति वचनं शिष्यस्य पक्षे अस्ति ।
´ आचार्यः पूर्णमेव अध्यापयति न तु पादमितम्, अध्यापयेच्च
पूर्णमेव ।
´ शिष्यः तत्र अध्यापिते विषये पादमितं गृह्णाति । इत्युक्ते अध्याप्ये विषये अध्यापकस्य
यादृशी प्रतिपत्तिः तस्याः पादमितां प्रतिपत्तिं शिष्यः बोधनवेलायां प्राप्नोति इत्यर्थः
। बोधनवेलायां बोध्यस्य विषयस्य समग्रस्वरूपज्ञानं माणवकः प्राप्नोति इति नास्ति ।
आपाततः विषयं अवगतवान् भवति । अवशिष्टांशं कथं सम्पादयति इति अग्रिमपादेषु उपवर्णितम्
।
प्राचीनशिक्षणविधयः
- वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे ।
´ शिक्षकेण पक्षपातराहित्यम् छात्रेषु प्रदर्शनीयम् ।
´ शिक्षकेण क्रियमाणः पक्षपातः न केवलं छात्राणं मध्ये असहजविद्वेष्म् उत्पाद्य वर्धयति
अपि तु शिक्षकस्य सम्माननं नाशयति ।
´ अयं निजः परो वेति गणना लघुचेतसाम् ।
´ प्रत्येकं छात्रस्य Individuality सम्माननीयम् ।
´ छात्राणां स्तरभेदः स्वाभाविकः । शिक्षकः छात्रेषु स्वयं स्तरभेदं न जनयेत् ।
प्राचीनशिक्षणविधयः
- सत्पात्राय विद्या
प्रशान्तमार्यप्रकृतिम् अक्षुद्रकर्माणम् अऋजुचक्षुर्मुखनासावंशं
तनुरक्तजिह्वम् अविकृतदन्तौष्ठम् --- धृतिमन्तम् अनहङ्कृतिम् मेधाविनं वितर्कस्मृतिसम्पन्नं
उदारसत्वम् - - अव्यसनिनम् - - शीलशौचाचार-अनुरागदाक्ष्यम् - - अध्ययनकामं अर्थविज्ञाने
कर्मदर्शने च अनन्यकार्यम् - - अलुब्धम् अनालसम् - - अध्यापयेत् । इत्थं छात्रस्य
योग्यतायां सत्यामेव सः बोधनीयः इति
प्राचीना रीतिः साम्प्रतमपि प्रवेशपरीक्षादिमाध्यमेन परिपाल्यते ।
इत्थं
महता परिश्रमेण कौशलेन च अभ्युदयाय शिक्षा साधिता चेदपि सा विद्या अस्माकं
भारतीयानां दृष्ट्या निरर्थिका एव इति अग्रे इत्थम् उच्यते -
यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य ।
तथैव विप्राः षट्शास्त्रयुक्ता सद्ज्ञानहीनाः खरवद् वहन्ति ॥
´ एवं सर्वं सुष्ठु सञ्चाल्य साफल्यं साध्यते चेदपि भारतीयानमस्माकं विचारः अयमस्ति
यत्
´ आध्यात्मविद्या परा विद्या अस्ति । अथ परा यया तदक्षरमधिगम्यते ।
´ आध्यात्मज्ञानं सज्ज्ञानम् अस्ति । तदेव
परमपुरुषार्थः ।
´ तदभावे प्राप्ताः सर्वाः विद्याः भाराय भवन्ति । अथवा ताभिरेव विद्याभिः परतत्त्वप्राप्तिः
।
आधुनिककक्ष्यासु
पारम्परिकशिक्षणपद्धतीनां पुनरुज्जीवनम्
´ न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । इत्युक्तिः
सार्वकालिकी सार्वभौमिकी च ।
´ शिक्षया तज्ज्ञानं सम्पाद्यते । निश्रेयसनिमित्तं यद्यपि आधुनिकशिक्षायाः प्रवृत्तिः
नास्ति तथापि अभ्युदयाय तु अवश्यम् अपरा विद्या(आधुनिकी अपि शिक्षा) सदा साधनीया ।
एतदर्थं प्राचीनैः याः पद्धतयः उपयुक्ताः ताः अवश्यं साम्प्रतमपि उपयोक्तुम् शक्याः
।
´ वेदानां कण्ठस्थीकरणं यत् क्रियते तस्य (कण्ट्अस्थीकरणपद्धतेः) आधुनिकाः निन्दां
कुर्वन्ति । पुराकाले वेदानामपि अर्थज्ञानेन विना कण्ठस्थीकरणं न भवति स्म । वेदमन्त्राणां
संरक्षणाय स्वरसहितकण्ठस्थीकरणपद्धतिः वर्तते । समग्रस्य वैदिकवाङ्मयस्य संरक्षणाय
प्राचीनैः आश्रिता सा पद्धतिः आसीत् । सा पद्धतिः श्लाघ्या एव ।
´ निन्द्या सा पद्धतिः भवति यया कण्ठस्थीकरणपद्धत्या उदात्तानुदात्तादिस्वरविहीनानां
सामान्यानां पाठ्यविषयाणां केवलं रटनमात्रं कार्यते ।
प्रश्नोत्तरविधिः, संवादविधिः, शास्त्रार्थविधिः, कथाकथनविधिः, आगमनविधिः, निगमनविधिः,
व्याख्याविधिः, दॄष्टान्तविधिः, शलाकापद्धतिः, तुलनाविधिः, अन्वयविधिः, अनुभूतिसम्पादनविधिः(अनुभवजन्याधिगमविधिः)
चेत्याद्यः नैके विधयः अधुनापि आधुनिककक्ष्यायां उपयोक्तुम् अर्हाः इति पार्थक्येन
वक्तव्यं नास्ति ।
धन्यवादाः🙏🙏🙏
No comments:
Post a Comment